108 Names of Gauri 2 in Sanskrit

॥ 108 Names of Gauri 2 Sanskrit Lyrics ॥

॥ श्रीगौर्यष्टोत्तरशतनामावलिः २ ॥

श्रीस्वर्णगौर्यष्टोत्तरशतनामावलिः च ।

ॐ महामनोन्मणीशक्त्यै नमः ।
ॐ शिवशक्त्यै नमः ।
ॐ शिवंकर्यै नमः ।
ॐ इच्छाशक्ति क्रियाशक्ति ज्ञानशक्ति स्वरूपिण्यै नमः ।
ॐ शान्त्यतीत कलानन्दायै नमः ।
ॐ शिवमायायै नमः ।
ॐ शिवप्रियायै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ सौम्यायै नमः ॥ १० ॥

ॐ सच्चिदानन्दरूपिण्यै नमः ।
ॐ परापरामय्यै नमः ।
ॐ बालायै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ कुण्डल्यै नमः ।
ॐ शिवायै नमः ।
ॐ रुद्राण्यै नमः ।
ॐ विजयायै नमः ।
ॐ सर्वायै नमः ।
ॐ शर्वाण्यै नमः ॥ २० ॥

ॐ भुवनेश्वर्यै नमः ।
ॐ कल्याण्यै नमः ।
ॐ शूलिन्यै नमः ।
ॐ कान्तायै नमः ।
ॐ महात्रिपुरसुन्दर्यै नमः ।
ॐ मालिन्यै नमः ।
ॐ मानिन्यै नमः ।
ॐ मदनोल्लास मोहिन्यै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ मातङ्ग्यै नमः ॥ ३० ॥

ॐ शिवकाम्यै नमः ।
ॐ चिदात्मिकायै नमः ।
ॐ कामाक्ष्यै नमः ।
ॐ कमलाक्ष्यै नमः ।
ॐ मीनाक्ष्यै नमः ।
ॐ सर्वसाक्षिण्यै नमः ।
ॐ उमादेव्यै नमः ।
ॐ महाकाल्यै नमः ।
ॐ सामायै नमः ।
ॐ सर्वजनप्रियायै नमः ॥ ४० ॥

ॐ चित्पुरायै नमः ।
ॐ चिद्घनानन्दायै नमः ।
ॐ चिन्मय्यै नमः ।
ॐ चित्स्वरूपिण्यै नमः ।
ॐ महासरस्वत्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ ज्वालादुर्गादिमोहिन्यै नमः ।
ॐ नकुल्यै नमः ।
ॐ शुद्धविद्यायै नमः ।
ॐ सच्चिदानन्दविग्रहायै नमः ॥ ५० ॥

ॐ सुप्रभायै नमः ।
ॐ सुप्रभाज्वालायै नमः ।
ॐ इन्द्राक्ष्यै नमः ।
ॐ सर्वमोहिन्यै नमः ।
ॐ महेन्द्रजालमध्यस्थायै नमः ।
ॐ मायायै नमः ।
ॐ मायाविनोदिन्यै नमः ।
ॐ विश्वेश्वर्यै नमः ।
ॐ वृषारूढायै नमः ।
ॐ विद्याजालविनोदिन्यै नमः ॥ ६० ॥

ॐ मन्त्रेश्वर्यै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ महाकालीफलप्रदायै नमः ।
ॐ चतुर्वेदविशेषज्ञायै नमः ।
ॐ सावित्र्यै नमः ।
ॐ सर्वदेवतायै नमः ।
ॐ महेन्द्राण्यै नमः ।
ॐ गणाध्यक्षायै नमः ।
ॐ महाभैरवपूजितायै नमः ।
ॐ महामायायै नमः ॥ ७० ॥

ॐ महाघोरायै नमः ।
ॐ महादेव्यै नमः ।
ॐ मलापहायै नमः ।
ॐ महिषासुरसंहार्यै नमः ।
ॐ चण्डमुण्डकुलान्तकायै नमः ।
ॐ चक्रेश्वर्यै नमः ।
ॐ चतुर्वेद्यै नमः ।
ॐ सर्वदायै नमः ।
ॐ सुरनायिक्यै नमः ।
ॐ षट्शास्त्रनिपुणायै नमः ॥ ८० ॥

ॐ नित्यायै नमः ।
ॐ षड्दर्शनविचक्षणायै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ कलातीतायै नमः ।
ॐ कविराजमनोहरायै नमः ।
ॐ शारदातिलकाकारायै नमः ।
ॐ धीरायै नमः ।
ॐ धीरजनप्रियायै नमः ।
ॐ उग्रभार्यै नमः ।
ॐ महाभार्यै नमः ॥ ९० ॥

ॐ क्षिप्रमार्यै नमः ।
ॐ रणप्रियायै नमः ।
ॐ अन्नपूर्णेश्वर्यै नमः ।
ॐ मात्रे नमः ।
ॐ स्वर्णाकारतटित्प्रभायै नमः ।
ॐ स्वरव्यंजनवर्णोदयायै नमः ।
ॐ गद्यपद्यादिकारणायै नमः ।
ॐ पदवाक्यार्थनिलयायै नमः ।
ॐ बिन्दुनादादिकारणायै नमः ।
ॐ मोक्षेशमहिष्यै नमः ॥ १०० ॥

ॐ सत्यायै नमः ।
ॐ भुक्तिमुक्तिफलप्रदायै नमः ।
ॐ विज्ञानदायिन्यै नमः ।
ॐ प्रज्ञायै नमः ।
ॐ प्रज्ञानफलदायिन्यै नमः ।
ॐ अहंकारकलातीतायै नमः ।
ॐ पराशक्त्यै नमः ।
ॐ परात्परायै नमः ॥ १०८ ॥

। इति श्रीस्वर्णगौर्यष्टोत्तरशतनामावलिः ॥

– Chant Stotra in Other Languages –

Durga Slokam » Sri Gauri Ashtottarashata Namavali » 108 Names of Gauri 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

Share this

Leave a Reply

Your email address will not be published. Required fields are marked *