1000 Names Of Sri Ganga 2 – Sahasranama Stotram In Sanskrit

॥ Gangasahasranama Stotram 2 Sanskrit Lyrics ॥

॥ श्रीगङ्गासहस्रनामस्तोत्रम् २ ॥
श्रीबृहद्धर्मपुराणान्तर्गतम् पङ्चाशत्तमोऽध्यायः

श्रीशुक उवाच ।
जय देवी तदा गङ्गा तपस्यन्तं भगीरथम् ।
आत्मानं दर्शयामास श्वेतं चारुचतुर्भुजम् ॥ १ ॥ श्वेतरूपां चतुर्भुजां
तां दृष्ट्वा ध्यानमात्रैकलब्धां दृग्भ्याञ्च भूपतिः ।
अलभ्यलाभबोधेन बहुमेने नृपोत्तमः ॥ २ ॥

हर्षाकुलितसर्वाङ्गो रोमाञ्चितसुविग्रहः । हर्षाद्गलित
गङ्गदाक्षरया वाचा गङ्गां तुष्टाव भूपतिः ॥ ३ ॥

सहस्रनामभिर्दिव्यैः शक्तिं परमदेवताम् ।
भगीरथ उवाच ।
अहं भगीरथो राजा दिलीपतनयः शिवे ॥ ४ ॥

प्रणमामि पदद्वन्द्वं भवत्या अतिदुर्लभम् ।
पूर्वजानां हि पुण्येन तपसा परमेण च ॥ ५ ॥

मच्चक्षुर्गोचरीभूता त्वं गङ्गा करुणामयी ।
सार्थकं सूर्यवंशे मे जन्म प्राप्तं महेश्वरी ॥ ६ ॥ वंशो
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।
नमो नमो नमस्तेऽस्तु गङ्गे राजीवलोचने ॥ ७ ॥

देहोऽयं सार्थको मेऽस्तु सर्वाङ्गैः प्रणमाम्यहम् ।
सहस्रनामभिः स्तुत्वा वाचं सार्थकयाम्यहम् ॥ ८ ॥ सहस्रनामभिरित्यादि
शुक उवाच ।
गङ्गा सहस्रनाम्नोऽस्य स्तवस्य पुण्यतेजसः ।
ऋषिर्व्यासस्तथाऽनुष्टुप्छन्दो विप्र प्रकीर्तितम् ॥ ९ ॥

सामूलप्रकृतिर्देवी गङ्गा मे देवतेरिता ।
अश्वमेधसहस्रस्य राजसूयशतस्य च ॥ १० ॥

वाजपेयशतस्याऽपि गयाश्राद्धशतस्य च ।
ब्रह्महत्यादिपापानां क्षये च परदुष्करे ।
निर्वाणमोक्षलाभे च विनियोगः प्रकीर्तितः ॥ ११ ॥

अथ सहस्रनामस्तोत्रम् ।
ॐकाररूपिणी देवी श्वेता सत्यस्वरूपिणी ।
शान्तिः शान्ता क्षमा शक्तिः परा परमदेवता ॥ १२ ॥

विष्णुर्नारायणी काम्या कमनीया महाकला ।
दुर्गा दुर्गतिसंहन्त्री गङ्गा गगणवासिनी ॥ १३ ॥

शैलेन्द्रवासिनी दुर्गवासिनी दुर्गमप्रिया ।
निरञ्जना च निर्लेशा निष्कला निरहङ्क्रिया ॥ १४ ॥ निर्लेपा
प्रसन्ना शुक्लदशना परमार्था पुरातनी ।
निराकारा च शुद्धा च ब्राह्मणी ब्रह्मरूपिणी ॥ १५ ॥ ब्रह्माणी
दया दयावती दीर्घा दीर्घवक्त्रा दुरोदरा ।
शैलकन्या शैलराजवासिनी शैलनन्दिनी ॥ १६ ॥

शिवा शैवी शाम्भवी च शङ्करी शङ्करप्रिया ।
मन्दाकिनी महानन्दा स्वर्धुनी स्वर्गवासिनी ॥ १७ ॥

मोक्षाख्या मोक्षसरणिर्मुक्तिर्मुक्तिप्रदायिनी ।
जलरूपा जलमयी जलेशी जलवासिनी ॥ १८ ॥ जलवाहिनी
दीर्घजिह्वा करालाक्षी विश्वाख्या विश्वतोमुखी ।
विश्वकर्णा विश्वदृष्टिर्विश्वेशी विश्ववन्दिता ॥ १९ ॥

वैष्णवी विष्णुपादाब्जसम्भवा विष्णुवासिनी ।
विष्णुस्वरूपिणी वन्द्या बाला वाणी बृहत्तरा ॥ २० ॥

पीयूषपूर्णा पीयूषवासिनी मधुरद्रवा ।
सरस्वती च यमुना च गोदा गोदावरी वरी ॥ २१ ॥ तथा
वरेण्या वरदा वीरा वरकन्या वरेश्वरी ।
बल्लवी बल्लवप्रेष्ठा वागीश्वरा वारिरूपिणी ॥ २२ ॥

वाराही वनसंस्था च वृक्षस्था वृक्षसुन्दरी ॥ २३ ॥

वारुणी वरुणज्येष्ठा वरा वरुणवल्लभा । वरुणश्रेष्ठा
वरुणप्रणता दिव्या वरुणानन्दकारिणी ॥ २४ ॥

वन्द्या वृन्दावनी वृन्दारकेड्या वृषवाहिनी । वृन्दा वृषवाहिना
दाक्षायणी दक्षकन्या श्यामा परमसुन्दरी ॥ २५ ॥

शिवप्रिया शिवाराध्या शिवमस्तकवासिनी ।
शिवमस्तकमस्ता च विष्णुपादपदा तथा ॥ २६ ॥

विपत्तिकासिनी दुर्गतारिणी तारिणीश्वरी । विपत्तिनाशिनी
गीता पुण्यचरित्रा च पुण्यनाम्नी शुचिश्रवा ॥ २७ ॥

श्रीरामा रामरूपा च रामचन्द्रैकचन्द्रिका ।
राघवी रघुवंशेशी सूर्यवंशप्रतिष्ठिता ॥ २८ ॥

सूर्या सूर्यप्रिया सौरी सूर्यमण्डलभेदिनी ॥ २९ ॥ शौरी
भगिनी भाग्यदा भव्या भाग्यप्राप्या भगेश्वरी ।
भव्योच्चयोपलब्धा च कोटिजन्मतपःफला ॥ ३० ॥

तपस्विनी तापसी च तपन्ती तापनाशिनी ।
तन्त्ररूपा तन्त्रमयी तन्त्रगोप्या महेश्वरी ॥ ३१ ॥

variations मन्दरूपा मन्दमयी मन्दगोप्या मखेश्वरी
मन्त्ररूपा मन्त्रमयी मन्त्रगोप्या मखेश्वरी
विष्णुदेहद्रवाकारा शिवगानामृतोद्भवा ।
आनन्दद्रवरूपा च पूर्णानन्दमयी शिवा ॥ ३२ ॥

कोटिसूर्यप्रभा पापध्वान्तसंहारकारिणी ।
पवित्रा परमा पुण्या तेजोधारा शशिप्रभा ।
शशिकोटिप्रकाशा च त्रिजगदीप्तिकारिणी ॥ ३३ ॥

सत्या सत्यस्वरूपा च सत्यज्ञा सत्यसम्भवा ।
सत्याश्रया सती श्यामा नवीना नरकान्तका ॥ ३४ ॥

सहस्रशीर्षा देवेशी सहस्राक्षी सहस्रपात् ।
लक्षवक्त्रा लक्षपादा लक्षहस्ता विलक्षणा ॥ ३५ ॥

सदा नूतनरूपा च दुर्लभा सुलभा शुभा ।
रक्तवर्णा च रक्ताक्षी त्रिनेत्रा शिवसुन्दरी ॥ ३६ ॥

भद्रकाली महाकाली लक्ष्मीर्गगणवासिनी ।
महाविद्या शुद्धविद्या मन्त्ररूपा सुमन्त्रिता ॥ ३७ ॥

राजसिंहासनतटा राजराजेश्वरी रमा ।
राजकन्या राजपूज्या मन्दमारुतचामरा ॥ ३८ ॥

वेदवन्दिप्रगीता च वेदवन्दिप्रवन्दिता ।
वेदवन्दिस्तुता दिव्या वेदवन्दिसुवर्णिता ॥ ३९ ॥

सुवर्णा वर्णनीया च सुवर्णगाननन्दिता ।
सुवर्णदानलभ्या च गानानन्दप्रियाऽमला ॥ ४० ॥

माला मालावती माल्या मालती कुसुमप्रिया । मान्या
दिगम्बरी दुष्टहन्त्री सदा दुर्गमवासिनी ॥ ४१ ॥

अभया पद्महस्ता च पीयूषकरशोभिता ।
खड्गहस्ता भीमरूपा श्येनी मकरवाहिनी ॥ ४२ ॥

शुद्धस्रोता वेगवती महापाषाणभेदिनी ।
पापाली रोदनकरी पापसंहारकारिणी ॥ ४३ ॥

यातनाय च वैधव्यदायिनी पुण्यवर्धिनी ।
गभीराऽलकनन्दा च मेरुश‍ृङ्गविभेदिनी ॥ ४४ ॥

स्वर्गलोककृतावासा स्वर्गसोपानरूपिणी ।
स्वर्गङ्गा पृथिवीगङ्गा नरसेव्या नरेश्वरी ॥ ४५ ॥

सुबुद्धिश्च कुबुद्धिश्च श्रीर्लक्ष्मीः कमलालया ॥ ४६ ॥

पार्वती मेरुदौहित्री मेनकागर्भसम्भवा ।
अयोनिसम्भवा सूक्ष्मा परमात्मा परत्त्वदा ॥ ४७ ॥

विष्णुजा विष्णुजनिका विष्णुपादनिवासिनी । शिवमस्तकवासिनी
देवी विष्णुपदी पद्या जाह्नवी पद्मवासिनी ॥ ४८ ॥

See Also  1000 Names Of Guruvayurappa Or Narayaniya Or Rogahara – Sahasranama Stotram In Malayalam

पद्मा पद्मावती पद्मधारिणी पद्मलोचना ।
पद्मपादा पद्ममुखी पद्मनाभा च पद्मिनी ॥ ४९ ॥

पद्मगर्भा पद्मशया महापद्मगुणाधिका ।
पद्माक्षी पद्मललिता पद्मवर्णा सुपद्मिनी ॥ ५० ॥

सहस्रदलपद्मस्था पद्माकरनिवासिनी ।
महापद्मपुरस्था च पुरेशी परमेश्वरी ॥ ५१ ॥

हंसी हंसविभूषा च हंसराजविभूषणा ।
हंसराजसुवर्णा च हंसारूढा च हंसिनी ॥ ५२ ॥

हंसाक्षरस्वरूपा च द्व्यक्षरा मन्त्ररूपिणी ।
आनन्दजलसम्पूर्णा श्वेतवारिप्रपूरिका ॥ ५३ ॥

अनयाससदामुक्यिर्योग्याऽयोग्यविचारिणी ॥ ५४ ॥

तेजोरूपजलापूर्णा तैजसी दीप्तिरूपिणी ।
प्रदीपकलिकाकारा प्राणायामस्वरूपिणी ॥ ५५ ॥

प्राणदा प्राणनीया च महौषधस्वरूपिणी । महौषधिस्वरूपिणी
महौषधजला चैव पापरोगचिकित्सका ॥ ५६ ॥ पापरोगचिकित्सिका
कोटिजन्मतपोलक्ष्या प्राणत्यागोत्तराऽमृता ।
निःसन्देहा निर्महिमा निर्मला मलनाशिनी ॥ ५७ ॥

शवारूढा शवस्थानवासिनी शववत्तटी ।
श्मशानवासिनी केशकीकसाचिततीरिणी ॥ ५८ ॥

भैरवी भैरवश्रेष्ठसेविता भैरवप्रिया ।
भैरवप्राणरूपा च वीरसाधनवासिनी ॥ ५९ ॥

वीरप्रिया वीरपत्नी कुलीना कुलपण्डिता ।
कुलवृक्षस्थिता कौली कुलकोमलवासिनी ॥ ६० ॥

कुलद्रवप्रिया कुल्या कुल्यमालाजपप्रिया ।
कौलदा कुलरक्षित्री कुलवारिस्वरूपिणी ॥ ६१ ॥

रणश्रीः रणभूः रम्या रणोत्साहप्रिया रणे । बलिः
नृमुण्डमालाभरणा नृमुण्डकरधारिणी ॥ ६२ ॥

विवस्त्रा च सवस्त्रा च सूक्ष्मवस्त्रा च योगिनी ।
रसिका रसरूपा च जिताहारा जितेन्द्रिया ॥ ६३ ॥

यामिनी चार्धरात्रस्था कूर्च्चवीजस्वरूपिणी ।
लज्जाशक्तिश्च वाग्रूपा नारी नरकहारिणी ॥ ६४ ॥ लज्जाशान्ति, नरकवाहिनी
तारा तारस्वराढ्या च तारिणी ताररूपिणी ।
अनन्ता चादिरहिता मध्यशून्यास्वरूपिणी ॥ ६५ ॥

नक्षत्रमालिनी क्षीणा नक्षत्रस्थलवासिनी ।
तरुणादित्यसङ्काशा मातङ्गी मृत्युवर्जिता ॥ ६६ ॥

अमरामरसंसेव्या उपास्या शक्तिरूपिणी ।
धूमाकाराग्निसम्भूता धूमा धूमावती रतिः ॥ ६७ ॥

कामाख्या कामरूपा च काशी काशीपुरस्थिता ।
वाराणसी वारयोषित् काशीनाथशिरःस्थिता ॥ ६८ ॥

अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका ।
द्वारका ज्वलदग्निश्च केवला केवलत्वदा ॥ ६९ ॥

करवीरपुरस्था च कावेरी कवरी शिवा ।
रक्षिणी च करालाक्षी कङ्काला शङ्करप्रिया ॥ ७० ॥

ज्वालामुखी क्षीरिणी च क्षीरग्रामनिवासिनी ।
रक्षाकरी दीर्घकर्णा सुदन्तादन्तवर्जिता ॥ ७१ ॥

दैत्यदानवसंहन्त्री दुष्टहन्त्री बलिप्रिया ।
बलिमांसप्रिया श्यामा व्याघ्रचर्मापिधायिनी ॥ ७२ ॥

जवाकुसुमसङ्काशा सात्त्विकी राजसी तथा ।
तामसी तरुणी वृद्धा युवती बालिका तथा ॥ ७३ ॥

