108 Names Of Chandrashekhar Indra Saraswati In Sanskrit

॥ 108 Names of Chandrashekhar Indra Saraswati Sanskrit Lyrics ॥

॥ श्रीचन्द्रशेखरेन्द्रसरस्वत्यष्टोत्तरशतनामावलिः ॥

महास्वामिपादाष्टोत्तरशतनामावलिः

श्रीकाञ्चीकामकोटिपीठाधीश्वर जगद्गुरु
श्रीश्रीचन्द्रशेखरेन्द्रसरस्वती अष्टोत्तरशत नामावलिः ।

ॐ श्रीकाञ्चीकामकोटिपीठाधीश्वराय नमः ।
ॐ श्रीचन्द्रशेखरेन्द्रसरस्वतीगुरुभ्यो नमः ।
ॐ संन्यासाश्रमशिखराय नमः ।
ॐ काषायदण्डधारिणे नमः ।
ॐ सर्वपीडापहारिणे नमः ।
ॐ स्वामिनाथगुरवे नमः ।
ॐ करुणासागराय नमः ।
ॐ जगदाकर्षणशक्तिमते नमः ।
ॐ सर्वसराचरहृदयस्थाय नमः ।
ॐ भक्तपरिपालकश्रेष्ठाय नमः ॥ १० ॥

ॐ धर्मपरिपालकाय नमः ।
ॐ श्रीजयेन्द्रसरस्वत्याचार्याय नमः ।
ॐ श्रीविजयेन्द्रसरस्वतीपूजिताय नमः ।
ॐ शिवशक्तिस्वरूपाय नमः ।
ॐ भक्तजनप्रियाय नमः ।
ॐ ब्रह्मविष्णुशिवैक्यस्वरूपाय नमः ।
ॐ काञ्चीक्षेत्रवासाय नमः ।
ॐ कैलाशशिखरवासाय नमः ।
ॐ स्वधर्मपरिपोषकाय नमः ।
ॐ चातुर्वर्ण्यसंरक्षकाय नमः ॥ २० ॥

ॐ लोकरक्षणसङ्कल्पाय नमः ।
ॐ ब्रह्मनिष्ठापराय नमः ।
ॐ सर्वपापहराय नमः ।
ॐ धर्मरक्षणसन्तुष्टाय नमः ।
ॐ भक्तार्पितधनस्वीकर्त्रे नमः ।
ॐ सर्वोपनिषत्सारज्ञाय नमः ।
ॐ सर्वशास्त्रगम्याय नमः ।
ॐ सर्वलोकपितामहाय नमः ।
ॐ भक्ताभीष्टप्रदायकाय नमः ।
ॐ ब्रह्मण्यपोषकाय नमः ॥ ३० ॥

ॐ नानविधपुष्पार्चितपदाय नमः ।
ॐ रुद्राक्षकिरीटधारिणे नमः ।
ॐ भस्मोद्धूलितविग्रहाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वचराचरव्यापकाय नमः ।
ॐ अनेकशिष्यपरिपालकाय नमः ।
ॐ मनश्चाञ्चल्यनिवर्तकाय नमः ।
ॐ अभयहस्ताय नमः ।
ॐ भयापहाय नमः ।
ॐ यज्ञपुरुषाय नमः ॥ ४० ॥

See Also  1000 Names Of Sri Pranava – Sahasranamavali Stotram In Sanskrit

ॐ यज्ञानुष्ठानरुचिप्रदाय नमः ।
ॐ यज्ञसम्पन्नाय नमः ।
ॐ यज्ञसहायकाय नमः ।
ॐ यज्ञफलदाय नमः ।
ॐ यज्ञप्रियाय नमः ।
ॐ उपमानरहिताय नमः ।
ॐ स्फटिकतुलसीरुद्राक्षहारधारिणे नमः ।
ॐ चातुर्वर्ण्यसमदृष्टये नमः ।
ॐ ऋग्य़जुस्सामाथर्वणचतुर्वेदसंरक्षकाय नमः ।
ॐ दक्षिणामूर्तिस्वरूपाय नमः ॥ ५० ॥

ॐ जाग्रत्स्वप्नसुषुप्त्यवस्थातीताय नमः ।
ॐ कोटिसूर्यतुल्यतेजोमयशरीराय नमः ।
ॐ साधुसङ्घसंरक्षकाय नमः ।
ॐ अश्वगजगोपूजानिर्वर्तकाय नमः ।
ॐ गुरुपादुकापूजाधुरन्धराय नमः ।
ॐ कनकाभिषिक्ताय नमः ।
ॐ स्वर्णबिल्वदलपूजिताय नमः ।
ॐ सर्वजीवमोक्षदाय नमः ।
ॐ मूकवाग्दाननिपुणाय नमः ।
ॐ नेत्रदीक्षादानाय नमः ॥ ६० ॥

ॐ द्वादशलिङ्गस्थापकाय नमः ।
ॐ गानरसज्ञाय नमः ।
ॐ ब्रह्मज्ञानोपदेशकाय नमः ।
ॐ सकलकलासिद्धिदाय नमः ।
ॐ चातुर्वर्ण्यपूजिताय नमः ।
ॐ अनेकभाषासम्भाषणकोविदाय नमः ।
ॐ अष्टसिद्धिप्रदायकाय नमः ।
ॐ श्रीशारदामठसुस्थिताय नमः ।
ॐ नित्यान्नदानसुप्रीताय नमः ।
ॐ प्रार्थनामात्रसुलभाय नमः ॥ ७० ॥

ॐ पादयात्राप्रियाय नमः ।
ॐ नानाविधमतपण्डिताय नमः ।
ॐ श्रुतिस्मृतिपुराणज्ञाय नमः ।
ॐ देवयक्षकिन्नरकिंपुरुषपूज्याय नमः ।
ॐ श्रवणानन्दकरकीर्तये नमः ।
ॐ दर्शनानन्दाय नमः ।
ॐ अद्वैतानन्दभरिताय नमः ।
ॐ अव्याजकरुणामूर्तये नमः ।
ॐ शैववैष्णवादिमान्याय नमः ।
ॐ शङ्कराचार्याय नमः ॥ ८० ॥

See Also  1000 Names Of Sri Subrahmanya In Odia

ॐ दण्डकमण्डलुहस्ताय नमः ।
ॐ वीणामृदङ्गादिसकलवाद्यनादस्वरूपाय नमः ।
ॐ रामकथारसिकाय नमः ।
ॐ वेदवेदाङ्गागमादि सकलकलासदःप्रवर्तकाय नमः ।
ॐ हृदयगुहाशयाय नमः ।
ॐ शतरुद्रीयवर्णितस्वरूपाय नमः ।
ॐ केदारेश्वरनाथाय नमः ।
ॐ अविद्यानाशकाय नमः ।
ॐ निष्कामकर्मोपदेशकाय नमः ।
ॐ लघुभक्तिमार्गोपदेशकाय नमः ॥ ९० ॥

ॐ लिङ्गस्वरूपाय नमः ।
ॐ सालग्रामसूक्ष्मस्वरूपाय नमः ।
ॐ कालट्यांशङ्करकीर्तिस्तम्भनिर्माणकर्त्रे नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ शरणागतवत्सलाय नमः ।
ॐ श्रीशैलशिखरवासाय नमः ।
ॐ डमरुकनादविनोदाय नमः ।
ॐ वृषभारूढाय नमः ।
ॐ दुर्मतनाशकाय नमः ।
ॐ आभिचारिकदोषहर्त्रे नमः ॥ १०० ॥

ॐ मिताहाराय नमः ।
ॐ मृत्युविमोचनशक्ताय नमः ।
ॐ श्रीचक्रार्चनतत्पराय नमः ।
ॐ दासानुग्रहकारकाय नमः ।
ॐ अनुराधानक्षत्रजाताय नमः ।
ॐ सर्वलोकख्यातशीलाय नमः ।
ॐ वेङ्कटेश्वरचरणपद्मषट्पदाय नमः ।
ॐ श्रीत्रिपुरसुन्दरीसमेतश्रीचन्द्रमौलीश्वरपूजप्रियाय नमः । 108 ।

इति श्रीकाञ्चीकामकोटिपीठाधीश्वर जगद्गुरु शङ्कराचार्य
श्रीचन्द्रशेखरेन्द्रसरस्वत्यष्टोत्तरशतनामावलिः सम्पूर्णा ॥

– Chant Stotra in Other Languages –

Parmacharya Sri Chandrashekharendrasarasvati Ashtottarashata Namavali » 108 Names of Chandrashekhar Indra Saraswati Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  1000 Names Of Narayanasahasranamastotra From Lakshminarayaniyasamhita In Tamil