1000 Names Of Sri Mahakala – Sahasranama Stotram In Sanskrit

॥ Mahakalasahasranamastotram Sanskrit Lyrics ॥

॥ श्रीमहाकालसहस्रनामस्तोत्रम् ॥
श्रीप्रकृष्टनन्दोक्तागमे

ऋषिरुवाच –
महाकालसहस्रं तु श्रोतुमिच्छामि सुव्रत! ।
कथयस्व प्रसादेन शिष्याय वक्तुमर्हसि ॥ १ ॥

सूत उवाच –
सुधामयः सुतः श्रीमान् सुदामा नाम वै द्विजः ।
तेन गोपीपतिः कृष्णो विद्यामभ्यसितुङ्गतः ॥ २ ॥

सान्दीपनान्तिकेऽवन्त्यां गतौ तौ पठनार्थिनौ ।
चतुःषष्टिः कलाः सर्वाः कृता विद्याश्चतुर्दश ॥ ३ ॥

एकदा प्राह कृष्णं स सुदामा द्विजसत्तमः ।
सुदामोवाच –
महाकालं प्रतिबिल्वं केन मन्त्रेण वाऽर्पणम् ॥ ४ ॥

करोमि वद मे कृष्ण ! कृपया सात्त्वताम्पते ! ।
श्रीकृष्ण उवाच –
श‍ृणु मित्र! महाप्राज्ञ! कथयामि तवाग्रतः ॥ ५ ॥

सहस्रं कालकालस्य महाकालस्य वै द्विज ! ।
सुगोप्यं सर्वदा विप्र! भक्तायाभाषितं मया ॥ ६ ॥

कुरु बिल्वार्पणं तेन येन त्वं विन्दसे सुखम् ।
सहस्रस्यास्य ऋष्योऽहं छन्दोऽनुष्टुप् तथैव च ॥ ७ ॥

देवः प्रोक्तो महाकालो विनियोगश्च सिद्धये ।
सङ्कल्प्यैवं ततो ध्यायेन्महाकालविभुं मुदा ॥ ८ ॥

विनियोगः ।
ॐ अस्य श्रीमहाकालसहस्रनामस्तोत्रमालामन्त्रस्य श्रीकृष्णऋषिः ।
अनुष्टुप्छन्दः । श्रीमहाकालो देवता । ॐ बीजम् । नमः शक्तिः ।
महाकालायेति कीलकम् । सर्वार्थसिद्ध्यर्थे पाठे विनियोगः ।
ऋष्यादिन्यासः ।
ॐ श्रीकृष्णर्षये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे ।
महाकालदेवतायै नमः हृदये । ॐ बीजाय नमः गुह्ये ।
नमः शक्तये नमः पादयोः । महाकालायेति कीलकाय नमः नाभौ ॥

श्रीमहाकालप्रीतर्थे सहस्रनामस्तोत्रपाठे विनियोगाय नमः सर्वाङ्गे ॥

करन्यासः एवं हृदयादिन्यासः ॥

करन्यासः ।
ॐ अङ्गुष्ठाभ्यां नमः । महाकालाय तर्जनीभ्यां नमः ।
नमः मध्यमाभ्यां नमः । ॐ अनामिकाभ्यां नमः ।
महाकालाय कनिष्ठिकाभ्यां नमः ।
नमः करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः ।
ॐ हृदयाय नमः । महाकालाय शिरसे स्वाहा ।
नमः शिखायै वषट् । ॐ कवचाय हुम् ।
महाकालाय नेत्रत्रयाय वौषट् । नमः अस्त्राय फट् ।
व्यापकन्यासः ॐ महाकालाय नमः ॥

अथ ध्यानं
कुङ्कुमागरुकस्तूरीकेशरेण विचर्चितम् ।
नानापुष्पस्रजालङ्कृद्बिल्वमौलिवलान्वितम् ॥ ९ ॥

पुरो नन्दी स्थितो वामे गिरिराजकुमारिका ।
ब्राह्मणैरावृतं नित्यं महाकालमहं भजे ॥ १० ॥

॥ इति ध्यानम् ॥

ॐ महाकालो महारूपो महादेवो महेश्वरः ।
महाप्राज्ञो महाशम्भुर्महेशो मोहभञ्जनः ॥ ११ ॥

मान्यो मन्मथहन्ता च मोहनो मृत्युनाशनः ।
मान्यदो माधवो मोक्षो मोक्षदो मरणापहा ॥ १२ ॥

मुहूर्तो मुनिवन्द्यश्च मनुरूपो मनुर्मनुः ।
मन्मथारिर्महाप्राज्ञो मनोनन्दो ममत्वहा ॥ १३ ॥

मुनीशो मुनिकर्ता च महत्त्वं महदाधिपः ।
मैनाको मैनकावन्द्यो मध्वरिप्राणवल्लभः ॥ १४ ॥

महालयेश्वरो मोक्षो मेघनादेश्वराभिधः ।
मुक्तीश्वरो महामुक्तो मन्त्रज्ञो मन्त्रकारकः ॥ १५ ॥

मङ्गलो मङ्गलाधीशो मध्यदेशपतिर्महान् ।
मागधो मन्मथो मत्तो मातङ्गो मालतीपतिः ॥ १६ ॥

माथुरो मथुरानाथो मालवाधीशमन्युपः ।
मारुतिर्मीनपो मौनो मार्कण्डो मण्डलो मृडः ॥ १७ ॥

मधुप्रियो मधुस्नायी मिष्टभोजी मृणालधृक् ।
मञ्जुलो मल्लमोदज्ञो मोदकृन्मोददायकः ॥ १८ ॥

मुक्तिदो मुक्तरूपश्च मुक्तामालाविभूषितः ।
मृकण्डो मोदपो मोदो मोदकाशनकारकः ॥ १९ ॥

यज्ञो यज्ञपतिर्यज्ञो यज्ञेशो यज्ञनाशनः ।
यज्ञतेजा यशो योगी योगीशो योगदायकः ॥ २० ॥

यतिरूपो याज्ञवल्क्यो यज्ञकृद् यज्ञलुप्तहा ।
यज्ञमृद् यज्ञहा यज्ञो यज्ञभुग् यज्ञसाधकः ॥ २१ ॥

यज्ञाङ्गो यज्ञहोता च यज्वानो यजनो यतिः ।
यशःप्रदो यशःकर्ता यशो यज्ञोपवीतधृक् ॥ २२ ॥

यज्ञसेनो याज्ञिकश्च यशोदावरदायकः ।
यमेशो यमकर्ता च यमदूतनिवारणः ॥ २३ ॥

याचको यमुनाक्रीडो याज्ञसेनीहितप्रदः ।
यवप्रियो यवरूपो यवनान्तो यवी यवः ॥ २४ ॥

ऋग्वेदो रोगहन्ता च रन्तिदेवो रणाग्रणीः ।
रैवतो रैवताधीशो रैवतेश्वरसंज्ञकः ॥ २५ ॥

रामेश्वरो रकारश्च रामप्रियो रमाप्रियः ।
रणी रणहरो रक्षो रक्षको ऋणहारकः ॥ २६ ॥

रक्षिता राजरूपो राट् रवो रूपो रजःप्रदः ।
रामचन्द्रप्रियो राजा रक्षोघ्नो राक्षसाधिपः ॥ २७ ॥

रक्षसां वरदो रामो राक्षसान्तकरो रथी ।
रथप्रियो रथस्थायी रथहा रथहारकः ॥ २८ ॥

रावणप्रियकृद्रावस्वरूपश्च ऋतूरजः ॥

रतिवरप्रदाता च रन्तिदेववरप्रदः ॥ २९ ॥

राजधानीप्रदो रेतो रेवाभञ्जो रवी रजी ।
ऋत्विजो रसकर्ता च रसज्ञो रसदायकः ॥ ३० ॥

रुद्रो रुद्राक्षधृग्रौद्रो रत्नो रत्नैर्विभूषितः ।
रूपेश्वरो रमापूज्यो रुरुराज्यस्थलेश्वरः ॥ ३१ ॥

See Also  1000 Names Of Sri Vasavi Kanyaka Parameshwari – Sahasranamavali Stotram In Sanskrit

लक्षो लक्षपतिर्लिङ्गो लड्डुको लड्डुकप्रियः ।
लीलाम्बरधरो लाभो लाभदो लाभकृत्सदा ॥ ३२ ॥

लज्जारक्षो लघुरूपो लेखको लेखकप्रियः ।
लाङ्गलो लवणाब्धीशो लक्ष्मीपूजितलक्षकः ॥ ३३ ॥

लोकपालेश्वरो लम्पो लङ्केशो लम्पकेश्वरः ।
वहिर्नेत्रो वराङ्गश्च वसुरूपो वसुप्रदः ॥ ३४ ॥

वरेण्यो वरदो वेदो वेदवेदाङ्गपारगः ।
वृद्धकालेश्वरो वृद्धो विभवो विभवप्रदः ॥ ३५ ॥

वेणुगीतप्रियो वैद्यो वाराणसीस्थितः सदा ।
विश्वेशो विश्वकर्ता च विश्वनाथो विनायकः ॥ ३६ ॥

वेदज्ञो वर्णकृद्वर्णो वर्णाश्रमफलप्रदः ।
विश्ववन्द्यो विश्ववेत्ता विश्वावसुर्विभावसुः ॥ ३७ ॥

वित्तरूपो वित्तकर्ता वित्तदो विश्वभावनः ।
विश्वात्मा वैश्वदेवश्च वनेशो वनपालकः ॥ ३८ ॥

वनवासी वृषस्थायी वृषभो वृषभप्रियः ।
विल्वीदलप्रियो विल्वो विशालनेत्रसंस्थितः ॥ ३९ ॥

वृषध्वजो वृषाधीशो वृषभेशो वृषप्रियः ।
विल्वेश्वरो वरो वीरो वीरेशश्च वनेश्वरः ॥ ४० ॥

विभूतिभूषितो वेण्यो व्यालयज्ञोपवीतकः ।
विश्वेश्वरो वरानन्दो वटरूपो वटेश्वरः ॥ ४१ ॥

सर्वेशः सत्त्वः सारङ्गो सत्त्वरूपः सनातनः ।
सद्वन्द्यः सच्चिदानन्दः सदानन्दः शिवप्रियः ॥ ४२ ॥

शिवदः शिवकृत्साम्बः शशिशेखरशोभनः ।
शरण्यः सुखदः सेव्यः शतानन्दवरप्रदः ॥ ४३ ॥

सात्त्विकः सात्त्वतः शम्भुः शङ्करः सर्वगः शिवः ।
सेवाफलप्रदाता च सेवकप्रतिपालकः ॥ ४४ ॥

शत्रुघ्नः सामगः शौरिः सेनानीः शर्वरीप्रियः ।
श्मशानी स्कन्दसद्वेदः सदा सुरसरित्प्रियः ॥ ४५ ॥

सुदर्शनधरः शुद्धः सर्वसौभाग्यदायकः ।
सौभाग्यः सुभगः सूरः सूर्यः सारङ्गमुक्तिदः ॥ ४६ ॥

सप्तस्वरश्च सप्ताश्वः सप्तः सप्तर्षिपूजितः ।
शितिकण्ठः शिवाधीशः सङ्गमः सङ्गमेश्वरः ॥ ४७ ॥

सोमेशः सोमतीर्थेशः सर्पधृक्स्वर्णकारकः ।
स्वर्णजालेश्वरः सिद्धः सिद्धेशः सिद्धिदायकः ॥ ४८ ॥

सर्वसाक्षी सर्वरूपः सर्वज्ञः शास्त्रसंस्कृतः ।
सौभाग्येश्वरः सिंहस्थः शिवेशः सिंहकेश्वरः ॥ ४९ ॥

शूलेश्वरः शुकानन्दः सहस्रधेनुकेश्वरः ।
स्यन्दनस्थः सुराधीशः सनकाद्यर्चितः सुधीः ॥ ५० ॥

षडूर्मिः षट्।सुचक्रज्ञः षट्चक्रकविभेदकः ।
षडाननः षडङ्गज्ञः षड्रसज्ञः षडाननः ॥ ५१ ॥

हरो हंसो हतारातिर्हिरण्यो हाटकेश्वरः ।
हेरम्बो हवनो होता हयरूपो हयप्रदः ॥ ५२ ॥

हस्तिदो हस्तित्वग्धारी हाहाहूहूवरप्रदः ।
हव्यहेमहविष्यान्नो हाटकेशो हविःप्रियः ॥ ५३ ॥

हिरण्यरेता हंसज्ञो हिरण्यो हाटकेश्वरः ।
हनुमदीशो हरो हर्षो हरसिद्धिपीठगः ॥ ५४ ॥

हैमो हैमालयो हूहूहाहाहेतुर्हठो हठी ।
क्षत्रः क्षत्रप्रदः क्षत्री क्षेत्रज्ञः क्षेत्रनायकः ॥ ५५ ॥

क्षेमः क्षेमप्रदाता च क्षान्तिकृत् क्षान्तिवर्धनः ।
क्षीरार्णवः क्षीरभोक्ता क्षिप्राकूलक्षितेः पतिः ॥ ५६ ॥

क्षौद्ररसप्रियः क्षीरः क्षिप्रसिद्धिप्रदः सदा ।
ज्ञानो ज्ञानप्रदो ज्ञेयो ज्ञानातीतो ज्ञपो ज्ञयः ॥ ५७ ॥

ज्ञानरूपो ज्ञानगम्यो ज्ञानी ज्ञानवतांवरः ।
अजो ह्यनन्तश्चाव्यक्त आद्य आनन्ददायकः ॥ ५८ ॥

अकथ आत्मा ह्यानन्दश्चाजेयो ह्यज आत्मभूः ।
आद्यरूपो ह्यरिच्छेत्ताऽनामयश्चाप्यलौकिकः ॥

अतिरूपो ह्यखण्डात्मा चात्मज्ञानरतः सदा ।
आत्मवेत्ता ह्यात्मसाक्षी अनादिश्चान्तरात्मगः ॥ ६० ॥

आनन्देशोऽविमुक्तेशश्चालर्केशोऽप्सरेश्वरः ।
आदिकल्पेश्वरोऽगस्त्यश्चाक्रूरेशोऽरुणेश्वरः ॥ ६१ ॥

इडारूप इभच्छेत्ता ईश्वरश्चेन्दिरार्चितः ।
इन्दुरिन्दीवरश्चेश ईशानेश्वर ईर्षहा ॥ ६२ ॥

इज्य इन्दीवरश्चेभ इक्षुरिक्षुरसप्रियः ।
उमाकान्त उमास्वामी तथोमायाः प्रमोदकृत् ॥ ६३ ॥

उर्वशीवरदश्चैव उच्चैरुत्तुङ्गधारकः ।
एकरूप एकस्वामी ह्येकात्मा चैकरूपवान् ॥ ६४ ॥

ऐरावत ऐस्थिरात्मा चैकारैश्वर्यदायकः ।
ओकार ओजस्वांश्चैव ह्यौखरश्चौखराधिपः ॥ ६५ ॥

औषध्य औषधिज्ञाता ह्योजोद औषधीश्वरः ।
अनन्तो ह्यन्तकश्चान्तो ह्यन्धकासुरसूदनः ॥ ६६ ॥

अच्युतश्चाप्रमेयात्मा अक्षरश्चाश्वदायकः ।
अरिहन्ता ह्यवन्तीशश्चाहिभूषणभृत्सदा ॥ ६७ ॥

अवन्तीपुरवासी चाप्यवन्तीपुरपालकः ।
अमरश्चामराधीशो ह्यमरारिविहिंसकः ॥ ६८ ॥

कामहा कामकामश्च कामदः करुणाकरः ।
कारुण्यः कमलापूज्यः कपाली कलिनाशनः ॥ ६९ ॥

कामारिकृत्कल्लोलः कालिकेशश्च कालजित् ।
कपिलः कोटितीर्थेशः कल्पान्तः कालहा कविः ॥ ७० ॥

कालेश्वरः कालकर्ता कल्पाब्धिः कल्पवृक्षकः ।
कोटीशः कामधेन्वीशः कुशलः कुशलप्रदः ॥ ७१ ॥

किरीटी कुण्डली कुन्ती कवची कर्परप्रियः ।
कर्पूराभः कलादक्षः कलाज्ञः किल्बिषापहा ॥ ७२ ॥

कुक्कुटेशः कर्कटेशः कुलदः कुलपालकः ।
कञ्जाभिलाषी केदारः कुङ्कुमार्चितविग्रहः ॥ ७३ ॥

कुन्दपुष्पप्रियः कञ्जः कामारिः कामदाहकः ।
कृष्णरूपः कृपारूपश्चाथ कृष्णार्चिताङ्घ्रिकः ॥ ७४ ॥।

कुण्डः कुण्डेश्वरः काण्वः केशवैः परिपूजितः ।
कामेश्वरः कलानाथः कण्ठेशः कुङ्कुमेश्वरः ॥ ७५ ॥

कन्थडेशः कपालेशः कायावरोहणेश्वरः ।
करभेशः कुटुम्बेशः कर्केशः कौशलेश्वरः ॥ ७६ ॥

कोशदः कोशभृत् कोशः कौशेयः कौशिकप्रियः ।
खचरः खचराधीशः खचरेशः खरान्तकः ॥ ७७ ॥

See Also  108 Names Of Brahma – Sri Brahma Ashtottara Shatanamavali In Gujarati

खेचरैः पूजितपदः खेचरीसेवकप्रियः ।
खण्डेश्वरः खड्गरूपः खड्गग्राही खगेश्वरः ॥ ७८ ॥

खेटः खेटप्रियः खण्डः खण्डपालः खलान्तकः ।
खाण्डवः खाण्डवाधीशः खड्गतासङ्गमस्थितः ॥ ७९ ॥

गिरिशो गिरिजाधीशो गजारित्वग्विभूषितः ।
गौतमो गिरिराजश्च गङ्गाधरो गुणाकरः ॥ ८० ॥

गौतमीतटवासी च गालवो गोपतीश्वरः ।
गोकर्णो गोपतिर्गर्वो मजारिर्गरुडप्रियः ॥ ८१ ॥

गङ्गामौलिर्गुणग्राही गारुडीविद्यया युतः ।
गुरोर्गुरुर्गजारातिर्गोपालो गोमतीप्रियः ॥ ८२ ॥

गुणदो गुणकर्ता च गणेशो गणपूजितः ।
गणको गौरवो गर्गो गन्धर्वेण प्रपूजितः ॥ ८३ ॥

गोरक्षो गुर्विणीत्राता गेहो गेहप्रदायकः ।
गीताध्यायी गयाधीशो गोपतिर्गीतमोहितः ॥ ८४ ॥

गिरातीतो गुणातीतो गडःगेशो गुह्यकेश्वरः ।
ग्रहो ग्रहपतिर्गम्यो ग्रहपीडानिवारणः ॥ ८५ ॥

घटनादिर्घनाधारो घनेश्वरो घनाकरः ।
घुश्मेश्वरो घनाकारो घनरूपो घनाग्रणीः ॥ ८६ ॥

घण्टेवरो घटाधीशो घर्घरो घस्मरापहा ।
घुष्मेशो घोषकृद्घोषी घोषाघोषो घनध्वनिः ॥ ८७ ॥

घृतप्रियो घृताब्धीशो घण्टो घण्टघटोत्कचः ।
घटोत्कचाय वरदो घटजन्मा घटेश्वरः ॥ ८८ ॥

घकारो ङकृतो ङश्च ङकारो ङकृताङ्गजः ।
चराचरश्चिदानन्दश्चिन्मयश्चन्द्रशेखरः ॥ ८९ ॥

चन्द्रेश्वरश्चामरेशश्चामरेण विभूषितः ।
चामरश्चामराधीशश्चराचरपतिश्चिरः ॥ ९० ॥

चमत्कृतश्चन्द्रवर्णश्चर्मभृच्चर्म चामरी ।
चाणक्यश्चर्मधारी च चिरचामरदायकः ॥ ९१ ॥

च्यवनेशश्चरुश्चारुश्चन्द्रादित्येश्वराभिधः ।
चन्द्रभागाप्रियश्चण्डश्चामरैः परिवीजितः ॥ ९२ ॥

छत्रेश्वरश्छत्रधारी छत्रदश्छलहा छली ।
छत्रेशश्छत्रकृच्छत्री छन्दविच्छन्ददायकः ॥ ९३ ॥

जगन्नाथो जनाधारो जगदीशो जनार्दनः ।
जाह्नवीधृग्जगत्कर्ता जगन्मयो जनाधिपः ॥ ९४ ॥

जीवो जीवप्रदाता च जेताऽथो जीवनप्रदः ।
जङ्गमश्च जगद्धाता जगत्केनप्रपूजितः ॥ ९५ ॥

जटाधरो जटाजूटी जटिलो जलरूपधृक् ।
जालन्धरशिरश्छेत्ता जलजाङ्घ्रिर्जगत्पतिः ॥ ९६ ॥

जनत्राता जगन्निधिर्जटेश्वरो जलेश्वरः ।
झर्झरो झरणाकारी झूञ्झकृत् झूझहा झरः ॥ ९७ ॥

ञकारश्च ञमुवासी ञजनप्रियकारकः ।
टकारश्च ठकारश्च डामरो डमरुप्रियः ॥ ९८ ॥

डण्डधृग्डमरुहस्तो डाकिहृड्डमकेश्वरः ।
ढुण्ढो ढुण्ढेश्वरो ढक्को ढक्कानादप्रियः सदा ॥ ९९ ॥

णकारो णस्वरूपश्च णुणोणिणोणकारणः ।
तन्त्रज्ञस्त्र्यम्बकस्तन्त्रीतुम्बुरुस्तुलसीप्रियः ॥ १०० ॥

तूणीरधृक् तदाकारस्ताण्डवी ताण्डवेश्वरः ।
तत्त्वज्ञस्तत्त्वरूपश्च तात्त्विकस्तरविप्रभः ॥ १०१ ॥

त्रिनेत्रस्तरुणस्तत्त्वस्तकारस्तलवासकृत् ।
तेजस्वी तेजोरूपी च तेजःपुञ्जप्रकाशकः ॥ १०२ ॥

तान्त्रिकस्तन्त्रकर्ता च तन्त्रविद्याप्रकाशकः ।
ताम्ररूपस्तदाकारस्तत्त्वदस्तरणिप्रियः ॥ १०३ ॥

तान्त्रेयस्तमोहा तन्वी तामसस्तामसापहा ।
ताम्रस्ताम्रप्रदाता च ताम्रवर्णस्तरुप्रियः ॥ १०४ ॥

तपस्वी तापसी तेजस्तेजोरूपस्तलप्रियः ।
तिलस्तिलप्रदाता च तूलस्तूलप्रदायकः ॥ १०५ ॥

तापीशस्ताम्रपर्णीशस्तिलकस्त्राणकारकः ।
त्रिपुरघ्नस्त्रयातीतस्त्रिलोचनस्त्रिलोकपः ॥ १०६ ॥

त्रिविष्टपेश्वरस्तेजस्त्रिपुरस्त्रिपुरदाहकः ।
तीर्थस्तारापतिस्त्राता ताडिकेशस्तडिज्जवः ॥ १०७ ॥

थकारश्च स्थुलाकारः स्थूलः स्थविरः स्थानदः ।
स्थाणुः स्थायी स्थावरेशः स्थम्भः स्थावरपीडहा ॥ १०८ ॥

स्थूलरूपस्थितेः कर्ता स्थूलदुःखविनाशनः ।
थन्दिलस्थदलः स्थाल्यः स्थलकृत् स्थलभृत् स्थली ॥ १०९ ॥

स्थलेश्वरः स्थलाकारः स्थलाग्रजः स्थलेश्वरः ।
दक्षो दक्षहरो द्रव्यो दुन्दुभिर्वरदायकः ॥ ११० ॥

देवो देवाग्रजो दानो दानवारिर्दिनेश्वरः ।
देवकृद्देवभृद्दाता दयारूपी दिवस्पतिः ॥ १११ ॥

दामोदरो दलाधारो दुग्धस्नायी दधिप्रियः ।
देवराजो दिवानाथो देवज्ञो देवताप्रियः ॥ ११२ ॥

देवदेवो दानरूपो दूर्वादलप्रियः सदा ।
दिग्वासा दरभो दन्तो दरिद्रघ्नो दिगम्बरः ॥ ११३ ॥

दीनबन्धुर्दुराराध्यो दुरन्तो दुष्टदर्पहा ।
दक्षघ्नो दक्षहन्ता च दक्षजामात देवजित् ॥ ११४ ॥

द्वन्द्वहा दुःखहा दोग्धा दुर्धरो दुर्धरेश्वरः ।
दानाप्तो दानभृद्दीप्तदीप्तिर्दिव्यो दिवाकरः ॥ ११५ ॥

दम्भहा दम्भकृद्दम्भी दक्षजापतिर्दीप्तिमान् ।
धन्वी धनुर्धरो धीरो धान्यकृद्धान्यदायकः ॥ ११६ ॥

धर्माधर्मभृतो धन्यो धर्ममूर्तिर्धनेश्वरः ।
धनदो धूर्जटिर्धान्यो धामदो धार्मिको धनी ॥ ११७ ॥

धर्मराजो धनाधारो धराधरो धरापतिः ।
धनुर्विद्याधरो धूर्तो धूलिधूसरविग्रहः ॥ ११८ ॥

धनुषो धनुषाकारो धनुर्धरभृतांवरः ।
धरानाथो धराधीशो धनेशो धनदाग्रजः ॥ ११९ ॥

धर्मभृद्धर्मसन्त्राता धर्मरक्षो धनाकरः ।
नर्मदो नर्मदाजातो नर्मदेशो नृपेश्वरः ॥ १२० ॥

नागभृन्नागलोकेशो नागभूषणभूषितः ।
नागयज्ञोपवीतेयो नगो नागारिपूजितः ॥ १२१ ॥

नान्यो नरवरो नेमो नूपुरो नूपुरेश्वरः ।
नागचण्डेश्वरो नागो नगनाथो नगेश्वरः ॥ १२२ ॥

नीलगङ्गाप्रियो नादो नवनाथो नगाधिपः ।
पृथुकेशः प्रयागेशः पत्तनेशः पराशरः ॥ १२३ ॥

पुष्पदन्तेश्वरः पुष्पः पिङ्गलेश्वरपूर्वजः ।
पिशाचेशः पन्नगेशः पशुपतीश्वरः प्रियः ॥ १२४ ॥

पार्वतीपूजितः प्राणः प्राणेशः पापनाशनः ।
पार्वतीप्राणनाथश्च प्राणभृत् प्राणजीवनः ॥ १२५ ॥

पुराणपुरुषः प्राज्ञः प्रेमज्ञः पार्वतीपतिः ।
पुष्करः पुष्कराधीशः पात्रः पात्रैः प्रपूजितः ॥ १२६ ॥

पुत्रदः पुण्यदः पूर्णः पाटाम्बरविभूषितः ।
पद्माक्षः पद्मस्रग्धारी पद्मेन परिशोभितः ॥ १२७ ॥

See Also  108 Names Of Sri Venkateshwara 2 In Tamil

फणिभृत् फणिनाथश्च फेनिकाभक्षकारकः ।
स्फटिकः फर्शुधारी च स्फटिकाभो फलप्रदः ॥ १२८ ॥

बद्रीशो बलरूपश्च बहुभोजी बटुर्बटुः ।
बालखिल्यार्चितो बालो ब्रह्मेशो ब्राह्मणार्चितः ॥ १२९ ॥

ब्राह्मणो ब्रह्महा ब्रह्मा ब्रह्मज्ञो ब्राह्मणप्रियः ।
ब्राह्मणस्थो ब्रह्मरूपो ब्राह्मणपरिपालकः ॥ १३० ॥

ब्रह्ममूर्तिर्ब्रह्मस्वामी ब्राह्मणैः परिशोभितः ।
ब्राह्मणारिहरो ब्रह्म ब्राह्मणास्यैः प्रतर्पितः ॥ १३१ ॥

भूतेशो भूतनाथश्च भस्माङ्गो भीमविक्रमः ।
भीमो भवहरो भव्यो भैरवो भयभञ्जनः ॥ १३२ ॥

भूतिदो भुवनाधारो भुवनेशो भृगुर्भवः ।
भारतीशो भुजङ्गेशो भास्करो भिन्दिपालधृक् ॥ १३३ ॥

भूतो भयहरो भानुर्भावनो भवनाशनः ।
सहस्रनामभिश्चैतैर्महाकालः प्रसीदतु ॥ १३४ ॥

अथ महाकालसहस्रनाममाहात्म्यम् ।
सूत उवाच –
इतीदं कीर्तितं तेभ्यो महाकालसहस्रकम् ।
पठनात् श्रवणात् सद्यो धूतपापो भवेन्नरः ॥ १३५ ॥

एकवारं पठेन्नित्यं सर्वसत्यं प्रजायते ।
द्विवारं यः पठेत् सत्यं तस्य वश्यं भवेज्जगत् ॥ १३६ ॥

त्रिवारं पठनान्मर्त्यो धनधान्ययुतो भवेत् ।
अतः स्थानविशेषस्येदानीं पाठफलं श‍ृणु ॥ १३७ ॥

वटमूले –
वटमूले पठेन्नित्यमेकाकी मनुजो यदि ।
त्रिवारञ्च दिनत्रिंशत्सिद्धिर्भवति सर्वथा ॥ १३८ ॥

मनोरथसिद्धौ –
अश्वत्थे तुलसीमूले तीर्थे वा हरिहरालये ।
शुचिर्भूत्वा पठेद्यो हि मनसा चिन्तितं लभेत् ॥ १३९ ॥

सिद्धिदतीर्थे –
यत्र तीर्थोऽस्ति चाश्वत्थो वटो वा द्विजसत्तम!
स तीर्थः सिद्धिदः सर्वपाठकस्य न संशयः ॥ १४० ॥

तत्रैकाग्रमना भूत्वा यः पठेच्छुभमानसः ।
यं यं काममभिध्यायेत्तं तं प्राप्नोति निश्चितम् ॥ १४१ ॥

मनसा चिन्तितं सर्वं महाकालप्रसादतः ।
लभते सकलान् कामान् पठनाच्छ्रवणान्नरः ॥ १४२ ॥

शतावर्तपाठफलं –
शतावर्तं पठेद्यत्र चिन्तितं लभते ध्रुवम् ।
दुःसाध्यः सोऽपि साध्यः स्याद्दिनान्येकोनवींशतेः ॥ १४३ ॥

महाशिवरात्रौ पाठफलम् ।
शिवरात्रिदिने मर्त्य उपवासी जितेन्द्रियः ।
निशामध्ये शतावर्तपठनाच्चिन्तितं लभेत् ॥ १४४ ॥

सहस्रावर्तनं तत्र तीर्थे ह्यश्वत्थसन्निधौ ।
पठनाद्भुक्तिर्मुक्तिश्च भवतीह कलौ युगे ॥ १४५ ॥

तद्दशांशः क्रियाद्धोमं तद्दशांशं च तर्पणम् ।
दशांशं मार्जयेन्मर्त्यः सर्वसिद्धिः प्रजायते ॥ १४६ ॥

गतं राज्यमवाप्नोति वन्ध्या पुत्रवती भवेत् ।
कुष्ठरोगाः प्रणश्यन्ति दिव्यदेहो भवेन्नरः ॥ १४७ ॥

सहस्रावर्तपाठेन महाकालप्रियो नरः ।
महाकालप्रसादेन सर्वसिद्धिः प्रजायते ॥ १४८ ॥

शापानुग्रहसामर्थ्यं भवतीह कलौ युगे ।
सत्यं सत्यं न सन्देहः सत्यञ्च गदितं मम ॥ १४९ ॥

अवन्तिकास्थिततीर्थेषु पाठफलम् ।
कोटितीर्थे –
कोटितीर्थे पठेद्विप्र! महाकालः प्रसीदति ।
रुद्रसरोवरे –
पाठाच्च रुद्रसरसि कुष्ठपीडा निवर्तते ॥ १५० ॥

सिद्धपीठे –
सिद्धपीठे पठेद्यो हि तस्य वश्यं भवेज्जगत् ।
शिप्राकूले –
शिप्राकूले पठेत्प्राज्ञो धनधान्ययुतो भवेत् ॥ १५१ ॥

कालत्रयं पठेद्यश्च शत्रुनिर्मूलनं भवेत् ।
भैरवालये –
अपमृत्युमपाकुर्यात् पठनाद्भैरवालये ॥ १५२ ॥

सिद्धवटस्याधः –
सिद्धवटस्य च्छायायां पठते मनुजो यदि ।
वन्ध्यायां जायते पुत्रश्चिरञ्जीवी न संशयः ॥ १५३ ॥

औखरे –
औखरे पठनात् सद्यो भूतपीडा निवर्तते ।
गयाकूपे –
गयाकूपे पठेद्यो हि तुष्टाः स्युः पितरस्ततः ॥ १५४ ॥

गोमत्यां –
गोमत्याञ्च पठेन्नित्यं विष्णुलोकमवाप्नुयात् ।
अङ्कपाते –
अङ्कपाते पठेद्यो हि धूतपापः प्रमुच्यते ॥ १५५ ॥

खड्गतासङ्गमे –
खड्गतासङ्गमे सद्यः खड्गसिद्धिमवाप्नुयात् ।
यमतडागे –
पठेद्यमतडागे यो यमदुःखं न पश्यति ॥ १५६ ॥

नवनद्यां –
नवनद्यां पठेद्यो हि ऋद्धिसिद्धिपतिर्भवेत् ।
योगिनीपुरतः –
योगिनीपुरतः पाठं महामारीभयं न हि ॥ १५७ ॥

वृद्धकालेश्वरान्तिके –
पुत्रपौत्रयुतो मर्त्यो वृद्धकालेश्वरान्तिके ।
पाठस्थाने घृतं दीपं नित्यं ब्राह्मणभोजनम् ॥ १५८ ॥

एकादशाथवा पञ्च त्रयो वाऽप्येकब्राह्मणः ।
भोजनं च यथासाध्यं दद्यात् सिद्धिसमुत्सुकः ॥ १५९ ॥

विधिवद्भक्तिमान् श्रद्धायुक्तो भक्तः सदैव हि ।
पठन् यजन् स्मरँश्चैव जपन् वापि यथामति ।
महाकालस्य कृपया सकलं भद्रमाप्नुयात् ॥ १६० ॥

इति श्रीप्रकृष्टनन्दोक्तागमे श्रीकृष्णसुदाम्नः संवादे
महाकालसहस्रनामस्तोत्रं सम्पूर्णम् ।

॥ ॐ नमो नमः ॥ शिवार्पणमस्तु ।

– Chant Stotra in Other Languages -1000 Names of Mahakala:

1000 Names of Sri Mahakala – Sahasranama Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil