1000 Names Of Sri Maharajni – Sahasranama Stotram In Sanskrit

॥ Maharajnisahasranamastotram Sanskrit Lyrics ॥

॥ श्रीमहाराज्ञीसहस्रनामस्तोत्रम् ॥

अथवा श्रीमहाराज्ञी राजराजेश्वरीसहस्रनामस्तोत्रम्

पार्वत्युवाच –
भगवन् वेदतत्त्वज्ञ मन्त्रतन्त्रविचक्षण ।
शरण्य सर्वलोकेश शरणागतवत्सल ॥ १ ॥

कथं श्रियमवाप्नोति लोके दारिद्र्यदुःखभाक् ।
मान्त्रिको भैरवेशान तन्मे गदितुमर्हसि ॥ २ ॥

श्रीशिव उवाच –
या देवी निष्कला राज्ञी भगवत्यमलेश्वरी ।
सा सृजत्यवति व्यक्तं संहरिष्यति तामसी ॥ ३ ॥

तस्या नामसहस्रं ते वक्ष्ये स्नेहेन पार्वति ।
अवाच्यं दुर्लभं लोके दुःखदारिद्र्यनाशनम् ॥ ४ ॥

परमार्थप्रदं नित्यं परमैश्वर्यकारणम् ।
सर्वागमरहस्याढ्यं सकलार्थप्रदीपकम् ॥ ५ ॥

समस्तशोकशमनं महापातकनाशनम् ।
सर्वमन्त्रमयं दिव्यं राज्ञीनामसहस्रकम् ॥ ६ ॥

ॐ अस्य श्रीमहाराज्ञी राजराजेश्वरी नामसहस्रस्य ब्रह्मा ऋषिः ।
गायत्री छन्दः । सर्वभूतेश्वरी महाराज्ञी देवता । ह्रीं बीजं ।
सौः शक्तिः । क्लीं कीलकं । श्रीमहाराज्ञीसहस्रनामजपे विनियोगः ।
ॐ ह्रां ह्रीं इत्यादिना कर-हृदयादि न्यासः ।

NOTE: The follwing 5 lines (before ᳚dhyAnaM᳚ are not found in SVR’s book

ब्रह्मऋषये नमः शिरसि । गायत्रीच्छन्दसे नमः मुखे ।
श्रीभूतेश्वरीमह्राराज्ञीदेवतायै नमः हृदि ।
ह्रींबीजाय नमः नाभौ । सौः शक्तये नमः गुह्ये ।
क्लीं कीलकाय नमः पादयोः । विनियोगाय नमः सर्वाङ्गेषु ।
ॐह्रामित्यादिना करषडङ्गन्यासं विधाय ध्यानं कुर्यात् ।

॥ ध्यानम् ॥

या द्वादशार्कपरिमण्डितमूर्तिरेका
सिंहासनस्थितिमती ह्युरगैर्वृतां च ।
देवीमनन्यगतिरीश्वरतां प्रपन्नां var देवीमनक्षगतिमीश्वरतां
तां नौमि भर्गवपुषीं परमार्थराज्ञीम् ॥ १ ॥

चतुर्भुजां चन्द्रकलार्धशेखरां सिंहासनस्थामुरगोपवीतिनीम् ।
var सिंहासनस्थां भुजगोपवीतिनीम् पाशाङ्कुशाम्भोरुहखड्गधारिणीं
राज्ञीं भजे चेतसि राज्यदायिनीम् ॥ २ ॥

ॐ ह्रीं श्रीं रां महाराज्ञी क्लीं सौः पञ्चदशाक्षरी ।
ह्रीं स्वाहा त्र्यक्षरी विद्या परा भगवती विभा ॥ १ ॥

ॐ भास्वती भद्रिका भीमा भर्गरूपा मनस्विनी ।
माननीया मनीषा च मनोजा च मनोजवा ॥ २ ॥

मानदा मन्त्रविद्या च महाविद्या षडक्षरी ।
षट्कूटा च त्रिकूटा च त्रयी वेदत्रयी शिवा ॥ ३ ॥

शिवाकारा विरूपाक्षी शशिखण्डावतंसिनी ।
महालक्ष्मीर्महोरस्का महौजस्का महोदया ॥ ४ ॥

मातङ्गी मोदकाहारा मदिरारुणलोचना ।
साध्वी शीलवती शाला सुधाकलशधारिणी ॥ ५ ॥

खड्गिनी पद्मिनी पद्मा पद्मकिञ्जल्करञ्जिता ।
हृत्पद्मवासिनी हृद्या पानपात्रधरा परा ॥ ६ ॥

धराधरेन्द्रतनया दक्षिणा दक्षजा दया । var दशना दया
दयावती महामेधा मोदिनी बोधिनी सदा ॥ ७ ॥

गदाधरार्चिता गोधा गङ्गा गोदावरी गया ।
महाप्रभावसहिता महोरगविभूषणा ॥ ८ ॥

महामुनिकृतातिथ्या माध्वी मानवती मघा ।
बाला सरस्वती लक्ष्मीर्दुर्गा दुर्गतिनाशिनी ॥ ९ ॥

शारी शरीरमध्यस्था वैखरी खेचरेश्वरी ।
शिवदा शिववक्षःस्था कालिका त्रिपुरेश्वरी ॥ १० ॥ var त्रिपुरापुरी

पुरारिकुक्षिमध्यस्था मुरारिहृदयेश्वरी ।
बलारिराज्यदा चण्डी चामुण्डा मुण्डधारिणी ॥ ११ ॥

मुण्डमालाञ्चिता मुद्रा क्षोभणाकर्षणक्षमा ।
ब्राह्मी नारायणी देवी कौमारी चापराजिता ॥ १२ ॥

रुद्राणी च शचीन्द्राणी वाराही वीरसुन्दरी ।
नारसिंही भैरवेशी भैरवाकारभीषणा ॥ १३ ॥

नागालङ्कारशोभाढ्या नागयज्ञोपवीतिनी ।
नागकङ्कणकेयूरा (१००) नागहारा सुरेश्वरी ॥ १४ ॥

सुरारिघातिनी पूता पूतना डाकिनी क्रिया ।
कूर्मा क्रियावती कृत्या डाकिनी लाकिनी लया ॥१५ ॥

var क्रियावती कुरी कृत्या, शाकिनी लया
लीलावती रसाकीर्णा नागकन्या मनोहरा ।
हारकङ्कणशोभाढ्या सदानन्दा शुभङ्करी ॥ १६ ॥

महासिनी मधुमती सरसी स्मरमोहिनी । var प्रहासिनी मधुमती
महोग्रवपुषी वार्ता वामाचारप्रिया सिरा ॥ १७ ॥

सुधामयी वेणुकरा वैरघ्नी वीरसुन्दरी ।
वारिमध्यस्थिता वामा वामनेत्रा शशिप्रभा ॥ १८ ॥

शङ्करी शर्मदा सीता रवीन्दुशिखिलोचना ।
मदिरा वारुणी वीणागीतिज्ञा मदिरावती ॥ १९ ॥

वटस्था वारुणीशक्तिः वटजा वटवासिनी ।
वटुकी वीरसूर्वन्द्या स्तम्भिनी मोहिनी चमूः ॥ २० ॥

मुद्गराङ्कुशहस्ता च वराभयकरा कुटी ।
पाटीरद्रुमवल्ली च वटुका वटुकेश्वरी ॥ २१ ॥

इष्टदा कृषिभूः कीरी रेवती रमणप्रिया ।
रोहिणी रेवती रम्या रमणा रोमहर्षिणी ॥ २२ ॥

रसोल्लासा रसासारा सारिणी तारिणी तडित् ।
तरी तरित्रहस्ता च तोतुला तरणिप्रभा ॥ २३ ॥

रत्नाकरप्रिया रम्भा रत्नालङ्कारशोभिता ।
रुक्माङ्गदा गदाहस्ता गदाधरवरप्रदा ॥ २४ ॥

षड्रसा द्विरसा माला मालाभरणभूषिता ।
मालती मल्लिकामोदा मोदकाहारवल्लभा ॥ २५ ॥

वल्लभी मधुरा माया काशी काञ्ची ललन्तिका ।
हसन्तिका हसन्ती च भ्रमन्ती च वसन्तिका ॥ २६ ॥

क्षेमा क्षेमङ्करी क्षामा क्षौमवस्त्रा (२००) क्षणेश्वरी ।
क्षणदा क्षेमदा सीरा सीरपाणिसमर्चिता ॥ २७ ॥

क्रीता क्रीतातपा क्रूरा कमनीया कुलेश्वरी ।
कूर्चबीजा कुठाराढ्या कूर्मिर्णी कूर्मसुन्दरी ॥ २८ ॥

कारुण्यार्द्रा च काश्मीरी दूती द्वारवती ध्रुवा । var कारुण्या चैव
ध्रुवस्तुता ध्रुवगतिः पीठेशी बगलामुखी ॥ २९ ॥

सुमुखी शोभना नीतिः रत्नज्वालामुखी नतिः ।
अलकोज्जयिनी भोग्या भङ्गी भोगावती बला ॥ ३० ॥

धर्मराजपुरी पूता पूर्णमालाऽमरावती । var पूर्णसत्त्वाऽमरावती
अयोध्या बोधनीया च युगमाता च यक्षिणी ॥ ३१ ॥ var योधनीया

यज्ञेश्वरी योगगम्या योगिध्येया यशस्विनी ।
यशोवती च चार्वङ्गी चारुहासा चलाचला ॥ ३२ ॥

हरीश्वरी हरेर्माया भामिनी वायुवेगिनी । var मायिनी वायुवेगिनी
अम्बालिकाऽम्बा भर्गेशी भृगुकूटा महामतिः ॥ ३३ ॥

कोशेश्वरी च कमला कीर्तिदा कीर्तिवर्धिनी ।
कठोरवाक्कुहूमूर्तिः चन्द्रबिम्बसमानना ॥ ३४ ॥

See Also  1000 Names Of Sri Lakshmi 2 In Malayalam

चन्द्रकुङ्कुमलिप्ताङ्गी कनकाचलवासिनी ।
मलयाचलसानुस्था हिमाद्रितनयातनूः ॥ ३५ ॥

हिमाद्रिकुक्षिदेशस्था कुब्जिका कोसलेश्वरी ।
कारैकनिगला गूढा गूढगुल्फाऽतिवेगिनी ॥ ३६ ॥ var गूढगुल्फाऽतिगोपिता

तनुजा तनुरूपा च बाणचापधरा नुतिः ।
धुरीणा धूम्रवाराही धूम्रकेशाऽरुणानना ॥ ३७ ॥

अरुणेशी द्युतिः ख्यातिः गरिष्ठा च गरियसी ।
महानसी महाकारा सुरासुरभयङ्करी ॥ ३८ ॥

अणुरूपा बृहज्ज्योतिरनिरुद्धा सरस्वती ।
श्यामा श्याममुखी शान्ता श्रान्तसन्तापहारिणी ॥ ३९ ॥

गौर्गण्या गोमयी गुह्या गोमती गरुवाग्रसा ।
गीतसन्तोषसंसक्ता (३००) गृहिणी ग्राहिणी गुहा ॥ ४० ॥

गणप्रिया गजगतिर्गान्धारी गन्धमोदिनी । गन्धमोहिनी
गन्धमादनसानुस्था सह्याचलकृतालया ॥ ४१ ॥

गजाननप्रिया गम्या ग्राहिका ग्राहवाहना ।
गुहप्रसूर्गुहावासा गृहमालाविभूषणा ॥ ४२ ॥

कौबेरी कुहका भ्रन्तिस्तर्कविद्याप्रियङ्करी ।
पीताम्बरा पटाकारा पताका सृष्टिजा सुधा ॥ ४३ ॥

दाक्षायणी दक्षसुता दक्षयज्ञविनाशिनी ।
ताराचक्रस्थिता तारा तुरी तुर्या त्रुटिस्तुला ॥ ४४ ॥

सन्ध्यात्रयी सन्धिजरा सन्ध्या तारुण्यलालिता ।
ललिता लोहिता लभ्या चम्पा कम्पाकुला सृणिः ॥ ४९ ॥

सृतिः सत्यवती स्वस्थाऽसमाना मानवर्धिनी ।
महोमयी मनस्तुष्टिः कामधेनुः सनातनी ॥ ४६ ॥

सूक्ष्मरूपा सूक्ष्ममुखी स्थूलरूपा कलावती ।
तलातलाश्रया सिन्धुः त्र्यम्बिका लम्पिका जया ॥ ४७ ॥

सौदामिनी सुधादेवी सनकदिसमर्चिता ।
मन्दाकिनी च यमुना विपाशा नर्मदानदी ॥ ४८ ॥

गण्डक्यैरावती सिप्रा वितस्ता च सरस्वती ।
रेवा चेक्षुमती वेगवती सागरवासिनी ॥ ४९ ॥

देवकी देवमाता च देवेशी देवसुन्दरी ।
दैत्येशी दमनी दात्री दितिर्दितिजसुन्दरी ॥ ५० ॥ var दैत्यघ्नी

विद्याधरी च विद्येशी विद्याधरजसुन्दरी ।
मेनका चित्रलेखा च चित्रिणी च तिलोत्तमा ॥ ५१ ॥

उर्वशी मोहिनी रम्भा चाप्सरोगणसुन्दरी ।
यक्षिणी यक्षलोकेशी यक्षनायकसुन्दरी ॥ ५२ ॥ var नरवाहनपूजिता

NOTE: The next line is not found in SVR’s book
यक्षेन्द्रतनया योग्या यक्षनायकसुन्दरी ।

गन्धवत्यर्चिता गन्धा सुगन्धा गीततत्परा ॥ ५३ ॥

गन्धर्वतनया नम्रा (४००) गीतिर्गन्धर्वसुन्दरी ।
मन्दोदरी करालाक्षी मेघनादवरप्रदा ॥ ५४ ॥

मेघवाहनसन्तुष्टा मेघमूर्तिश्च राक्षसी ।
रक्षोहर्त्री केकसी च रक्षोनायकसुन्दरी ॥ ५५ ॥

किन्नरी कम्बुकण्ठी च कलकण्ठस्वनाऽमृता var कलकण्ठस्वना सुधा
किम्मुखी हयवक्त्रा च खेलाकिन्नरसुन्दरी ॥ ५६ ॥

विपाशी राजमातङ्गी उच्छिष्टपदसंस्थिता ।
महापिशाचिनी चान्द्री पिशाचकुलसुन्दरी ॥ ५७ ॥

गुह्येश्वरी गुह्यरूपा गुर्वी गुह्यकसुन्दरी ।
सिद्धिप्रदा सिद्धवधूः सिद्धेशी सिद्धसुन्दरी ॥ ५८ ॥

भूतेश्वरी भूतलया भूतधात्री भयापहा ।
भूतभीतिहरी भव्या भूतजा भूतसुन्दरी ॥ ५९ ॥

पृथ्वी पार्थिवलोकेशी प्रथा विष्णुसमर्चिता ।
वसुन्धरा वसुनता पर्थिवी भूमिसुन्दरी ॥ ६० ॥

अम्भोधितनयाऽलुब्धा जलजाक्षी जलेश्वरी ।
अमूर्तिरम्मयी मारी जलस्था जलसुन्दरी ॥ ६१ ॥

तेजस्विनी महोधात्री तैजसी सूर्यबिम्बगा ।
सूर्यकान्तिः सूर्यतेजाः तेजोरूपैकसुन्दरी ॥ ६२ ॥

वायुवाहा वायुमुखी वायुलोकैकसुन्दरी ।
गगनस्था खेचरेशी शून्यरूपा निराकृतिः ॥ ६३ ॥ शूररूपा

निराभासा भासमाना धृतिराकाशसुन्दरी ।
क्षितिमूर्तिधराऽनन्ता क्षितिभृल्लोकसुन्दरी ॥ ६४ ॥

अब्धियाना रत्नशोभा वरुणेशी वरायुधा ।
पाशहस्ता पोषणा च वरुणेश्वरसुन्दरी ॥ ६५ ॥

अनलैकरुचिर्ज्योतिः पञ्चानिलमतिस्थितिः ।
प्राणापानसमानेच्छा चोदानव्यानरूपिणी ॥ ६६ ॥

पञ्चवातगतिर्नाडीरूपिणी वातसुन्दरी ।
अग्निरूपा वह्निशिखा वडवानलसन्निभा ॥ ६७ ॥

हेतिर्हविर्हुतज्योतिरग्निजा वह्निसुन्दरी ।
सोमेश्वरी सोमकला सोमपानपरायणा ॥ ६८ ॥

सौम्यानना सौम्यरूपा सोमस्था सोमसुन्दरी ।
सूर्यप्रभा सूर्यमुखी सूर्यजा सूर्यसुन्दरी ॥ ६९ ॥

याज्ञिकी यज्ञभागेच्छा यजमानवरप्रदा ।
याजकी यज्ञविद्या च यजमानैकसुन्दरी ॥ ७० ॥

आकाशगामिनी वन्द्या शब्दजाऽऽकाशसुन्दरी ।
मीनास्या मीननेत्रा च मीनास्था मीनसुन्दरी ॥ ७१ ॥

var मीनप्रिया मीननेत्रा मीनाशा मीनसुन्दरी
कूर्मपृष्ठगता कूर्मी कूर्मजा कूर्मसुन्दरी । var कूर्मरूपिणी
वाराही वीरसूर्वन्द्या वरारोहा मृगेक्षणा ॥ ७२ ॥

वराहमूर्तिर्वाचाला वश्या वाराहसुन्दरी । var दंष्ट्रा वाराहसुन्दरी
नरसिंहाकृतिर्देवी दुष्टदैत्यनिषूदिनी ॥ ७३ ॥

प्रद्युम्नवरदा नारी नरसिंहैकसुन्दरी ।
वामजा वामनाकारा नारायणपरायणा ॥ ७४ ॥

बलिदानवदर्पघ्नी वाम्या वामनसुन्दरी ।
रामप्रिया रामकला रक्षोवंशक्षयभयङ्करी ॥ ७५ ॥ रक्षोवंशक्षयङ्करी रक्षोवंशभयङ्करी

var रामप्रिया रामकीलिः क्षत्रवंशक्षयङ्करी
भृगुपुत्री राजकन्या रामा परशुधारिणी । var दनुपुत्री
भार्गवी भार्गवेष्टा च जामदग्न्यवरप्रदा ॥ ७६ ॥

कुठारधारिणी रात्रिर्जामदग्न्यैकसुन्दरी ।
सीतालक्ष्मणसेव्या च रक्षःकुलविनाशिनी ॥ ७७ ॥

रामप्रिया च शत्रुघ्नी शत्रुघ्नभरतेष्टदा ।
लावण्यामृतधाराढ्या लवणासुरघातिनी ॥ ७८ ॥

लोहितास्या प्रसन्नास्या स्वात्मारामैकसुन्दरी । var स्वागमा रामसुन्दरी
कृष्णकेशा कृष्णमुखी यादवान्तकरी लया ॥ ७९ ॥

यादोगणार्चिता योज्या राधा श्रीकृष्णसुन्दरी ।
सिद्धप्रसूः सिद्धदेवी जिनमार्गपरायणा ॥ ८० ॥ var बुद्धप्रसूर्बुद्धदेवी

जितक्रोधा जितालस्या जिनसेव्या जितेन्द्रिया ।
जिनवंशधरोग्रा च नीलान्ता बुद्धसुन्दरी ॥ ८१ ॥

काली कोलाहलप्रीता प्रेतवाहा सुरेश्वरी ।
कल्किप्रिया कम्बुधरा कलिकालैकसुन्दरी ॥ ८२ ॥

विष्णुमाया ब्रह्ममाया शाम्भवी शिववाहना ।
इन्द्रावरजवक्षःस्था स्थाणुपत्नी पलालिनी ॥ ८३ ॥

जृम्भिणी जृम्भहर्त्री च जृम्भमाणालकाकुला । var ऋम्भमाणकचालका
कुलाकुलफलेशानी पददानफलप्रदा ॥ ८४ ॥

कुलवागीश्वरी कुल्या कुलजा कुलसुन्दरी ।
पुरन्दरेड्या तारुण्यालया पुण्यजनेश्वरी ॥ ८५ ॥

पुण्योत्साहा पापहन्त्री पाकशासनसुन्दरी ।
सूयर्कोटिप्रतीकाशा सूर्यतेजोमयी मतिः ॥ ८६ ॥

लेखिनी भ्राजिनी रज्जुरूपिणी सूर्यसुन्दरी ।
चन्द्रिका च सुधाधारा ज्योत्स्ना शीतांशुसुन्दरी ॥ ८७ ॥

लोलाक्षी च शताक्षी च सहस्राक्षी सहस्रपात् ।
सहस्रशीर्षा चेन्द्राणी सहस्रभुजवल्लिका ॥ ८८ ॥

See Also  108 Names Of Kakaradi Kurma – Ashtottara Shatanamavali In Kannada

कोटिरत्नांशुशोभा च शुभ्रवस्त्रा शतानना ।
शतानन्दा श्रुतिधरा पिङ्गला चोग्रनादिनी ॥ ८९ ॥

सुषुम्ना हारकेयूरनूपुरारावसङ्कुला ।
घोरनादाऽघोरमुखी चोन्मुखी चोल्मूकायुधा ॥ ९० ॥

गोपिता गूर्जरी गोधा गायत्री वेदवल्लभा ।
वल्लकीस्वननादा च नादविद्या नदीतटी ॥ ९१ ॥

बिन्दुरूपा चक्रयोनिर्बिन्दुनादस्वरूपिणी ।
चक्रेश्वरी भैरवेशी महाभैरववल्लभा ॥ ९२ ॥

कालभैरवभार्या च कल्पान्ते रङ्गनर्तकी ।
प्रलयानलधूम्राभा योनिमध्यकृतालया ॥ ९३ ॥

भूचरी खेचरी मुद्रा नवमुद्राविलासिनी ।
वियोगिनी श्मशानस्था श्मशानार्चनतोषिता ॥ ९४ ॥

भास्वराङ्गी भर्गशिखा भर्गवामाङ्गवासिनी ।
भद्रकाली विश्वकाली श्रीकाली मेघकालिका ॥ ९५ ॥

नीरकाली कालरात्रिः काली कामेशकालिका ।
इन्द्रकाली पूर्वकाली पश्चिमाम्नायकालिका ॥ ९६ ॥

श्मशानकालिका शुभ्रकाली श्रीकृष्णकालिका । var भद्रकाली
क्रीङ्कारोत्तरकाली श्रीं हुं ह्रीं दक्षिणकालिका ॥ ९७ ॥

सुन्दरी त्रिपुरेशानी त्रिकूटा त्रिपुरार्चिता ।
त्रिनेत्रा त्रिपुराध्यक्षा त्रिकूटा कूटभैरवी ॥ ९८ ॥ var त्रिपुटा पुटभैरवी

त्रिलोकजननी नेत्री महात्रिपूरसुन्दरी ।
कामेश्वरी कामकला कालकामेशसुन्दरी ॥ ९९ ॥

त्र्यक्षर्येकाक्षरीदेवी भावना भुवनेश्वरी ।
एकाक्षरी चतुष्कूटा त्रिकूटेशी लयेश्वरी ॥ १०० ॥

चतुर्वर्णा च वर्णेशी वर्णाढ्या चतुरक्षरी ।
पञ्चाक्षरी च षड्वक्त्रा षट्कूटा च षडक्षरी ॥ १०१ ॥

सप्ताक्षरी नवार्णेशी परमाष्टाक्षरेश्वरी ।
नवमी पञ्चमी षष्टिः नागेशी नवनायिका ॥ १०२ ॥ var नागेशी च नवाक्षरी ।

दशाक्षरी दशास्येशी देविकैकादशाक्षरी ।
द्वादशादित्यसङ्काशा (७००) द्वादशी द्वादशाक्षरी ॥ १०३ ॥

त्रयोदशी वेदगर्भा वाद्या (ब्राह्मी) त्रयोदशाक्षरी ।
चतुर्दशाक्षरी विद्या विद्यापञ्चदशाक्षरी ॥ १०४ ॥

षोडशी सर्वविद्येशी महाश्रीषोडशाक्षरी ।
महाश्रीषोडशीरूपा चिन्तामणिमनुप्रिया ॥ १०५ ॥

द्वाविंशत्यक्षरी श्यामा महाकालकुटुम्बिनी ।
वज्रतारा कालतारा नारी तारोग्रतारिणी ॥ १०६ ॥

कामतारा स्पर्शतारा शब्दतारा रसाश्रया ।
रूपतारा गन्धतारा महानीलसरस्वती ॥ १०७ ॥

कालज्वाला वह्निज्वाला ब्रह्मज्वाला जटाकुला ।
विष्णुज्वाला जिष्णुशिखा भद्रज्वाला करालिनी ॥ १०८ ॥ विष्णुशिखा

विकरालमुखी देवी कराली भूतिभूषणा ।
चिताशयासना चिन्त्या चितामण्डलमध्यगा ॥ १०९ ॥

भूतभैरवसेव्या च भूतभैरवपालिनी ।
बन्धकी बद्धसन्मुद्रा भवबन्धविनाशिनी ॥ ११० ॥

भवानी देवदेवेशी दीक्षा दीक्षितपूजिता ।
साधकेशी सिद्धिदात्री साधकानन्दवर्धिनी ॥ १११ ॥

साधकाश्रयभूता च साधकेष्टफलप्रदा ।
रजोवती राजसी च रजकी च रजस्वला ॥ ११२ ॥

पुष्पप्रिया पुष्पपूर्णा स्वयम्भूपुष्पमालिका । var पुष्पप्रिया पुष्पवती
स्वयम्भूपुष्पगन्धाढ्या पुलस्त्यसुतनाशिनी ॥ ११३ ॥ var पुलस्त्यसुतघातिनी

पात्रहस्ता परा पौत्री पीतास्या पीतभूषणा ।
पिङ्गानना पिङ्गकेशी पिङ्गला पिङ्गलेश्वरी ॥ ११४ ॥

मङ्गला मङ्गलेशानी सर्वमङ्गलमङ्गला ।
पुरूरवेश्वरी पाशधरा चापधराऽधुरा ॥ ११५ ॥

पुण्यधात्री पुण्यमयी पुण्यलोकनिवासिनी ।
होतृसेव्या हकारस्था सकारस्था सुखावती ॥ ११६ ॥

सखी शोभावती सत्या सत्याचारपरायणा ।
साध्वीशानकलेशानी वामदेवकलाश्रिता ॥ ११७ ॥

सद्योजातकलेशानी शिवाऽघोरकलाकृतिः । var सद्योजातकला देवी
शर्वरी वीरसदृशी क्षीरनीरविवेचिनी (८००) ॥ ११८ ॥

वितर्कनिलया नित्या नित्यक्लिन्ना पराम्बिका ।
पुरारिदयिता दीर्घा दीर्घनासाऽल्पभाषिणी ॥ ११९ ॥

काशिका कौशिकी कोश्या कोशदा रूपवर्धिनी ।
तुष्टिः पुष्टिः प्रजाप्रीता पूजिता पूजकप्रिया ॥ १२० ॥ var प्राजिका पूजकप्रिया

प्रजावती गर्भवती गर्भपोषणकारिणी । var गर्भपोषणपोषिता
शुक्रवासाः शुक्लरूपा शुचिवासा जयावहा ॥ १२१ ॥

जानकी जन्यजनका जनतोषणतत्परा ।
वादप्रिया वाद्यरता वादिनी वादसुन्दरी ॥ १२२ ॥ var वादिता वादसुन्दरी

वाक्स्तम्भिनी कीरपाणिः धीराधीरा धुरन्धरा । var वाक्स्तम्भिनी कीरवाणी
स्तनन्धयी सामिधेनी निरानन्दा निरञ्जना ॥ १२३ ॥ var निरानन्दा निरालया

समस्तसुखदा सारा वारान्निधिवरप्रदा ।
वालुका वीरपानेष्टा वसुधात्री वसुप्रिया ॥ १२४ ।
शुकानान्दा शुक्ररसा शुक्रपूज्या शुकप्रिया ।
शुचिश्च शुकहस्ता च समस्तनरकान्तका ॥ १२५ ॥ var शुकी च शुकहस्ता च

समस्ततत्त्वनिलया भगरूपा भगेश्वरी ।
भगबिम्बा भगाहृद्या भगलिङ्गस्वरूपिणी ॥ १२६ ॥

भगलिङ्गेश्वरी श्रीदा भगलिङ्गामृतस्रवा ।
क्षीराशना क्षीररुचिः आज्यपानपरायणा ॥ १२७ ॥

मधुपानपरा प्रौढा पीवरांसा परावरा ।
पिलम्पिला पटोलेशा पाटलारुणलोचना ॥ १२८ ॥

क्षीराम्बुधिप्रिया क्षिप्रा सरला सरलायुधा ।
सङ्ग्रामा सुनया स्रस्ता संसृतिः सनकेश्वरी ॥ १२९ ॥

कन्या कनकरेखा च कान्यकुब्जनिवासिनी ।
काञ्चनोभतनुः काष्ठा कुष्ठरोगनिवारिणी ॥ १३० ॥

कठोरमूर्धजा कुन्ती कृन्तायुधधरा धृतिः ।
चर्माम्बरा क्रूरनखा चकोराक्षी चतुर्भुजा ॥ १३१ ॥

चतुर्वेदप्रिया चाद्या चतुर्वर्गफलप्रदा ।
ब्रह्माण्डचारिणी स्फुर्तिः ब्रह्माणी ब्रह्मसम्मता ॥ १३२ ॥

सत्कारकारिणी सूतिः सूतिका लतिकालया (९००)
कल्पवल्ली कृशाङ्गी च कल्पपादपवासिनी ॥ १३३ ॥

कल्पपाशा महाविद्या विद्याराज्ञी सुखाश्रया ।
भूतिराज्ञी विश्वराज्ञी लोकराज्ञी शिवाश्रया ॥ १३४ ॥

ब्रह्मराज्ञी विष्णुराज्ञी रुद्रराज्ञी जटाश्रया ।
नागराज्ञी वंशराज्ञी वीरराज्ञी रजःप्रिया ॥ १३५ ॥

सत्त्वराज्ञी तमोराज्ञी गणराज्ञी चलाचला ।
वसुराज्ञी सत्यराज्ञी तपोराज्ञी जपप्रिया ॥ १३६ ॥

मन्त्रराज्ञी वेदराज्ञी तन्त्रराज्ञी श्रुतिप्रिया ।
वेदराज्ञी मन्त्रिराज्ञी दैत्यराज्ञी दयाकरा ॥ १३७ ॥

कालराज्ञी प्रजाराज्ञी तेजोराज्ञी हराश्रया ।
पृथ्वीराज्ञी पयोराज्ञी वायुराज्ञी मदालसा ॥ १३८ ॥

सुधाराज्ञी सुराराज्ञी भीमराज्ञी भयोज्झिता ।
तथ्यराज्ञी जयाराज्ञी महाराज्ञी महामत्तिः ॥ १३९ ॥ var महाराज्ञी कुलोकृतिः

वामराज्ञी चीनराज्ञी हरिराज्ञी हरीश्वरी ।
पराराज्ञी यक्षराज्ञी भूतराज्ञी शिवाश्रया ॥ १४० ॥ var भूतराज्ञी शिवासना

वटुराज्ञी प्रेतराज्ञी शेषराज्ञी शमप्रदा । var बहुराज्ञी प्रेतराज्ञी
आकाशराज्ञी राजेशी राजराज्ञी रतिप्रिया ॥ १४१ ॥

See Also  1000 Names Of Sri Sharabha – Sahasranama Stotram 3 In Odia

पातालराज्ञी भूराज्ञी प्रेतराज्ञी विषापहा ।
सिद्धराज्ञी विभाराज्ञी तेजोराज्ञी विभामयी ॥ १४२ ॥

भास्वद्राज्ञी चन्द्रराज्ञी ताराराज्ञी सुवासिनी ।
गृहराज्ञी वृक्षराज्ञी लताराज्ञी मतिप्रदा ॥ १४३ ॥

वीरराज्ञी मनोराज्ञी मनुराज्ञी च काश्यपी । var धीरराज्ञी मनोराज्ञी
मुनिराज्ञी रत्नराज्ञी मृगराज्ञी मणिप्रभा ॥ १४४ ॥ var युगराज्ञी मणिप्रभा

सिन्धुराज्ञी नदीराज्ञी नदराज्ञी दरीस्थिता ।
नादराज्ञी बिन्दुराज्ञी आत्मराज्ञी च सद्गतिः ॥ १४५ ॥

पुत्रराज्ञी ध्यानराज्ञी लयराज्ञी सदेश्वरी ।
ईशानराज्ञी राजेशी स्वाहाराज्ञी महत्तरा ॥ १४६ ॥

वह्निराज्ञी योगिराज्ञी यज्ञराज्ञी चिदाकृतिः ।
जगद्राज्ञी तत्त्वराज्ञी वाग्राज्ञी विश्वरूपिणी ॥ १४७ ॥

पञ्चदशाक्षरीराज्ञी ॐ ह्रीं भूतेश्वरेश्वरी । ( १०००)
इतीदं मन्त्रसर्वस्वं राज्ञीनामसहस्रकम् ॥ १४८ ॥

पञ्चदशाक्षरीतत्त्वं मन्त्रसारं मनुप्रियम् ।
सर्वतत्त्वमयं पुण्यं महापातकनाशनम् ॥ १४९ ॥

सर्वसिद्धिप्रदं लोके सर्वरोगनिबर्हणम् ।
सर्वोत्पातप्रशमनं ग्रहशान्तिकरं शुभम् ॥ १५० ॥

सर्वदेवप्रियं प्राज्यं सर्वशत्रुभयापहम् ।
सर्वदुःखौघशमनं सर्वशोकविनाशनम् ॥ १५१ ॥

पठेद्वा पाठयेत् नाम्नां सहस्रं शक्तिसन्निधौ ।
दूरादेव पलायन्ते विपदः शत्रुभीतयः ॥ १५२ ॥

राक्षसा भूतवेतालाः पन्नगा हरिणद्विषः ।
पठनाद्विद्रवन्त्याशु महाकालादिव प्रजाः ॥ १५३ ॥

श्रवणात्पाताकं नश्येच्छ्रावयेद्यः स भाग्यवान् ।
नानाविधानि भोगानि सम्भूय पृथिवीतले ॥ १५४ ॥

गमिष्यति परां भूमिं त्वरितं नात्र संशयः ।

NOTE: The following verses (155-175) are not found
in S V Radhakrishna Sastri’s Book

अश्वमेधसहस्रस्य वाजिपेयस्य कोटयः ।
गङ्गास्नानसहस्रस्य चान्द्रायणायुतस्य च ॥ १५५ ॥

तप्तकृच्छेकलक्षस्य राजसूयस्य कोटयः ।
सहस्रनामपाठस्य कलां नार्हन्ति षोडशीम् ॥ १५६ ॥

सर्वसिद्धीश्वरं साध्यं राज्ञीनामसहस्रकम् ।
मन्त्रगर्भं पठेद्यस्तु राज्यकामो महेश्वरि ॥ १५७ ॥

वर्षमेकं शतावर्तं महाचीनक्रमाकुलः ।
शक्रिपूजापरो रात्रौ स लभेद्राज्यमीश्वरि ॥ १५८ ॥

पुत्रकामी पठेत्सायं चिताभस्मानुलेपनः ।
दिगम्बरो मुक्तकेशः शतावर्तं महेश्वरि ॥ १५९ ॥

श्मशाने तु लभेत्पुत्रं साक्षाद्वैश्रवणोपमम् ।
परदारार्चनरतो भगबिम्बं स्मरन् सुधीः ॥ १६० ॥

पठेन्नामसहस्रं तु वसुकामी लभेद्धनम् ।
रवौ वारत्रयं देवि पठेन्नामसहस्रकम् ॥ १६१ ॥

मृदुविष्टरनिर्विष्टः क्षीरपानपरायणः ।
स्वप्ने सिंहासनां राज्ञीं वरदां भुवि पश्यति ॥ १६२ ॥

क्षीरचर्वणसन्तृप्तो वीरपानरसाकुलः ।
यः पठेत्परया भक्त्या राज्ञीनामसहस्रकम् ॥ १६३ ॥

स सद्यो मुच्यते घोरान्महापातकजाद्भयात् ।
यः पठेत्साधको भक्त्या शक्तिवक्षःकृतासनः ॥ १६४ ॥

शुक्रोत्तरणकाले तु तस्य हस्तेऽष्टसिद्धयः ।
यः पठेन्निशि चक्राग्रे परस्त्रीध्यानतत्परः ॥ १६५ ॥

सुरासवरसानन्दी स लभेत्संयुगे जयम् ।
इदं नामसहस्रं तु सर्वमन्त्रमयं शिवे ॥ १६६ ॥

भूर्जत्वचि लिखेद्रात्रौ चक्रार्चनसमागमे ।
अष्टगन्धेन पूतेन वेष्टयेत् स्वर्णपत्रके ॥ १६७ ॥

धारयेत् कण्ठदेशे तु सर्वसिद्धिः प्रजायते ।
यो धारयेन्महारक्षां सर्वदेवातिदुर्लभाम् ॥ १६८ ॥

रणे राजकुले द्यूते चौररोगाद्युपद्रवे ।
स प्राप्नोति जयं सद्यः साधको वीरनायकः ॥ १६९ ॥

श्रीचक्रं पूजयेद्यस्तु धारयेद्वर्म मस्तके ।
पठेन्नामसहस्रं तु स्तोत्रं मन्त्रात्मकं तथा ॥ १७० ॥

किं किं न लभते कामं देवानामपि दुर्लभम् ।
सुरापानं ततः संविच्चर्वणं मीनमांसकम् ॥ १७१ ॥

नवकन्यासमायोगो मुद्रा वीणारवः प्रिये ।
सत्सङ्गो गुरुसान्निध्यं राज्ञीश्रीचक्रमग्रतः ॥ १७२ ॥

यस्य देवि स एव स्याद्योगी ब्रह्मविदीश्वरः ।
इदं रहस्यं परमं भक्त्या तव मयोदितम् ॥ १७२ ॥

अप्रकाश्यमदातव्यं न देयं यस्य कस्यचित् ।
अन्यशिष्याय दुष्टाय दुर्जनाय दुरात्मने ॥ १७४ ॥

गुरुभक्तिविहीनाय सुरास्त्रीनिन्दकाय च ।
नास्तिकाय कुशीलाय न देयं तत्त्वदर्शिभिः ॥ १७५ ॥

NOTE: S V Radhakrishna Sastri’s Book continues with the following:
देयं शिष्याय शान्ताय भक्तायाद्वैतवादिने ।
दीक्षिताय कुलीनाय राज्ञीभक्तिरताय च ॥ १७६ ॥

दत्त्वा भोगापवर्गे च लभेत्साधकसत्तमः ।
इति नामसहस्रं तु राज्ञ्याः शिवमुखोदितम् ।
अत्यन्तदुर्लभं गोप्यं गोपनीयं स्वयोनिवत् ॥ १७७ ॥

NOTE: the following two extra shlokams are found
in S V Radhakrishna Sastri’s Book

अष्टाविंशतिनैजमान्यमुनिभिः भाव्यां महायोगिभिः
श्रीवाणीकरवीजितां सुमकुटां श्रीचक्रबिन्दुस्थितां ।
पञ्चब्रह्मसुतत्वमञ्चनिलयां साम्राज्यसिद्धिप्रदां
श्रीसिंहासनसुन्दरीं भगवतीं राजेश्वरीमाश्रये ॥ १ ॥

श्वेतछत्रसुवालवीजननुता मालाकिरीटोज्ज्वला
सन्मन्दस्मितसुन्दरी शशिधरा ताम्बूलपूर्णानना ।
श्रीसिंहासनसंस्थिता सुमशरा श्रीवीरवर्यासना
साम्राज्ञी मनुषोडशी भगवती मां पातु राजेश्वरी ॥ २ ॥

॥ इति श्रीरुद्रयामले तन्त्रे दशविद्यारहस्ये
श्रीमहाराज्ञीसहस्रनामस्तोत्रम् समाप्तम् ॥

– Chant Stotra in Other Languages -1000 Names of Maha Rajni:

1000 Names of Sri Maharajni – Sahasranama Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil

This work was proof read using the version found in S.V.Radhakrishna Sastri’s Book, ᳚Bhagavati stutimanjari (pages 158-173). We find a few extra verses here, that are not found in this book. In Radhakrishna Sastri’s book, the verse
sequence 1-156 starts from the following shlokam. Also, in verse No. 49, SVR’s book uses six padas (3 lines instead of four padas in 2 lines), so the actual count in the book and the encoded version may be slightly different.

The var is used to indicate variation or pathabheda found in two different prints.