यक्षराजसुता जाम्बुमालिनी जम्बुवासिनी ।
जाम्बूनदविभूषा च ज्वलजाम्बूनदप्रभा ॥ ७४ ॥

रुद्राणी रुद्रदेहस्था रुद्रा रुद्राक्षधारिणी ।
अणुश्च परमाणुश्च ह्रस्वा दीर्घा चकोरिणी ॥ ७५ ॥

रुद्रगीता विष्णुगीता महाकाव्यस्वरूपिणी ।
आदिकाव्यस्वरूपा च महाभारतरूपिणी ॥ ७६ ॥

अष्टादशपुराणस्था धर्ममाता च धर्मिणी ।
माता मान्या स्वसा चैव श्वश्रूश्चैव पितामही ॥ ७७ ॥

गुरुश्च गुरुपत्नी च कालसर्पभयप्रदा ।
पितामहसुता सीता शिवसीमन्तिनी शिवा ॥ ७८ ॥

रुक्मिणी रुक्मवर्णा च भैष्मी भैमी सुर्रूपिणी । स्वरूपिणी
सत्यभामा महालक्ष्मी भद्रा जाम्बवती मही ॥ ७९ ॥

नन्दा भद्रमुखी रिक्ता जया विजयदा जया ।
जयित्री पूर्णिमा पूर्णा पूर्णचन्द्रनिभानना ॥ ८० ॥

गुरुपूर्णा सौम्यभद्रा विष्टिः संवेशकारिणी ।
शनिरिक्ता कुजजया सिद्धिदा सिद्धिरूपिणी ॥ ८१ ॥

अमृताऽमृतरूपा च श्रीमती च जलामृता ॥ ८२ ॥

निरातङ्का निरालम्बा निष्प्रपञ्चा विशेषिणी ।
निषेधशेषरूपा च वरिष्ठा योषितांवरा ॥ ८३ ॥

यशस्विनी कीर्तिमती महाशैलाग्रवासिनी ।
धरा धरित्री धरणी सिन्धुर्बन्धुः सबान्धवा ॥ ८४ ॥

सम्पत्तिः सम्पदीशा च विपत्तिपरिमोचिनी ।
जन्मप्रवाहहरणी जन्मशून्या निरञ्जनी ॥ ८५ ॥

नागालयालया नीला जटामण्डलधारिणी ।
सुतरङ्गजटाजूटा जटाधरशिरःस्थिता ॥ ८६ ॥

पट्टाम्बरधरा धीरा कविः काव्यरसप्रिया ।
पुण्यक्षेत्रा पापहरा हरिणी हारिणी हरिः ॥ ८७ ॥

हरिद्रानगरस्था च वैद्यनाथप्रिया बलिः ।
वक्रेश्वरी वक्रधारा वक्रेश्वरपुरःस्थिता ॥ ८८ ॥

श्वेतगङ्गा शीतला च उष्मोदकमयी रुचिः । उष्णोदकमयी
चोलराजप्रियकरी चन्द्रमण्डलवर्त्तिनी ॥ ८९ ॥

आदित्यमण्डलगता सदादित्या च काश्यपी ।
दहनाक्षी भयहरा विषज्वालानिवारिणी ॥ ९० ॥

हरा दशहरा स्नेहदायिनी कलुषाशनिः ।
कपालमालिनी काली कला कालस्वरूपिणी ॥ ९१ ॥

इन्द्राणी वारुणि वाणी बलाका बालशङ्करी ।
गोर्गीर्ह्रीर्धर्मरूपा च धीः श्रीर्धन्या धनञ्जया ॥ ९२ ॥

वित् संवित् कुः कुवेरी भूर्भूतिर्भूमिधराधरा ।
ईश्वरी ह्रीमती क्रीडा क्रीडासाया जयप्रदा ॥ ९३ ॥

जीवन्ती जीवनी जीवा जयाकारा जयेश्वरी ।
सर्वोपद्रवसंशून्या सर्वपापविवर्जिता ॥ ९४ ॥

सावित्री चैव गायत्री गणेशी गणवन्दिता ।
दुष्प्रेक्षा दुष्प्रवेशा च दुर्दर्शा च सुयोगिणी ॥ ९५ ॥

दुःखहन्त्री दुःखहरा दुर्दान्ता यमदेवता ।
गृहदेवी भूमिदेवी वनेशी वनदेवता ॥ ९६ ॥

गुहालया घोररूपा महाघोरनितम्बिनी । गृहालया
स्त्रीचञ्चला चारुमुखी चारुनेत्रा लयात्मिका ॥ ९७ ॥

कान्तिः काम्या निर्गुणा च रजःसत्त्वतमोमयी । कान्तिकाम्या
कालरात्रिर्महारात्रिर्जीवरूपा सनातनी ॥ ९८ ॥

सुखदुःखादिभोक्त्री च सुखदुःखादिवर्जिता ।
महावृजिनसंहारा वृजिनध्वान्तमोचनी ॥ ९९ ॥

हलिनी खलहन्त्री च वारुणीपानकारिणी । पापकारिणी
निद्रायोग्या महानिद्रा योगनिद्रा युगेश्वरी ॥ १०० ॥

उद्धारयित्री स्वर्गङ्गा उद्धारणपुरःस्थिता ।
उद्धृता उद्धृताहारा लोकोद्धारणकारिणी ॥ १०१ ॥

See Also  1000 Names Of Sri Bala Tripura Sundari 2 – Sahasranamavali Stotram 2 In Tamil

शङ्खिनी शङ्खधात्री च शङ्खवादनकारिणी । शङ्खधारी
शङ्खेश्वरी शङ्खहस्ता शङ्खराजविदारिणी ॥ १०२ ॥

पश्चिमास्या महास्रोता पूर्वदक्षिणवाहिनी ।
सार्धयोजनविस्तीर्णा पावन्युत्तरवाहिनी ॥ १०३ ॥

पतितोद्धारिणी दोषक्षमिणी दोषवर्जिता ।
शरण्या शरणा श्रेष्ठा श्रीयुता श्राद्धदेवता ॥ १०४ ॥

स्वाहा स्वधा स्वरूपाक्षी सुरूपाक्षी शुभानना । विरूपाक्षी
कौमुदी कुमुदाकारा कुमुदाम्बरभूषणा ॥ १०५ ॥

सौम्या भवानी भूतिस्था भीमरूपा वरानना ।
वराहकर्णा बर्हिष्ठा बृहच्छ्रोणी बलाहका ॥ १०६ ॥ वराहवर्णा
वेशिनी केशपाशाढ्या नभोमण्डलवासिनी ।
मल्लिका मल्लिकापुष्पवर्णा लाङ्गलधारिणी ॥ १०७ ॥

तुलसीदलगन्धाढ्या तुलसीदामभूषणा ।
तुलसीतरुसंस्था च तुलसीरसलेहिनी । तुलसीरसगेहिनी
तुलसीरससुस्वादुसलिला विल्ववासिनी ॥ १०८ ॥

विल्ववृक्षनिवासा च विल्वपत्ररसद्रवा ।
मालूरपत्रमालाढ्या वैल्वी शैवार्धदेहिनी ॥ १०९ ॥

अशोका शोकरहिता शोकदावाग्निहृज्जला ।
अशोकवृक्षनिलया रम्भा शिवकरस्थिता ॥ ११० ॥

दाडिमी दाडिमीवर्णा दाडिमस्तनशोभिता ।
रक्ताक्षी वीरवृक्षस्था रक्तिनी रक्तदन्तिका ॥ १११ ॥

रागिणी रागभार्या च सदारागविवर्जिता ।
विरागरागसम्मोदा सर्वरागस्वरूपिणी ॥ ११२ ॥

तानस्वरूपिणी तालरूपिणी तारकेश्वरी ॥ ११३ ॥ तालस्वरूपिणी तालकेशरी
वाल्मीकिश्लोकिताष्टेड्या ह्यनन्तमहिमादिमा । लोकिताष्टोद्या
माता उमा सपत्नी च धराहारावलिः शुचिः ॥ ११४ ॥ हारावली
स्वर्गारोहपताका च इष्टा भागीरथी इला ।
स्वर्गभीरामृतजला चारुवीचिस्तरङ्गिणी ॥ ११५ ॥

ब्रह्मतीरा ब्रह्मजला गिरिदारणकारिणी ।
ब्रह्माण्डभेदिनी घोरनादिनी घोरवेगिनी ॥ ११६ ॥

ब्रह्माण्डवासिनी चैव स्थिरवायुप्रभेदिनी ।
शुक्रधारामयी दिव्यशङ्खवाद्यानुसारिणी ॥ ११७ ॥

ऋषिस्तुता शिवस्तुत्या ग्रहवर्गप्रपूजिता । सुरस्तुत्या
सुमेरुशीर्षनिलया भद्रा सीता महेश्वरी ॥ ११८ ॥

वङ्क्षुश्चालकनन्दा च शैलसोपानचारिणी ।
लोकाशापूरणकरी सर्वमानसदोहनी ॥ ११९ ॥

त्रैलोक्यपावनी धन्या पृथ्वीरक्षणकारिणी ।
धरणी पार्थिवी पृथ्वी पृथुकीर्तिर्निरामया ॥ १२० ॥

ब्रह्मपुत्री ब्रह्मकन्या ब्रह्ममान्या वनाश्रया ।
ब्रह्मरूपा विष्णुरूपा शिवरूपा हिरण्मयी ॥ १२१ ॥

ब्रह्मविष्णुशिवत्वाढ्या ब्रह्मविष्णुशिवत्वदा ।
मज्जज्जनोद्धारिणी च स्मरणार्तिविनाशिनी ॥ १२२ ॥

स्वर्गदायिसुखस्पर्शा मोक्षदर्शनदर्पणा । स्वर्गदात्री
आरोग्यदायिनी नीरुक् नानातापविनाशिनी ॥ १२३ ॥

