॥ Kakaradi Shrikrishna Sahasranama Stotram Sanskrit Lyrics ॥
॥ ककारादि श्रीकृष्णसहस्रनामस्तोत्रम् ॥
व्यास उवाच-
कृतार्थोऽहं मुनिश्रेष्ठ त्वत्प्रसादान्न संशयः ।
यतो मया परं ज्ञानं ब्रह्मगीतात्मकं श्रुतम् ॥ १ ॥
परं तु येन मे जन्म न भवेत्कर्हिचिन्मुने ।
पूर्णब्रह्मैकविज्ञानविरहो न च जायते ॥ २ ॥
येन मे दृढविश्वासो भक्तावुत्पद्यते हरेः ।
कालपाशविनिर्मुक्तिः कर्मबन्धविमोचनम् ॥ ३ ॥
जन्ममृत्युजराव्याधिक्लेशक्षोभनिवारणम् ।
कलिकालभयध्वंसो ब्रह्मज्ञानं दृढं हृदि ॥ ४ ॥
कीर्तिः श्रीः सन्मतिः शान्तिर्भक्तिर्मुक्तिश्च शाश्वती ।
जायते तदुपायं मे वद वेदविदां वर ॥ ५ ॥
नारद उवाच-
तत्त्वमेकं त्रिलोकेषु पूर्णानन्दो जगद्गुरुः ।
दैवतं सर्वदेवानां प्राणिनां मुक्तिकारणम् ॥ ६ ॥
तारणं भवपाथोधेर्दुःखदारिद्र्यहारणम् ।
तद्रूपं सर्वदा ध्येयं योगिभिर्ज्ञानिभिस्तथा ॥ ७ ॥
ज्ञेयमेव सदा सिद्धैः सिद्धान्तेन दृढीकृतम् ।
वेदान्ते गीतमाप्तानां हितकृत्कष्टनाशनम् ॥ ८ ॥
सर्वेषामेव जीवानां कर्मपाशविमोचनम् ।
सत्यज्ञानदयासिन्धोः कादिनामसहस्रकम् ॥ ९ ॥
अतिगुह्यतरं लोके नाकेऽपि ब्रह्मवादिनाम् ।
कालपाशविनिर्मुक्तेर्हेतुभूतं सनातनम् ॥ १० ॥
कामार्तिशमनं पुंसां दुर्बुद्धिक्षयकारकम् ।
सर्वव्याध्याधिहरणं शरणं साधुवादिनाम् ॥ ११ ॥
कपटच्छलपाखण्डक्रोधलोभविनाशनम् ।
अज्ञानाधर्मविध्वंसि श्रितानन्दविवर्धनम् ॥ १२ ॥
विज्ञानोद्दीपनं दिव्यं सेव्यं सर्वजनैरिह ।
पठनीयं प्रयत्नेन सर्वमन्त्रैकदोहनम् ॥ १३ ॥
मोहमात्सर्यमूढानामगोचरमलौकिकम् ।
पूर्णानन्दप्रसादेन लभ्यमेतत्सुदुर्लभम् ॥ १४ ॥
पुर्णानन्दः स्वयं ब्रह्म भक्तोद्धाराय भूतले ।
अक्षराकारमाविश्य स्वेच्छयाऽनन्तविक्रमः ॥ १५ ॥
कृष्णनाम्नात्र विख्यातः स्वयं निर्वाणदायकः ।
अत एवात्र वर्णानां ककारस्तन्मयो मतः ॥ १६ ॥
कादिनामानि लोकेऽस्मिन्दुर्लभानि दुरात्मनाम् ।
भक्तानां सुलभानीह निर्मलानां यतात्मनाम् ॥ १७ ॥
ज्ञेय एव स्वयं कृष्णो ध्येय एव निरन्तरम् ।
अमेयोऽप्यनुमानेन मेय एवात्मभावतः ॥ १८ ॥
ब्रह्मगीतादिभिर्गेयः सेवनीयो मुमुक्षभिः ।
कृष्ण एव गतिः पुंसां संसारेऽस्मिन्सुदुस्तरे ॥ १९ ॥
कालास्ये पतितं सर्वं कालेन कवलीकृतम् ।
कालाधीनं कालसंस्थं कालोत्पन्नं जगत्त्रयम् ॥ २० ॥
स कालस्तस्य भृत्योऽस्ति तदधीनस्तदुद्भवः ।
तस्मात्सर्वेषु कालेषु कृष्ण एव गतिर्नृणाम् ॥ २१ ॥
अन्ये देवास्त्रिलोकेषु कृष्णाश्रयपरायणाः ।
कृष्णमाश्रित्य तिष्ठन्ति कृष्णस्यानुचरा हि ते ॥ २२ ॥
यथा सूर्योदये सर्वास्तारकाः क्षीणकान्तयः ।
सर्वे देवास्तथा व्यास हतवीर्या हतौजसः ॥ २३ ॥
न कृष्णादितरत्तत्त्वं न कृष्णादितरत्सुखम् ।
न कृष्णादितरज्ज्ञानं न कृष्णादितरत्पदम् ॥ २४ ॥
कृष्ण एव जगन्मित्रं कृष्ण एव जगद्गुरुः ।
कृष्ण एव जगत्त्राता कृष्ण एव जगत्पिता ॥ २५ ॥
कृष्ण कृष्णेति ये जीवाः प्रवदन्ति निरन्तरम् ।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ २६ ॥
कृष्णे तुष्टे जगन्मित्रं कृष्णे रुष्टे हि तद्रिपुः ।
कृष्णात्मकं जगत्सर्वं कृष्णमाश्रित्य तिष्ठति ॥ २७ ॥
यथा सूर्योदये सर्वे पदार्थज्ञानिनो नराः ।
कृष्णसूर्योदयेऽन्तःस्थे तथाऽऽत्मज्ञानिनो बुधाः ॥ २८ ॥
तस्मात्त्वं सर्वभावेन कृष्णस्य शरणं व्रज ।
नान्योपायस्त्रिलोकेषु भवाब्धिं तरितुं सताम् ॥ २९ ॥
श्रीव्यास उवाच-
कृतार्थोऽहं मुनिश्रेष्ठ त्वत्प्रसादादतन्द्रितः ।
यस्माच्छ्रुतं मया ज्ञानं श्रीकृष्णस्य महात्मनः ॥ ३० ॥
परं तु श्रेतुमिच्छामि त्वत्तो ब्रह्मविदां वर ।
नैवास्ति त्वत्समो ज्ञानी त्रिषु लोकेषु कुत्रचित् ॥ ३१ ॥
कथं मे करुणासिन्धुः प्रसन्नो जायते हरिः ।
केनोपायेन तद्भक्तिर्निश्चला जायते मयि ॥ ३२ ॥
केनोपायेन तद्दास्यं सखित्वं देवदुर्लभम् ।
तदधीनत्वमेवाथ तत्स्वरूपैकता तथा ॥ ३३ ॥
एतन्मे वद देवर्षे सर्वशास्त्रार्थदोहनम् ।
विना कृष्णं गतिर्नाऽस्ति कृष्ण एव गतिर्मम ॥ ३४ ॥
नारद उवाच-
श्रीकृष्णः करुणासिन्धुर्दीनबन्धुर्जगद्गुरुः ।
कादिनामहस्रेण विना नान्यैश्च साधनैः ॥ ३५ ॥
प्रसन्नो जायते नूनं तस्मात्तानि वदामि ते ।
अवाच्यान्यपि ते वच्मि त्रिषु लोकेषु कुत्रचित् ॥ ३६ ॥
न प्रसिद्धानि दुष्टानां दुर्लभानि महीतले ।
सुलभानीह भक्तानां भाविष्यन्ति तदाज्ञया ॥ ३७ ॥
पुरा सारस्वते कल्पे रम्ये वृन्दावने निशि ।
निजभक्तहितार्थाय वेणुनादं हरिः स्वयम् ॥ ३८ ॥
चकारोच्चैर्मनोहारी विहारी वैरनाशनः ।
तदा गोपीजनः सर्वः सहसोत्थाय विह्वलः ॥ ३९ ॥
निशीथे सकलं त्यक्त्वाऽगच्छद्वेणुवशीकृतः ।
तेन सार्धं कृता क्रीडा स्वप्नवद्रासमण्डले ॥ ४० ॥
तत्रान्तर्धानमगमत्तच्चित्तमपहृत्य सः ।
तदा ता गोपिकाः सर्वाः दिङ्मूढा इव गोगणाः ॥ ४१ ॥
समीपस्थमपि भ्रान्त्या तं नापश्यन्नरोत्तमम् ।
इतस्ततो विचिन्वन्त्यः कस्तूरीमृगवद्वने ॥ ४२ ॥
अत्यन्तव्याकुलीभूताः खण्डिताः श्रुतयो यथा ।
ब्रह्मज्ञानाद्यथा विप्राः कालमायावशनुगाः ॥ ४३ ॥
तथैता गोपिका व्यास कृष्णदर्शनलालसाः ।
अत्यन्तविरहाक्रान्तास्तच्चित्तास्तत्परायणाः ॥ ४४ ॥
भ्रमरीकीटवल्लीना नान्यत्पश्यन्ति तद्विना ।
विरहानलदग्धाङ्ग्यः कामान्धा भयविह्वलाः ॥ ४५ ॥
स्वात्मानं न विदुर्दीना ज्ञानहीना नरा इव ।
तल्लीनमानसाकारा विकारादिविवर्जिताः ॥ ४६ ॥
तदातिकृपया कृष्णो भक्ताधीनो निरङ्कुशः ।
आविर्बभूव तत्रैव यथा सूर्यो निशात्यये ॥ ४७ ॥
तदा ता गोपिकाः सर्वा दृष्ट्वा प्राणपतिं हरिम् ।
जन्मान्तरनिभं हित्वा विरहाग्निं सुदुःसहम् ॥ ४८ ॥
तवावतारवन्मत्वा हर्षनिर्भरमानसाः ।
पद्मिन्य इव कृष्णार्कं दृष्ट्वा विकसितास्तदा ॥ ४९ ॥
पपुर्नेत्रपुटैरेनं न च तृप्तिमुपाययुः ।
क्रीडायाः शान्तिमापन्ना मत्वा कृष्णं जगद्गुरुम् ॥ ५० ॥
तं प्रत्यूचुः प्रीतियुक्ता विरक्ता विरहानलात् ।
आसक्तास्तत्पदे नित्यं विरक्ता इव योगिनः ॥ ५१ ॥
गोप्य ऊचुः-
हे नाथ याहि नो दीनास्त्वन्नाथास्त्वत्परायणाः ।
तवालम्बेन जीवन्त्यस्तव दास्यो वयं सदा ॥ ५२ ॥
केनोपायेन भो कृष्ण न भवेद्विरहस्तव ।
न भवेत्पुनरावृत्तिर्न च संसारवासना ॥ ५३ ॥
त्वयि भक्तिर्दृढा केन सखीत्वं जायते तव ।
तदुपायं हि नो ब्रूहि कृपां कृत्वा दयानिधे ॥ ५४ ॥
श्रीकृष्ण उवाच-
अत्यन्तदुर्लभःप्रश्नस्त्वदीयः कलिनाशनः ।
न कदापि मया प्रोक्तः कस्याप्यग्रे व्रजाङ्गनाः ॥ ५५ ॥
तथाप्यत्यन्तभावेन युष्मद्भक्त्या वशीकृतः ।
रहस्यं कथयाम्यद्य मदीयं मद्गतिप्रदम् ॥ ५६ ॥
कादिनामसहस्राख्यमविख्यातं धरातले ।
गुह्याद्गुह्यतरं गोप्यं वेदशास्त्रार्थदोहनम् ॥ ५७ ॥
अलौकिकमिदं पुंसां सद्यः श्रेयस्करं सताम् ।
शब्दब्रह्ममयं लोके सूर्यवच्चित्प्रकाशनम् ॥ ५८ ॥
संसारसागरे घोरे प्लवतुल्यं मनीषिणाम् ।
सर्वसिद्धिप्रदं पुंसामज्ञानार्णवशोषणम् ॥ ५९ ॥
जातिस्मृतिप्रदं विद्यावर्धनं मोहनाशनम् ।
ब्रह्मज्ञानरहस्यं मे कादिनामसहस्रकम् ॥ ६० ॥
तदेवाहं प्रवक्ष्यामि शृणुध्वं भक्तिपूर्वकम् ।
यस्य स्मरणमात्रेण जीवन्मुक्तिः प्रजायते ॥ ६१ ॥
ॐ अस्य श्रीपुराणपुरुषोत्तमश्रीकृष्णकादिसहस्रनाममन्त्रस्य
नारद ऋषिः अनुष्टुप्छन्दः, सर्वात्मस्वरूपी श्रीपरमात्मा देवता ।
ॐ इति बीजं, नम इति शक्तिः, कृष्णायेति कीलकं,
धर्मार्थकाममोक्षार्थे श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥
अथ करन्यासः ।
ॐ कालात्मेत्यङ्गुष्ठाभ्यां नमः ।
ॐ कीर्तिवर्द्धन इति तर्जनीभ्यां नमः ।
ॐ कूटस्थसाक्षीति मध्यमाभ्यां नमः ।
ॐ कैवल्यज्ञानसाधन इति अनामिकाभ्यां नमः ।
ॐ कौस्तुभोद्भासितोरस्क इति कनिष्ठकाभ्यां नमः ।
ॐ कन्दर्पज्वरनाशन इति करतलकरपृष्ठाभ्यां नमः ॥
अथ अङ्गन्यासः ।
ॐ कालात्मेति हृदयाय नमः ।
ॐ कीर्तिवर्धन इति शिरसे स्वाहा ।
ॐ कूटस्थसाक्षीति शिखायै वषट् ।
ॐ कैवल्यज्ञानसाधन इति कवचाय हुम् ।
ॐ कौस्तुभोद्भासितोरस्क इति नेत्रत्रयाय वौषट् ।
ॐ कन्दर्पज्वरनाशन इत्यस्त्राय फट् ।
अथ ध्यानम् ।
वन्दे कृष्णं कृपालुं कलिकुलदलनं केशवं कंसशत्रुं
धर्मिष्ठं ब्रह्मनिष्ठं द्विजवरवरदं कालमायातिरिक्तम् ।
कालिन्दीकेलिसक्तं कुवलयनयनं कुण्डलोद्भासितास्यं
कालातीतस्वधामाश्रितनिजयुवतीवल्लभं कालकालम् ॥ ६२ ॥
श्रीकृष्ण उवाच-
ॐ कृष्णः कृष्णात्मकः कृष्णस्वरूपः कृष्णनामधृत् ।
कृष्णाङ्गः कृष्णदैवत्यः कृष्णारक्तविलोचनः ॥ ६३ ॥
कृष्णाश्रयः कृष्णवर्त्त्मा कृष्णालक्ताभिरक्षकः ।
कृष्णेशप्रीतिजनकः कृष्णेशप्रियकारकः ॥ ६४ ॥
कृष्णेशारिष्टसंहर्ता कृष्णेशप्राणवल्लभः ।
कृष्णेशानन्दजनकः कृष्णेशायुर्विवर्द्धनः ॥ ६५ ॥
कृष्णेशारिसमूहघ्नः कृष्णेशाभीष्टसिद्धिदः ।
कृष्णाधीशः कृष्णकेशः कृष्णानन्दविवर्द्धनः ॥ ६६ ॥
कृष्णागरुसुगन्धाढ्यः कृष्णागरुसुगन्धवित् ।
कृष्णागरुविवेकज्ञः कृष्णागरुविलेपनः ॥ ६७ ॥
कृतज्ञः कृतकृत्यात्मा कृपासिन्धुः कृपाकरः ।
कृष्णानन्दैकवरदः कृष्णानन्दपदाश्रयः ॥ ६८ ॥
कमलावल्लभाकारः कलिघ्नः कमलापतिः ।
कमलानन्दसम्पन्नः कमलासेविताकृतिः ॥ ६९ ॥
कमलामानसोल्लासी कमलामानदायकः ।
कमलालङ्कृताकारः कमलाश्रितविग्रहः ॥ ७० ॥
कमलामुखपद्मार्कः कमलाकरपूजितः ।
कमलाकरमध्यस्थः कमलाकरतोषितः ॥ ७१ ॥
कमलाकरसंसेव्यः कमलाकरभूषितः ।
कमलाकरभावज्ञः कमलाकरसंयुतः ॥ ७२ ॥
कमलाकरपार्श्वस्थः कमलाकररूपवान् ।
कमलाकरशोभाढ्यः कमलाकरपङ्कजः ॥ ७३ ॥
कमलाकरपापघ्नः कमलाकरपुष्टिकृत् ।
कमलारूपसौभाग्यवर्द्धनः कमलेक्षणः ॥ ७४ ॥
कमलाकलिताङ्घ्र्यब्जः कमलाकलिताकृतिः ।
कमलाहृदयानन्दवर्द्धनः कमलाप्रियः ॥ ७५ ॥
कमलाचलचित्तात्मा कमलालङ्कृताकृतिः ।
कमलाचलभावज्ञः कमलालिङ्गिताकृतिः ॥ ७६ ॥
कमलामलनेत्रश्रीः कमलाचलमानसः ।
कमलापरमानन्दवर्द्धनः कमलाननः ॥ ७७ ॥
कमलानन्दसौभाग्यवर्द्धनः कमलाश्रयः ।
कमलाविलसत्पाणिः कमलामललोचनः ॥ ७८ ॥
कमलामलभालश्रीः कमलाकरपल्लवः ।
कमलेशः कमलभूः कमलानन्ददायकः ॥ ७९ ॥
कमलोद्भवभीतिघ्नः कमलोद्भवसंस्तुतः ।
कमलाकरपाशाढ्यः कमलोद्भवपालकः ॥ ८० ॥
कमलासनसंसेव्यः कमलासनसंस्थितः ।
कमलासनरोगघ्नः कमलासनपापहा ॥ ८१ ॥
कमलोदरमध्यस्थः कमलोदरदीपनः ।
कमलोदरसम्पन्नः कमलोदरसुन्दरः ॥ ८२ ॥
कनकालङ्कृताकारः कनकालङ्कृताम्बरः ।
कनकालङ्कृतागारः कनकालङ्कृतासनः ॥ ८३ ॥
कनकालङ्कृतास्यश्रीः कनकालङ्कृतास्पदः ।
कनकालङ्कृताङ्घ्र्यब्जः कनकालङ्कृतोदरः ॥ ८४ ॥
कनकाम्बरशोभाढ्यः कनकाम्बरभूषणः ।
कनकोत्तमभालश्रीः कनकोत्तमरूपधृक् ॥ ८५ ॥
कनकागारमध्यस्थः कनकागारकारकः ।
कनकाचलमध्यस्थः कनकाचलपालकः ॥ ८६ ॥
कनकाचलशोभाढ्यः कनकाचलभूषणः ।
कनकैकप्रजाकर्ता कनकैकप्रदायकः ॥ ८७ ॥
कलाननः कलरवः कलस्त्रीपरिवेष्टितः ।
कलहंसपरित्राता कलहंसपराक्रमः ॥ ८८ ॥
कलहंससमानश्रीः कलहंसप्रियङ्करः ।
कलहंसस्वभावस्थः कलहंसैकमानसः ॥ ८९ ॥
कलहंससमारूढः कलहंससमप्रभः ।
कलहंसविवेकज्ञः कलहंसगतिप्रदः ॥ ९० ॥
कलहंसपरित्राता कलहंससुखास्पदः ।
कलहंसकुलाधीशः कलहंसकुलास्पदः ॥ ९१ ॥
कलहंसकुलाधारः कलहंसकुलेश्वरः ।
कलहंसकुलाचारी कलहंसकुलप्रियः ॥ ९२ ॥
कलहंसकुलत्राता कलहंसकुलात्मकः ।
कवीशः कविभावस्थः कविनाथः कविप्रियः ॥ ९३ ॥
कविमानसहंसात्मा कविवंशविभूषणः ।
कविनायकसंसेव्यः कविनायकपालकः ॥ ९४ ॥
कविवंशैकवरदः कविवंशशिरोमणिः ।
कविवंशविवेकज्ञः कविवंशप्रबोधकः ॥ ९५ ॥
कविवंशपरित्राता कविवंशप्रभाववित् ।
कवित्वामृतसंसिद्धः कवित्वामृतसागरः ॥ ९६ ॥
कवित्वाकारसंयुक्तः कवित्वाकारपालकः ।
कवित्वाद्वैतभावस्थः कवित्वाश्रयकारकः ॥ ९७ ॥
कवीन्द्रहृदयानन्दी कवीन्द्रहृदयास्पदः ।
कवीण्द्रहृदयान्तःस्थः कवीन्द्रज्ञानदायकः ॥ ९८ ॥
कवीन्द्रहृदयाम्भोजप्रकाशैकदिवाकरः ।
कवीन्द्रहृदयाम्भोजाह्लादनैकनिशाकरः ॥ ९९ ॥
कवीन्द्रहृदयाब्जस्थः कवीन्द्रप्रतिबोधकः ।
कवीन्द्रानन्दजनकः कवीन्द्राश्रितपङ्कजः ॥ १०० ॥
कविशब्दैकवरदः कविशब्दैकदोहनः ।
कविशब्दैकभावस्थः कविशब्दैककारणः ॥ १०१ ॥
कविशब्दैकसंस्तुत्यः कविशब्दैकभूषणः ।
कविशब्दैकरसिकः कविशब्दविवेकवित् ॥ १०२ ॥
कवित्वब्रह्मविख्यातः कवित्वब्रह्मगोचरः ।
कविवाणीविवेकज्ञः कविवाणीविभूषणः ॥ १०३ ॥
कविवाणीसुधास्वादी कविवाणीसुधाकरः ।
कविवाणीविवेकस्थः कविवाणीविवेकवित् ॥ १०४ ॥
कविवाणीपरित्राता कविवाणीविलासवान् ।
कविशक्तिप्रदाता च कविशक्तिप्रवर्तकः ॥ १०५ ॥
कविशक्तिसमूहस्थः कविशक्तिकलानिधिः ।
कलाकोटिसमायुक्तः कलाकोटिसमावृतः ॥ १०६ ॥
कलाकोटिप्रकाशस्थः कलाकोटिप्रवर्तकः ।
कलानिधिसमाकारः कलानिधिसमन्वितः ॥ १०७ ॥
कलाकोटिपरित्राता कलाकोटिप्रवर्धनः ।
कलानिधिसुधास्वादी कलानिधिसमाश्रितः ॥ १०८ ॥
कलङ्करहिताकारः कलङ्करहितास्पदः ।
कलङ्करहितानन्दः कलङ्करहितात्मकः ॥ १०९ ॥
कलङ्करहिताभासः कलङ्करहितोदयः ।
कलङ्करहितोद्देशः कलङ्करहिताननः ॥ ११० ॥
कलङ्करहितश्रीशः कलङ्करहितस्तुतिः ।
कलङ्करहितोत्साहः कलङ्करहितप्रियः ॥ १११ ॥
कलङ्करहितोच्चारः कलङ्करहितेन्दिरयः ।
कलङ्करहिताकारः कलङ्करहितोत्सवः ॥ ११२ ॥
कलङ्काङ्कितदुष्टघ्नः कलङ्काङ्कितधर्महा ।
कलङ्काङ्कितकर्मारिः कलङ्काङ्कितमार्गहृत् ॥ ११३ ॥
कलङ्काङ्कितदुर्द्दर्शः कलङ्काङ्कितदुःसहः ।
कलङ्काङ्कितदूरस्थः कलङ्काङ्कितदूषणः ॥ ११४ ॥
कलहोत्पत्तिसंहर्ता कलहोत्पत्तिकृद्रिपुः ।
कलहातीतधामस्थः कलहातीतनायकः ॥ ११५ ॥
कलहातीततत्त्वज्ञः कलहातीतवैभवः ।
कलहातीतभावस्थः कलहातीतसत्तमः ॥ ११६ ॥
कलिकालबलातीतः कलिकालविलोपकः ।
कलिकालैकसंहर्ता कलिकालैकदूषणः ॥ ११७ ॥
कलिकालकुलध्वंसी कलिकालकुलापहः ।
कलिकालभयच्छेत्ता कलिकालमदापहः ॥ ११८ ॥
कलिक्लेशविनिर्मुक्तः कलिक्लेशविनाशनः ।
कलिग्रस्तजनत्राता कलिग्रस्तनिजार्तिहा ॥ ११९ ॥
कलिग्रस्तजगन्मित्रः कलिग्रस्तजगत्पतिः ।
कलिग्रस्तजगत्त्राता कलिपाशविनाशनः ॥ १२० ॥
कलिमुक्तिप्रादाता कः कलिमुक्तकलेवरः ।
कलिमुक्तमनोवृत्तिः कलिमुक्तमहामतिः ॥ १२१ ॥
कलिकालमतातीतः कलिधर्मविलोपकः ।
कलिधर्माधिपध्वंसी कलिधर्मैकखण्डनः ॥ १२२ ॥
कलिधर्माधिपालक्ष्यः कलिकालविकारहा ।
कलिकर्मकथातीतः कलिकर्मकथारिपुः ॥ १२३ ॥
कलिकष्टैकशमनः कलिकष्टविवर्ज्जितः ।
कलिघ्नः कलिधर्मघ्नः कलिधर्माधिकारिहा ॥ १२४ ॥
कर्मवित्कर्मकृत्कर्मी कर्मकाण्डैकदोहनः ।
कर्मस्थः कर्मजनकः कर्मिष्ठः कर्मसाधनः ॥ १२५ ॥
कर्मकर्ता कर्मभर्ता कर्महर्ता च कर्मजित् ।
कर्मजातजगत्त्राता कर्मजातजगत्पतिः ॥ १२६ ॥
कर्मजातजगन्मित्रः कर्मजातजगद्गुरुः ।
कर्मभूतभवच्छात्रः कर्मभूतभवातिहा ॥ १२७ ॥
कर्मकाण्डपरिज्ञाता कर्मकाण्डप्रवर्त्तकः ।
कर्मकाण्डपरित्राता कर्मकाण्डप्रमाणकृत् ॥ १२८ ॥
कर्मकाण्डविवेकज्ञः कर्मकाण्डप्रकारकः ।
कर्मकाण्डविवेकस्थः कर्मकाण्डैकदोहनः ॥ १२९ ॥
कर्मकाण्डरताभीष्टप्रदाता कर्मतत्परः ।
कर्मबद्धजगत्त्राता कर्मबद्धजगद्गुरुः ॥ १३० ॥
कर्मबन्धार्तिशमनः कर्मबन्धविमोचनः ।
कर्मिष्ठद्विजवर्यस्थः कर्मिष्ठद्विजवल्लभः ॥ १३१ ॥
कर्मिष्ठद्विजजीवात्मा कर्मिष्ठद्विजजीवनः ।
कर्मिष्ठद्विजभावज्ञः कर्मिष्ठद्विजपालकः ॥ १३२ ॥
कर्मिष्ठद्विजजातिस्थः कर्मिष्ठद्विजकामदः ।
कर्मिष्ठद्विजसंसेव्यः कर्मिष्ठद्विजपापहा ॥ १३३ ॥
कर्मिष्ठद्विजबुद्धिस्थः कर्मिष्ठद्विजबोधकः ।
कर्मिष्ठद्विजभीतिघ्नः कर्मिष्ठद्विजमुक्तिदः ॥ १३४ ॥
कर्मिष्ठद्विजदोषघ्नः कर्मिष्ठद्विजकामधुक् ।
कर्मिष्ठद्विजसम्पूज्यः कर्मिष्ठद्विजतारकः ॥ १३५ ॥
कर्मिष्ठारिष्टसंहर्ता कर्मिष्ठाभीष्टसिद्धिदः ।
कर्मिष्ठादृष्टमध्यस्थः कर्मिष्ठादृष्टवर्धनः ॥ १३६ ॥
कर्ममूलजगद्धेतुः कर्ममूलनिकन्दनः ।
कर्मबीजपरित्राता कर्मबीजविवर्द्धनः ॥ १३७ ॥
कर्मद्रुमफलाधीशः कर्मद्रुमफलप्रदः ।
कस्तूरीद्रवलिप्ताङ्गः कस्तूरीद्रववल्लभः ॥ १३८ ॥
कस्तूरीसौरभग्राही कस्तूरीमृगवल्लभः ।
कस्तूरीतिलकानन्दी कस्तूरीतिलकप्रियः ॥ १३९ ॥
कस्तूरीतिलकाश्लेषी कस्तूरीतिलकाङ्कितः ।
कस्तूरीवासनालीनः कस्तूरीवासनाप्रियः ॥ १४० ॥
कस्तूरीवासनारूपः कस्तूरीवासनात्मकः ।
कस्तूरीवासनान्तःस्थः कस्तूरीवासनास्पदः ॥ १४१ ॥
कस्तूरीचन्दनग्राही कस्तूरीचन्दनार्चितः ।
कस्तूरीचन्दनागारः कस्तूरीचन्दनान्वितः ॥ १४२ ॥
कस्तूरीचन्दनाकारः कस्तूरीचन्दनासनः ।
कस्तूरीचर्चितोरस्कः कस्तूरीचर्विताननः ॥ १४३ ॥
कस्तूरीचर्वितश्रीशः कस्तूरीचर्चिताम्बरः ।
कस्तूरीचर्चितास्यश्रीः कस्तूरीचर्चितप्रियः ॥ १४४ ॥
कस्तूरीमोदमुदितः कस्तूरीमोदवर्द्धनः ।
कस्तूरीमोददीप्ताङ्गः कस्तूरीसुन्दराकृतिः ॥ १४५ ॥
कस्तूरीमोदरसिकः कस्तूरीमोदलोलुपः ।
कस्तूरीपरमानन्दी कस्तूरीपरमेश्वरः ॥ १४६ ॥
कस्तूरीदानसन्तुष्टः कस्तूरीदानवल्लभः ।
कस्तूरीपरमाह्लादः कस्तूरीपुष्टिवर्द्धनः ॥ १४७ ॥
कस्तूरीमुदितात्मा च कस्तूरीमुदिताशयः ।
कदलीवनमध्यस्थः कदलीवनपालकः ॥ १४८ ॥
कदलीवनसञ्चारी कदलीवनवल्लभः ।
कदलीदर्शनानन्दी कदलीदर्शनोत्सुकः ॥ १४९ ॥
कदलीपल्लवास्वादी कदलीपल्लवाश्रयः ।
कदलीफलसन्तुष्टः कदलीफलदायकः ॥ १५० ॥
कदलीफलसम्पुष्टः कदलीफलभोजनः ।
कदलीफलवर्याशी कदलीफलतोषितः ॥ १५१ ॥
कदलीफलमाधुर्यवल्लभः कदलीप्रियः ।
कपिध्वजसमायुक्तः कपिध्वजपरिस्तुतः ॥ १५२ ॥
कपिध्वजपरित्राता कपिध्वजसमाश्रितः ।
कपिध्वजपदान्तस्थः कपिध्वजजयप्रदः ॥ १५३ ॥
कपिध्वजरथारूढः कपिध्वजयशःप्रदः ।
कपिध्वजैकपापघ्नः कपिध्वजसुखप्रदः ॥ १५४ ॥
कपिध्वजारिसंहर्ता कपिध्वजभयापहः ।
कपिध्वजमनोऽभिज्ञः कपिध्वजमतिप्रदः ॥ १५५ ॥
कपिध्वजसुहृन्मित्रः कपिध्वजसुहृत्सखः ।
कपिध्वजाङ्गनाराध्यः कपिध्वजगतिप्रदः ॥ १५६ ॥
कपिध्वजाङ्गनारिघ्नः कपिध्वजरतिप्रदः ।
कपिध्वजकुलत्राता कपिध्वजकुलारिहा ॥ १५७ ॥
कपिध्वजकुलाधीशः कपिध्वजकुलप्रियः ।
कपीन्द्रसेविताङ्घ्र्यब्जः कपीन्द्रस्तुतिवल्लभः ॥ १५८ ॥
कपीन्द्रानन्दजनकः कपीन्द्राश्रितविग्रहः ।
कपीण्द्राश्रितपादाब्जः कपीन्द्राश्रितमानसः ॥ १५९ ॥
कपीन्द्राराधिताकारः कपीन्द्राभीष्टसिद्धिदः ।
कपीन्द्रारातिसंहर्ता कपीन्द्रातिबलप्रदः ॥ १६० ॥
कपीन्द्रैकपरित्राता कपीन्द्रैकयशःप्रदः ॥ १६१ ॥
कपीन्द्रानन्दसम्पन्नः कपीन्द्रानन्दवर्द्धनः ।
कपीन्द्रध्यानगम्यात्मा कपीन्द्रज्ञानदायकः ॥ १६२ ॥
कल्याणमङ्गलाकारः कल्याणमङ्गलास्पदः ।
कल्याणमङ्गलाधीशः कल्याणमङ्गलप्रदः ॥ १६३ ॥
कल्याणमङ्गलागारः कल्याणमङ्गलात्मकः ।
कल्याणानन्दसपन्नः कल्याणानन्दवर्धनः ॥ १६४ ॥
कल्याणानन्दसहितः कल्याणानन्ददायकः ॥ १६५ ॥
कल्याणानन्दसन्तुष्टः कल्याणानन्दसंयुतः ।
कल्याणीरागसङ्गीतः कल्याणीरागवल्लभः ॥ १६६ ॥
कल्याणीरागरसिकः कल्याणीरागकारकः ।
कल्याणीकेलिकुशलः कल्याणीप्रियदर्शनः ॥ १६७ ॥
कल्पशास्त्रपरिज्ञाता कल्पशास्त्रार्थदोहनः ।
कल्पशास्त्रसमुद्धर्ता कल्पशास्त्रपरिस्तुतः ॥ १६८ ॥
कल्पकोटिशतातीतः कल्पकोटिशतोत्तरः ।
कल्पकोटिशतज्ञानी कल्पकोटिशतप्रभुः ॥ १६९ ॥
कल्पवृक्षसमाकारः कल्पवृक्षसमप्रभः ।
कल्पवृक्षसमोदारः कल्पवृक्षसमस्थितः ॥ १७० ॥
कल्पवृक्षपरित्राता कल्पवृक्षसमावृतः ।
कल्पवृक्षवनाधीशः कल्पवृक्षवनास्पदः ॥ १७१ ॥
कल्पान्तदहनाकारः कल्पान्तदहनोपमः ।
कल्पान्तकालशमनः कल्पान्तातीतविग्रहः ॥ १७२ ॥
कलशोद्भवसंसेव्यः कलशोद्भववल्लभः ।
कलशोद्भवभीतिघ्नः कलशोद्भवसिद्धिदः ॥ १७३ ॥
कपिलः कपिलाकारः कपिलप्रियदर्शनः ।
कर्द्दमात्मजभावस्थः कर्द्दमप्रियकारकः ॥ १७४ ॥
कन्यकानीकवरदः कन्यकानीकवल्लभः ।
कन्यकानीकसंस्तुत्यः कन्यकानीकनायकः ॥ १७५ ॥
कन्यादानप्रदत्राता कन्यादानप्रदप्रियः ।
कन्यादानप्रभावज्ञः कन्यादानप्रदायकः ॥ १७६ ॥
कश्यपात्मजभावस्थः कश्यपात्मजभास्करः ।
कश्यपात्मजशत्रुघ्नः कश्यपात्मजपालकः ॥ १७७ ॥
कश्यपात्मजमध्यस्थः कश्यपात्मजवल्लभः ।
कश्यपात्मजभीतिघ्नः कश्यपात्मजदुर्लभः ॥ १७८ ॥
कश्यपात्मजभावस्थः कश्यपात्मजभाववित् ।
कश्यपोद्भवदैत्यारिः कश्यपोद्भवदेवराट् ॥ १७९ ॥
कश्पयानन्दजनकः कश्यपानन्दवर्द्धनः ।
कश्यपारिष्टसंहर्ता कश्यपाभीष्टसिद्धिदः ॥ १८० ॥
कर्तृकर्मक्रियातीतः कर्तृकर्मक्रियान्वयः ।
कर्तृकर्मक्रियालक्ष्यः कर्तृकर्मक्रियास्पदः ॥ १८१ ॥
कर्तृकर्मक्रियाधीशः कर्तृकर्मक्रियात्मकः ।
कर्तृकर्मक्रियाभासः कर्तृकर्मक्रियाप्रदः ॥ १८२ ॥
कृपानाथः कृपासिन्धुः कृपाधीशः कृपाकरः ।
कृपासागरमध्यस्थः कृपापात्रः कृपानिधिः ॥ १८३ ॥
कृपापात्रैकवरदः कृपापात्रभयापहः ।
कृपाकटाक्षपापघ्नः कृतकृत्यः कृतान्तकः ॥ १८४ ॥
कदम्बवनमध्यस्थः कदम्बकुसुमप्रियः ।
कदम्बवनसञ्चारी कदम्बवनवल्लभः ॥ १८५ ॥
कर्पूरामोदमुदितः कर्पूरामोदवल्लभः ।
कर्पूरवासनासक्तः कर्पूरागरुचर्चितः ॥ १८६ ॥
करुणारसंसम्पूर्णः करुणारसवर्धनः ।
करुणाकरविख्यातः करुणाकरसागरः ॥ १८७ ॥
कालात्मा कालजनकः कालाग्निः कालसंज्ञकः ।
कालः कालकलातीतः कालस्थः कालभैरवः ॥ १८८ ॥
कालज्ञः कालसंहर्ता कालचक्रप्रवर्तकः ।
कालरूपः कालनाथः कालकृत्कालिकाप्रियः ॥ १८९ ॥
कालैकवरदः कालः कारणः कालरूपभाक् ।
कालमायाकलातीतः कालमायाप्रवर्तकः ॥ १९० ॥
कालमायाविनिर्मुक्तः कालमायाबलापहः ।
कालत्रयगतिज्ञाता कालत्रयपराक्रमः ॥ १९१ ॥
कालज्ञानकलातीतः कालज्ञानप्रदायकः ।
कालज्ञः कालरहितः कालाननसमप्रभः ॥ १९२ ॥
कालचक्रैक हेतुस्थः कालरात्रिदुरत्ययः ।
कालपाशविनिर्मुक्तः कालपाशविमोचनः ॥ १९३ ॥
कालव्यालैकदलनः कालव्यालभयापहः ।
कालकर्मकलातीतः कालकर्मकलाश्रयः ॥ १९४ ॥
कालकर्मकलाधीशः कालकर्मकलात्मकः ।
कालव्यालपरिग्रस्तनिजभक्तैकमोचनः ॥ १९५ ॥
काशिराजशिरश्छेत्ता काशीशप्रियकारकः ।
काशीस्थार्तिहरः काशीमध्यस्थः काशिकाप्रियः ॥ १९६ ॥
काशीवासिजनानन्दी काशीवासिजनप्रियः ।
काशीवासिजनत्राता काशीवासिजनस्तुतः ॥ १९७ ॥
काशीवासिविकारघ्नः काशीवासिविमोचनः ।
काशीवासिजनोद्धर्ता काशीवासकुलप्रदः ॥ १९८ ॥
काशीवास्याश्रिताङ्घ्र्यब्जः काशीवासिसुखप्रदः ।
काशीस्थाभीष्टफलदः काशीस्थारिष्टनाशनः ॥ १९९ ॥
काशीस्थद्विजसंसेव्यः काशीस्थद्विजपालकः ।
काशीस्थद्विजसद्बुद्धिप्रदाता काशिकाश्रयः ॥ २०० ॥
कान्तीशः कान्तिदः कान्तः कान्तारप्रियदर्शनः ।
कान्तिमान्कान्तिजनकः कान्तिस्थः कान्तिवर्धनः ॥ २०१ ॥
कालागरुसुगन्धाढ्यः कालागरुविलेपनः ।
कालागरुसुगन्धज्ञः कालागरुसुगन्धकृत् ॥ २०२ ॥
कापट्यपटलच्छेत्ता कायस्थः कायवर्धनः ।
कायभाग्भयभीतिघ्नः कायरोगापहारकः ॥ २०३ ॥
कार्यकारणकर्तृस्थः कार्यकारणकारकः ।
कार्यकारणसम्पन्नः कार्यकारणसिद्धिदः ॥ २०४ ॥
काव्यामृतरसास्वादी काव्यामृतरसात्मकः ।
काव्यामृतरसाभिज्ञः कार्यामृतरसप्रियः ॥ २०५ ॥
कादिवर्णैकजनकः कादिवर्णप्रवर्तकः ।
कादिवर्णविवेकज्ञः कादिवर्णविनोदवान् ॥ २०६ ॥
कादिहादिमनुज्ञाता कादिहादिमनुप्रियः ।
कादिहादिमनूद्धारकारकः कादिसंज्ञकः ॥ २०७ ॥
कालुष्यरहिताकारः कालुष्यैकविनाशनः ।
कारागृहविमुक्तात्मा कारागृहविमोचनः ॥ २०८ ॥
कामात्मा कामदः कामी कामेशः कामपूरकः ।
कामहृत्कामजनकः कामिकामप्रदायकः ॥ २०९ ॥
कामपालः कामभर्ता कामकेलिकलानिधिः ।
कामकेलिकलासक्तः कामकेलिकलाप्रियः ॥ २१० ॥
कामबीजैकवरदः कामबीजसमन्वितः ।
कामजित्कामवरदः कामक्रीडातिलालसः ॥ २११ ॥
कामार्तिशमनः कामालङ्कृतः कामसंस्तुतः ।
कामिनीकामजनकः कामिनीकामवर्धनः ॥ २१२ ॥
कामिनीकामरसिकः कामिनीकामपूरकः ।
कामिनीमानदः कामकलाकौतूहलप्रियः ॥ २१३ ॥
कामिनीप्रेमजनकः कामिनीप्रेमवर्धनः ।
कामिनीहावभावज्ञः कामिनीप्रीतिवर्धनः ॥ २१४ ॥
कामिनीरूपरसिकः कामिनीरूपभूषणः ।
कामिनीमानसोल्लासी कामिनीमानसास्पदः ॥ २१५ ॥
कामिभक्तजनत्राता कामिभक्तजनप्रियः ।
कामेश्वरः कामदेवः कामबीजैकजीवनः ॥ २१६ ॥
कालिन्दीविषसंहर्ता कालिन्दीप्राणजीवनः ।
कालिन्दीहृदयानन्दी कालिन्दीनीरवल्लभः ॥ २१६ ॥
कालिन्दीकेलिकुशलः कालिन्दीप्रीतिवर्धनः ।
कालिन्दीकेलिरसिकः कालिन्दीकेलिलालसः ॥ २१८ ॥
कालिन्दीनीरसङ्खेलद्गोपीयूथसमावृतः ।
कालिन्दीनीरमध्यस्थः कालिन्दीनीरकेलिकृत् ॥ २१९ ॥
कालिन्दीरमणासक्तः कालिनागमदापहः ।
कामधेनुपरित्राता कामधेनुसमावृतः ॥ २२० ॥
काञ्चनाद्रिसमानश्रीः काञ्चनाद्रिनिवासकृत् ।
काञ्चनाभूषणासक्तः काञ्चनैकविवर्धनः ॥ २२१ ॥
काञ्चनाभश्रियासक्तः काञ्चनाभश्रियाश्रितः ।
कार्तिकेयैकवरदः कार्तवीर्यमदापहः ॥ २२२ ॥
किशोरीनायिकासक्तः किशोरीनायिकाप्रियः ।
किशोरीकेलिकुशलः किशोरीप्राणजीवनः ॥ २२३ ॥
किशोरीवल्लभाकारः किशोरीप्राणवल्लभः ।
किशोरीप्रीतिजनकः किशोरीप्रियदर्शनः ॥ २२४ ॥
किशोरीकेलिसंसक्तः किशोरीकेलिवल्लभः ।
किशोरीकेलिसंयुक्तः किशोरीकेलिलोलुपः ॥ २२५ ॥
किशोरीहृदयानन्दी किशोरीहृदयास्पदः ।
किशोरीशः किशोरात्मा किशोरः किंशुकाकृतिः ॥ २२६ ॥
किंशुकाभरणालक्ष्यः किंशुकाभरणान्वितः ।
कीर्तिमान्कीर्तिजनकः कीर्तनीयपराक्रमः ॥ २२७ ॥
कीर्तनीययशोराशिः कीर्तिस्थः कीर्तनप्रियः ।
कीर्तिश्रीमतिदः कीशः कीर्तिज्ञः कीर्तिवर्धनः ॥ २२८ ॥
क्रियात्मकः क्रियाधारः किर्याभासः क्रियास्पदः ।
कीलालामलचिद्वृत्तिः कीलालाश्रयकारणः ॥ २२९ ॥
कुलधर्माधिपाधीशः कुलधर्माधिपप्रियः ।
कुलधर्मपरित्राता कुलधर्मपतिस्तुतः ॥ २३० ॥
कुलधर्मपदाधारः कुलधर्मपदाश्रयः ।
कुलधर्मपतिप्राणः कुलधर्मपतिप्रियः ॥ २३१ ॥
कुलधर्मपतित्राता कुलधर्मैकरक्षकः ।
कुलधर्मसमासक्तः कुलधर्मैकदोहनः ॥ २३२ ॥
कुलधर्मसमुद्धर्ता कुलधर्मप्रभाववित् ।
कुलधर्मसमाराध्यः कुलधर्मधुरन्धरः ॥ २३३ ॥
कुलमार्गरतासक्तः कुलमार्गरताश्रयः ।
कुलमार्गसमासीनः कुलमार्गसमुत्सुकः ॥ २३४ ॥
कुलधर्माधिकारस्थः कुलधर्मविवर्धनः ।
कुलाचारविचारज्ञः कुलाचारसमाश्रितः ॥ २३५ ॥
कुलाचारसमायुक्तः कुलाचारसुखप्रदः ।
कुलाचारातिचतुरः कुलाचारातिवल्लभः ॥ २३६ ॥
कुलाचारपवित्राङ्गः कुलाचारप्रमाणकृत् ।
कुलवृक्षैकजनकः कुलवृक्षविवर्धनः ॥ २३७ ॥
कुलवृक्षपरित्राता कुलवृक्षफलप्रदः ।
कुलवृक्षफलाधीशः कुलवृक्षफलाशनः ॥ २३८ ॥
कुलमार्गकलाभिज्ञः कुलमार्गकलान्वितः ।
कुकर्मनिरतातीतः कुकर्मनिरतान्तकः ॥ २३९ ॥
कुकर्ममार्गरहितः कुकर्मैकनिषूदनः ।
कुकर्मरहिताधीशः कुकर्मरहितात्मकः ॥ २४० ॥
कुकर्मरहिताकारः कुकर्मरहितास्पदः ।
कुकर्मरहिताचारः कुकर्मरहितोत्सवः ॥ २४१ ॥
कुकर्मरहितोद्देशः कुकर्मरहितप्रियः ।
कुकर्मरहितान्तस्थः कुकर्मरहितेश्वरः ॥ २४२ ॥
कुकर्मरहितस्त्रीशः कुकर्मरहितप्रजः ।
कुकर्मोद्भवपापघ्नः कुकर्मोद्भवदुःखहा ॥ २४३ ॥
कुतर्करहिताधीशः कुतर्करहिताकृतिः ।
कूटस्थसाक्षी कूटात्मा कूटस्थाक्षरनायकः ॥ २४४ ॥
कूटस्थाक्षरसंसेव्यः कूटस्थाक्षरकारणः ।
कुबेरबन्धुः कुशलः कुम्भकर्णविनाशनः ॥ २४५ ॥
कूर्माकृतिधरः कूर्मः कूर्मस्थावनिपालकः ।
कुमारीवरदः कुस्थः कुमारीगणसेवितः ॥ २४६ ॥
कुशस्थलीसमासीनः कुशदैत्यविनाशनः ।
केशवः क्लेशसंहर्ता केशिदैत्यविनाशनः ॥ २४७ ॥
क्लेशहीनमनोवृत्तिः क्लेशहीनपरिग्रहः ।
क्लेशातीतपदाधीशः क्लेशातीतजनप्रियः ॥ २४८ ॥
क्लेशातीतशुभाकारः क्लेशातीतसुखास्पदः ।
क्लेशातीतसमाजस्थः क्लेशातीतमहामतिः ॥ २४९ ॥
क्लेशातीतजनत्राता क्लेशहीनजनेश्वरः ।
क्लेशहीनस्वधर्मस्थः क्लेशहीनविमुक्तिदः ॥ २५० ॥
क्लेशहीननराधीशःक्लेशहीननरोत्तमः ।
क्लेशातिरिक्तसदनः क्लेशमूलनिकन्दनः ॥ २५१ ॥
क्लेशातिरिक्तभावस्थः क्लेशहीनैकवल्लभः ।
क्लेशहीनपदान्तस्थः क्लेशहीनजनार्द्दनः ॥ २५२ ॥
केसराङ्कितभालश्रीः केसराङ्कितवल्लभः ।
केसरालिप्तहृदयः केसरालिप्तसद्भुजः ॥ २५३ ॥
केसराङ्कितवासश्रीः केसराङ्कितविग्रहः ।
केसराकृतिगोपीशः केसरामोदवल्लभः ॥ २५४ ॥
केसरामोदमधुपः केसरामोदसुन्दरः ।
केसरामोदमुदितः केसरामोदवर्धनः ॥ २५५ ॥
केसरार्चितभालश्रीः केसरार्चितविग्रहः ।
केसरार्चितपादाब्जः केसरार्चितकुण्डलः ॥ २५६ ॥
केसरामोदसम्पन्नः केसरामोदलोलुपः ।
केतकीकुसुमासक्तःकेतकीकुसुमप्रियः ॥ २५७ ॥
केतकीकुसुमाधीशःकेतकीकुसुमाङ्कितः ।
केतकीकुसुमामोदवर्धनः केतकीप्रियः ॥ २५८ ॥
केतकीशोभिताकारः केतकीशोभिताम्बरः ।
केतकीकुसुमामोदवल्लभः केतकीश्वरः ॥ २५९ ॥
केतकीसौरभानन्दी केतकीसौरभप्रियः ।
केयूरालङ्कृतभुजः केयूरालङ्कृतात्मकः ॥ २६० ॥
केयूरालङ्कृतश्रीशःकेयूरप्रियदर्शनः ।
केदारेश्वरसंयुक्तः केदारेश्वरवल्लभः ॥ २६१ ॥
केदारेश्वरपार्श्वस्थः केदारेश्वरभक्तपः ।
केदारकल्पसारज्ञः केदारस्थलवासकृत् ॥ २६२ ॥
केदाराश्रितभीतिघ्नः केदाराश्रितमुक्तिदः ।
केदारावासिवरदः केदाराश्रितदुःखहा ॥ २६३ ॥
केदारपोषकः केशः केदारान्नविवर्द्धनः ।
केदारपुष्टिजनकः केदारप्रियदर्शनः ॥ २६४ ॥
कैलासेशसमाजस्थः कैलासेशप्रियङ्करः ।
कैलासेशसमायुक्तः कैलासेशप्रभाववित् ॥ २६५ ॥
कैलासाधीशत्रुघ्नः कैलासपतितोषकः ।
कैलासाधीशसहितः कैलासाधीशवल्लभः ॥ २६६ ॥
कैवल्यमुक्तिजनकः कैवल्यपदवीश्वरः ।
कैवल्यपदवीत्राता कैवल्यपदवीप्रियः ॥ २६७ ॥
कैवल्यज्ञानसम्पन्नः कैवल्यज्ञानसाधनः ।
कैवल्यज्ञानगम्यात्मा कैवल्यज्ञानदायकः ॥ २६८ ॥
कैवल्यज्ञानसंसिद्धः कैवल्यज्ञानदीपकः ।
कैवल्यज्ञानविख्यातः कैवल्यैकप्रदायकः ॥ २६९ ॥
क्रोधलोभभयातीतः क्रोधलोभविनाशनः ।
क्रोधारिः क्रोधहीनात्मा क्रोधहीनजनप्रियः ॥ २७० ॥
क्रोधहीनजनाधीशः क्रोधहीनप्रजेश्वरः ।
कोपतापोपशमनः कोपहीनवरप्रदः ॥ २७१ ॥
कोपहीननरत्राता कोपहीनजनाधिपः ।
कोपहीननरान्तःस्थः कोपहीनप्रजापतिः ॥ २७२ ॥
कोपहीनप्रियासक्तः कोपहीनजनार्तिहा ।
कोपहीनपदाधीशः कोपहीनपदप्रदः ॥ २७३ ॥
कोपहीननरस्वामी कोपहीनस्वरूपधृक् ।
कोकिलालापसङ्गीतः कोकिलालापवल्लभः ॥ २७४ ॥
कोकिलालापलीनात्मा कोकिलालापकारकः ।
कोकिलालापकान्तेशः कोकिलालापभाववित् ॥ २७५ ॥
कोकिलागानरसिकः कोकिलावरवल्लभः ।
कोटिसूर्यसमानश्रीः कोटिचन्द्रामृतात्मकः ॥ २७६ ॥
कोटिदानवसंहर्ता कोटिकन्दर्पदर्पहा ।
कोटिदेवेन्द्रसंसेव्यः कोटिब्रह्मार्चिताकृतिः ॥ २७७ ॥
कोटिब्रह्माण्डमध्यस्थः कोटिविद्युत्समद्युतिः ।
कोट्यश्वमेधपापघ्नः कोटिकामेश्वराकृतिः ॥ २७८ ॥
कोटिमेघसमोदारः कोटिवह्निसुदुःसहः ।
कोटिपाथोधिगम्भीरः कोटिमेरुसमस्थिरः ॥ २७९ ॥
कोटिगोपीजनाधीशः कोटिगोपाङ्गनावृतः ।
कोटिदैत्येशदप्रघ्नः कोटिरुद्रपराकर्मः ॥ २८० ॥
कोटिभक्तार्तिशमनः कोटिदुष्टविमर्दनः ।
कोटिभक्तजनोद्धर्ता कोटियज्ञफलप्रदः ॥ २८१ ॥
कोटिदेवर्षिसंसेव्यः कोटिब्रह्मर्षिमुक्तिदः ।
कोटिराजर्षिसंस्तुत्यः कोटिब्रह्माण्डमण्डनः ॥ २८२ ॥
कोट्याकाशप्रकाशात्मा कोटिवायुमहाबलः ।
कोटितेजोमयाकारः कोटिभूमिसमक्षमी ॥ २८३ ॥
कोटिनीरसमस्वच्छः कोटिदिग्ज्ञानदायकः ।
कोटिब्रह्माण्डजनकः कोटिब्रह्माण्डपालकः ॥ २८४ ॥
कोटिब्रह्माण्डसंहर्ता कोटिब्रह्माण्डबोधकः ।
कोटिवाक्पतिवाचालः कोटिशुक्रकवीश्वरः ॥ २८५ ॥
कोटिद्विजसमाचारः कोटिहेरम्बविघ्नहा ।
कोटिमानसहंसात्मा कोटिमानससंस्थितः ॥ २८६ ॥
कोटिच्छलकरारातिः कोटिदाम्भिकनाशनः ।
कोटिशून्यपथच्छेत्ता कोटिपाखण्डखण्डनः ॥ २८७ ॥
कोटिशेषधराधारः कोटिकालप्रबोधकः ।
कोटिवेदान्तसंवेद्यः कोटिसिद्धान्तनिश्चयः ॥ २८८ ॥
कोटियोगीश्वराधीशः कोटियोगैकसिद्धिदः ।
कोटिधामाधिपाधीशः कोटिलोकैकपालकः ॥ २८९ ॥
कोटियज्ञैकभोक्ता च कोटियज्ञफलप्रदः ।
कोटिभक्तहृदन्तस्थः कोटिभक्ताभयप्रदः ॥ २९० ॥
कोटिजन्मार्तिशमनः कोटिजन्माघनाशनः ।
कोटिजन्मान्तरज्ञानप्रदाता कोटिभक्तपः ॥ २९१ ॥
कोटिशक्तिसमायुक्तः कोटिचैतन्यबोधकः ।
कोटिचक्रावृताकारः कोटिचक्रप्रवर्तकः ॥ २९२ ॥
कोटिचक्रार्चनत्राता कोटिवीरावलीवृतः ।
कोटितीर्थजलान्तस्थः कोटितीर्थफलप्रदः ॥ २९३ ॥
कोमलामलचिद्वृत्तिः कोमलामलमानसः ।
कौस्तुभोद्भासितोरस्कः कौस्तुभोद्भासिताकृतिः ॥ २९४ ॥
कौरवानीकसंहर्ता कौरवार्णवकुम्भभूः ।
कौन्तेयाश्रितपादाब्जः कौन्तेयाभयदायकः ॥ २९५ ॥
कौन्तेयारातिसंहर्ता कौन्तेयप्रतिपालकः ।
कौन्तेयानन्दजनकः कौन्तेयप्राणजीवनः ॥ २९६ ॥
कौन्तेयाचलभावज्ञः कौन्तेयाचलमुक्तिदः ।
कौमुदीमुदिताकारः कौमुदीमुदिताननः ॥ २९७ ॥
कौमुदीमुदितप्राणः कौमुदीमुदिताशयः ।
कौमुदीमोदमुदितः कौमुदीमोदवल्लभः ॥ २९८ ॥
कौमुदीमोदमधुपः कौमुदीमोदवर्धनः ।
कौमुदीमोदमानात्मा कौमुदीमोदसुन्दरः ॥ २९९ ॥
कौमुदीदर्शनानन्दी कौमुदीदर्शनोत्सुकः ।
कौसल्यापुत्रभावस्थः कौसल्यानन्दवर्धनः ॥ ३०० ॥
कंसारिः कंसहीनात्मा कंसपक्षनिकन्दनः ।
कङ्कालः कङ्कवरदः कण्टकक्षयकारकः ॥ ३०१ ॥
कन्दर्पदर्पशमनः कन्दर्पाभिमनोहरः ।
कन्दर्पकामनाहीनः कन्दर्पज्वरनाशनः ॥ ३०२ ॥
कन्दर्पज्वरनाशन ॐ नम इति
इति श्रीसर्वसौभाग्यवर्धनं श्रीपतिप्रियम् ।
नाम्नामक्षरकादीनां सहस्रं परिकीर्तितम् ॥ ३०३ ॥
सर्वापराधशमनं रहस्यं श्रुतिगोचरम् ।
कलिकालैकदमनं क्रूरशत्रुनिकन्दनम् ॥ ३०४ ॥
क्रूरपापसमूहघ्नं क्रूरकर्मविनाशनम् ।
क्रूरासुरौघसंहारकारकं क्लेशनाशनम् ॥ ३०५ ॥
कुमार्गदलनं कष्टहरणं कल्मषापहम् ।
कुबुद्धिशमनं क्रोधकन्दनं कान्तिवर्द्धनम् ॥ ३०६ ॥
कुविद्यादमनं काममर्दनं कीर्तिदायकम् ।
कुतर्कनाशनं कान्तं कुपथार्णवशोषणम् ॥ ३०७ ॥
कोटिजन्मार्जितारिष्टहरं कालभयापहम् ।
कोटिजन्मार्जिताज्ञाननाशनैकदिवाकरम् ॥ ३०८ ॥
कापट्यपटलध्वंसिकार्पण्यैकहुताशनम् ।
कालुष्यभावशमनं कीर्तिश्रीमतिदं सताम् ॥ ३०९ ॥
कोपोपतापशमनं कंसारिस्मृतिदायकम् ।
कुलाचारविचारस्थं कुलधर्मप्रवर्तकम् ॥ ३१० ॥
कुलधर्मरताभीष्टसिद्धिदं कुलदीपकम् ।
कुत्सामार्गनिराकर्तृ कुपथाचारवर्जितम् ॥ ३११ ॥
कल्याणमङ्गलागारं कल्पवृक्षसमं सताम् ।
कौटिल्यभावशमनं काशीवासफलप्रदम् ॥ ३१२ ॥
अतिगुह्यतरं पुंसां भोगमोक्षैकसाधनम् ।
अत्यन्तस्नेहभावेन युष्मदग्रे प्रकाशितम् ॥ ३१३ ॥
न वक्तव्यं न वक्तव्यं न वक्तव्यं कदाचन ।
पाप्यग्रे कुटिलाग्रे च राग्यग्रे पिशुनाय वै ॥ ३१४ ॥
द्रोह्यग्रे मलिनाघ्रे च कपट्यग्रे विशेषतः ।
लम्पटाग्रेऽभिमान्यग्रे काम्यते क्रोधिने तथा ॥ ३१५ ॥
लोभ्यग्रे तस्कराग्रे च गर्वाहङ्कारभाजिने ।
संसारासक्तचित्ताग्रे वाद्यग्रे घातिनेऽपि वा ॥ ३१६ ॥
मताभिमानिने गोप्यं मदीयं स्तोत्रमुत्तमम् ।
वाच्यं शान्ताय भक्ताय निर्मलाय दयालवे ॥ ३१७ ॥
सन्तोषिणे सुशीलाय सुपात्राय द्विजातये ।
विवेकिने ज्ञानिने च मद्भक्ताय विशेषतः ॥ ३१८ ॥
य इदं शृणुते नित्यं पठतेऽहर्निशं जनः ।
माहात्म्यं तस्य पुण्यस्य मया वक्तुं न शक्यते ॥ ३१९ ॥
एकवरमिदं स्तोत्रं यः शृणोति नरोत्तमः ।
भोगमोक्षप्रधानः स भविष्यति न संशयः ॥ ३२० ॥
किं पुनः पठनादस्य सर्वसिद्धः करे स्थिता ।
भोगार्थी लभते भोगान्योगार्थी योगसाधनाम् ॥ ३२१ ॥
कामार्थी लभते कामान्प्रजार्थी लभते प्रजाम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमव्ययम् ॥ ३२२ ॥
द्रव्याथी लभते द्रव्यं प्रियार्थी लभते प्रियम् ।
मानार्थी लभते मानं राज्यार्थी राज्यमुत्तमम् ॥ ३२३ ॥
ज्ञानार्थी लभते ज्ञानं सुखार्थी लभते सुखम् ।
कीर्त्यर्थी लभते कीर्तिं ब्रह्मार्थी ब्रह्म निर्गुणम् ॥ ३२४ ॥
पुष्ट्यर्थी लभते पुष्टिं तुष्ट्यर्थी तुष्टिमात्मनि ।
निरीहो लभते नूनं मत्पदं देवदुर्लभम् ॥ ३२५ ॥
किं दानैः किं व्रतैस्तीर्थैर्यज्ञयागादिभिस्तथा ।
अस्य श्रवणमात्रेण सर्वयज्ञफलं लभेत् ॥ ३२६ ॥
नातः परतरं ज्ञानं नातः परतरं तपः ।
नातः परतरं ध्यानं नातः परतरो जपः ॥ ३२७ ॥
नातः परतरा सिद्धिर्नातः परतरो मखः ।
नातः परतरं द्रव्यं नातः परतरा क्रिया ॥ ३२८ ॥
य इदं पठते भक्त्या शृणुयाद्वा समाहितः ।
स ज्ञानी स तपस्वी च स ध्यानी जयतत्परः ॥ ३२९ ॥
स सिद्धो भाग्यवान् श्रीमान् क्रियावान्बुद्धिमानपि ।
जितं तेन जगत्सर्वं येनेदं पठितं श्रुतम् ॥ ३३० ॥
किं पुनर्भक्तिभावेन भोगमोक्षप्रदं द्रुतम् ।
कोटिजन्मार्जितैः पुण्यैर्लभ्यते भाग्यतो यदा ॥ ३३१ ॥
तदा भाग्योदयः पुंसां नात्र कार्या विचारणा ।
सारात्सारतरं शास्त्रं तत्रापि ज्ञानदायकम् ॥ ३३२ ॥
ज्ञानाद्ध्यानं परं श्रेष्ठं तत्रापि लयता यथा ।
तथैवेदं महास्तोत्रं विना मत्कृपया किल ॥ ३३३ ॥
दुर्लभं त्रिषु लोकेषु सर्वसिद्धिप्रदं सताम् ।
यथा भक्तिस्त्रिलोकेषु दुर्लभा मम देहिनाम् ॥ ३३४ ॥
तथैवेदं महास्तोत्रं सद्यः सायुज्यदायकम् ।
सर्वापराधशमनं लोके कल्पद्रुमप्रभम् ॥ ३३५ ॥
यथा सुदर्शनं लोके दुष्टदैत्यनिबर्हणम् ।
तथैवेदं परं स्तोत्रं कामादिकभयापहम् ॥ ३३६ ॥
अस्यैकावर्तनात्पापं नश्यत्याजन्मसञ्चितम् ।
दशावर्तनतः पुंसां शतजन्मान्तरार्चितम् ॥ ३३७ ॥
शतावर्तनमात्रेण देवरूपो भवेन्नरः ।
आवर्तनसहस्रैश्च मद्गतिं लभतेऽचलाम् ॥ ३३८ ॥
लक्षतो मम सायुज्यं दशलक्षात्स्वयं हरिः ।
तस्मान्नैव प्रदातव्यं मदीयं स्तोत्रमुत्तमम् ॥ ३३९ ॥
पुत्रकामोऽयुतान्पाठान्कारयित्वा ममालये ।
सहस्रनामभिर्दिव्यैर्जुहुयाद्घृतपायसैः ॥ ३४० ॥
शर्करामधुसंयुक्तैर्बिल्वीदलसमन्वितः ।
ब्राह्मणान्भोजयेद्भक्त्या नामसङ्ख्यामितानिह ॥ ३४१ ॥
राज्यकामोऽयुतान्नित्यं पठेद्वा पाठयेद्द्विजान् ।
शिवालये सहस्रैश्च होमयेदाज्यपायसैः ॥ ३४२ ॥
ब्राह्मणान्भोजयेन्नूनमयुतैकं यथाविधि ।
दक्षिणां दापयेच्छक्त्या वित्तशाढ्यं न कारयेत् ॥ ३४३ ॥
सहस्रमेकं कन्यार्थी पठेद्वा पाठयेत्किल ।
देव्यालये तथा नित्यं धनकामोऽपि पाठयेत् ॥ ३४४ ॥
कीर्तिकामोऽयुतं भाक्त्या पठेद्वृन्दावने सदा ।
जयकामो हि दुर्गायां शत्रुसंहारकारकः ।
आयुः कामो नदीतीरे ज्ञानार्थी पर्वतोपरि ॥ ३४५ ॥
मोक्षार्थी भक्तिभावेन मन्दिरे मम सन्निधौ ।
पाठसङ्ख्यान्द्विजान्भोज्यान्पायसैः शर्कराप्लुतैः ॥ ३४६ ॥
जुहुयाद्घृतधाराभिर्मम प्रीतिविवर्धनैः ।
सर्वकामप्रदं नाम्नां सहस्रं मम दुर्लभम् ॥ ३४७ ॥
कामनारहितानां च मुक्तिदं भवसागरात् ।
इदं सहस्रनामाख्यं स्तोत्रमानन्दवर्द्धनम् ॥ ३४८ ॥
सर्वापराधशमनं पठितव्यमहर्निशम् ।
अन्यथा न गतिर्नूनं त्रिषु लोकेषु कुत्रचित् ॥ ३४९ ॥
वैष्णवानां विशेषेण वैष्णवा मामका जनाः ।
दुर्लभं दुष्टजीवानां मदीयं स्तोत्रमद्भुतम् ॥ ३५० ॥
लोकेऽस्मिन्दुर्लभो गोप्यो मुक्तिमार्गो मनीषिणम् ।
सुलभो मम भक्तानां स्तोत्रेणानेन निश्चितम् ॥ ३५१ ॥
तावद्गर्जन्ति पापानि तावद्गर्जन्ति शत्रवः ।
तावद्गर्जति दारिद्र्यं यावत्स्तोत्रं न लभ्यते ॥ ३५२ ॥
किमत्र बहुनोक्तेन त्वदग्रे गोपिका मया ।
मम प्राणाधिकं स्तोत्रं सदाऽऽनन्दविवर्धनम् ॥ ३५३ ॥
अत्यन्तस्नेहभावेन त्वदीयेन व्रजाङ्गनाः ।
मया प्रकाशितं स्तोत्रं त्वद्भक्त्याऽहं वशीकृतः ॥ ३५४ ॥
एवमुक्त्वा हृषीकेशः शरणागतवत्सलः ।
प्रहसन्सहसोत्थाय क्रीडां चक्रे पुनर्जले ॥ ३५५ ॥
नारद उवाच-
एतद्गुह्यतरं स्तोत्रं दुर्लभं देहधारिणाम् ।
मया तदाज्ञया प्रोक्तं तवाग्रे व्यासभावन ॥ ३५६ ॥
त्वयैतन्नैव वक्तव्यं कस्याग्रेऽपि विनाऽऽज्ञया ।
स्वशिष्याग्रे शुकाग्रे वा गोपनीयं धरातले ॥ ३५७ ॥
एतदेव स्वयं साक्षादगतीनां गतिप्रदः ।
बुद्ध्याविष्टनिजांशेन पूर्णानन्दः स्वलीलया ॥ ३५८ ॥
कलिग्रस्तान् जनान्स्वीयानुद्धर्तुं करुणानिधिः ।
स्वयमेवात्र विख्यातं करिष्यति न संशयः ॥ ३५९ ॥
एतद्दिव्यसहस्रनाम परमानन्दैकसंवर्धनं
लोकेस्मिन्किल कादिनामरचनालङ्कारशोभान्वितम् ।
येषां कर्णपुटे पतिष्यति महाभाग्यादिहालौकिकं
तेषां नैव किमप्यलभ्यमचिरात्कल्पद्रुमाभं सताम् ॥ ३६० ॥
इति श्रीब्रह्माण्डपुराणेऽध्यात्मकभागवते श्रुतिरहस्ये
ककारादि श्रीकृष्णसहस्रनामस्तोत्रं सम्पूर्णम् ।
– Chant Stotra in Other Languages -1000 Names of Kakaradi Krishna:
1000 Names of Kakaradi Sri Krishna – Sahasranama Stotram in Sanskrit – English – Bengali – Gujarati – – Kannada – Malayalam – Odia – Telugu – Tamil