108 Names Of Rama 9 – Ashtottara Shatanamavali In Sanskrit

॥ Sri Rama 9 Ashtottarashata Namavali Sanskrit Lyrics ॥

।। मन्त्रवर्णयुत श्रीरामाष्टोत्तरशतनामावलिः ९ ।।
ॐ श्रीमत्सूर्यकुलाम्बोधिवर्धनीयकलानिधये नमः ।
ॐ श्रीमद्ब्रह्मेन्द्ररुद्रादिवन्दनीय जगद्गुरवे नमः ।
ॐ श्रीमत्सौभाग्यसौन्दर्यलावण्याम्बुधिपङ्कजाय नमः ।
ॐ श्रीमच्चिन्तामणीपीठस्वर्णसिंहासनेश्वराय नमः ।
ॐ श्रीमद्राजाधिराजेन्द्रमकुटाङ्कितपादुकाय नमः ।
ॐ श्रीमद्धिमाद्रिराजेन्द्रकन्याध्येयपदाम्बुजाय नमः ।
ॐ श्रीमत्सृष्ट्यादिविविधकार्यकारणमूर्तिमते नमः ।
ॐ श्रीमदम्लानतुलसीवनमालाविराजिताय नमः ।
ॐ श्रीमत्सुरासुराराध्यपादपद्मविराजिताय नमः ।
ॐ श्रीजगन्मोहनाकारदिव्यलावण्यविग्रहाय नमः ॥ १० ॥

ॐ श्रीश‍ृङ्गाररसाम्भोधिप्रोद्यत्पूर्णसुधाकराय नमः ।
ॐ श्रीकण्ठकरकोदण्डपरीक्षितपराक्रमाय नमः ।
ॐ श्रीवत्सलाञ्छनात्यन्तमणिभूषणभूषिताय नमः ।
ॐ श्रीभूनीलाङ्गनासङ्गपुलकाङ्कितविग्रहाय नमः ।
ॐ श्रीसाम्बदेवहृत्पद्मविकासनदिवाकराय नमः ।
ॐ श्रीक्षीरवार्धिपर्यङ्कविहारात्यन्तबालकाय नमः ।
ॐ श्रीकराकारकोदण्डकाण्डोपेतकराम्बुजाय नमः ।
ॐ श्रीजानकीमुखाम्भोजमण्डनीयप्रभाकराय नमः ।
ॐ रामाजनमनोहारीदिव्यकन्दर्पविग्रहाय नमः ।
ॐ रमामनोज्ञवक्षोजदिव्यगन्धसुवासिताय नमः ॥ २० ॥

ॐ रमावक्षोजकस्तूरिवासनास्वादलोलुपाय नमः ।
ॐ राजाधिराजराजेन्द्ररमणीयगुणाकराय नमः ।
ॐ रावणादिवधोद्युक्तविजृम्भितपराक्रमाय नमः ।
ॐ राकेन्द्वराग्निविमलनेत्रत्रयविभूषिताय नमः ।
ॐ रात्रिञ्चरौघमत्तेभनिर्भेदनमृगेश्वराय नमः ।
ॐ राजत्सौदामिनीतुल्यदिव्यकोदण्डमण्डनाय नमः ।
ॐ राक्षसेश्वरसंसेव्यदिव्यश्रीपादपङ्कजाय नमः ।
ॐ राकेन्दुकुलसम्भूतरमणीप्राणनायकाय नमः ।
ॐ रत्ननिर्मितभूषार्यचरणाम्बुजशोभिताय नमः ।
ॐ राघवान्वयसञ्जातनृपश्रेणीशिरोमणये नमः ॥ ३० ॥

ॐ राकाशशिसमाकारवक्त्रमण्डलमण्डिताय नमः ।
ॐ रावणासुरकासारचण्डभानुशरोत्तमाय नमः ।
ॐ रणत्सङ्गीतसम्पूर्णसहस्रस्तम्भमण्डपाय नमः ।
ॐ रत्नमण्डपमध्यस्थसुन्दरीजनवेष्टिताय नमः ।
ॐ रणत्किङ्किणिसंशोधिमण्डलीकृतकार्मुकाय नमः ।
ॐ रत्नौघकान्तिविलसद्धोलाखेलनशीलनाय नमः ।
ॐ माणिक्योज्ज्वलसन्दीप्तकुण्डलद्वयमण्डिताय नमः ।
ॐ मानिनीजनमध्यस्थसौन्दर्यातिशयाश्रयाय नमः ।
ॐ मन्दस्मिताननाम्भोजमोहितानेकतापसाय नमः ।
ॐ मायामारीचसंहारकारणानन्दविग्रहाय नमः ॥ ४० ॥

See Also  1000 Names Of Sri Shiva – Sahasranamastotram In Tamil

ॐ मकराक्षादिदुस्साध्यदुष्टदर्पापहारकाय नमः ।
ॐ माद्यन्मधुव्रतव्रातविलसत्केशसंवृताय नमः ।
ॐ मनोबुद्धीन्द्रियप्राणवागादीनांविलक्षणाय नमः ।
ॐ मनस्सज्कल्पमात्रेणनिर्मिताजाण्डकोटिकाय नमः ।
ॐ मारुतात्मजसंसेव्यदिव्यश्रीचरणाम्बुजाय नमः ।
ॐ मायामानुषवेषेणमायिकासुरखण्डनाय नमः ।
ॐ मार्ताण्डकोटिज्वलितमकराकारकुण्डलाय नमः ।
ॐ मालतीतुलसीमाल्यवासिताखिलविग्रहाय नमः ।
ॐ मारकोटिप्रतीकाशमहदद्भुतदेहभृते नमः ।
ॐ महनीयदयावेशकलितापाङ्गलोचनाय नमः ॥ ५० ॥

ॐ मकरन्दरसास्वाद्यमाधुर्यगुणभूषणाय नमः ।
ॐ महादेवसमाराध्यमणिनिर्मितपादुकाय नमः ।
ॐ महामाणिक्यखचिताखण्डतूणीधनुर्धराय नमः ।
ॐ मन्दरोद्भूतदुग्धाब्धिबिन्दुपुञ्जविभूषणाय नमः ।
ॐ यक्षकिन्नरगन्धर्वस्तूयमानपराक्रमाय नमः ।
ॐ यजमानजनानन्दसन्धानचतुरोद्यमाय नमः ᳚ ।
ॐ यमाद्यष्टाङ्गशीलादियमिहृत्पद्मगोचराय नमः ।
ॐ यशोदाहृदयानन्दसिन्धुपूर्णसुधाकराय नमः ।
ॐ याज्ञ्यवल्क्यादिऋषिभिस्संसेवितपदद्वयाय नमः ।
ॐ यमलार्जुनपापौघपरिहारपदाम्बुजाय नमः ॥ ६० ॥

ॐ याकिनीकुलसम्भूतपीडाजालापहारकाय नमः ।
ॐ यादःपतिपयःक्षोभकारिबाणशरासनाय नमः ।
ॐ यामिनीपद्मिनीनाथकृतश्रीकर्णकुण्डलाय नमः ।
ॐ यातुधानाग्रणीभूतविभीषणवरप्रदाय नमः ।
ॐ यागपावकसञ्जातद्रौपदीमानरक्षकाय नमः ।
ॐ यक्षरक्षश्शिक्षणार्थमुद्यद्भीषणसायकाय नमः ।
ॐ यामार्धेनदशग्रीवसैन्यनिर्मूलनास्त्रविदे नमः ।
ॐ यजनानन्दसन्दोहमन्दस्मितमुखाम्बुजाय नमः ।
ॐ यामलागमवेदैकस्तूयमानयशोधनाय नमः ।
ॐ याकिनीसाकिनीस्थानषडाधाराम्भुजाश्रयाय नमः ॥ ७० ॥

ॐ यतीन्द्रबृन्दसंसेव्यमानाखण्डप्रभाकराय नमः ।
ॐ यथोचितान्तर्यागादिपूजनीयमहेश्वराय नमः ।
ॐ नानावेदादिवेदान्तैः प्रशंसितनिजाकृतये नमः ।
ॐ नारदादिमुनिप्रेमानन्दसन्दोहवर्धनाय नमः ।
ॐ नागराजाङ्कपर्यङ्कशायिसुन्दरविग्रहाय नमः ।
ॐ नागारिमणिसङ्काशदेहकान्तिविराजिताय नमः ।
ॐ नागेन्द्रफणिसोपाननृत्यलीलाविशारदाय नमः ।
ॐ नमद्गीर्वाणमकुटमणिरञ्जितपादुकाय नमः ।
ॐ नागेन्द्रभूषणप्रेमातिशयप्राणवल्लभाय नमः ।
ॐ नानाप्रसूनविलसद्वनमालाविराजिताय नमः ॥ ८० ॥

See Also  1000 Names Of Surya – Sahasranama Stotram 1 In Bengali

ॐ नवरत्नावलीशोभितापादतलमस्तकाय नमः ।
ॐ नवमल्लीप्रसूनाभिशोभमानशिरोरुहाय नमः ।
ॐ नलिनीशङ्खचक्रासिगदाशार्ङ्गेषुखेटधृते नमः ।
ॐ नादानुसन्धानपरैरवलोक्यनिजाकृतये नमः ।
ॐ नरामरासुरव्रातकृतपूजोपहारकाय नमः ।
ॐ नखकोटिप्रभाजालव्याप्त ब्रह्माण्डमण्डलाय नमः ।
ॐ नतश्रीकरसौन्दर्यकरुणापाङ्गवीक्षणाय नमः ।
ॐ नवदूर्वादलश्यामश‍ृङ्गारकारविग्रहाय नमः ।
ॐ नरकासुरदोर्दर्पशौर्यनिर्वापणक्षमाय नमः ।
ॐ नानाप्रपञ्चवैचित्र्यनिर्माणात्यन्तपण्डिताय नमः ॥ ९० ॥

ॐ माध्याह्न्यार्कप्रभाजालपुञ्जकिञ्जल्कसन्निभाय नमः ।
ॐ मनुवंश्यकिरीटाग्रशोभमानशिरोमणये नमः ।
ॐ मलयाचलसम्भूतदिव्यचन्दनचर्चिताय नमः ।
ॐ मन्दराधारकमठाकारकारणविग्रहाय नमः ।
ॐ महदादिप्रपञ्चान्तर्व्याप्तव्यापारविग्रहाय नमः ।
ॐ महामायासमावेशिताण्डकोटिगणेश्वराय नमः ।
ॐ मरामरेतिसञ्जप्यमानमौनीश्वरप्रियाय नमः ।
ॐ महत्सगुणरूपैकव्यक्तीकृतनिराकृतये नमः ।
ॐ मत्स्यकच्छपवाराहनृसिंहाद्यवतारकाय नमः ।
ॐ मन्त्रमन्त्रार्थमन्त्राङ्गमन्त्रशास्त्रविशारदाय नमः ॥ १०० ॥

ॐ मत्तेभवक्त षड्वक्त्र प्रपञ्चवक्त्रैस्सुपूजिताय नमः ।
ॐ मायाकल्पितविध्यण्डमण्टपान्तर्बहिस्थिताय नमः ।
ॐ मनोन्मन्यचलेन्द्रोर्ध्वशिखरस्थदिवाकराय नमः ।
ॐ महेन्द्रसाम्राज्यफलसन्धानाप्तत्रिविक्रमाय नमः ।
ॐ मातृकामण्डलव्याप्तकृतावरणमध्यगाय नमः ।
ॐ मनोहरमहानीलमेघश्यामवपुर्धराय नमः ।
ॐ मध्यकालान्त्यकालादिकालभेदविवर्जिताय नमः ।
ॐ महासाम्राज्यपट्टाभिषेकोत्सुकहृदाम्बुजाय नमः ॥ १०८ ॥

इति मन्त्रवर्णयुत श्रीरामाष्टोत्तरशतनामावलिः समाप्ता ।

– Chant Stotra in Other Languages -108 Names of Sree Rama 9:

108 Names of Rama 9 – Ashtottara Shatanamavali in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil

See Also  108 Names Of Rama 4 – Ashtottara Shatanamavali In English