तापोत्सारणशीला च तपोधामा श्रमापहा । तपोधाना
सर्वदुःखप्रशमनी सर्वशोकविमोचनी ॥ १२४ ॥

सर्वश्रमहरा सर्वसुखदा सुखसेविता ।
सर्वप्रायश्चित्तमयी वासमात्रमहातपाः ॥ १२५ ॥

सतनुर्निस्तनुस्तन्वी तनुधारणवारिणी ।
महापातकदावाग्निः शीतला शशधारिणी ॥ १२६ ॥

गेया जप्या चिन्तनीया ध्येया स्मरणलक्षिता ।
चिदानन्दस्वरूपा च ज्ञानरूपागमेश्वरी ॥ १२७ ॥

आगम्या आगमस्था च सर्वागमनिरूपिता ।
इष्टदेवी महादेवी देवनीया दिविस्थिता ॥ १२८ ॥

दन्तावलगृही स्थात्री शङ्कराचार्यरूपिणी । दन्तीवलगृहस्थात्री
शङ्कराचार्यप्रणता शङ्कराचार्यसंस्तुता ॥ १२९ ॥

शङ्कराभरणोपेता सदा शङ्करभूषणा ।
शङ्कराचारशीला च शङ्क्या च शङ्करेश्वरी ॥ १३० ॥

शिवस्रोताः शम्भुमुखी गौरी गगणगेहिनी । गगणदेहिनी
दुर्गमा सुगमा गोप्या गोपिनी गोपवल्लभा ॥ १३१ ॥ गोपनी
गोमती गोपकन्या च यशोदानन्दनन्दिनी ।
कृष्णानुजा कंसहन्त्री ब्रह्मराक्षसमोचनी ।
शापसम्मोचनी लङ्का लङ्केशी च विभीषणा ॥ १३२ ॥

विभीषाभरणीभूषा हारावलिरनुत्तमा । विभीषाभूषणीभूषा
तीर्थस्तुता तीर्थवन्द्या महातीर्थञ्च तीर्थसूः ॥ १३३ ॥ महातीर्था च
कन्या कल्पलता केलीः कल्याणी कल्पवासिनी
कलिकल्मषसंहन्त्री कालकाननवासिनी ।
कालसेव्या कालमयी कालिका कामुकोत्तमा
कामदा कारणाख्या च कामिनी कीर्तिधारिणी ॥ १३४ ॥

कोकामुखी कोरकाक्षी कुरङ्गनयनी करिः । कोटराक्षी
कज्जलाक्षी कान्तिरूपा कामाख्या केशरिस्थिता ॥ १३५ ॥

खगा खलप्राणहरा खलदूरकरा खला ।
खेलन्ती खरवेगा च खकारवर्णवासिनी ॥ १३६ ॥

गङ्गा गगणरूपा च गगणाध्वप्रसारिणी ।
गरिष्ठा गणनीया च गोपाली गोगणस्थिता ॥ १३७ ॥

गोपृष्ठवासिनी गम्या गभीरा गुरुपुष्करा ।
गोविन्दा गोस्वरूपा च गोनाम्नी गतिदायिनी ॥ १३८ ॥

घूर्णमाना घर्महरा घूर्णत्स्रोता घनोपमा । घूर्णहरा
घूर्णाख्यदोषहरणी घूर्णयन्ती जगत्त्रयम् ॥ १३९ ॥ घूर्णाक्षी
घोरा धृतोपमजला घर्घरारवघोषिणी । घोषणी
घोराङ्घोघातिनी घुव्या घोषा घोराघहारिणी ॥ १४० ॥ घोराघघारिणी
घोषराजी घोषकन्या घोषनीया घनालया ।
घण्टाटङ्कारघटिता घाङ्कारी घङ्घचारिणी ॥ १४१ ॥

ङान्ता ङकारिणी ङेशी ङकारवर्णसंश्रया ।
चकोरनयनी चारुमुखी चामरधारिणी ॥ १४२ ॥

चन्द्रिका शुक्लसलिला चन्द्रमण्डलवासिनी ।
चौकारवासिनी चर्च्या चमरी चर्मवासिनी ॥ १४३ ॥ चोहारवासिनी चर्या
चर्महस्ता चन्द्रमुखी चुचुकद्वयशोभिनी । चन्द्रहस्ता
छत्रिला छत्रिताघाविश्छत्रचामरशोभिता ॥ १४४ ॥ छत्रिनी छत्रिता धारि
छत्रिता छद्मसहन्त्री डुरित ब्रह्मरूपिणी । छुरितुर्ब्रह्मरूपिणी
छाया च स्थलशून्या च छलयन्ती छलान्विता ॥ १४५ ॥ छलशून्या
छिन्नमस्ता छलधरा छवर्णा छुरिता छविः । छविता
जीमूतवासिनी जिह्वा जवाकुसुमसुन्दरी ॥ १४६ ॥

जराशून्या जया ज्वाला जविनी जीवनेश्वरी ।
ज्योतीरूपा जन्महरा जनार्दनमनोहरा ॥ १४७ ॥

झङ्कारकारिणी झञ्झा झर्झरीवाद्यवादिनी ।
झणन्नूपुरसंशब्दा झरा ब्रह्मझरा झरा ॥ १४८ ॥

ङ्कारेशी ङ्कारस्था ञ्वर्णमध्यनामिका ।
टङ्कारकारिणी टङ्कधारिणी टुण्ठुकाटला ॥ १४९ ॥ टुण्टुकाटका
ठक्कुराणी टह्द्वयेशी ठङ्कारी ठक्कुरप्रिया ।
डामरी डामराधीशा डामरेशशिरःस्थिता ॥ १५० ॥

डमरुध्वनिनृत्यन्ती डाकिनीभयहारिणी ।
डीना डयित्री डिण्डी च डिण्डीध्वनिसदास्पृहा ॥ १५१ ॥

ढक्कारवा च ढक्कारी ढक्कावादनभूषणा । ढक्कावनादभूषणा
णकारवर्णधवला णकारी यानभाविनी ॥ १५२ ॥ वर्णप्रवणा याण
तृतीया तीव्रपापघ्नी तीव्रा तरणिमण्डला ।
तुषारकतुलास्या च तुषारकरवासिनी ॥ १५३ ॥ तुषारकरतुल्या स्यात्
थकाराक्षी थवर्णस्था दन्दशूकविभूषणा । मकराक्षी
दीर्घचक्षुर्दीर्घधारा धनरूपा धनेश्वरी ॥ १५४ ॥

See Also  108 Names Of Mantravarnaksharayukta Rama – Ashtottara Shatanamavali In Bengali

दूरदृष्टिर्दूरगमा दृतगन्त्री द्रवाश्रया ।
नारीरूपा नीरजाक्षी नीररूपा नरोत्तमा ॥ १५५ ॥

निरञ्जना च निर्लेपा निष्कला निरहङ्क्रिया ।
परा परायणा पक्षा पारायणपरायणा ।
पारयित्री पण्डिता च पण्डा पण्डितसेविता ॥ १५६ ॥ पारयत्री
परा पवित्रा पुण्याख्या पालिका पीतवासिनी । पाणिका
फुत्कारदूरदुरिता फालयन्ती फणाश्रया ॥ १५७ ॥

फेनिला फेनदशना फेना फेनवती फणा ।
फेत्कारिणी फणिधरा फणिलोकनिवासिनी ॥ १५८ ॥

फाण्टाकृतालया फुल्ला फुज्जारविन्दलोचना ।
वेणीधरा बलवती वेगवतिधरावहा ॥ १५९ ॥

वन्दारुवन्द्या वृन्देशी वनवासा वनाशया । वनाश्रया
भीमराजी भीमपत्नी भवशीर्षकृतालया ॥ १६० ॥

भास्करा भास्करधरा भूषा भास्करवादिनी । भाङ्कारवादिनी
भयङ्करी भयहरा भीषणा भूमिभेदिनी ॥ १६१ ॥

भगभाग्यवती भव्या भवदुःखनिवारिणी ।
भेरुण्डा भीमसुगमा भद्रकाली भवस्थिता ॥ १६२ ॥ भेरुसुगमा
मनोरमा मनोज्ञा च मृतमोक्षा महामतिः ।
मतिदात्री मतिहरा मटस्था मोक्षरूपिणी ॥ १६३ ॥

यमपूज्या यज्ञरूपा यजमाना यमस्वसा । यजमानी
यमदण्डस्वरूपा च यमदण्डहरा यतिः ॥ १६४ ॥

रक्षिका रात्रिरूपा च रमणीया रमा रतिः ।
लवङ्गी लेशरूपा च लेशनीया लयप्रदा ॥ १६५ ॥

विबुद्धा विषहस्ता च विशिष्टा वेशधारिणी ।
श्यामरूपा शरत्कन्या शारदी शवला श्रुता ॥ १६६ ॥ शरणा शरला
श्रुतिगम्या श्रुतिस्तुत्या श्रीमुखी शरणप्रदा । शरणप्रिया
षष्ठी षट्कोणनिलया षट्कर्मपरिसेविता ॥ १६७ ॥

सात्त्विकी सत्वसरणिः सानन्दा सुखरूपिणी । सत्यसरणिः
हरिकन्या हरिजला हरिद्वर्णा हरीश्वरी ॥ १६८ ॥ हरेश्वरी
क्षेमङ्करी क्षेमरूपा क्षुरधाराम्बुलेशिनी ।
अनन्ता इन्दिरा ईशा उमा ऊषा ऋवर्णिका ॥ १६९ ॥

ॠस्वरूपा ऌकारस्था ॡकारी एषिता तथा । एधिता एषिका
ऐश्वर्यदायिनी ओकारिणी औमककारिणी ॥ १७० ॥

अन्तशून्या अङ्कधरा अस्पर्शा अस्त्रधारिणी ।
सर्ववर्णमयी वर्णब्रह्मरूपाखिलात्मिका ॥ १७१ ॥

प्रसन्ना शुक्लदशना परमार्था पुरातनी ।

शुक उवाच ।
इमं सहस्रनामाख्यं भगीरथकृतं पुरा ।
भगवत्या हि गङ्गाया महापुण्यं जयप्रदम् ॥ १७२ ॥

यः पठेच्छृणुयाद्वापि भक्त्या परमया युतः । पठेद्वा पाठयेद्वापि
तस्य सर्वं सुसिद्धं स्याद्विनियुक्तं फलं द्विज ॥ १७३ ॥

गङ्गैव वरदा तस्य भवेत् सर्वार्थदायिनी ।
ज्यैष्ठे दशहरातिथ्यां पूजयित्वा सदाशिवाम् ॥ १७४ ॥

दुर्गोत्सव विधानेन विधिना गमिकेन वा ।
गङ्गा सहस्रनामाख्यं स्तवमेनमुदाहरेत् ॥ १७५ ॥

तस्य संवत्सरं देवी गहे बद्धैव तिष्ठति ।
पुत्रोत्सवे विवाहादौ श्राद्धाहे जन्मवासरे ॥ १७६ ॥

पठेद्वा श‍ृणुयाद्वापि तत्तत्कर्माक्षयं भवेत् ।
धनार्थीधनमाप्नोति लभेद्भार्यामभार्यकः ॥ १७७ ॥

अपुत्रो लभते पुत्रं चातुर्वर्ण्यार्थसाधकम् । पुत्रान् साधिकम्
युगाद्यासु पूर्णिमासु रविसङ्क्रमणे तथा ॥ १७८ ॥

दिनक्षये व्यतीपाते पुष्यायां हरिवासरे ।
अमावास्यासु सर्वासु अतिथौ च समागते ॥ १७९ ॥

शुश्रूषौ सति सत्सङ्गे गवां स्थानगतोऽपि वा । सद्गङ्गे
मण्डले ब्राह्मणानाञ्च पठेद्वा श‍ृणुयात् स्तवम् ॥ १८० ॥

स्तवेनानेन सा गङ्गा महाराजे भगीरथे ।
बभूव परमप्रीता तपोभिः पूर्वजैर्यथा ॥ १८१ ॥

तस्माद्यो भक्तिभावेन स्तवेनानेन स्तौति च ।
तस्यापि तादृशी प्रीता सगरादितपो यथा ।
स्तवेनानेन सन्तुष्टा देवी राज्ञे वरं ददौ ॥ १८२ ॥

देव्युवाच ।
वरम्वरय भूपाल वरदास्मि तवागता ।
जाने तव हृदिस्थञ्च तथापि वद कथ्यते ॥ १८३ ॥

राजोवाच ।
देवी विष्णोः पदं त्यक्त्वा गत्वापि विवरस्थलम् ।
उद्धारय पितॄण् पूर्वान् धरामण्डलवर्त्मना ॥ १८४ ॥ सर्वान्
अस्तौषं भवतीं यच्च तेन यः स्तौति मानवः ।
न त्याज्यः स्यात्त्वया सोऽपि वर एष द्वितीयकः ॥ १८५ ॥

देव्युवाच ।
एवमस्तु महाराज कन्यास्मि तव विश्रुता ।
भागीरथीति गेयां स्यां वर एषोऽधिकस्तव ॥ १८६ ॥ गेयां मां
मां स्तोष्यति जनो यस्तु त्वत्कृतेन स्तवेन हि ।
तस्याऽहं वशगा भूयां निर्वाणमुक्तिदा नृप ।
शिव आराध्यतां राजन् शिरसा मां दधातु सः ॥ १८७ ॥

अन्यथाऽहं निरालम्बा धरां भित्वाऽन्यथा व्रजे ।
पृथिवी च न मे वेगं सहिष्यति कदाचन ॥ १८८ ॥

सुमेरुशिर आरुह्य शङ्खध्वानं करिष्यसि ।
तेन त्वामनुयास्यामि ब्रह्माण्डकोटिभेदिनी ॥ १८९ ॥

शुक उवाच ।
इत्युक्त्वा सा तदा देवी तत्रैवान्तरधीयत ॥ १९० ॥

भगीरथोऽपि राजर्षिरात्मानं बह्वमन्यत ॥ १९१ ॥

॥ इति श्रीबृहद्धर्मपुराणे मध्यखण्डे गङ्गासहस्रनामवर्णने
पञ्चाशत्तमोऽध्यायः ॥

Notes:
Verses are not numbered strictly for two lines and are as per the printed text of available Brihaddharmapurana. gagaNa is same as gagana as per dictionary Variations are given to the right of the line where it is seen.

– Chant Stotra in Other Languages -1000 Names of Sri Ganga Devi 2:

1000 Names of Sri Ganga 2 – Sahasranama Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil