108 Names Of Markandeya – Ashtottara Shatanamavali In Sanskrit

॥ Sri Markandeya Ashtottarashata Namavali Sanskrit Lyrics ॥

।। श्रीमार्कण्डेयाष्टोत्तरशतनामावलिः ।।
अस्य श्रीमार्कण्डेयमन्त्रस्य जैमिनिरृषिः मार्कण्डेयो देवता ।
मार्कण्डेय अङ्गुष्ठाभ्यां नमः हृदयाय नमः ।
महाभाग तर्जिनीभ्यां नमः शिरसे स्वाहा ।
सप्तकल्पान्तजीवन मध्यमाभ्यां नमः शिखायै वषट् ।
आयुरारोग्यमैश्वर्यं अनामिकाभ्यां नमः कवचाय हूम् ।
देहि मे कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौषट् ।
मुनिपुङ्गव करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् ॥

अथ ध्यानम् –
आजानुबाहुं जटिलं कमण्डलुधरं शुभम् ।
मृकण्डतनयं ध्यायेद् द्विभुजं साक्षसूत्रकम् ॥

अथाङ्गपूजा –
(ॐ इति मन्त्रादौ सर्वत्र योजयेत् ।)
ॐ मार्कण्डेयाय नमः पादौ पूजयामि ।
ॐ भृगुवंशसमुद्भवाय नमः गुल्फो पूजयामि ।
ॐ जगद्वन्द्याय नमः जानुनी पूजयामि ।
ॐ उरुस्थैर्याय नमः ऊरू पूजयामि ।
ॐ धर्मधात्रे नमः काटिं पूजयामि ।
ॐ अघनाशनाय नमः नाभिं पूजयामि ।
ॐ वेदविदे नमः उदरं पूजयामि ।
त्रिकालज्ञाय हृदयं पूजयामि ।
मृकण्डुपुत्राय स्तनौ पूजयामि ।
शुभ्रयज्ञोपवीताय कण्ठं पूजयामि ।
महोर्ध्वबाहवे बाहू पूजयामि ।
कमण्डलुधराय हस्तौ पूजयामि ।
प्रसन्नवदनाय मुखं पूजयामि ।
प्राणायामपरायणाय नासिकां पूजयामि ।
ज्ञानचक्षुषे नेत्रे पूजयामि ।
जितेन्द्रियाय कर्णौ पूजयामि ।
दीर्घजीवाय ललाटं पूजयामि ।
जटिलाय शिरः पूजयामि । इत्यङ्गपूजा ॥

See Also  1000 Names Of Sri Garuda – Sahasranamavali Stotram In Bengali

अथ अष्टोत्तरशतनामपूजा –
(ॐ इति प्रणवं एवं अन्ते नमः सर्वत्र योजयेत् ) ।
ॐ मार्कण्डेयाय नमः । भार्गवर्षभाय । ब्रह्मर्षिवर्याय ।
दीर्घजीवाय । महात्मने । सर्वलोकहितैषिणे । ज्ञानार्णवाय ।
निर्विकाराय । वाग्यताय । जितमृत्यवे । संयमिने ।
ध्वस्तक्लेशान्तरात्मने । दुराधर्षाय । धीमते । निःसङ्गाय ।
भूतवत्सलाय । परमात्मैकान्तभक्ताय । निर्वैराय । समदर्शिने ।
विशालकीर्तये नमः ॥ २० ॥

ॐ महापुण्याय नमः । अजराय । अमराय । त्रैकालिकमहाज्ञानाय ।
विज्ञानवते । विरक्तिमते । ब्रह्मवर्चस्विने । पुराणाचार्याय ।
प्राप्तमहायोगमहिम्ने । अनुभूताद्भुतभगवन्मायावैभवाय ।
सर्वधर्मविदां वराय । सत्यव्रताय । सर्वशास्त्रार्थपरायणाय ।
तपःस्वाध्यायसंयुताय । बृहद्व्रतधराय । शान्ताय । जटिलाय ।
वल्कलाम्बराय । कमण्डलुधराय । दण्डहस्ताय नमः ॥ ४० ॥

ॐ शुभ्रयज्ञोपवीताय नमः । सुमेखलाय । कृष्णाजिनभृते ।
नरनारायणप्रियाय । अक्षसूत्रधराय । महायोगाय । रुद्रप्रियाय ।
भक्तकामदाय । आयुष्प्रदाय । आरोग्यदायिने । सर्वैश्वर्यसुखदायकाय ।
महातेजसे । महाभागाय । जितविक्रमाय । विजितक्रोधाय । ब्रह्मज्ञाय ।
ब्राह्मणप्रियाय । मुक्तिदाय । वेदविदे । मान्धाय नमः ॥ ६० ॥

ॐ सिद्धाय नमः । धर्मात्मने । प्राणायामपरायणाय ।
शापानुग्रहशक्ताय । वन्द्याय । शमधनाय । जीवन्मुक्ताय ।
श्रद्धावते । ब्रह्मिष्ठाय । भगवते । पवित्राय । मेधाविने ।
सुकृतिने । कुशासनोपविष्टाय । पापहराय । पुण्यकराय । जितेन्द्रियाय ।
अग्न्यर्कोपासकाय । धृतात्मने । धैर्यशालिने नमः ॥ ८० ॥

See Also  1008 Names Of Sri Gayatri In Telugu

ॐ महोत्साहाय नमः । उरुस्थैर्याय । उत्तारणाय । सिद्धसमाधये ।
क्षमावते । क्षेमकर्त्रे । श्रीकराय । समलोष्टाश्मकाञ्चनाय ।
छिन्नसंशयाय । संशयच्छेत्रे । शोकशून्याय । शोकहराय ।
सुकर्मणे । जयशालिने । जयप्रदाय । ध्यानधनाय । शान्तिदाय ।
नीतिमते । निर्द्वन्द्वाय । सर्वभूतात्मभूतात्मने नमः ॥ १०० ॥

ॐ विनयपूर्णाय नमः । स्थिरबुद्धये । ब्रह्मयोगयुक्तात्मने ।
अन्तःसुखाय । अन्तरारामाय । अन्तर्ज्योतिषे । विगतेच्छाय । विगतभयाय
नमः ॥ १०८ इति ॥

नमस्तुभ्यं द्विजश्रेष्ठ दीर्घजीविन्नमोऽस्तु ते ।
नारायणस्वरूपाय नमस्तुभ्यं महात्मने ॥

नमो मृकण्डुपुत्राय सर्वलोकहितैषिणे ।
ज्ञानार्णवाय वै तुभ्यं निर्विकाराय वै नमः ॥

इति श्रीमार्कण्डेयाष्टोत्तरशतनामावलिः समाप्ता ।

– Chant Stotra in Other Languages -108 Names of Sri Markandeya:

108 Names of Markandeya – Ashtottara Shatanamavali in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil