॥ दशरथकृता कामाक्षीस्तुतिः
॥
अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका ।
एताः पुण्यतमाः प्रोक्ताः पुरीणामुत्तमोत्तमाः ॥
अस्याः सान्निध्यमात्रेण महात्रिपुरसुन्दरीम् ।
अर्चयित्वा तु अयोध्यायाम् अमुष्याधिदेवताम् ॥
नैतस्याः सदृशी काचित् देवता विद्यते परा ।
एनामेवार्चयन्त्यन्याः सर्वाः स्त्रीदेवता नृप ॥
ब्रह्मविष्णुमहेशाद्याः सश्रीकाः सर्वदां सदा ।
नारीकेलफलालीभिः पनसैः कदलीफलैः ॥
मध्वाज्यशर्कराप्राज्यैः तथा पायसराशिभिः ।
सिद्धद्रव्यविशेषैश्च पूजयेत् त्रिपुराम्बिकाम् ॥
अभीष्टमचिरेणैव सम्प्रदास्यति सैव ते ।
इत्युक्तवन्तमभ्यर्च्य गुरुमिष्टैरुपायनैः ॥
स्वेष्टसम्प्राप्तये भूयः विससर्ज विशाम्पतिः ।
ततो गुरूक्तरीत्यैव ललितां परमेश्वरीम् ॥
अर्चयामास राजेन्द्रः भक्त्या परमया युतः ।
एवं प्रतिदिनं पूजां विधाय प्रीतमानसः ॥
अयोध्यादेवताधाम्नि शिश्ये तत्रैव सङ्गतः ।
अर्धरात्रे व्यतीते तु निभृतोल्लासदीपके ॥
किञ्चिन्निद्रालसस्यास्य पुरतस्त्रिपुराम्बिका ।
पाशाङ्कुशधनुर्बाणपरिष्कृतचतुर्भुजा ॥
सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ।
स्थित्वा वाक्यमुवाचेदं मन्दमिन्दुमतीसुतम् ॥
अस्ति पङ्क्तिरथ श्रीमन् पुत्रभाग्यं तवानघ ।
प्रविघातककर्माणि सन्ति पूर्वकृतानि ते ॥
तादृशां कर्मणां शान्त्यै गत्वा काञ्चीपुरं वरम् ।
स्नात्वा कम्पासरस्याञ्च तत्र मां पश्य पावनीम् ॥
मध्ये काञ्चीपुरी मत्कं दहराकाशमध्यगम् ।
कामकोष्ठं विपाप्मापि सप्तद्वारबलान्वितम् ॥
साम्राज्यसूचकं पुंसां त्रयाणामपि सिद्धिदम् ।
प्राङ्मुखी तत्र वर्तेहं महासिंहासनेश्वरी ॥
महालक्ष्मीस्वरूपेण द्विभजा पद्मधारिणी ।
चक्रेश्वरी महाराज्ञी ह्यदृश्या स्थूलचक्षुषाम् ॥
ममाक्षजा महागौरी वर्तते मम दक्षिणे ।
सौन्दर्यसारसी या सा सर्वाभरणभूषिता ॥
मया तु कल्पितवासा द्विभुजासपद्मधारिणी ।
महालक्ष्मीस्वरूपेण किं वा कृत्यात्मना स्थिता ॥
आपीठान्मौलिपर्यन्तं पश्यतस्तां ममांशजाम् ।
पातकान्याशु नश्यन्ति किम्पुनस्तूपपातकम् ॥
कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः ।
कुदेहश्च कुभावश्च नास्तिकत्वं लयं व्रजेत् ॥
कुरुष्व मे महापूजां सितामध्वाज्यपायसैः ।
विविधैः भक्ष्यभोज्यैश्च पदार्थैः षड्रसान्वितैः ॥
तत्रैव सुप्रसन्नाहं पूरयिष्यामि ते वरम् ।
उपदिश्य च सम्राज्ञी दिव्यमूर्तिस्तिरोदधे ॥
राजापि सहसोत्थाय किमेतदिति विस्मितः ।
देवीमुद्बोध्य कौसल्यां शुभलक्षणलक्षिताम् ॥
तस्यैतद्रात्रिवृत्तान्तं कथयामास सादरः ।
तत्समाकर्ण्य सा देवी सन्तोषमभजत्तदा ॥
प्राप्तहर्षो नृपः प्रातः तया दयितया सह ।
आत्मनः सचिवोपेतः काञ्चीपुरमुपागमत् ॥
स्नात्वा कम्पातरङ्गिण्यां दृष्ट्वा देवीञ्च पावनीम् ॥
पञ्चतीर्थे ततः स्नात्वा देव्या कौसल्यया नृपः ।
गोभूवस्त्रहिरण्याद्यैः तत्तीर्थक्षेत्रवासिनः ॥
प्रीणयित्वा सपत्नीकः तान्नत्वा शक्तिपूजकान् ।
अथालयं समाविश्य महाभक्त्या नृपोत्तमः ॥
प्रदक्षिणत्रयं कृत्वा विनयेन समन्वितः ।
ततः सन्निधिमागत्य देव्या कौसल्यया सह ॥
श्रीकामकोष्ठनिलयां महात्रिपुरसुन्दरीम् ॥
त्रिमूर्तिजननीमम्बां दृष्ट्वा श्रीचक्ररूपिणीम् ।
प्रणिपत्य च साष्टाङ्गं भार्यया सह भक्तिमान् ।
स्वपुरे त्रैपुरे धाम्नि पुरेक्ष्वाकुप्रवर्तिते ॥
दुर्वाससा सशिष्येन पूजार्थं पूर्वकल्पिते ।
दासीदासध्वजारोहमहोत्सवसमन्विते ॥
तत्र स्वगुरुणोक्तं च कृत्वा स्वात्मार्थपूजनम् ।
रात्रौ स्वप्ने तु यद्रूपं दृष्टवांस्त्रैपुरं महः ॥
तदेवात्रापि सन्दध्यौ सन्निधौ राजसत्तमः ।
चिरं ध्यात्वा महाराजः सुवासांसि बहूनि च ॥
दिव्यान्यायतनान्यस्यै दत्वा स्तोत्रं चकार ह ।
पादाग्रलम्बपरमाभरणाभिरामे
मञ्जीररत्नरुचिमञ्जुलपादपद्मे ।
पीताम्बरस्फुरितपेशलहेमकाञ्ची
-कोयूरकङ्कमपरिष्कृतबाहुवल्लि ॥
पुण्ड्रेक्षुचापविलसन्मृदुवामपाणे
रत्नोर्मिकासुमशरान्धृतदक्षहस्ते ।
वक्षोजमण्डलविलासिवलक्षहारे
पाशाङ्कुशाङ्गदलस्भुजशोभिताङ्गि ॥
वक्रश्रिया विजितशारदचन्द्रबिम्बे
ताटङ्करत्नकरमण्डितगण्डभागे ।
वामे करेपि च कमण्डलुमादधाने
वक्षोजमण्डलविलासिवलक्षहारे ॥
माणिक्यसूत्रमणिभासुरकम्बुकण्ठि
ताटङ्करत्नकरमण्डितगण्डभागे ।
मन्दस्मितस्फुरणशालिनि मञ्जुनासे
नेत्रश्रिया विजितनीलसरोजपत्रे ॥
सुभ्रूलते सुवदने सुललाटचित्रे
योगीन्द्रमानससरोजनिवासहंसि ।
रत्नानुविद्धतपनीयमहाकिरीटे
सर्वाङ्गसुन्दरि समस्तसुरेन्द्रवन्द्ये ॥
काङ्क्षानुरूपवरदे करुणार्द्रचित्ते
साम्राज्यसम्पदभिमानिनि चक्रनाथे ।
इन्द्रादिदेवपरिसेवितपादपद्मे
सिंहासनेश्वरि परे मयि सन्निधेयाः ॥
इति स्तुत्वा स भूपालः बहिर्निर्गत्य भक्तितः ।
तस्यास्तु दक्षिणे भागे महागौरीं ददर्श ह ॥
प्रण्य दण्डवद्भूमौ कृत्वा चैनां स्तुतिंपुनः ।
दत्वा चास्यै महार्हाणि वासांसि विविधानि च ॥
अमूल्यानि परार्थ्यानि भूषणानि महान्ति च ।
ततः प्रदक्षिणीकृत्य निर्गत्य सह भार्यया ॥
स्वगुरूक्तविधानेन महापूजां विधाय च ।
तामेव चिन्तयंस्तत्र सप्तरात्रमुवास सः ॥
अष्टमे दिवसे देवीं नत्वा भक्त्या विलोकयन् ।
अभीष्टं देहि देवीति प्रार्थयामास चेतसा ॥
सुप्रसन्ना च कामाक्षी सान्तरिक्षगिरावदत् ।
भविष्यन्ति मदंशात्ते चत्वारस्तनया नृप ॥
इत्युदीरितमाकर्ण्य प्रमोदविकसन्मुखः ।
श्रियं प्रणम्य साष्टाङ्गमनन्यशरणः पराम् ॥
ललितोपाख्याने षट्त्रिंशोध्यायः श्लोकाः 99-145