1000 Names Of Sri Hariharaputra In Sanskrit

॥ 1000 Names of Sri Hariharaputra Sanskrit Lyrics ॥

॥ श्रीहरिहरपुत्रसहस्रनामाभिषेकमन्त्रम् ॥
प्राणापान-व्यानोदान-समाना मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ १ ॥

वाङ्मनश्चक्षुश्रोत्रजिह्वाघ्राणरेतोबुद्ध्याकूतिस्सङ्कल्पा मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ २ ॥

त्वक्चर्म-माग्ंस-रुधिर-मेदो-मज्जा-स्नायवोऽस्थीनि मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ३ ॥

शिरःपाणि-पाद-पार्श्वपृष्ठोरूदर-जङ्घा-शिश्नोपस्थ-पायवो मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ४ ॥

पृथिव्यापस्तेजो-वायुराकाशा मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ५ ॥

शब्द-स्पर्श-रूप-रस-गन्धा मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ६ ॥

(मनो-बुद्ध्यहङ्कारश्वित्तं मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥)
मनो-वाक्काय-कर्माणि मे शुध्यन्ताम् ।
ज्योतिरहं विरजा विपाप्मा भूयासग्ं स्वाहा ॥ ७ ॥

देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां
अश्विनो भेषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि ॥ ८ ॥

देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां
सरस्वत्यै भेषज्येन वीर्यायान्नाद्यायाभिषिञ्चामि ॥ ९ ॥

देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां
इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि ॥ १० ॥

इति श्रीहरिहरपुत्रसहस्रनामाभिषेकमन्त्रं सम्पूर्णम् ।

See Also  Sri Tulasi Ashtottara Shatanama Stotram In Sanskrit

– Chant Stotra in Other Languages –

Sahasranama Stotra Abhisheka Mantram » 1000 Names of Sri Hariharaputra Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil