108 Names Of Tandav Eshwari Tandav Eshwara Sammelan Ashtottara Shatanamani – Ashtottara Shatanamavali In Sanskrit

॥ Sri Tandav Eshvari Tandav Eshvara Sammelan Ashtottara Shatanama ni Sanskrit Lyrics ॥

॥ श्रीताण्डवेश्वरीताण्डवेश्वर सम्मेलनाष्टोत्तरशतनामानि ॥
चिदम्बररहस्योक्तानि

॥ श्रीगणेशाय नमः ॥

॥ पूर्वपीठिका ॥

श्रीसूतः ।

श‍ृणुध्वं मुनयस्सर्वे रहस्यातिरहस्यकम् ।
पुरा व्यासेन कथितं विविक्ते मां प्रति प्रियात् ॥ १॥

नारायणात् समालब्धं स्मरणात् पठनात् सकृत् ।
इष्टार्थदं हि सर्वेषामन्ते कैवल्यदं शुभम् ॥ २॥

सम्मेलनसभानाथपारमेश्वरताण्डवम् ।
अष्टोत्तरशतं वक्ष्ये तथा ध्यानपुरस्सरम् ॥ ३॥

॥ इति पूर्वपीठिका ॥

ध्यानम् –

शय्यापस्मारपृष्ठे स्थितपदविलसद्वाममुद्धृत्य पादं
ज्वालामालासु मध्ये नटनमहिपतिं व्याघ्रपादादिसेव्यम् ।
भस्मालेपाक्षमालाभरणविलसितं वह्निडोलाभयाङ्कं
हस्तैर्ढक्कां दधानं भज हृदि सततं साम्बिकं ताण्डवेशम् ॥

ॐ सदाशिवताण्डवायै नमः ।
ॐ सदाशिवताण्डवाय नमः । १

ॐ महेशताण्डवायै नमः ।
ॐ महेशताण्डवाय नमः । २

ॐ रौद्रताण्डवायै नमः ।
ॐ रौद्रताण्डवाय नमः । ३

ॐ ओङ्कारताण्डवायै नमः ।
ॐ ओङ्कारताण्डवाय नमः । ४

ॐ विष्णुहृद्ब्रह्मताण्डवायै नमः ।
ॐ विष्णुहृद्ब्रह्मताण्डवाय नमः । ५

ॐ ब्रह्मशीर्षोर्ध्वताण्डवायै नमः ।
ॐ ब्रह्मशीर्षोर्ध्वताण्डवायनमः । ६

ॐ आनन्दताण्डवायै नमः ।
ॐ आनन्दताण्डवाय नमः । ७

ॐ चिन्महाव्योमताण्डवायै नमः ।
ॐ चिन्महाव्योमताण्डवाय नमः । ८

ॐ सत्त्वचिद्घनताण्डवायै नमः ।
ॐ सत्त्वचिद्घनताण्डवाय नमः । ९

ॐ गौरीताण्डवायै नमः ।
ॐ गौरीताण्डवाय नमः । १०

ॐ सन्ध्याताण्डवायै नमः ।
ॐ सन्ध्याताण्डवाय नमः । ११

ॐ अजपाताण्डवायै नमः ।
ॐ अजपाताण्डवाय नमः । १२

ॐ कालीताण्डवायै नमः ।
ॐ कालीताण्डवाय नमः । १३

ॐ दहराकाशताण्डवायै नमः ।
ॐ दहराकाशताण्डवाय नमः । १४

ॐ त्रिपुरताण्डवायै नमः ।
ॐ त्रिपुरताण्डवाय नमः । १५

ॐ अनवरतताण्डवायै नमः ।
ॐ अनवरतताण्डवाय नमः । १६

ॐ हंसताण्डवायै नमः ।
ॐ हंसताण्डवाय नमः । १७

ॐ उन्मत्तताण्डवायै नमः ।
ॐ उन्मत्तताण्डवाय नमः । १८

ॐ पारावततरङ्गताण्डवायै नमः ।
ॐ पारावततरङ्गताण्डवाय नमः । १९

ॐ महाकुक्कुटताण्डवायै नमः ।
ॐ महाकुक्कुटताण्डवाय नमः । २०

ॐ भृङ्गिताण्डवायै नमः ।
ॐ भृङ्गिताण्डवाय नमः । २१

ॐ कमलाताण्डवायै नमः ।
ॐ कमलाताण्डवाय नमः । २२

ॐ हंसपादताण्डवायै नमः।
ॐ हंसपादताण्डवाय नमः । २३

ॐ सुन्दरताण्डवायै नमः ।
ॐ सुन्दरताण्डवाय नमः२४

ॐ सदाऽभयप्रदताण्डवायै नमः ।
ॐ सदाऽभयप्रदताण्डवाय नमः । २५

ॐ मूर्तिताण्डवायै नमः ।
ॐ मूर्तिताण्डवाय नमः । २६

See Also  1000 Names Of Sri Dakshinamurthy 3 In Sanskrit

ॐ कैवल्यताण्डवायै नमः।
ॐ कैवल्यताण्डवाय नमः । २७

ॐ मोक्षताण्डवायै नमः ।
ॐ मोक्षताण्डवाय नमः । २८

ॐ हालास्यताण्डवायै नमः ।
ॐ हालास्यताण्डवाय नमः । २९

ॐ शाश्वतताण्डवायै नमः ।
ॐ शाश्वतताण्डवाय नमः । ३०

ॐ रूपताण्डवायै नमः ।
ॐ रूपताण्डवाय नमः । ३१

ॐ निश्चलताण्डवायै नमः ।
ॐ निश्चलताण्डवाय नमः । ३२

ॐ ज्ञानताण्डवायै नमः ।
ॐ ज्ञानताण्डवाय नमः । ३३

ॐ निरामयताण्डवायै नमः ।
ॐ निरामयताण्डवाय नमः । ३४

ॐ जगन्मोहनताण्डवायै नमः ।
ॐ जगन्मोहनताण्डवाय नमः । ३५

ॐ हेलाकलितताण्डवायै नमः ।
ॐ हेलाकलितताण्डवाय नमः । ३६

ॐ वाचामगोचरताण्डवायै नमः ।
ॐ वाचामगोचरताण्डवाय नमः । ३७

ॐ अखण्डाकारताण्डवायै नमः ।
ॐ अखण्डाकारताण्डवाय नमः । ३८

ॐ षट्चक्रताण्डवायै नमः ।
ॐ षट्चक्रताण्डवाय नमः । ३९

ॐ सर्पताण्डवायै नमः ।
ॐ सर्पताण्डवाय नमः । ४०

ॐ दक्षाध्वरध्वंसताण्डवायै नमः ।
ॐ दक्षाध्वरध्वंसताण्डवाय नमः । ४१

ॐ सप्तलोकैकताण्डवायै नमः ।
ॐ सप्तलोकैकताण्डवाय नमः । ४२

ॐ अपस्मारहरताण्डवायै नमः ।
ॐ अपस्मारहरताण्डवाय नमः । ४३

ॐ आद्यताण्डवायै नमः ।
ॐ आद्यताण्डवाय नमः । ४४

ॐ गजसंहारताण्डवायै नमः-
ॐ गजसंहारताण्डवाय नमः । ४५

ॐ तिल्वारण्यताण्डवायै नमः ।
ॐ तिल्वारण्यताण्डवाय नमः । ४६

ॐ अष्टकाताण्डवायै नमः ।
ॐ अष्टकाताण्डवाय नमः । ४७

ॐ चित्सभामध्यताण्डवायै नमः ।
ॐ चित्सभामध्यताण्डवाय नमः । ४८

ॐ चिदम्बरताण्डवायै नमः।
ॐ चिदम्बरताण्डवाय नमः । ४९

ॐ त्रैलोक्यसुन्दरताण्डवायै नमः ।
ॐ त्रैलोक्यसुन्दरताण्डवाय नमः । ५०

ॐ भीमताण्डवायै नमः ।
ॐ भमिताण्डवाय नमः । ५१

ॐ पुण्डरीकाक्षदृष्टपादताण्डवायै नमः ।
ॐ पुण्डरीकाक्षदृष्टपादताण्डवाय नमः । ५२

ॐ व्याघ्रताण्डवायै नमः ।
ॐ व्याघ्रताण्डवाय नमः । ५३

ॐ कुञ्चितताण्डवायै नमः ।
ॐ कुञ्चितताण्डवाय नमः । ५४

ॐ अघोरताण्डवायै नमः ।
ॐ अघोरताण्डवाय नमः । ५५

ॐ विश्वरूपताण्डवायै नमः।
ॐ विश्वरूपताण्डवाय नमः । ५६

ॐ महाप्रलयताण्डवायै नमः ।
ॐ महाप्रलयताण्डवाय नमः । ५७

ॐ हुङ्कारताण्डवायै नमः ।
ॐ हुङ्कारताण्डवाय नमः । ५८

ॐ विजयताण्डवायै नमः ।
ॐ विजयताण्डवाय नमः । ५९

ॐ भद्रताण्डवायै नमः ।
ॐ भद्रताण्डवाय नमः । ६०

ॐ भैरवानन्दताण्डवायै नमः ।
ॐ भैरवानन्दताण्डवाय नमः । ६१

See Also  1000 Names Of Balarama – Sahasranama Stotram 1 In Malayalam

ॐ महाट्टहासताण्डवायै नमः ।
ॐ महाट्टहासताण्डवाय नमेः ६२

ॐ अहङ्कारताण्डवायै नमः ।
ॐ अहङ्कारताण्डवाय नमः । ६३

ॐ प्रचण्डताण्डवायै नमः ।
ॐ प्रचण्डताण्डवाय नमः । ६४

ॐ चण्डताण्डवायै नमः।
ॐ चण्डताण्डवाय नमः । ६५

ॐ महोग्रताण्डवायै नमः ।
ॐ महोग्रताण्डवाय नमः । ६६

ॐ युगान्तताण्डवायै नमः ।
ॐ युगान्तताण्डवाय नमः । ६७

ॐ मन्वन्तरताण्डवायै नमः ।
ॐ मन्वन्तरताण्डवाय नमः । ६८

ॐ कल्पताण्डवायै नमः ।
ॐ कल्पताण्डवाय नमः । ६९

ॐ रत्नसंसत्ताण्डवायै नमः ।
ॐ रत्नसंसत्ताण्डवाय नमः । ७०

ॐ चित्रसंसत्ताण्डवायै नमः ।
ॐ चित्रसंसत्ताण्डवाय नमः । ७१

ॐ ताम्रसंसत्ताण्डवायै नमः ।
ॐ ताम्रसंसत्ताण्डवाय नमः । ७२

ॐ रजतश्रीसभाताण्डवायै नमः ।
ॐ रजतश्रीसभाताण्डवाय नमः । ७३

ॐ स्वर्णसभाश्रीचक्रताण्डवायै नमः ।
ॐ स्वर्णसभाश्रीचक्रताण्डवाय नमः । ७४

ॐ कामगर्वहरताण्डवायै नमः ।
ॐ कामगर्वहरताण्डवाय नमः । ७५

ॐ नन्दिताण्डवायै नमः ।
ॐ नन्दिताण्डवाय नमः । ७६

ॐ महादोर्दण्डताण्डवायै नमः।
ॐ महादोर्दण्डताण्डवाय नमः । ७७

ॐ परिभ्रमणताण्डवायै नमः ।
ॐ परिभ्रमणताण्डवाय नमः । ७८

ॐ उद्दण्डताण्डवायै नमः ।
ॐ उद्दण्डताण्डवाय नमः । ७९

ॐ भ्रमरायितताण्डवायै नमः ।
ॐ भ्रमरायितताण्डवाय नमः । ८०

ॐ शक्तिताण्डवायै नमः ।
ॐ शक्तिताण्डवाय नमः । ८१

ॐ निशानिश्चलताण्डवायै नमः ।
ॐ निशानिश्चलताण्डवाय नमः । ८२

ॐ अपसव्यताण्डवायै नमः ।
ॐ अपसव्यताण्डवाय नमः । ८३

ॐ ऊर्जितताण्डवायै नमः ।
ॐ ऊर्जितताण्डवाय नमः । ८४

ॐ कराब्जधृतकालाग्निताण्डवायै नमः ।
ॐ कराब्जधृतकालाग्निताण्डवाय नमः । ८५

ॐ कृत्यपञ्चकताण्डवायै नमः ।
ॐ कृत्यपञ्चकताण्डवाय नमः । ८६

ॐ पतञ्जलिसुसन्दृष्टताण्डवायै नमः ।
ॐ पतञ्जलिसुसन्दृष्टताण्डवाय नमः । ८७

ॐ कङ्कालताण्डवायै नमः ।
ॐ कङ्कालताण्डवाय नमः । ८८

ॐ ऊर्ध्वताण्डवायै नमः ।
ॐ ऊर्ध्वताण्डवाय नमः । ८९

ॐ प्रदोषताण्डवायै नमः ।
ॐ प्रदोषताण्डवाय नमः । ९०

ॐ मृत्युमथनताण्डवायै नमः ।
ॐ मृत्युमथनताण्डवाय नमः । ९१

ॐ वृषश‍ृङ्गाग्रताण्डवायै नमः ।
ॐ वृषश‍ृङ्गाग्रताण्डवाय नमः । ९२

ॐ बिन्दुमध्यताण्डवायै नमः ।
ॐ बिन्दुमध्यताण्डवाय नमः । ९३

ॐ कलारूपताण्डवायै नमः ।
ॐ कलारूपताण्डवाय नमः । ९४

ॐ विनोदताण्डवायै नमः ।
ॐ विनोदताण्डवाय नमः । ९५

See Also  1000 Names Of Dakaradi Sri Datta – Sahasranama Stotram In Gujarati

ॐ प्रौढताण्डवायै नमः ।
ॐ प्रौढताण्डवाय नमः । ९६

ॐ भिक्षाटनताण्डवायै नमः ।
ॐ भिक्षाटनताण्डवाय नमः । ९७

ॐ विराड्रूपताण्डवायै नमः ।
ॐ विराड्रूपताण्डवाय नमः । ९८

ॐ भुजङ्गत्रासताण्डवायै नमः ।
ॐ भुजङ्गत्रासताण्डवाय नमः । ९९

ॐ तत्त्वताण्डवायै नमः ।
ॐ तत्त्वताण्डवाय नमः । १००

ॐ मुनिताण्डवायै नमः ।
ॐ मुनिताण्डवाय नमः । १०१

ॐ कल्याणताण्डवायै नमः ।
ॐ कल्याणताण्डवाय नमः । १०२

ॐ मनोज्ञताण्डवायै नमः ।
ॐ मनोज्ञताण्डवाय नमः । १०३

ॐ आर्भटीताण्डवायै नमः ।
ॐ आर्भटीताण्डवाय नमः । १०४

ॐ भुजङ्गललितताण्डवायै नमः ।
ॐ भुजङ्गललितताण्डवाय नमः । १०५

ॐ कालकूटभक्षणताण्डवायै नमः ।
ॐ कालकूटभक्षणताण्डवाय नमः । १०६

ॐ पञ्चाक्षरमहामन्त्रताण्डवायै नमः ।
ॐ पञ्चाक्षरमहामन्त्रताण्डवायै नमः । १०७

ॐ परमानन्दताण्डवायै नमः ।
ॐ परमानन्दताण्डवाय नमः । १०८

ॐ भवस्य देवस्य पत्न्यै नमः ।
ॐ भवाय देवाय नमः । १०९

ॐ शर्वस्य देवस्य पत्न्यै नमः ।
ॐ शर्वाय देवाय नमः । ११०

ॐ पशुपतेर्देवस्य पत्न्यै नमः ।
ॐ पशुपतये देवाय नमः । १११

ॐ रुद्रस्य देवस्य पत्न्यै नमः ।
ॐ रुद्राय देवाय नमः । ११२

ॐ उग्रस्य देवस्य पत्न्यै नमः ।
ॐ उग्राय देवाय नमः । ११३

ॐ भीमस्य देवस्य पत्न्यै नमः ।
ॐ भीमाय देवाय नमः । ११४

ॐ महतो देवस्य पत्न्यै नमः ।
ॐ महते देवाय नमः । ११५

॥ इति श्रीताण्डवेश्वरीताण्डवेश्वरसम्मेलनाष्टोत्तरशतनामावलिः
समाप्ता ॥

॥ इति शिवम् ॥

इत्येवं कथितं विप्राः ताण्डवाष्टोत्तरं शतम् ।
पदान्ते ताण्डवं योज्यं स्त्रीपुल्लिङ्गक्रमेणतु ॥

सुगन्धैः कुसुमैर्बिल्वपत्रैर्द्रोणार्कचम्पकैः ।
सम्पूज्य श्रीशिवं देवीं नित्यं कालत्रयेष्वपि ॥

एककालं द्विकालं वा त्रिपक्षं वा सर्वपापनिवारकम् ।
सर्वान्कामानवाप्नोति सर्वपापैः प्रमुच्यते ।

॥ इति उत्तरपीठिका ॥

॥ इति श्रीचिदम्बररहस्ये महेतिहासे प्रथमांशे
श्रीताण्डवेश्वरीताण्डवेश्वरसम्मेलनाष्टोत्तरशतनाम
स्तोत्रन्नाम चतुर्विंशोऽध्यायः ॥

॥ ॐ नटराजायविद्महे ताण्डवेश्वराय धीमहि तन्नो चिदम्बरः प्रचोदयात् ॥

– Chant Stotra in Other Languages -108 Names of Sri Tandav Eshvari Eshwara Tandava:

108 Names of Tandav Eshwari Tandav Eshwara Sammelan Ashtottara Shatanamani – Ashtottara Shatanamavali in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil