1000 Names Of Medha Dakshinamurti 1 In Sanskrit

॥ Medha Dakshinamurti 1 Sanskrit Lyrics ॥

॥ श्रीमेधादक्षिणामूर्तिसहस्रनामावलिः १ ॥
श्रीः
अस्य श्री मेधादक्षिणामूर्तिसहस्रनामस्तोत्रस्य
ब्रह्मा ऋषिः । गायत्री छन्दः । दक्षिणामूर्तिर्देवता ।
ओं बीजम् । स्वाहा शक्तिः । नमः कीलकम् ।
मेधादक्षिणामूर्तिप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ह्राम् इत्यादिना अङ्गन्यासः ।
ध्यानम् ।
सिद्धितोयनिधेर्मध्ये रत्नग्रीवे मनोरमे ।
कदम्बवनिकामध्ये श्रीमद्वटतरोरधः ॥ १ ॥

आसीनमाद्यं पुरुषमादिमध्यान्तवर्जितम् ।
शुद्धस्फटिकगोक्षीरशरत्पूर्णेन्दुशेखरम् ॥ २ ॥

दक्षिणे चाक्षमालां च वह्निं वै वामहस्तके ।
जटामण्डलसंलग्नशीताम्शुकरमण्डितम् ॥ ३ ॥

नागहारधरं चारुकङ्कणैः कटिसूत्रकैः ।
विराजमानवृषभं व्याघ्रचर्माम्बरावृतम् ॥ ४ ॥

चिन्तामणिमहाबृन्दैः कल्पकैः कामधेनुभिः ।
चतुष्षष्टिकलाविद्यामूर्तिभिः श्रुतिमस्तकैः ॥ ५ ॥

रत्नसिंहासने साधुद्वीपिचर्मसमायुतम् ।
तत्राष्टदलपद्मस्य कर्णिकायां सुशोभने ॥ ६ ॥

वीरासने समासीनं लम्बदक्षपदांबुजम् ।
ज्ञानमुद्रां पुस्तकं च वराभीतिधरं हरम् ॥ ७ ॥

पादमूलसमाक्रान्तमहापस्मारवैभवम् ।
रुद्राक्षमालाभरणभूषितं भूतिभासुरम् ॥ ८ ॥

गजचर्मोत्तरीयं च मन्दस्मितमुखाम्बुजम् ।
सिद्धबृन्दैर्योगिबृन्दैर्मुनिबृन्दैर्निषेवितम् ॥ ९ ॥

आराध्यमानवृषभं अग्नीन्दुरविलोचनम् ।
पूरयन्तं कृपादृष्ट्या पुमर्थानाश्रिते जने ॥ १० ॥

एवं विभावयेदीशं सर्वविद्याकलानिधिम् ॥ ११ ॥

लं इत्यादिना पञ्चोपचाराः ॥

॥ श्री गुरुभ्यो नमः ।
अथ श्रीमेधादक्षिणामूर्तिसहस्रनामावलिः ।
ॐ नाम्ने नमः ।
ॐ देवदेवाय नमः ।
ॐ महादेवाय नमः ।
ॐ देवानामपि देशिकाय नमः ।
ॐ दक्षिणामूर्तये नमः ।
ॐ ईशानाय नमः ।
ॐ दयापूरितदिङ्मुखाय नमः ।
ॐ कैलासशिखरोत्तुङ्गकमनीयनिजाकृतये नमः ।
ॐ वटद्रुमतटीदिव्यकनकासनसंस्थिताय नमः ।
ॐ कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतये नमः ।
ॐ पाटीरपाण्डुराकारपरिपूर्णसुधाधिपाय नमः ।
ॐ जटाकोटीरघटितसुधाकरसुधाप्लुताय नमः ।
ॐ पश्यल्ललाटसुभगसुन्दरभ्रूविलासवते नमः
ॐ कटाक्षसरणीनिर्यत्करुणापूर्णलोचनाय नमः ।
ॐ कर्णालोलतटिद्वर्णकुण्डलोज्ज्वलगण्डभुवे नमः
ॐ तिलप्रसूनसंकाशनासिकापुरभासुराय नमः ।
ॐ मन्दस्मितस्फुरन्मुग्धमहनीयमुखांबुजाय नमः
ॐ कुन्दकुड्मलसंस्फर्धिदन्तपङ्क्तिविराजिताय नमः ।
ॐ सिन्दूरारुणसुस्निग्धकोमलाधरपल्लवाय नमः
ॐ शङ्खाटोपगलद्दिव्यगळवैभवमञ्जुलाय नमः ।
ॐ करकन्दलितज्ञानमुद्रारुद्राक्षमालिकाय नमः ॥
ॐ अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुषे नमः ।
ॐ विशालरुचिरोरस्कबलिमत्पल्लवोदराय नमः
ॐ बृहत्कटिनितंबाढ्याय नमः ।
ॐ पीवरोरुद्वयान्विताय नमः ।
ॐ जङ्घाविजिततूणीराय नमः ॥ 50 ॥

ॐ तुङ्गगुल्फयुगोज्ज्वलाय नमः
ॐ मृदुपाटलपादाब्जाय नमः ।
ॐ चन्द्राभनखदीधितये नमः ।
ॐ अपसव्योरुविन्यस्तसव्यपादसरोरुहाय नमः ।
ॐ घोरापस्मारनिक्षिप्तधीरदक्षपदाम्बुजाय नमः ।
ॐ सनकादिमुनिध्येयाय नमः ।
ॐ सर्वाभरणभूषिताय नमः ।
ॐ दिव्यचन्दनलिप्ताङ्गाय नमः ।
ॐ चारुहासपरिष्कृताय नमः ।
ॐ कर्पूरधवलाकाराय नमः ।
ॐ कन्दर्पशतसुन्दराय नमः ।
ॐ कात्यायनीप्रेमनिधये नमः ।
ॐ करुणारसवारिधये नमः ।
ॐ कामितार्थप्रदाय नमः ।
ॐ श्रीमत्कमलावल्लभप्रियाय नमः
ॐ कटाक्षितात्मविज्ञानाय नमः ।
ॐ कैवल्यानन्दकन्दलाय नमः ।
ॐ मन्दहाससमानेन्दवे नमः ।
ॐ छिन्नाज्ञानतमस्ततये नमः
ॐ संसारानलसंतप्तजनतामृतसागराय नमः ।
ॐ गंभीरहृदयाम्भोजनभोमणिनिभाकृतये नमः
ॐ निशाकरकराकारवशीकृतजगत्त्रयाय नमः ।
ॐ तापसाराध्यपादाब्जाय नमः ।
ॐ तरुणानन्दविग्रहाय नमः
ॐ भूतिभूषितसर्वाङ्गाय नमः ॥ 50 ॥

ॐ भूताधिपतये नमः ।
ॐ ईश्वराय नमः ।
ॐ वदनेन्दुस्मितज्योत्स्नानिलीनत्रिपुराकृतये नमः
ॐ तापत्रयतमोभानवे नमः ।
ॐ पापारण्यदवानलाय नमः ।
ॐ संसारसागरोद्धर्त्रे नमः ।
ॐ हंसाग्र्योपास्यविग्रहाय नमः
ॐ ललाटहुतभुग्दग्धमनोभवशुभाकृतये नमः ।
ॐ तुच्छीकृतजगज्जालाय नमः ।
ॐ तुषारकरशीतलाय नमः
ॐ अस्तंगतसमस्तेछाय नमः ।
ॐ निस्तुलानन्दमन्थराय नमः ।
ॐ धीरोदात्तगुणाधाराय नमः ।
ॐ उदारवरवैभवाय नमः ।
ॐ अपारकरुणामूर्तये नमः ।
ॐ अज्ञानध्वान्तभास्कराय नमः ।
ॐ भक्तमानसहंसाग्र्याय नमः ।
ॐ भवामयभिषक्तमाय नमः ।
ॐ योगीन्द्रपूज्यपादाब्जाय नमः ।
ॐ योगपट्टोल्लसत्कटये नमः ।
ॐ शुद्धस्फटिकसङ्काशाय नमः ।
ॐ बद्धपन्नगभूषणाय नमः ।
ॐ नानामुनिसमाकीर्णाय नमः ।
ॐ नासाग्रन्यस्तलोचनाय नमः ।
ॐ वेदमूर्धैकसंवेद्याय नमः ॥ 75 ॥

ॐ नादध्यानपरायणाय नमः
ॐ धराधरेन्दवे नमः ।
ॐ आनन्दसंदोहरससागराय नमः ।
ॐ द्वैतबृन्दविमोहान्ध्यपराकृतदृगद्भुताय नमः
ॐ प्रत्यगात्मने नमः ।
ॐ परस्मै ज्योतिषे नमः ।
ॐ पुराणाय नमः ।
ॐ परमेश्वराय नमः ।
ॐ प्रपञ्चोपशमाय नमः ।
ॐ प्राज्ञाय नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ पुरातनाय नमः
ॐ सर्वाधिष्ठानसन्मात्राय नमः ।
ॐ स्वात्मबन्धहराय नमः ।
ॐ हराय नमः ।
ॐ सर्वप्रेमनिजाहासाय नमः ।
ॐ सर्वानुग्रहकृते नमः ।
ॐ शिवाय नमः
ॐ सर्वेन्द्रियगुणाभासाय नमः ।
ॐ सर्वभूतगुणाश्रयाय नमः ।
ॐ सच्चिदानन्दपूर्णात्मने नमः ।
ॐ स्वे महिम्नि प्रतिष्ठिताय नमः
ॐ सर्वभूतान्तराय नमः ।
ॐ साक्षिणे नमः ।
ॐ सर्वज्ञाय नमः ॥ 100 ॥

ॐ सर्वकामदाय नमः ।
ॐ सनकादिमहायोगिसमाराधितपादुकाय नमः
ॐ आदिदेवाय नमः ।
ॐ दयासिन्धवे नमः ।
ॐ शिक्षितासुरविग्रहाय नमः ।
ॐ यक्षकिन्नरगन्धर्वस्तूयमानात्मवैभवाय नमः
ॐ ब्रह्मादिदेवविनुताय नमः ।
ॐ योगमायानियोजकाय नमः ।
ॐ शिवयोगिने नमः ।
ॐ शिवानन्दाय नमः ।
ॐ शिवभक्तसमुद्धराय नमः ।
ॐ वेदान्तसारसन्दोहाय नमः ।
ॐ सर्वसत्त्वावलंबनाय नमः ।
ॐ वटमूलाश्रयाय नमः ।
ॐ वाग्मिने नमः ।
ॐ मान्याय नमः ।
ॐ मलयजप्रियाय नमः ।
ॐ सुशीलाय नमः ।
ॐ वाञ्छितार्थज्ञाय नमः ।
ॐ प्रसन्नवदनेक्षणाय नमः ।
ॐ नृत्तगीतकलाभिज्ञाय नमः ।
ॐ कर्मविदे नमः ।
ॐ कर्ममोचकाय नमः ।
ॐ कर्मसाक्षिणे नमः ।
ॐ कर्ममयाय नमः ॥ 125 ॥

ॐ कर्मणां फलप्रदाय नमः ।
ॐ ज्ञानदात्रे नमः ।
ॐ सदाचाराय नमः ।
ॐ सर्वोपद्रवमोचकाय नमः
ॐ अनाथनाथाय नमः ।
ॐ भगवते नमः ।
ॐ आश्रितामरपादपाय नमः ।
ॐ वरप्रदाय नमः ।
ॐ प्रकाशात्मने नमः ।
ॐ सर्वभूतहिते रताय नमः
ॐ व्याघ्रचर्मासनासीनाय नमः ।
ॐ आदिकर्त्रे नमः ।
ॐ महेश्वराय नमः ।
ॐ सुविक्रमाय नमः ।
ॐ सर्वगताय नमः ।
ॐ विशिष्टजनवत्सलाय नमः
ॐ चिन्ताशोकप्रशमनाय नमः ।
ॐ जगदानन्दकारकाय नमः ।
ॐ रश्मिमते नमः ।
ॐ भुवनेशाय नमः ।
ॐ देवासुरपूजिताय नमः
ॐ मृत्युञ्जयाय नमः ।
ॐ व्योमकेशाय नमः ।
ॐ षट्त्रिंशत्तत्त्वसङ्ग्रहाय नमः ।
ॐ अज्ञातसंभवाय नमः ॥ 150 ॥

ॐ भिक्षवे नमः ।
ॐ अद्वितीयाय नमः ।
ॐ दिगंबराय नमः
ॐ समस्तदेवतामूर्तये नमः ।
ॐ सोमसूर्याग्निलोचनाय नमः ।
ॐ सर्वसाम्राज्यनिपुणाय नमः ।
ॐ धर्ममार्गप्रवर्तकाय नमः
ॐ विश्वाधिकाय नमः ।
ॐ पशुपतये नमः ।
ॐ पशुपाशविमोचकाय नमः ।
ॐ अष्टमूर्तये नमः ।
ॐ दीप्तमूर्तये नमः ।
ॐ नामोच्चारणमुक्तिदाय नमः ।
ॐ सहस्रादित्यसंकाशाय नमः ।
ॐ सदाषोडशवार्षिकाय नमः ।
ॐ दिव्यकेलीसमायुक्ताय नमः ।
ॐ दिव्यमाल्याम्बरावृताय नमः ।
ॐ अनर्घरत्नसम्पूर्णाय नमः ।
ॐ मल्लिकाकुसुमप्रियाय नमः ।
ॐ तप्तचामीकराकाराय नमः ।
ॐ जितदावानलाकृतये नमः ।
ॐ निरञ्जनाय नमः ।
ॐ निर्विकाराय नमः ।
ॐ निजावासाय नमः ।
ॐ निराकृतये नमः ॥ 175 ॥

ॐ जगद्गुरवे नमः ।
ॐ जगत्कर्त्रे नमः ।
ॐ जगदीशाय नमः ।
ॐ जगत्पतये नमः ।
ॐ कामहन्त्रे नमः ।
ॐ काममूर्तये नमः ।
ॐ कल्याणवृषवाहनाय नमः ।
ॐ गङ्गाधराय नमः ।
ॐ महादेवाय नमः ।
ॐ दीनबन्धविमोचकाय नमः ।
ॐ धूर्जतये नमः ।
ॐ खण्डपरशवे नमः ।
ॐ सद्गुणाय नमः ।
ॐ गिरिजासखाय नमः ।
ॐ अव्ययाय नमः ।
ॐ भूतसेनेशाय नमः ।
ॐ पापघ्नाय नमः ।
ॐ पुण्यदायकाय नमः ।
ॐ उपदेष्ट्रे नमः ।
ॐ दृढप्र्ज्ञाय नमः ।
ॐ रुद्राय नमः ।
ॐ रोगविनाशनाय नमः ।
ॐ नित्यानन्दाय नमः ।
ॐ निराधाराय नमः ।
ॐ हराय नमः ॥ 200 ॥

ॐ देवशिखामणये नमः ।
ॐ प्रणतार्तिहराय नमः ।
ॐ सोमाय नमः ।
ॐ सान्द्रानन्दाय नमः ।
ॐ महामतये नमः ।
ॐ आश्चर्यवैभवाय नमः ।
ॐ देवाय नमः ।
ॐ संसारार्णवतारकाय नमः ।
ॐ यज्ञेशाय नमः ।
ॐ राजराजेशाय नमः ।
ॐ भस्मरुद्राक्षलाञ्छनाय नमः ।
ॐ अनन्ताय नमः ।
ॐ तारकाय नमः ।
ॐ स्थाणवे नमः ।
ॐ सर्वविद्येश्वराय नमः ।
ॐ हरये नमः ।
ॐ विश्वरूपाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ प्रभवे नमः ।
ॐ परिबृडाय नमः ।
ॐ दृढाय नमः ।
ॐ भव्याय नमः ।
ॐ जितारिषड्वर्गाय नमः ।
ॐ महोदाराय नमः ।
ॐ विषाशनाय नमः ॥ 225 ॥

See Also  Sanskrit Shlokas Gujarati – Text List – Gujarati Devotional Hymns

ॐ सुकीर्तये नमः ।
ॐ आदिपुरुषाय नमः ।
ॐ जरामरणवर्जिताय नमः ।
ॐ प्रमाणभूताय नमः ।
ॐ दुर्ज्ञेयाय नमः ।
ॐ पुण्याय नमः ।
ॐ परपुरञ्जयाय नमः
ॐ गुणाकराय नमः ।
ॐ गुणश्रेष्ठाय नमः ।
ॐ सच्चिदानन्दविग्रहाय नमः ।
ॐ सुखदाय नमः ।
ॐ कारणाय नमः ।
ॐ कर्त्रे नमः ।
ॐ भवबन्धविमोचकाय नमः ।
ॐ अनिर्विण्णाय नमः ।
ॐ गुणग्राहिणे नमः ।
ॐ निष्कलङ्काय नमः ।
ॐ कलङ्कघ्ने नमः ।
ॐ पुरुषाय नमः ।
ॐ शाश्वताय नमः ।
ॐ योगिने नमः ।
ॐ व्यक्ताव्यक्ताय नमः ।
ॐ सनातनाय नमः ।
ॐ चराचरात्मने नमः ।
ॐ सूक्ष्मात्मने नमः ॥ 250 ॥

ॐ विश्वकर्मणे नमः ।
ॐ तमोऽपहृते नमः ।
ॐ भुजङ्गभूषणाय नमः ।
ॐ भर्गाय नमः ।
ॐ तरुणाय नमः ।
ॐ करुणालयाय नमः ।
ॐ अणिमादिगुणोपेताय नमः ।
ॐ लोकवश्यविधायकाय नमः ।
ॐ योगपट्टधराय नमः ।
ॐ मुक्ताय नमः ।
ॐ मुक्तानं परमायै गतये नमः
ॐ गुरुरूपधराय नमः ।
ॐ श्रीमत्परमानन्दसागराय नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ सर्वेशाय नमः ।
ॐ सहस्रावयवान्विताय नमः
ॐ सहस्रमूर्ध्ने नमः ।
ॐ सर्वात्मने नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपदे नमः ।
ॐ निराभासाय नमः ।
ॐ सुक्ष्मतनवे नमः ।
ॐ हृदि ज्ञाताय नमः ।
ॐ परात्पराय नमः
ॐ सर्वात्मगाय नमः ॥ ॥275

ॐ सर्वसाक्षिणे नमः ।
ॐ निःसङ्गाय नमः ।
ॐ निरुपद्रवाय नमः ।
ॐ निष्कलाय नमः ।
ॐ सकलाध्यक्षाय नमः ।
ॐ चिन्मयाय नमः ।
ॐ तमसः पराय नमः
ॐ ज्ञानवैराग्यसम्पन्नाय नमः ।
ॐ योगानन्दमयाय शिवाय नमः ।
ॐ शाश्वतैश्वर्यसम्पूर्णाय नमः ।
ॐ महायोगीश्वरेश्वराय नमः
ॐ सहस्रशक्तिसंयुक्ताय नमः ।
ॐ पुण्यकायाय नमः ।
ॐ दुरासदाय नमः ।
ॐ तारकब्रह्मसम्पूर्णाय नमः ।
ॐ तपस्विजनसंवृताय नमः
ॐ विधीन्द्रामरसम्पूज्याय नमः ।
ॐ ज्योतिषां ज्योतिषे नमः ।
ॐ उत्तमाय नमः ।
ॐ निरक्षराय नमः ।
ॐ निरालम्बाय नमः ।
ॐ स्वात्मारामाय नमः ।
ॐ विकर्तनाय नमः
ॐ निरवद्याय नमः ।
ॐ निरातङ्काय नमः ॥ 300 ॥

ॐ भीमाय नमः ।
ॐ भीमपराक्रमाय नमः ।
ॐ वीरभद्राय नमः ।
ॐ पुरारातये नमः ।
ॐ जलन्धरशिरोहराय नमः ।
ॐ अन्धकासुरसंहर्त्रे नमः ।
ॐ भगनेत्रभिदे नमः ।
ॐ अद्भुताय नमः ।
ॐ विश्वग्रासाय नमः ।
ॐ अधर्मशत्रवे नमः ।
ॐ ब्रह्मज्ञानैकमन्थराय नमः ।
ॐ अग्रेसराय नमः ।
ॐ तीर्थभूताय नमः ।
ॐ सितभस्मावकुण्ठनाय नमः ।
ॐ अकुण्ठमेधसे नमः ।
ॐ श्रीकण्ठाय नमः ।
ॐ वैकुण्ठपरमप्रियाय नमः ।
ॐ ललाटोज्ज्वलनेत्राब्जाय नमः ।
ॐ तुषारकरशेखराय नमः ।
ॐ गजासुरशिरश्छेत्रे नमः ।
ॐ गङ्गोद्भासितमूर्धजाय नमः
ॐ कल्याणाचलकोदण्डाय नमः ।
ॐ कमलापतिसायकाय नमः ।
ॐ वारांशेवधितूणीराय नमः ।
ॐ सरोजासनसारथये नमः ॥ 325 ॥

ॐ त्रयीतुरङ्गसंक्रान्ताय नमः ।
ॐ वासुकिज्याविराजिताय नमः ।
ॐ रवीन्दुचरणाचारिधरारथविराजिताय नमः
ॐ त्रय्यन्तप्रग्रहोदारचारुघण्टारवोज्ज्वलाय नमः ।
ॐ उत्तानपर्वलोमाढ्याय नमः ।
ॐ लीलाविजितमन्मथाय नमः
ॐ जातुप्रपन्नजनताजीवनोपायनोत्सुकाय नमः ।
ॐ संसारार्णवनिर्मग्नसमुद्धरणपण्डिताय नमः
ॐ मदद्विरदधिक्कारिगतिमञ्जुलवैभवाय नमः ।
ॐ मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणाय नमः
ॐ कैवल्योदधिकल्लोललीलाताण्डवपण्डिताय नमः ।
ॐ विष्णवे नमः ।
ॐ जिष्णवे नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रभविष्णवे नमः ।
ॐ पुरातनाय नमः
ॐ वर्धिष्णवे नमः ।
ॐ वरदाय नमः ।
ॐ वैद्याय नमः ।
ॐ हरये नमः ।
ॐ नारायणाय नमः ।
ॐ अच्युताय नमः ।
ॐ अज्ञानवनदावाग्नये नमः ।
ॐ प्रज्ञाप्रासादभूपतये नमः ।
ॐ सर्पभूषितसर्वाङ्गाय नमः ॥ 350 ॥\

ॐ कर्पूरोज्ज्वलिताकृतये नमः ।
ॐ अनादिमध्यनिधनाय नमः ।
ॐ गिरीशाय नमः ।
ॐ गिरिजापतये नमः ।
ॐ वीतरागाय नमः ।
ॐ विनीताय्मने नमः ।
ॐ तपस्विने नमः ।
ॐ भूतभावनाय नमः ।
ॐ देवासुरगुरुध्येयाय नमः ।
ॐ देवासुरनमस्कृताय नमः ।
ॐ देवादिदेवाय नमः ।
ॐ देवर्षये नमः ।
ॐ देवासुरवरप्रदायय नमः ।
ॐ सर्वदेवमयाय नमः ।
ॐ अचिन्त्याय नमः ।
ॐ देवात्मने नमः ।
ॐ आत्मसंभवाय नमः
ॐ निर्लेपाय नमः ।
ॐ निष्प्रपञ्चात्मने नमः ।
ॐ निविघ्नाय नमः ।
ॐ विघ्ननाशकाय नमः ।
ॐ एकज्योतिषे नमः ।
ॐ निरातङ्काय नमः ।
ॐ व्याप्तमूर्तये नमः ।
ॐ अनाकुलाय नमः ॥ 375 ॥

ॐ निरवद्यपदोपाधये नमः ।
ॐ विद्याराशये नमः ।
ॐ अनुत्तमाय नमः ।
ॐ नित्यानन्दाय नमः ।
ॐ सुराध्यक्षाय नमः ।
ॐ निःसंकल्पाय नमः ।
ॐ निरञ्जनाय नमः
ॐ निष्कलङ्काय नमः ।
ॐ निराकाराय नमः ।
ॐ निष्प्रपञ्चाय नमः ।
ॐ निरामयाय नमः ।
ॐ विद्याधराय नमः ।
ॐ वितत्केशाय नमः ।
ॐ मार्कण्डेयवरप्रदाय नमः
ॐ भैरवाय नमः ।
ॐ भैरवीनाथाय नमः ।
ॐ कामदाय नमः ।
ॐ कमलासनाय नमः ।
ॐ वेदवेद्याय नमः ।
ॐ सुरानन्दाय नमः ।
ॐ लसज्ज्योतिषे नमः ।
ॐ प्रभाकराय नमः
ॐ चूडामणये नमः ।
ॐ सुराधीशाय नमः ।
ॐ यज्ञगेयाय नमः ॥ 400 ॥

ॐ हरिप्रियाय नमः ।
ॐ निर्लेपाय नमः ।
ॐ नीतिमते नमः ।
ॐ सूत्रिणे नमः ।
ॐ श्रीहालाहलसुन्दराय नमः
ॐ धर्मदक्षाय नमः ।
ॐ महाराजाय नमः ।
ॐ किरीटिणे नमः ।
ॐ वन्दिताय नमः ।
ॐ गुहाय नमः ।
ॐ माधवाय नमः ।
ॐ यामिनीनाथाय नमः ।
ॐ शंबराय नमः ।
ॐ शबरीप्रियाय नमः
ॐ सङ्गीतवेत्रे नमः ।
ॐ लोकज्ञाय नमः ।
ॐ शान्ताय नमः ।
ॐ कलशसंभवाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ वरदाय नमः ।
ॐ नित्याय नमः ।
ॐ शूलिने नमः ।
ॐ गुरुवराय हराय नमः ।
ॐ मार्ताण्डाय नमः ।
ॐ पुण्डरीकाक्षाय नमः ॥ 425 ॥

ॐ लोकनायकविक्रमाय नमः ।
ॐ मुकुन्दार्च्याय नमः ।
ॐ वैद्यनाथाय नमः ।
ॐ पुरन्दरवरप्रदाय नमः ।
ॐ भाषाविहीनाय नमः ।
ॐ भाषाज्ञाय नमः ।
ॐ विघ्नेशाय नमः ।
ॐ विघ्ननाशनाय नमः ।
ॐ किन्नरेशाय नमः ।
ॐ बृहद्भानवे नमः ।
ॐ श्रीनिवासाय नमः ।
ॐ कपालभृते नमः ।
ॐ विजयाय नमः ।
ॐ भूतभावज्ञाय नमः ।
ॐ भीमसेनाय नमः ।
ॐ दिवाकराय नमः ।
ॐ बिल्वप्रियाय नमः ।
ॐ वसिष्ठेशाय नमः ।
ॐ सर्वमार्गप्रवर्तकाय नमः
ॐ ओषधीशाय नमः ।
ॐ वामदेवाय नमः ।
ॐ गोविन्दाय नमः ।
ॐ नीललोहिताय नमः ।
ॐ षदर्धनयनाय नमः ।
ॐ श्रीमन्महादेवाय नमः ॥ 450 ॥

ॐ वृषध्वजाय नमः
ॐ कर्पूरदीपिकालोलाय नमः ।
ॐ कर्पूररसचर्चिताय नमः ।
ॐ अव्याजकरुणामूर्तये नमः ।
ॐ त्यागराजाय नमः ।
ॐ क्षपाकराय नमः
ॐ आश्चर्यविग्रहाय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ सिद्धेशाय नमः ।
ॐ स्वर्णभैरवाय नमः ।
ॐ देवराजाय नमः ।
ॐ कृपासिन्धवे नमः ।
ॐ अद्वयाय नमः ।
ॐ अमितविक्रमाय नमः
ॐ निर्भेदाय नमः ।
ॐ नित्यसत्त्वस्थाय नमः ।
ॐ निर्योगक्षेमाय नमः ।
ॐ आत्मवते नमः ।
ॐ निरपायाय नमः ।
ॐ निरासङ्गाय नमः ।
ॐ निःशब्दाय नमः ।
ॐ निरुपाधिकाय नमः
ॐ भवाय नमः ।
ॐ सर्वेश्वराय नमः ।
ॐ स्वामिने नमः ॥ 475 ॥

ॐ भवभीतिविभञ्जनाय नमः ।
ॐ दारिद्र्यतृणकूटाग्नये नमः ।
ॐ दारितासुरसन्ततये नमः
ॐ मुक्तिदाय नमः ।
ॐ मुदिताय नमः ।
ॐ अकुब्जाय नमः ।
ॐ धार्मिकाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ अभ्यासातिशयज्ञेयाय नमः ।
ॐ चन्द्रमौलये नमः ।
ॐ कलाधराय नमः
ॐ महाबलाय नमः ।
ॐ महावीर्याय नमः ।
ॐ विभवे नमः ।
ॐ श्रीशाय नमः ।
ॐ शुभप्रदाय नमः ।
ॐ सिद्धाय नमः ।
ॐ पुराणपुरुषाय नमः ।
ॐ रणमण्डलभैरवाय नमः ।
ॐ सद्योजाताय नमः ।
ॐ वटारण्यवासिने नमः ।
ॐ पुरुषवल्लभाय नमः ।
ॐ हरिकेशाय नमः ।
ॐ महात्रात्रे नमः ।
ॐ नीलग्रीवाय नमः ॥ 500 ॥

See Also  108 Names Of Sri Guru Dattatreya In Sanskrit

ॐ सुमङ्गलाय नमः ।
ॐ हिरण्यबाहवे नमः ।
ॐ तीक्ष्णांशवे नमः ।
ॐ कामेशाय नमः ।
ॐ सोमविग्रहाय नमः ।
ॐ सर्वात्मने नमः ।
ॐ सर्वकर्त्रे नमः ।
ॐ ताण्डवाय नमः ।
ॐ मुण्डमालिकाय नमः ।
ॐ अग्रगण्याय नमः ।
ॐ सुगंभीराय नमः ।
ॐ देशिकाय नमः ।
ॐ वैदिकोत्तमाय नमः ।
ॐ प्रसन्नदेवाय नमः ।
ॐ वागीशाय नमः ।
ॐ चिन्तातिमिरभास्कराय नमः
ॐ गौरीपतये नमः ।
ॐ तुङ्गमौलये नमः ।
ॐ मखराजाय नमः ।
ॐ महाकवये नमः ।
ॐ श्रीधराय नमः ।
ॐ सर्वसिद्धेशाय नमः ।
ॐ विश्वनाथाय नमः ।
ॐ दयानिधये नमः
ॐ अन्तर्मुखाय नमः ॥ 525 ॥

ॐ बहिर्दृष्टये नमः ।
ॐ सिद्धवेषमनोहराय नमः ।
ॐ कृत्तिवाससे नमः ।
ॐ कृपासिन्धवे नमः ।
ॐ मन्त्रसिद्धाय नमः ।
ॐ मतिप्रदाय नमः
ॐ महोत्कृष्टाय नमः ।
ॐ पुण्यकराय नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ सदाशिवाय नमः ।
ॐ महाक्रतवे नमः ।
ॐ महायज्वने नमः ।
ॐ विश्वकर्मणे नमः ।
ॐ तपोनिधये नमः ॥

ॐ छन्दोमयाय नमः ।
ॐ महाज्ञानिने नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ देववन्दिताय नमः ।
ॐ सार्वभौमाय नमः ।
ॐ सदानन्दाय नमः ।
ॐ करुणामृतवारिधये नमः
ॐ कालकालाय नमः ।
ॐ कलिध्वंसिने नमः ।
ॐ जरामरणनाशकाय नमः ॥ 550 ॥
ॐ शितिकण्ठाय नमः ।
ॐ चिदानन्दाय नमः ।
ॐ योगिनीगणसेविताय नमः
ॐ चण्डीशाय नमः ।
ॐ शुकसंवेद्याय नमः ।
ॐ पुण्यश्लोकाय नमः ।
ॐ दिवस्पतये नमः ।
ॐ स्थायिने नमः ।
ॐ सकलतत्त्वात्मने नमः ।
ॐ सदासेवकवर्धनाय नमः
ॐ रोहिताश्वाय नमः ।
ॐ क्षमारूपिणे नमः ।
ॐ तप्तचामीकरप्रभाय नमः ।
ॐ त्रियम्बकाय नमः ।
ॐ वररुचये नमः ।
ॐ देवदेवाय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ विश्वम्भराय नमः ।
ॐ विचित्राङ्गाय नमः ।
ॐ विधात्रे नमः ।
ॐ पुरुशासनाय नमः ।
ॐ सुब्रह्मण्याय नमः ।
ॐ जगत्स्वामिने नमः ।
ॐ रोहिताक्षाय नमः ।
ॐ शिवोत्तमाय नमः ॥ 575 ॥

ॐ नक्षत्रमालाभरणाय नमः ।
ॐ मघवते नमः ।
ॐ अघनाशनाय नमः ।
ॐ विधिकर्त्रे नमः ।
ॐ विधानज्ञाय नमः ।
ॐ प्रधानपुरुषेश्वराय नमः ।
ॐ चिन्तामणये नमः ।
ॐ सुरगुरवे नमः ।
ॐ ध्येयाय नमः ।
ॐ नीराजनप्रियाय नमः ।
ॐ गोविन्दाय नमः ।
ॐ राजराजेशाय नमः ।
ॐ बहुपुष्पार्चनप्रियाय नमः
ॐ सर्वानन्दाय नमः ।
ॐ दयारूपिणे नमः ।
ॐ शैलजासुमनोहराय नमः ।
ॐ सुविक्रमाय नमः ।
ॐ सर्वगताय नमः ।
ॐ हेतुसाधनवर्जिताय नमः
ॐ वृषाङ्काय नमः ।
ॐ रमणीयाङ्गाय नमः ।
ॐ सदङ्घ्रये नमः ।
ॐ सामपारगाय नमः ।
ॐ मन्त्रात्मने नमः ।
ॐ कोटिकन्दर्पसौन्दर्यरसवारिधये नमः ॥ 600 ॥

ॐ यज्ञेशाय नमः ।
ॐ यज्ञपुरुषाय नमः ।
ॐ सृष्टिस्थित्यन्तकारणाय नमः ।
ॐ परहंसैकजिज्ञास्याय नमः ।
ॐ स्वप्रकाशस्वरूपवते नमः
ॐ मुनिमृग्याय नमः ।
ॐ देवमृग्याय नमः ।
ॐ मृगहस्ताय नमः ।
ॐ मृगेश्वराय नमः ।
ॐ मृगेन्द्रचर्मवसनाय नमः ।
ॐ नरसिंहनिपातनाय नमः
ॐ मुनिवन्द्याय नमः ।
ॐ मुनिश्रेष्ठाय नमः ।
ॐ मुनिबृन्दनिषेविताय नमः ।
ॐ दुष्टमृत्यवे नमः ।
ॐ अदुष्टेहाय नमः ।
ॐ मृत्युघ्ने नमः ।
ॐ मृत्युपूजिताय नमः
ॐ अव्यक्ताय नमः ।
ॐ अम्बुजजन्मादिकोटिकोटिसुपूजिताय नमः ।
ॐ लिङ्गमूर्तये नमः ।
ॐ अलिङ्गात्मने नमः ।
ॐ लिङ्गात्मने नमः ।
ॐ लिङ्गविग्रहाय नमः
ॐ यजुर्मूर्तये नमः ॥ 625 ॥

ॐ साममूर्तये नमः ।
ॐ ऋङ्मूर्तये नमः ।
ॐ मूर्तिवर्जिताय नमः ।
ॐ विश्वेशाय नमः ।
ॐ गजचर्मैकचेलाञ्चितकटीतटाय नमः ।
ॐ पावनान्तेवसद्योगिजनसार्थसुधाकराय नमः ।
ॐ अनन्तसोमसूर्याग्निमण्डलप्रतिमप्रभाय नमः ।
ॐ चिन्ताशोकप्रशमनाय नमः ।
ॐ सर्वविद्याविशारदाय नमः ।
ॐ भक्तविज्ञप्तिसंधात्रे नमः ।
ॐ कर्त्रे नमः ।
ॐ गिरिवराकृतये नमः ।
ॐ ज्ञानप्रदाय नमः ।
ॐ मनोवासाय नमः ।
ॐ क्षेम्याय नमः ।
ॐ मोहविनाशनाय नमः ।
ॐ सुरोत्तमाय नमः ।
ॐ चित्रभानवे नमः ।
ॐ सदावैभवतत्पराय नमः
ॐ सुहृदग्रेसराय नमः ।
ॐ सिद्धज्ञानमुद्राय नमः ।
ॐ गणाधिपाय नमः ।
ॐ आगमाय नमः ।
ॐ चर्मवसनाय नमः ।
ॐ वाञ्छितार्थफलप्रदाय नमः ॥ 650 ॥

ॐ अन्तर्हिताय नमः ।
ॐ असमानाय नमः ।
ॐ देवसिंहासनाधिपाय नमः ।
ॐ विवादहन्त्रे नमः ।
ॐ सर्वात्मने नमः ।
ॐ कालाय नमः ।
ॐ कालविवर्जिताय नमः
ॐ विश्वातीताय नमः ।
ॐ विश्वकर्त्रे नमः ।
ॐ विश्वेशाय नमः ।
ॐ विश्वकारणाय नमः ।
ॐ योगिध्येयाय नमः ।
ॐ योगनिष्ठाय नमः ।
ॐ योगात्मने नमः ।
ॐ योगवित्तमाय नमः
ॐ ओंकाररूपाय नमः ।
ॐ भगवते नमः ।
ॐ बिन्दुनादमयाय शिवाय नमः ।
ॐ चतुर्मुखादिसंस्तुताय नमः ।
ॐ चतुर्वर्गफलप्रदाय नमः
ॐ सह्याचलगुहावासिने नमः ।
ॐ साक्षान्मोक्षरसामृताय नमः ।
ॐ दक्षाध्वरसमुच्छेत्रे नमः ।
ॐ पक्षपातविवर्जिताय नमः ॐ ओंकारवाचकाय नमः ।
ॐ शंभवे नमः ॥ 675 ॥

ॐ शङ्कराय नमः ।
ॐ शशिशीतलाय नमः ।
ॐ पङ्कजासनसंसेव्याय नमः ।
ॐ किङ्करामरवत्सलाय नमः
ॐ नतदौर्भाग्यतूलाग्रये नमः ।
ॐ कृतकौतुकमङ्गलाय नमः ।
ॐ त्रिलोकमोहनाय नमः ।
ॐ श्रीमत्त्रिपुण्ड्राङ्कितमस्तकाय नमः ।
ॐ क्रौञ्चारिजनकाय नमः ।
ॐ श्रीमद्गणनाथसुतान्विताय नमः ।
ॐ अद्भुतानन्तवरदाय नमः ।
ॐ अपरिच्छिन्नात्मवैभवाय नमः ।
ॐ इष्टापूर्तप्रियाय नमः ।
ॐ शर्वाय नमः ।
ॐ एकवीराय नमः ।
ॐ प्रियंवदाय नमः ।
ॐ ऊहापोहविनिर्मुक्ताय नमः ।
ॐ ओंकारेश्वरपूजिताय नमः ।
ॐ रुद्राक्षवक्षसे नमः ।
ॐ रुद्राक्षरूपाय नमः ।
ॐ रुद्राक्षपक्षकाय नमः ।
ॐ भुजगेन्द्रलसत्कण्ठाय नमः ।
ॐ भुजङ्गाभरणप्रियाय नमः
ॐ कल्याणरूपाय नमः ।
ॐ कल्याणाय नमः ॥ 700 ॥

ॐ कल्याणगुणसंश्रयाय नमः ।
ॐ सुन्दरभ्रुवे नमः ।
ॐ सुनयनाय नमः ।
ॐ सुललाटाय नमः ।
ॐ सुकन्धराय नमः
ॐ विद्वज्जनाश्रयाय नमः ।
ॐ विद्वज्जनस्तव्यपराक्रमाय नमः ।
ॐ विनीतवत्सलाय नमः ।
ॐ नीतिस्वरूपाय नमः ।
ॐ नीतिसंश्रयाय नमः
ॐ अतिरागिणे नमः ।
ॐ वीतरागिणे नमः ।
ॐ रागहेतवे नमः ।
ॐ विरागविदे नमः ।
ॐ रागघ्ने नमः ।
ॐ रागशमनाय नमः ।
ॐ रागदाय नमः ।
ॐ रागिरागविदे नमः
ॐ मनोन्मनाय नमः ।
ॐ मनोरूपाय नमः ।
ॐ बलप्रमथनाय नमः ।
ॐ बलाय नमः ।
ॐ विद्याकराय नमः ।
ॐ महाविद्याय नमः ।
ॐ विद्याविद्याविशारदाय नमः ॥ 725 ॥

ॐ वसन्तकृते नमः ।
ॐ वसन्तात्मने नमः ।
ॐ वसन्तेशाय नमः ।
ॐ वसन्तदाय नमः ।
ॐ प्रावृट्कृते नमः ।
ॐ प्रावृडाकाराय नमः ।
ॐ प्रावृट्कालप्रवर्तकाय नमः
ॐ शरन्नाथाय नमः ।
ॐ शरत्कालनाशकाय नमः ।
ॐ शरदाश्रयाय नमः ।
ॐ कुन्दमन्दारपुष्पौघलसद्वायुनिषेविताय नमः
ॐ दिव्यदेहप्रभाकूटसंदीपितदिगन्तराय नमः ।
ॐ देवासुरगुरुस्तव्याय नमः ।
ॐ देवासुरनमस्कृताय नमः ।
ॐ वामाङ्गभागविलसच्छ्यामलावीक्षणप्रियाय नमः ।
ॐ कीर्त्याधाराय नमः ।
ॐ कीर्तिकराय नमः ।
ॐ कीर्तिहेतवे नमः ।
ॐ अहेतुकाय नमः ।
ॐ शरणागतदीनार्तपरित्राणपरायणाय नमः ।
ॐ महाप्रेतासनासीनाय नमः ।
ॐ जितसर्वपितामहाय नमः ।
ॐ मुक्तादामपरीताङ्गाय नमः ।
ॐ नानागानविशारदाय नमः ।
ॐ विष्णुब्रह्मादिवन्द्याङ्घ्रये नमः ॥ 750 ॥

See Also  Swami Tejomayananda Mad Bhagavad Gita Ashtottaram In Bengali

ॐ नानादेशैकनायकाय नमः
ॐ धीरोदात्ताय नमः ।
ॐ महाधीराय नमः ।
ॐ धैर्यदाय नमः ।
ॐ धैर्यवर्धकाय नमः ।
ॐ विज्ञानमयाय नमः ।
ॐ आनन्दमयाय नमः ।
ॐ प्राणमयाय नमः ।
ॐ अन्नदाय नमः
ॐ भवाब्धितरणोपायाय नमः ।
ॐ कवये नमः ।
ॐ दुःस्वप्ननाशनाय नमः ।
ॐ गौरीविलाससदनाय नमः ।
ॐ पिशाचानुसरावृताय नमः
ॐ दक्षिणाप्रेमसंतुष्टाय नमः ।
ॐ दारिद्र्यवडवानलाय नमः ।
ॐ अद्भुतानन्तसंग्रामाय नमः ।
ॐ ढक्कावादनतत्पराय नमः
ॐ प्राच्यात्मने नमः ।
ॐ दक्षिणाकाराय नमः ।
ॐ प्रतीच्यात्मने नमः ।
ॐ उत्तराकृतये नमः ।
ॐ ऊर्ध्वाद्यन्यदिगाकाराय नमः ।
ॐ मर्मज्ञाय नमः ।
ॐ सर्वशिक्षकाय नमः ॥ 775 ॥

ॐ युगावहाय नमः ।
ॐ युगाधीशाय नमः ।
ॐ युगात्मने नमः ।
ॐ युगनायकाय नमः ।
ॐ जङ्गमाय नमः ।
ॐ स्थावराकाराय नमः ।
ॐ कैलासशिखरप्रियाय नमः
ॐ हस्तराजत्पुण्डरीकाय नमः ।
ॐ पुण्डरीकनिभेक्षणाय नमः ।
ॐ लीलाविडंबितवपुषे नमः ।
ॐ भक्तमानसमण्डिताय नमः ।
ॐ बृन्दारकप्रियतमाय नमः ।
ॐ बृन्दारकवरार्चिताय नमः ।
ॐ नानाविधानेकरत्नलसत्कुण्डलमण्डिताय नमः ।
ॐ निःसीममहिम्ने नमः ।
ॐ नित्यलीलाविग्रहरूपधृते नमः ।
ॐ चन्दनद्रवदिग्धाङ्गाय नमः ।
ॐ चाम्पेयकुसुमार्चिताय नमः ।
ॐ समस्तभक्तसुखदाय नमः ।
ॐ परमाणवे नमः ।
ॐ महाह्रदाय नमः ।
ॐ अलौकिकाय नमः ।
ॐ दुष्प्रधर्षाय नमः ।
ॐ कपिलाय नमः ।
ॐ कालकन्धराय नमः ॥ 800 ॥

ॐ कर्पूरगौराय नमः ।
ॐ कुशलाय नमः ।
ॐ सत्यसन्धाय नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ शाश्वतैश्वर्यविभवाय नमः ।
ॐ पोषकाय नमः ।
ॐ सुसमाहिताय नमः ।
ॐ महर्षिनाथिताय नमः ।
ॐ ब्रह्मयोनये नमः ।
ॐ सर्वोत्तमोत्तमाय नमः ।
ॐ भूमिभारार्तिसंहर्त्रे नमः ।
ॐ षडूर्मिरहिताय नमः ।
ॐ मृडाय नमः ।
ॐ त्रिविष्टपेश्वराय नमः ।
ॐ सर्वहृदयाम्बुजमध्यगाय नमः ।
ॐ सहस्रदलपद्मस्थाय नमः ।
ॐ सर्ववर्णोपशोभिताय नमः ।
ॐ पुण्यमूर्तये नमः ।
ॐ पुण्यलभ्याय नमः ।
ॐ पुण्यश्रवणकीर्तनाय नमः ।
ॐ सूर्यमण्डलमध्यस्थाय नमः ।
ॐ चन्द्रमण्डलमध्यगाय नमः ।
ॐ सद्भक्तध्याननिगलाय नमः ।
ॐ शरणागतपालकाय नमः ।
ॐ श्वेतातपत्ररुचिराय नमः ॥ 825 ॥

ॐ श्वेतचामरवीजिताय नमः ।
ॐ सर्वावयवसम्पूर्णाय नमः ।
ॐ सर्वलक्षणलक्षिताय नमः ।
ॐ सर्वमङ्गलमाङ्गल्याय नमः ।
ॐ सर्वकारणकारणाय नमः ।
ॐ आमोदाय नमः ।
ॐ मोदजनकाय नमः ।
ॐ सर्पराजोत्तरीयकाय नमः ।
ॐ कपालिने नमः ।
ॐ कोविदाय नमः ।
ॐ सिद्धकान्तिसंवलिताननाय नमः
ॐ सर्वसद्गुरुसंसेव्याय नमः ।
ॐ दिव्यचन्दनचर्चिताय नमः ।
ॐ विलासिनीकृतोल्लासाय नमः ।
ॐ इच्छाशक्तिनिषेविताय नमः ।
ॐ अनन्तानन्दसुखदाय नमः ।
ॐ नन्दनाय नमः ।
ॐ श्रीनिकेतनाय नमः ।
ॐ अमृताब्धिकृतावासाय नमः ।
ॐ नित्यक्लीबाय नमः ।
ॐ निरामयाय नमः ।
ॐ अनपायाय नमः ।
ॐ अनन्तदृष्टये नमः ।
ॐ अप्रमेयाय नमः ।
ॐ अजराय नमः ॥ 850 ॥

ॐ अमराय नमः ।
ॐ तमोमोहप्रतिहतये नमः ।
ॐ अप्रतर्क्याय नमः ।
ॐ अमृताय नमः ।
ॐ अक्षराय नमः ।
ॐ अमोघबुद्धये नमः ।
ॐ आधाराय नमः ।
ॐ आधाराधेयवर्जिताय नमः ।
ॐ ईषणात्रयनिर्मुक्ताय नमः ।
ॐ इहामुत्रविवर्जिताय नमः
ॐ ऋग्यजुःसामनयनाय नमः ।
ॐ बुद्धिसिद्धिसमृद्धिदाय नमः ।
ॐ औदार्यनिधये नमः ।
ॐ आपूर्णाय नमः ।
ॐ ऐहिकामुष्मिकप्रदाय नमः
ॐ शुद्धसन्मात्रसंविद्धी-स्वरूपसुखविग्रहाय नमः ।
ॐ दर्शनप्रथमाभासाय नमः ।
ॐ दृष्टिदृश्यविवर्जिताय नमः
ॐ अग्रगण्याय नमः ।
ॐ अचिन्त्यरूपाय नमः ।
ॐ कलिकल्मषनाशनाय नमः ।
ॐ विमर्शरूपाय नमः ।
ॐ विमलाय नमः ।
ॐ नित्यरूपाय नमः ।
ॐ निराश्रयाय नमः ॥ 875 ॥

ॐ नित्यशुद्धाय नमः ।
ॐ नित्यबुद्धाय नमः ।
ॐ नित्यमुक्ताय नमः ।
ॐ अपराकृताय नमः ।
ॐ मैत्र्यादिवासनालभ्याय नमः ।
ॐ महाप्रलयसंस्थिताय नमः
ॐ महाकैलासनिलयाय नमः ।
ॐ प्रज्ञानघनविग्रहाय नमः ।
ॐ श्रीमते नमः ।
ॐ व्याघ्रपुरावासाय नमः ।
ॐ भुक्तिमुक्तिप्रदायकाय नमः
ॐ जगद्योनये नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ जगदीशाय नमः ।
ॐ जगन्मयाय नमः ।
ॐ जपाय नमः ।
ॐ जपपराय नमः ।
ॐ जप्याय नमः ।
ॐ विद्यासिंहासनप्रभवे नमः
ॐ तत्त्वानां प्रकृतये नमः ।
ॐ तत्त्वाय नमः ।
ॐ तत्त्वंपदनिरूपिताय नमः ।
ॐ दिक्कालाद्यनवच्छिन्नाय नमः ।
ॐ सहजानन्दसागराय नमः ।
ॐ प्रकृतये नमः ॥ 900 ॥

ॐ प्राकृतातीताय नमः ।
ॐ विज्ञानैकरसाकृतये नमः ।
ॐ निःशङ्कमतिदूरस्थाय नमः ।
ॐ चैत्यचेतनचिन्तनाय नमः ।
ॐ तारकाणां हृदन्तस्थाय नमः ।
ॐ तारकाय नमः ।
ॐ तारकान्तकाय नमः ।
ॐ ध्यानैकप्रकटाय नमः ।
ॐ ध्येयाय नमः ।
ॐ ध्यानिने नमः ।
ॐ ध्यानविभूषणाय नमः ।
ॐ परस्मै व्योम्ने नमः ।
ॐ परस्मै धाम्ने नमः ।
ॐ परमात्मने नमः ।
ॐ परस्मै पदाय नमः ।
ॐ पूर्णानन्दाय नमः ।
ॐ सदानन्दाय नमः ।
ॐ नादमध्यप्रतिष्ठिताय नमः
ॐ प्रभाविपर्ययातीताय नमः ।
ॐ प्रणताज्ञाननाशकाय नमः ॥ 920 ॥
ॐ बाणार्चिताङ्घ्रये नमः ।
ॐ बहुदाय नमः ।
ॐ बालकेलिकुतूहलिने नमः
ॐ ब्रह्मरूपिणे नमः ।
ॐ ब्रह्मपदाय नमः ।
ॐ ब्रह्मविदे नमः ।
ॐ ब्राह्मणप्रियाय नमः ।
ॐ भूक्षेपदत्तलक्ष्मीकाय नमः ।
ॐ भूमध्यध्यानलक्षिताय नमः
ॐ यशस्कराय नमः ।
ॐ रत्नगर्भाय नमः ।
ॐ महाराज्यसुखप्रदाय नमः ।
ॐ शब्दब्रह्मणे नमः ।
ॐ शमप्राप्याय नमः ।
ॐ लाभकृते नमः ।
ॐ लोकविश्रुताय नमः
ॐ शास्त्रे नमः ।
ॐ शिवाद्रिनिलयाय नमः ।
ॐ शरण्याय नमः ।
ॐ याजकप्रियाय नमः ॥ 940 ॥
ॐ स्ंसारवैद्याय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सभेषजविभेषजाय नमः
ॐ मनोवचोभिरग्राह्याय नमः ।
ॐ पञ्चकोशविलक्षणाय नमः ।
ॐ अवस्थात्रयनिर्मुक्ताय नमः ।
ॐ अवस्थासाक्षितुर्यकाय नमः
ॐ पञ्चभूतादिदूरस्थाय नमः ।
ॐ प्रत्यगेकरसाय नमः ।
ॐ अव्ययाय नमः ।
ॐ षट्चक्रान्तर्गतोल्लासिने नमः ।
ॐ षड्विकारविवर्जिताय नमः
ॐ विज्ञानघनसम्पूर्णाय नमः ।
ॐ वीणावादनतत्पराय नमः ।
ॐ नीहाराकारगौराङ्गाय नमः ।
ॐ महालावण्यवारिधये नमः ।
ॐ पराभिचारशमनाय नमः ।
ॐ षडध्वोपरिसंस्थिताय नमः ।
ॐ सुषुम्नामार्गसंचारिणे नमः ।
ॐ बिसतन्तुनिभाकृतये नमः ॥ 960 ॥

ॐ पिनाकिने नमः ।
ॐ लिङ्गरूपश्रिये नमः ।
ॐ मङ्गलावयवोज्ज्वलाय नमः ।
ॐ क्षेत्राधिपाय नमः ।
ॐ सुसंवेद्याय नमः ।
ॐ श्रीप्रदाय नमः ।
ॐ विभवप्रदाय नमः ।
ॐ सर्ववश्यकराय नमः ।
ॐ सर्वदोषघ्ने नमः ।
ॐ पुत्रपौत्रदाय नमः ।
ॐ तैलदीपप्रियाय नमः ।
ॐ तैलपक्वान्नप्रीतमानसाय नमः
ॐ तैलाभिषेकसंतुष्टाय नमः ।
ॐ तिलभक्षणतत्पराय नमः ।
ॐ आपादकणिकामुक्ताभूषाशतमनोहराय नमः
ॐ शाणोल्लीढमणिश्रेणीरम्याङ्घ्रिनखमण्डलाय नमः ।
ॐ मणिमञ्जीरकिरणकिञ्जल्कितपदाम्बुजाय नमः
ॐ अपस्मारोपरिन्यस्तसव्यपादसरोरुहाय नमः ।
ॐ कन्दर्पतूणाभजङ्घाय नमः ।
ॐ गुल्फोदञ्चितनूपुराय नमः ॥ 980 ॥

ॐ करिहस्तोपमेयोरवे नमः ।
ॐ आदर्शोज्ज्वलजानुभृते नमः ।
ॐ विशंकटकटिन्यस्तवाचालमणिमेखलाय नमः
ॐ आवर्तनाभिरोमालिवलिमत्पल्लवोदराय नमः ।
ॐ मुक्ताहारलसत्तुङ्गविपुलोरस्करञ्जिताय नमः
ॐ वीरासनसमासीनाय नमः ।
ॐ वीणापुस्तोल्लसत्कराय नमः ।
ॐ अक्षमालालसत्पाणये नमः ।
ॐ चिन्मुद्रितकरांबुजाय नमः
ॐ माणिक्यकङ्कणोल्लासिकराम्बुजविराजिताय नमः ।
ॐ अनर्घरत्नग्रैवेयविलसत्कंबुकन्धराय नमः ।
ॐ अनाकलितसादृश्यचुबुकश्रीविराजिताय नमः ।
ॐ मुग्धस्मितपरीपाकप्रकाशितरदाङ्कुराय नमः ।
ॐ चारुचांपेयपुष्पाभनासिकापुटरञ्जिताय नमः ।
ॐ वरवज्रशिलादर्शपरिभाविकपोलभुवे नमः ।
ॐ कर्णद्वयोल्लसद्दिव्यमणिकुण्डलमण्डिताय नमः ।
ॐ करुणालहरीपूर्णकर्णान्तायतलोचनाय नमः
ॐ अर्धचन्द्राभनिटिलपाटीरतिलकोज्ज्वलाय नमः ।
ॐ चारुचामीकराकारजटाचर्चितचन्दनाय नमः ।
ॐ ओं कैलासशिखरस्फर्धिकमनीयनिजाकृतये नमः ॥ 1000 ॥

॥ इति श्री दक्षिणामूर्ति सहस्रनामावलिः समाप्ता ॥

॥ ओं तत् सत् ॥

– Chant Stotra in Other Languages –

Shiva Stotram » 1000 Names of Medha Dakshinamurti 1 » Sahasranamavali Stotram in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil