Devi Gita In Sanskrit

॥ Devi Geetaa Sanskrit Lyrics ॥

॥ देवीगीता ॥

॥ श्री गणेशाय नमः ॥

॥ ॐ नमः श्री देव्यै ॥

अथ श्रीमद्देवीगीता प्रारभ्यते ।
॥ अथ प्रथमोऽध्यायः ॥

हिमालय उवाच –
योगं च भक्तिसहितं ज्ञानं च श्रुतिसंमतम् ।
वदस्व परमेशानि त्वमेवाहं यतो भवेः ॥

व्यास उवाच –
इति तस्य वचः श्रुत्वा प्रसन्नमुखपङ्कजा ।
वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम् ॥

श‍ृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम ।
यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते ॥ १ ॥

अहमेवास पूर्वं मे नान्यत्किञ्चिन्नगाधिप ।
तदात्मरूपं चित्संवित्परब्रह्मैकनामकम् ॥ २ ॥

अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् ।
तस्य काचित्स्वतःसिद्धा शक्तिर्मायेति विश्रुता ॥ ३ ॥

न सती सा नासती सा नोभयात्मा विरोधतः ।
एतद्विलक्षणा काचिद्वस्तुभूताऽस्ति सर्वदा ॥ ४ ॥

पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः ।
चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा ॥ ५ ॥

तस्यां कर्माणि जीवानां जीवाः कालाश्च सञ्चरे ।
अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत् ॥ ६ ॥

स्वशक्तेश्च समायोगादहं बीजात्मतां गता ।
स्वधारावरणात्तस्या दोषत्वं च समागतम् ॥ ७ ॥

चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते ।
प्रपञ्चपरिणामाच्च समवायित्वमुच्यते ॥ ८ ॥

केचित्तां तप इत्याहुस्तमः केचिज्जडं परे ।
ज्ञानं माया प्रधानं च प्रकृतिं शक्तिमप्यजाम् ॥ ९ ॥

विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः ।
अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः ॥ १० ॥

एवं नानाविधानि स्युर्नामानि निगमादिषु ।
तस्याजडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती ॥११ ॥

चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् ।
स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम् ॥ १२ ॥

अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् ।
कर्मकर्तृविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम् ॥ १३ ॥

प्रकाशमानमन्येषां भासकं विद्धि पर्वत ।
अत एव च नित्यत्वं सिद्धं संवित्तनोर्मम ॥ १४ ॥

जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः ।
संविदो व्यभिचारश्च नानुभूतोऽस्ति कर्हिचित् ॥ १५ ॥

यदि तस्याप्यनुभवतर्ह्ययं येन साक्षिणा ।
अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा ॥ १६ ॥

अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदः ।
आनन्दरूपता चास्याः परप्रेमास्पदत्वतः ॥ १७ ॥

मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् ।
सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम ॥ १८ ॥

अपरिच्छिन्नताप्येवमत एव मता मम ।
तच्च ज्ञानं नात्मधर्मो धर्मत्वे जडताऽऽत्मनः ॥ १९ ॥

ज्ञानस्य जडशेषत्वं न दृष्टं न च संभवि ।
चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते ॥ २० ॥

तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा ।
सत्यः पूर्णोऽप्यसङ्गश्च द्वैतजालविवर्जितः ॥ २१ ॥

स पुनः कामकर्मादियुक्तया स्वीयमायया ।
पूर्वानुभूतसंस्कारात्कालकर्मविपाकतः ॥ २२ ॥

अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते ।
अबुद्धिपूर्वः सर्गोऽयं कथितस्ते नगाधिप ॥ २३ ॥

एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् ।
अव्याकृतं तदव्यक्तं मायाशबलमित्यपि ॥ २४ ॥

प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् ।
तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम् ॥ २५ ॥

सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् ।
ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते ॥ २६ ॥

तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः ।
भवेत्स्पर्शात्मको वायुस्तेजो रूपात्मकं पुनः ॥ २७ ॥

जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा ।
शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः ॥ २८ ॥

शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः ।
शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः ॥ २९ ॥

शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा ।
तेभ्योऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते ॥ ३० ॥

सर्वात्मकं तत्सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः ।
अव्यक्तं कारणो देहः स चोक्तः पूर्वमेव हि ॥ ३१ ॥

यस्मिञ्जगद्बीजरूपं स्थितं लिङ्गोद्भवो यतः ।
ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः ॥ ३२ ॥

पञ्च सङ्ख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते ।
पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद्द्विधा ॥ ३३ ॥

एकैकं भागमेकस्य चतुर्धा विभजेद्गिरे ।
स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते ॥ ३४ ॥

तत्कार्यं च विराड् देहः स्थूलदेहोऽयमात्मनः ।
पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्भवः ॥ ३५ ॥

ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मीलितैस्तु तैः ।
अन्तःकरणमेकं स्याद्वृत्तिभेदाच्चतुर्विधम् ॥ ३६ ॥

यदा तु सङ्कल्पविकल्पकृत्यं
तदा भवेत्तन्मन इत्यभिख्यम् ।
स्याद्बुद्धिसंज्ञं च यदा प्रवेत्ति
सुनिश्चितं संशयहीनरूपम् ॥ ३७ ॥

अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् ।
अहङ्कृत्याऽऽत्मवृत्या तु तदहङ्कारतां गतम् ॥ ३८ ॥

तेषां रजोंऽशैर्जातानि क्रमात्कर्मेन्द्रियाणि च ।
प्रत्येकं मीलितैस्तैस्तु प्राणो भवति पञ्चधा ॥ ३९ ॥

हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः ।
कण्ठदेशेप्युदानः स्याद्व्यानः सर्वशरीरगः ॥ ४० ॥

ज्ञानेन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च ।
प्राणादि पञ्चकं चैव धिया च सहितं मनः ॥ ४१ ॥

एतत्सूक्ष्मशरीरं स्यान्मम लिङ्गं यदुच्यते ।
तत्र या प्रकृतिः प्रोक्ता सा राजन्विविधा स्मृता ॥ ४२ ॥

सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता ।
स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते ॥ ४३ ॥

तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः ।
स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान् परः ॥ ४४ ॥

सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः ।
अविद्यायां तु यत्किञ्चित्प्रतिबिंबं नगाधिप ॥ ४५ ॥

तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः ।
द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया ॥ ४६ ॥

देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः ।
प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मधी तु तैजसः ॥ ४७ ॥

स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः ।
एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः ॥ ४८ ॥

प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः ।
स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया ॥ ४९ ॥

करोति विविधं विश्वं नानाभोगाश्रयं पुनः ।
मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः ॥ ५० ॥

इति श्रीदेवीभागवते देवीगीतायां प्रथमोऽध्यायः ॥

॥ अथ द्वितीयोऽध्यायः ॥

देव्युवाच –
मन्मायाशक्तिसंक्लृप्तंजगत्सर्वं चराचरम् ।
सापि मत्तः पृथङ् माया नास्त्येव परमार्थतः ॥ १ ॥

व्यवहारदृशा सेयं मायाऽविद्येति विश्रुता ।
तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥ २ ॥

साहं सर्वं जगत्सृष्ट्वा तदन्तः प्रविशाम्यहम् ।
माया कर्मादिसहिता गिरे प्राणपुरःसरा ॥ ३ ॥

लोकान्तरगतिर्नो चेत्कथं स्यादिति हेतुना ।
यथा यथा भवन्त्येव मायाभेदास्तथा तथा ॥ ४ ॥

उपाधिभेदाद्भिन्नाऽहं घटाकाशादयो यथा ।
उच्चनीचादि वस्तूनि भासयन्भास्करः सदा ॥ ५ ॥

न दुष्यति तथैवाहं दोषैर्लिप्ता कदापि न ।
मयि बुद्ध्यादिकर्तृत्वमध्यस्यैवापरे जनाः ॥ ६ ॥

वदन्ति चात्मा कर्तेति विमूढा न सुबुद्धयः ।
अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा ॥ ७ ॥

जीवेश्वरविभागश्च कल्पितो माययैव तु ।
घटाकाशमहाकाशविभागः कल्पितो यथा ॥ ८ ॥

तथैव कल्पितो भेदो जीवात्मपरमात्मनोः ।
यथा जीवबहुत्वं च माययैव न च स्वतः ॥ ९ ॥

तथेश्वरबहुत्वं च मायया न स्वभावतः ।
देहेन्द्रियादिसङ्घातवासनाभेदभेदिता ॥ १० ॥

अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः ।
गुणानां वासनाभेदभेदिता या धराधर ॥ ११ ॥

माया सा परभेदस्य हेतुर्नान्यः कदाचन ।
मयि सर्वमिदं प्रोतमोतं च धरणीधर ॥ १२ ॥

ईश्वरोऽहं च सूत्रात्मा विराडात्माऽहमस्मि च ।
ब्रह्माऽहं विष्णुरुद्रौ च गौरी ब्राह्मी च वैष्णवी ॥ १३ ॥

सूर्योऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् ।
पशुपक्षिस्वरूपाऽहं चाण्डालोऽहं च तस्करः ॥ १४ ॥

व्याधोऽहं क्रूरकर्माऽहं सत्कर्मोऽहं महाजनः ।
स्त्रीपुन्नपुंसकाकारोऽप्यहमेव न संशयः ॥ १५ ॥

यच्च किञ्चित्क्वचिद्वस्तु दृश्यते श्रूयतेऽपि वा ।
अन्तर्बहिश्च तत्सर्वं व्याप्याहं सर्वदा स्थिता ॥ १६ ॥

न तदस्ति मया त्यक्तं वस्तु किञ्चिच्चराचरम् ।
यद्यस्ति चेत्तच्छून्यं स्याद्वन्ध्यापुत्रोपमं हि तत् ॥ १७ ॥

रज्जुर्यथा सर्पमालाभेदैरेका विभाति हि ।
तथैवेशादिरूपेण भाम्यहं नात्र संशयः ॥ १८ ॥

अधिष्ठानातिरेकेण कल्पितं तन्न भासते ।
तस्मान्मत्सत्तयैवैतत्सत्तावन्नान्यथा भवेत् ॥ १९ ॥

हिमालय उवाच –
यथा वदसि देवेशि समष्ट्याऽऽत्मवपुस्त्विदम् ।
तथैव द्रष्टुमिच्छामि यदि देवि कृपा मयि ॥ २० ॥

व्यास उवाच –
इति तस्य वचः श्रुत्वा सर्वे देवाः सविष्णवः ।
ननन्दुर्मुदितात्मानः पूजयन्तश्च तद्वचः ॥ २१ ॥

अथ देवमतं ज्ञात्वा भक्तकामदुघा शिवा ।
अदर्शयन्निजं रूपं भक्तकामप्रपूरिणी ॥ २२ ॥

अपश्यंस्ते महादेव्या विराडरूपं परात्परम् ।
द्यौर्मस्तकं भवेद्यस्य चन्द्रसूर्यौ च चक्षुषी ॥ २३ ॥

दिशः श्रोत्रे वचो वेदाः प्राणो वायुः प्रकीर्तितः ।
विश्वं हृदयमित्याहुः पृथिवी जघनं स्मृतम् ॥ २४ ॥

नभस्तलं नाभिसरो ज्योतिश्चक्रमुरस्थलम् ।
महर्लोकस्तु ग्रीवा स्याज्जनो लोको मुखं स्मृतम् ॥ २५ ॥

तपो लोको रराटिस्तु सत्यलोकादधः स्थितः ।
इन्द्रादयो बाहवः स्युः शब्दः श्रोत्रं महेशितुः ॥ २६ ॥

नासत्यदस्रौ नासे स्तौ गन्धो घ्राणं स्मृतो बुधैः ।
मुखमग्निः समाख्यातो दिवारात्री च पक्ष्मणी ॥ २७ ॥

ब्रह्मस्थानं भ्रूविजृंभोऽप्यापस्तालुः प्रकीर्तिताः ।
रसो जिह्वा समाख्याता यमो दंष्ट्राः प्रकीर्तिताः ॥ २८ ॥

दन्ताः स्नेहकला यस्य हासो माया प्रकीर्तिता ।
सर्गस्त्वपाङ्गमोक्षः स्याद्व्रीडोर्ध्वोष्ठो महेशितुः ॥ २९ ॥

लोभः स्यादधरोष्ठोऽस्या धर्ममार्गस्तु पृष्ठभूः ।
प्रजापतिश्च मेढ्रं स्याद्यः स्रष्टा जगतीतले ॥ ३० ॥

कुक्षिः समुद्रा गिरयोऽस्थीनि देव्या महेशितुः ।
नद्यो नाड्यः समाख्याता वृक्षाः केशाः प्रकीर्तिताः ॥ ३१ ॥

कौमारयौवनजरावयोऽस्य गतिरुत्तमा ।
बलाहकास्तु केशाः स्युः सन्ध्ये ते वाससी विभोः ॥ ३२ ॥

राजञ्छ्रीजगदम्बायाश्चन्द्रमास्तु मनः स्मृतः ।
विज्ञानशक्तिस्तु हरी रुद्रोन्तःकरणं स्मृतम् ॥ ३३ ॥

अश्वादिजातयः सर्वाः श्रोणिदेशे स्थिता विभोः ।
अतलादिमहालोकाः कट्यधोभागतां गताः ॥ ३४ ॥

एतादृशं महारूपं ददृशुः सुरपुङ्गवाः ।
ज्वालामालासहस्राढ्यं लेलिहानं च जिह्वया ॥ ३५ ॥

दंष्ट्राकटकटारावं वमन्तं वह्निमक्षिभिः ।
नानायुधधरं वीरं ब्रह्मक्षत्रौदनं च यत् ॥ ३६ ॥

सहस्रशीर्षनयनं सहस्रचरणं तथा ।
कोटिसूर्यप्रतीकाशं विद्युत्कोटिसमप्रभम् ॥ ३७ ॥

भयङ्करं महाघोरं हृदक्ष्णोस्त्रासकारकम् ।
ददृशुस्ते सुराः सर्वे हाहाकारं च चक्रिरे ॥ ३८ ॥

विकम्पमानहृदया मूर्च्छामापुर्दुरत्ययाम् ।
स्मरणं च गतं तेषां जगदम्बेयमित्यपि ॥ ३९ ॥

अथ ते ये स्थिता वेदाश्चतुर्दिक्षु महाविभोः ।
बोधयामासुरत्युग्रं मूर्च्छातो मूर्च्छितान्सुरान् ॥ ४० ॥

अथ ते धैर्यमालम्ब्य लब्ध्वा च श्रुतिमुत्तमाम् ।
प्रेमाश्रुपूर्णनयना रुद्धकण्ठास्तु निर्जराः ॥ ४१ ॥

बाष्पगद्गददया वाचा स्तोतुं समुपचक्रिरे ।
देवा ऊचुः –
अपराधं क्षमस्वाम्ब पाहि दीनांस्त्वदुद्भवान् ॥ ४२ ॥

कोपं संहर देवेशि सभया रूपदर्शनात् ।
का ते स्तुतिः प्रकर्तव्या पामरैर्निजरैरिह ॥ ४३ ॥

स्वस्याप्यज्ञेय एवासौ यावान्यश्च स्वविक्रमः ।
तदर्वाग्जायमानानां कथं स विषयो भवेत् ॥ ४४ ॥

नमस्ते भुवनेशानि नमस्ते प्रणवात्मके ।
सर्व वेदान्तसंसिद्धे नमो ह्रीङ्कारमूर्तये ॥ ४५ ॥

यस्मादग्निः समुत्पन्नो यस्मात्सूर्यश्च चन्द्रमाः ।
यस्मादोषधयः सर्वास्तस्मै सर्वात्मने नमः ॥ ४६ ॥

यस्माच्च देवाः संभूताः साध्याः पक्षिण एव च ।
पशवश्च मनुष्याश्च तस्मै सर्वात्मने नमः ॥ ४७ ॥

प्राणापानौ व्रीहियवौ तपः श्रद्धा ऋतं तथा ।
ब्रह्मचर्यं विधिश्चैव यस्मात्तस्मै नमो नमः ॥ ४८ ॥

सप्त प्राणार्चिषो यस्मात्समिधः सप्त एव च ।
होमाः सप्त तथा लोकास्तस्मै सर्वात्मने नमः ॥ ४९ ॥

यस्मात्समुद्रा गिरयः सिन्धवः प्रचरन्ति च ।
यस्मादोषधयः सर्वा रसास्तस्मै नमो नमः ॥ ५० ॥

यस्माद्यज्ञः समुद्भूतो दीक्षायूपश्च दक्षिणाः ।
ऋचो यजूंषि सामानि तस्मै सर्वात्मने नमः ॥ ५१ ॥

नमः पुरस्तात्पृष्ठे च नमस्ते पार्श्वयोर्द्वयोः ।
अध ऊर्ध्वं चतुर्दिक्षु मातर्भूयो नमो नमः ॥ ५२ ॥

उपसंहर देवेशि रूपमेतदलौकिकम् ।
तदेव दर्शयास्माकं रूपं सुन्दरसुन्दरम् ॥ ५३ ॥

व्यास उवाच –
इति भीतान्सुरान्दृष्ट्वा जगदम्बा कृपार्णवा ।
संहृत्य रूपं घोरं तद्दर्शयामास सुन्दरम् ॥ ५४ ॥

पाशाङ्कुशवराभीतिधरं सर्वाङ्गकोमलम् ।
करुणापूर्णनयनं मन्दस्मितमुखाम्बुजम् ॥ ५५ ॥

दृष्ट्वा तत्सुन्दरं रूपं तदा भीतिविवर्जिताः ।
शान्तिचित्ता प्रणेमुस्ते हर्षगद्गदनिःस्वनाः ॥ ५६ ॥

॥ इति श्रीदेवीभागवते देवीगीतायां द्वितीयोऽध्यायः ॥

॥ अथ तृतीयोऽध्यायः ॥

श्रीदेव्युवाच –
क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् ।
तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥ १ ॥

See Also  Putra Gita In Bengali

न वेदाध्ययनैर्योगैर्न दानैस्तपसेज्यया ।
रूपं द्रष्टुमिदं शक्यं केवलं मत्कृपां विना ॥ २ ॥

प्रकृतं श‍ृणु राजेन्द्र परमात्मात्र जीवताम् ।
उपाधियोगात्सम्प्राप्तः कर्तृत्वादिकमप्युत ॥ ३ ॥

क्रियाः करोति विविधा धर्माधर्मैकहेतवः ।
नानायोनीस्ततः प्राप्य सुखदुःखैश्च युज्यते ॥ ४ ॥

पुनस्तत्संस्कृतिवशान्नानाकर्मरतः सदा ।
नानादेहान्समाप्नोति सुखदुःखैश्च युज्यते ॥ ५ ॥

घटीयन्त्रवदेतस्य न विरामः कदापि हि ।
अज्ञानमेव मूलं स्यात्ततः कामः क्रियास्ततः ॥ ६ ॥

तस्मादज्ञाननाशाय यतेत नियतं नरः ।
एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम् ॥ ७ ॥

पुरुषार्थसमाप्तिश्च जीवन्मुक्तिदशाऽपि च ।
अज्ञाननाशने शक्ता विद्यैव तु पटीयसी ॥ ८ ॥

न कर्म तज्जं नोपास्तिर्विरोधाभावतो गिरे ।
प्रत्युताशाऽज्ञाननाशे कर्मणा नैव भाव्यताम् ॥ ९ ॥

अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि ।
ततो रागस्ततो दोषस्ततोऽनर्थो महान्भवेत् ॥ १० ॥

तस्मात्सर्वप्रयत्नेन ज्ञानं सम्पादयेन्नरः ।
कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम् ॥ ११ ॥

ज्ञानादेव हि कैवल्यमतः स्यात्तत्समुच्चयः ।
सहायतां व्रजेत्कर्म ज्ञानस्य हितकारि च ॥ १२ ॥

इति केचिद्वदन्त्यत्र तद्विरोधान्न संभवेत् ।
ज्ञानाधृद्ग्रन्थिभेदः स्याधृद्ग्रन्थौ कर्मसंभवः ॥ १३ ॥

यौगपद्यं न संभाव्यं विरोधात्तु ततस्तयोः ।
तमःप्रकाशयोर्यद्वद्यौगपद्यं न संभवि ॥ १४ ॥

तस्मात्सर्वाणि कर्माणि वैदिकानि महामते ।
चित्तशुद्ध्यन्तमेव स्युस्तानि कुर्यात्प्रयत्नतः ॥ १५ ॥

शमो दमस्तितिक्षा च वैराग्यं सत्त्वसंभवः ।
तावत्पर्यन्तमेव स्युः कर्माणि न ततः परम् ॥ १६ ॥

तदन्ते चैव संन्यस्य सश्रयेद्गुरुमात्मवान् ।
श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः ॥ १७ ॥

वेदान्तश्रवणं कुर्यान्नित्यमेवमतन्द्रितः ।
तत्त्वमस्यादिवाक्यस्य नित्यमर्थं विचारयेत् ॥ १८ ॥

तत्त्वमस्यादिवाक्यं तु जीवब्रह्मैक्यबोधकम् ।
ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते ॥ १९ ॥

पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः ।
तत्पदस्य च वाच्यार्थो गिरेऽहं परिकीर्तितः ॥ २० ॥

त्वंपदस्य च वाच्यार्थो जीव एव न संशयः ।
उभयोरैक्यमसिना पदेन प्रोच्यते बुधैः ॥ २१ ॥

वाच्यार्थयोर्विरुद्धत्वादैक्यं नैव घटेत ह ।
लक्षणाऽतः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः ॥ २२ ॥

चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य संभवः ।
तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत् ॥ २३ ॥

देवदत्तः स एवायमितिवल्लक्षणा स्मृता ।
स्थूलादिदेहरहितो ब्रह्मसम्पद्यते नरः ॥ २४ ॥

पञ्चीकृतमहाभूतसंभूतः स्थूलदेहकः ।
भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम् ॥ २५ ॥

मिथ्याभूतोऽयमाभाति स्फुटं मायामयत्वतः ।
सोऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर ॥ २६ ॥

ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् ।
मनोबुद्धियुतं चैतत्सूक्ष्मं तत्कवयो विदुः ॥ २७ ॥

अपञ्चीकृतभूतोत्थं सूक्ष्मदेहोऽयमात्मनः ।
द्वितीयोऽयमुपाधिः स्यात्सुखादेरवबोधकः ॥ २८ ॥

अनाद्यनिर्वाच्यमिदमज्ञानं तु तृतीयकः ।
देहोऽयमात्मनो भाति कारणात्मा नगेश्वर ॥ २९ ॥

उपाधिविलये जाते केवलात्माऽवशिष्यते ।
देहत्रये पञ्चकोशा अन्तस्थाः सन्ति सर्वदा ॥ ३० ॥

पञ्चकोशपरित्यागे ब्रह्मपुच्छं हि लभ्यते ।
नेति नेतीत्यादिवाक्यैर्मम रूपं यदुच्यते ॥ ३१ ॥

न जायते म्रियते वा कदाचि-
न्नायं भूत्वा न बभूव कश्चित् ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥ ३२ ॥

हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ ३३ ॥

अणोरणीयान्महतो महीया-
नात्माऽस्य जन्तोर्निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको
धातुप्रसादान्महिमानमस्य ॥ ३४ ॥

आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३५ ॥

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ३६ ॥

यस्त्वविद्वान्भवति चामनस्कः सदाऽशुचिः ।
स तु तत्पदमवाप्नोति संसारं चाधिगच्छति ॥ ३७ ॥

यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ३८ ॥

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति मदीयं यत्परं पदम् ॥ ३९ ॥

इत्थं श्रुत्या च मत्या च निश्चित्यात्मानमात्मना ।
भावयेन्मामात्मरूपां निदिध्यासनतोऽपि च ॥ ४० ॥

योगवृत्तेः पुरा स्वामिन्भावयेदक्षरत्रयम् ।
देवीप्रणवसंज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः ॥ ४१ ॥

हकारः स्थूलदेहः स्याद्रकारः सूक्ष्मदेहकः ।
ईकारः काराणात्माऽसौ ह्रीङ्कारोऽहं तुरीयकम् ॥ ४२ ॥

एवं समष्टिदेहेऽपि ज्ञात्वा बीजत्रयं क्रमात् ।
समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान्नरः ॥ ४३ ॥

समाधिकालात्पूर्वं तु भावयित्वैवमादृतः ।
ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम् ॥ ४४ ॥

प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ।
निवृत्तविषयाकाङ्क्षो वीतदोषो विमत्सरः ॥ ४५ ॥

भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले ।
हकारं विश्वमात्मानं रकारे प्रविलापयेत् ॥ ४६ ॥

रकारं तैजसं देवमीकारे प्रविलापयेत् ।
ईकारं प्राज्ञयात्मानं ह्रीङ्कारे प्रविलापयेत् ॥ ४७ ॥

वाच्यवाचकताहीनं द्वैतभावविवर्जितम् ।
अखण्डं सच्चिदानन्दं भावयेत्तच्छिखान्तरे ॥ ४८ ॥

इति ध्यानेन मां राजन्साक्षात्कृत्य नरोत्तमः ।
मद्रूप एव भवति द्वयोरप्येकता यतः ॥ ४९ ॥

योगयुक्त्याऽनया द्रष्टा मामात्मानं परात्परम् ।
अज्ञानस्य सकार्यस्य तत्क्षणे नाशको भवेत् ॥ ५० ॥

॥ इति श्रीदेवीभागवते देवीगीतायां तृतीयोऽध्यायः ॥

॥ अथ चतुर्तोऽध्यायः ॥

हिमालय उवाच –
योगं वद महेशानि साङ्ग संवित्प्रदायकम् ।
कृतेन येन योग्योऽहं भवेयं तत्त्वदर्शने ॥ १ ॥

श्रीदेव्युवाच –
न योगो नभसः पृष्ठे न भूमौ न रसातले ।
ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥ २ ॥

तत्प्रत्यूहाः षडाख्याता योगविघ्नकरानघ ।
कामक्रोधौ लोभमोहौ मदमात्सर्यसंज्ञकौ ॥ ३ ॥

योगाङ्गैरेव भित्त्वा तान्योगिनो योगमाप्नुयुः ।
यमं नियममासनप्राणायामौ ततःपरम् ॥ ४ ॥

प्रत्याहारं धारणाख्यं ध्यानं सार्धं समाधिना ।
अष्टाङ्गान्याहुरेतानि योगिनां योगसाधने ॥ ५ ॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम् ।
क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥ ६ ॥

तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् ।
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम् ॥ ७ ॥

दशैते नियमाः प्रोक्ता मया पर्वतनायक ।
पद्मासनं स्वस्तिकं च भद्रं वज्रासनं तथा ॥ ८ ॥

वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् ।
ऊर्वोरुपरि विन्यस्य सम्यक्पादतले शुभे ॥ ९ ॥

अङ्गिष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमात्ततः ।
पद्मासनमिति प्रोक्तं योगिनां हृदयंगमम् ॥ १० ॥

जानूर्वोरन्तरे सम्यक्कृत्वा पादतले शुभे ।
ऋजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ ११ ॥

सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चितम् ।
वृषणाधः पादपार्ष्णी पाणिभ्यां परिबन्धयेत् ॥ १२ ॥

भद्रासनमिति प्रोक्तं योगिभिः परिपूजितम् ।
ऊर्वोः पादौ क्रमान्न्यस्य जान्वोःप्रत्यङ्मुखाङ्गुली ॥ १३ ॥

करौ विदध्यादाख्यातं वज्रासनमनुत्तमम् ।
एकं पादमधः कृत्वा विन्यस्योरुं तथोत्तरे ॥ १४ ॥

ऋजुकायो विशेद्योगी वीरासनमितीरितम् ।
ईडयाकर्षयेद्वायुं बाह्यं षोडशमात्रया
धारयेत्पूरितं योगी चतुःषष्ट्या तु मात्रया ॥ १५ ॥

सुषुम्नामध्यगं सम्य द्वात्रिंशन्मात्रया शनैः ॥ १६ ॥

नाड्या पिङ्गलया चैव रेचयेद्योगवित्तमः ।
प्राणायाममिमं प्राहुर्योगशास्त्रविशारदाः ॥ १७ ॥

भूयो भूयः क्रमात्तस्य बाह्यमेवं समाचरेत् ।
मात्रावृद्धिः क्रमेणैव सम्यग्द्वादश षोडश ॥ १८ ॥

जपध्यानादिभिः सार्थं सगर्भं तं विदुर्बुधाः ।
तदपेतं विगर्भं च प्राणायामं परे विदुः ॥ १९ ॥

क्रमादभ्यस्यतः पुंसो देहे स्वेदोद्गमोऽधमः ।
मध्यमः कंपसंयुक्तो भूमित्यागः परो मतः ॥ २० ॥

उत्तमस्य गुणावाप्तिर्यावच्छीलनमिष्यते ।
इन्द्रियाणां विचरतां विषयेषु निरर्गलम् ॥ २१ ॥

बलादाहरणं तेभ्यः प्रत्याहारोऽभिधीयते ।
अङ्गुष्ठगुल्फजानूरुमूलाधारलिङ्गनाभिषु ॥ २२ ॥

हृद्ग्रीवाकण्ठदेशेषु लंबिकायां ततो नसि ।
भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि ॥ २३ ॥

धारणं प्राणमरुतो धारणेति निगद्यते ।
समाहितेन मनसा चैतन्यान्तरवर्तिना ॥ २४ ॥

आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते ।
समत्वभावना नित्यं जीवात्मपरमात्मनोः ॥ २५ ॥

समाधिर्माहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणम् ।
इदानीं कथये तेऽहं मन्त्रयोगमनुत्तमम् ॥ २६ ॥

विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं नग ।
चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मैक्यरूपकम् ॥ २७ ॥

तिस्रः कोट्यस्तदर्धेन शरीरे नाडयो मताः ।
तासु मुख्या दश प्रोक्तास्ताभ्यस्तिस्रो व्यवस्थिताः ॥ २८ ॥

प्रधाना मेरुदण्डेऽत्र चन्द्रसूर्याग्निरूपिणी ।
इडा वामे स्थिता नाडी शुभ्रा तु चन्द्ररूपिणी ॥ २९ ॥

शक्तिरूपा तु सा नाडी साक्षादमृतविग्रहा ।
दक्षिणे या पिङ्गलाख्या पुंरूपा सूर्यविग्रहा ॥ ३० ॥

सर्वतेजोमयी सा तु सुषुम्ना वह्निरूपिणी ।
तस्या मध्ये विचित्राख्ये इच्छाज्ञानक्रियात्मकम् ॥ ३१ ॥

मध्ये स्वयंभूलिङ्गं तु कोटिसूर्यसमप्रभम् ।
तदूर्ध्वं मायाबीजं तु हरात्माबिन्दुनादकम् ॥ ३२ ॥

तदूर्ध्वं तु शिखाकारा कुण्डली रक्तविग्रहा ।
देव्यात्मिका तु सा प्रोक्ता मदभिन्ना नगाधिप ॥ ३३ ॥

तद्बाह्ये हेमरूपाभं वादिसान्तचतुर्दलम् ।
द्रुतहेमसमप्रख्यं पद्मं तत्र विचिन्तयेत् ॥ ३४ ॥

तदूर्ध्वं त्वनलप्रख्यं षड्दलं हीरकप्रभम् ।
वादिलान्तषड्वर्णेन स्वाधिष्ठानमनुत्तमम् ॥ ३५ ॥

मूलाधार षट्कोणं मूलाधारं ततो विदुः ।
स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ ३६ ॥

तदूर्ध्वं नाभिदेशे तु मणिपूरं महाप्रभम् ।
मेघाभं विद्युदाभं च बहुतेजोमयं ततः ॥ ३७ ॥

मणिवद्भिन्नं तत्पद्मं मणिपद्मं तथोच्यते ।
दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥ ३८ ॥

विष्णुनाऽधिष्ठितं पत्रं विष्ण्वालोकनकारणम् ।
तदूर्ध्वेऽनाहतं पद्ममुद्यदादित्यसन्निभम् ॥ ३९ ॥

कादिठान्तदलैरर्कपत्रैश्च समधिष्ठितम् ।
तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम् ॥ ४० ॥

शब्दब्रह्ममयं शब्दानाहतं तत्र दृश्यते ।
अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्तितम् ॥ ४१ ॥

आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् ।
तदूर्ध्वं तु विशुद्धाख्यं दलषोडशपङ्कजम् ॥ ४२ ॥

स्वरैः षोडशभिर्युक्तं धूम्रवर्णं महाप्रभम् ।
विशुद्धं तनुते यस्माज्जीवस्य हंसलोकनात् ॥ ४३ ॥

विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् ।
आज्ञाचक्रं तदूर्ध्वे तु आत्मनाऽधिष्ठितं परम् ॥ ४४ ॥

आज्ञासङ्क्रमणं तत्र तेनाज्ञेति प्रकीर्तितम् ।
द्विदलं हक्षसंयुक्तं पद्मं तत्सुमनोहरम् ॥ ४५ ॥

कैलासाख्यं तदूर्ध्वं तु रोधिनी तु तदूर्ध्वतः ।
एवं त्वाधारचक्राणि प्रोक्तानि तव सुव्रत ॥ ४६ ॥

सहस्रारयुतं बिन्दुस्थानं तदूर्ध्वमीरितम् ।
इत्येतत्कथितं सर्वं योगमार्गमनुत्तमम् ॥ ४७ ॥

आदौ पूरकयोगेनाप्याधारे योजयेन्मनः ।
गुदमेढ्रान्तरे शक्तिस्तामाकुञ्च्य प्रबोधयेत् ॥ ४८ ॥

लिङ्गभेदक्रमेणैव बिन्दुचक्रं च प्रापयेत् ।
शंभुना तां पराशक्तिमेकीभूतां विचिन्तयेत् ॥ ४९ ॥

तत्रोत्थितामृतं यत्तु द्रुतलाक्षारसोपमम् ।
पाययित्वा तु तां शक्तिं मायख्यां योगसिद्धिदाम् ॥ ५० ॥

षट्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया ।
आनयेत्तेन मार्गेण मूलाधारं ततः सुधीः ॥ ५१ ॥

एवमभ्यस्यमानस्याप्यहन्यहनि निश्चितम् ।
पूर्वोक्तदूषिता मन्त्राः सर्वे सिध्यन्ति नान्यथा ॥ ५२ ॥

जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् ।
ये गुणाः सन्ति देव्या मे जगन्मातुर्यथा तथा ॥ ५३ ॥

ते गुणाः साधकवरे भवन्त्येव चान्यथा ।
इत्येवं कथितं तात वायुधारणमुत्तमम् ॥ ५४ ॥

इदानीं धारणाख्यं तु श‍ृणुष्वावहितो मम ।
दिक्कालाद्यनवच्छिन्नदेव्यां चेतो विधाय च ॥ ५५ ॥

तन्मयो भवति क्षिप्रं जीवब्रह्मैक्ययोजनात् ।
अथवा समलं चेतो यदि क्षिप्रं न सिध्यति ॥ ५६ ॥

तदावयवयोगेन योगी योगान्समभ्यसेत् ।
मदीयहस्तपादादावङ्गे तु मधुरे नग ॥ ५७ ॥

चित्तं संस्थापयेन्मन्त्री स्थानस्थानजयात्पुनः ।
विशुद्धचित्तः सर्वस्मिन्रूपे संस्थापयेन्मनः ॥ ५८ ॥

यावन्मनोलयं याति देव्यां संविदि पर्वत ।
तावदिष्टमिदं मन्त्री जपहोमैः समभ्यसेत् ॥ ५९ ॥

मन्त्राभ्यासेन योगेन ज्ञेयज्ञानाय कल्पते ।
न योगेन विना मन्त्रो न मन्त्रेण विना हि सः ॥ ६० ॥

द्वयोरभ्यासयोगो हि ब्रह्मसंसिद्धिकारणम् ।
तमःपरिवृते गेहे घटो दीपेन दृश्यते ॥ ६१ ॥

एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः ।
इति योगविधिः कृत्स्नः साङ्गः प्रोक्तो मयाऽधुना ॥ ६२ ॥

॥ इति श्रीदेवीभागवते देवीगीतायां चतुर्थोऽध्यायः ॥

॥ अथ पञ्चमोऽध्यायः ॥

श्रीदेव्युवाच –
इत्यादि योगयुक्तात्मा ध्यायेन्मां ब्रह्मरूपिणीम् ।
भक्त्या निर्व्याजया राजन्नासने समुपस्थितः ॥ १ ॥

आविः सन्निहितं गुहाचरं नाम महत्परम् ।
अत्रैतत्सर्वमर्पितमेजत्प्राणनिमिषच्च यत् ॥ २ ॥

एतज्जानथ सदसद्वरेण्यं
विज्ञानाद्यद्वरिष्ठं प्रजानाम् ।
यदर्चिमद्यदणुभ्योऽणु च
यस्मिंल्लोका निहिता लोकिनश्च ॥ ३ ॥

See Also  Jayanteya Gita From Srimad Bhagavata In English

तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ् मनः ।
तदेतत्सत्यममृतं तद्वेद्धव्यं सौम्य विद्धि ॥ ४ ॥

धनुर्गॄत्वौपनिषदं महास्त्रं
शरं ह्युपासानिशितं सन्धयीत ।
आयम्य तद्भावगतेन चेतसा
लक्ष्यं तदेवाक्षरं सौम्य विद्धि ॥ ५ ॥

प्रणवो धनुः शरो ह्यात्मा ब्रह्मतल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ६ ॥

यस्मिन्द्यौश्च पृथिवी चान्तरिक्ष-
मोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथात्मानमन्या
वाचो विमुञ्चथा अमृतस्यैष सेतुः ॥ ७ ॥

अरा इव रथनाभौ संहता यत्र नाड्यः ।
स एषोन्तश्चरते बहुधा जायमानः ॥ ८ ॥

ओमित्येवं ध्यायथात्मानं स्वस्ति वः पाराय तमसः परस्तात् ।
दिव्ये ब्रह्मपुरे व्योम्नि आत्मा सम्प्रतिष्ठितः ॥ ९ ॥

मनोमयः प्राणशरीरनेता
प्रतिष्ठितोऽन्ने हृदयं संनिधाय ।
तद्विज्ञानेन परिपश्यन्ति धीरा
आनन्दरूपममृतं यद्विभाति ॥ १० ॥

भिद्यते हृदयग्रन्थिश्च्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ११ ॥

हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ १२ ॥

न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं
तस्य भासा सर्वमिदं विभाति ॥ १३ ॥

ब्रह्मैवेदममृतं पुरस्ताद्
ब्रह्म पश्चाद् ब्रह्म दक्षिणश्चोत्तरेण ।
अधश्चोर्ध्वं प्रसृतं ब्रह्म
एवेदं विश्वं वरिष्ठम् ॥ १४ ॥

एतादृगनुभवो यस्य स कृतार्थो नरोत्तमः ।
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ॥ १५ ॥

द्वितीयाद्वै भयं रजंस्तदभावाद्बिभेति न ।
न तद्वियोगो मेऽप्यस्ति मद्वियोगोऽपि तस्य न ॥ १६ ॥

अहमेव स सोऽहं वै निश्चितं विद्धि पर्वत ।
मद्दर्शनं तु तत्र स्याद्यत्र ज्ञानी स्थितो मम ॥ १७ ॥

नाहं तीर्थे न कैलासे वैकुण्ठे वा न कर्हिचित् ।
वसामि किन्तु मज्ज्ञानिहृदयांभोजमध्यमे ॥ १८ ॥

मत्पूजाकोटिफलदं सकृन्मज्ज्ञानिनोऽर्चनम् ।
कुलं पवित्रं तस्यास्ति जननी कृतकृत्यका ॥ १९ ॥

विश्वंभरा पुण्यवती चिल्लयो यस्य चेतसः ।
ब्रह्मज्ञानं तु यत्पृष्टं त्वया पर्वतसत्तम ॥ २० ॥

कथितं तन्मया सर्वं नातो वक्तव्यमस्ति हि ।
इदं ज्येष्ठाय पुत्राय भक्तियुक्ताय शीलिने ॥ २१ ॥

शिष्याय च यथोक्ताय वक्तव्यं नान्यथा क्वचित् ।
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ २२ ॥

तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।
येनोपदिष्टा विद्येयं स एव परमेश्वरः ॥ २३ ॥

यस्यायं सुकृतं कर्तुमसमर्थस्ततो ऋणी ।
पित्रोरप्यधिकः प्रोक्तो ब्रह्मजन्मप्रदायकः ॥ २४ ॥

पितृजातं जन्म नष्टं नेत्थं जातं कदाचन ।
तस्मै न द्रुह्येदित्यादि निगमोऽप्यवदन्नग ॥ २५ ॥

तस्माच्छास्त्रस्य सिद्धान्तो ब्रह्मदाता गुरुः परः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न शङ्करः ॥ २६ ॥

तस्मात्सर्वप्रयत्नेन श्रीगुरुं तोषयेन्नग ।
कायेन मनसा वाचा सर्वदा तत्परो भवेत् ॥ २७ ॥

अन्यथा तु कृतघ्नः स्यात्कृतघ्ने नास्ति निष्कृतिः ।
इन्द्रेणाथर्वणायोक्ता शिरश्छेदप्रतिज्ञया ॥ २८ ॥

अश्विभ्यां कथने तस्य शिरश्छिन्नं च वज्रिणा ।
अश्वीयं तच्छिरो नष्टं दृष्ट्वा वैद्यो सुरोत्तमौ ॥ २९ ॥

पुनः संयोजितं स्वीयं ताभ्यां मुनिशिरस्तदा ।
इति सङ्कटसम्पाद्या ब्रह्मविद्या नगाधिप ।
लब्धा येन स धन्यः स्यात्कृतकृत्यश्च भूधर ॥ ३० ॥

॥ इति श्रीदेवीभागवते देवीगीतायां पञ्चमोऽध्यायः ॥

॥ अथ षष्ठोऽध्यायः ॥

हिमालय उवाच –
स्वीयां भक्तिं वदस्वाम्ब येन ज्ञातं सुखेन हि ।
जायते मनुजस्यास्य मध्यमस्यविरागिणः ॥ १ ॥

देव्युवाच –
मार्गास्त्रयो मे विख्याता मोक्षप्राप्तौ नगाधिप ।
कर्मयोगो ज्ञानयोगो भक्तियोगश्च सत्तम ॥ २ ॥

त्रयाणामप्ययं योग्यः कर्तुं शक्योऽस्ति सर्वथा ।
सुलभत्वान्मानसत्वात्कायचित्ताद्यपीडनात् ॥ ३ ॥

गुणभेदान्मनुष्याणां सा भक्तिस्त्रिविधा मता ।
परपीडां समुद्दिश्य दंभं कृत्वा पुरःसरम् ॥ ३ ॥

मात्सर्यक्रोधयुक्तो यस्तस्य भक्तिस्तु तामसी ।
परपीडादिरहितः स्वकल्याणार्थमेव च ॥ ५ ॥

नित्यं सकामो हृदये यशोर्थी भोगलोलुपः ।
तत्तत्फलसमावाप्त्यै मामुपास्तेऽतिभक्तितः ॥ ६ ॥

भेदबुद्ध्या तु मां स्वस्मादन्यां जानाति पामरः ।
तस्य भक्तिः समाख्याता नगाधिप तु राजसी ॥ ७ ॥

परमेशार्पणं कर्म पापसङ्क्षालनाय च ।
वेदोक्तत्वादवश्यं तत्कर्तव्यं तु मयानिशम् ॥ ८ ॥

इति निश्चितबुद्धिस्तु भेदबुद्धिमुपाश्रितः ।
करोति प्रीयते कर्म भक्तिः सा नग सात्त्विकी ॥ ९ ॥

परभक्तेः प्रापिकेयं भेदबुद्ध्यवलम्बनात् ।
पूर्वप्रोक्तेत्युभे भक्ती न परप्रापिके मते ॥ १० ॥

अधुना परभक्तिं तु प्रोच्यमानां निबोध मे ।
मद्गुणश्रवणं नित्यं मम नामानुकीर्तनम् ॥ ११ ॥

कल्याणगुणरत्नानामाकरायां मयि स्थिरम् ।
चेतसो वर्तनं चैव तैलधारासमं सदा ॥ १२ ॥

हेतुस्तु तत्र को वापि न कदाचिद्भवेदपि ।
सामीप्यसार्ष्टिसायुज्यसलोक्यानां न चएषणा ॥ १३ ॥

मत्सेवातोऽधिकं किञ्चिन्नैव जानाति कर्हिचित् ।
सेव्यसेवकताभावातत्र मोक्षं न वाञ्छति ॥ १४ ॥

परानुरक्त्या मामेव चिन्तयेद्यो ह्यतन्द्रितः ।
स्वाभेदेनैव मां नित्यं जानाति न विभेदतः ॥ १५ ॥

मद्रूपत्वेन जीवानां चिन्तनं कुरुते तु यः ।
यथा स्वस्यात्मनि प्रीतिस्तथैव च परात्मनि ॥ १६ ॥

चैतन्यस्य समानत्वान्न भेदं कुरुते तु यः ।
सर्वत्र वर्तमानां मां सर्वरूपां च सर्वदा ॥ १७ ॥

नमते यजते चैवाप्याचाण्डालान्तमीश्वरम् ।
न कुत्रापि द्रोहबुद्धिं कुरुते भेदवर्जनात् ॥ १८ ॥

मत्स्थानदर्शने श्रद्धा मद्भक्तदर्शने तथा ।
मच्छास्त्रश्रवणे श्रद्धा मन्त्रतन्त्रादिषु प्रभो ॥ १९ ॥

मयि प्रेमाकुलमती रोमाञ्चिततनुः सदा ।
प्रेमाश्रुजलपूर्णाक्षः कण्ठगद्गदनिस्वनः ॥ २० ॥

अनन्येनैव भावेन पूजयेद्यो नगाधिप ।
मामीश्वरीं जगद्योनिं सर्वकारणकारणम् ॥ २१ ॥

व्रतानि मम दिव्यानि नित्यनैमित्तिकान्यपि ।
नित्यं यः कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥ २२ ॥

मदुत्स्वदिदृक्षा च मदुत्स्वकृतिस्तथा ।
जायते यस्य नियतं स्वभावादेव भूधर ॥ २३ ॥

उच्चैर्गायंश्च नामानि ममैव खलु नृत्यति ।
अहङ्कारादिरहितो देहतादात्म्यवर्जितः ॥ २४ ॥

प्रारब्धेन यथा यच्च क्रियते तत्तथा भवेत् ।
न मे चिन्तास्ति तत्रापि देहसंरक्षणादिषु ॥ २५ ॥

इति भक्तिस्तु या प्रोक्ता परभक्तिस्तु सा स्मृता ।
यस्यां देव्यतिरिक्तं तु न किञ्चिदपि भाव्यते ॥ २६ ॥

इत्थं जाता परा भक्तिर्यस्य भूधर तत्त्वतः ।
तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत् ॥ २७ ॥

भक्तेस्तु या परा काष्ठा सैव ज्ञानं प्रकीर्तितम् ।
वैराग्यस्य च सीमा सा ज्ञाने तदुभयं यतः ॥ २८ ॥

भक्तौ कृतायां यस्यापि प्रारब्धवशतो नग ।
न जायते मम ज्ञानं मणिद्वीपं स गच्छति ॥ २९ ॥

तत्र गत्वाऽखिलान्भोगाननिच्छन्नपि चर्च्छति ।
तदन्ते मम चिद्रूपज्ञानं सम्यग्भवेन्नग ॥ ३० ॥

तेन युक्तः सदैव स्याज्ज्ञानान्मुक्तिर्न चान्यथा ।
इहैव यस्य ज्ञानं स्याधृद्गतप्रत्यगात्मनः ॥ ३१ ॥

मम संवित्परतनोस्तस्य प्राणा व्रजन्ति न ।
ब्रह्मैव संस्तदाप्नोति ब्रह्मैव ब्रह्म वेद यः ॥ ३२ ॥

कण्ठचामीकरसममज्ञानात्तु तिरोहितम् ।
ज्ञानादज्ञाननाशेन लब्धमेव हि लभ्यते ॥ ३३ ॥

विदिताविदितादन्यन्नगोत्तम वपुर्मम ।
यथाऽऽदर्शे यथाऽऽत्मनि यथा जले तथा पितृलोके ॥ ३४ ॥

छायातपौ तथा स्वच्छौ विविक्तौ तद्वदेव हि ।
मम लोके भवेज्ज्ञानं द्वैतभानविवर्जितम् ॥ ३५ ॥

यस्तु वैराग्यवानेव ज्ञानहीनो म्रियेत चेत् ।
ब्रह्मलोके वसेन्नित्यं यावत्कल्पं ततःपरम् ॥ ३६ ॥

शुचीनां श्रीमतां गेहे भवेत्तस्या जनिः पुनः ।
करोति साधनं पश्चात्ततो ज्ञानं हि जायते ॥ ३७ ॥

अनेकजन्मभी राजञ्ज्ञानं स्यान्नैकजन्मना ।
ततः सर्वप्रयत्नेन ज्ञानार्थं यत्नमाश्रयेत् ॥ ३८ ॥

नोचेन्महाविनाशः स्याज्जन्मेतद्दुर्लभं पुनः ।
तत्रापि प्रथमे वर्णे वेदे प्राप्तिश्च दुर्लभा ॥ ३९ ॥

शमादिषट्कसम्पत्तिर्योगसिद्धिस्तथैव च ।
तथोत्तमगुरुप्राप्तिः सर्वमेवात्र दुर्लभम् ॥ ४० ॥

तथेन्द्रियाणां पटुता संस्कृतत्वं तनोस्तथा ।
अनेकजन्मपुण्यैस्तु मोक्षेच्छा जायते ततः ॥ ४१ ॥

साधने सफलेऽप्येवं जायमानेऽपि यो नरः ।
ज्ञानार्थं नैव यतते तस्य जन्म निरर्थकम् ॥ ४२ ॥

तस्माद्राजन्यथाशक्त्या ज्ञानार्थं यत्नमाश्रयेत् ।
पदे पदेऽश्वमेधस्य फलमाप्नोति निश्चितम् ॥ ४३ ॥

घृतमिव पयसि निगूढं भूते च वसति विज्ञानम् ।
सततं मन्थयितव्यं मनसा मन्थानभूतेन ॥ ४४ ॥

ज्ञानं लब्ध्वा कृतार्थः स्यादिति वेदान्तदिण्डिमः ।
सर्वमुक्तं समासेन किं भूयः श्रोतुमिच्छसि ॥ ४५ ॥

॥ इति श्रीदेवीभागवते देवीगीतायां षष्ठोऽध्यायः ॥

॥ अथ सप्तमोऽध्यायः ॥

हिमालय उवाच –
कति स्थानानि देवेशि द्रष्टव्यानि महीतले ।
मुख्यानि च पवित्राणि देवीप्रियतमानि च ॥ १ ॥

व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि ।
तत्सर्वं वद मे मातः कृतकृत्यो यतो नरः ॥ २ ॥

श्रीदेव्युवाच –
सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः ।
उत्सवाः सर्वकालेषु यतोऽहं सर्वरूपिणी ॥ ३ ॥

तथापि भक्तवात्सल्यात्किञ्चित्किञ्चिदथोच्यते ।
श‍ृणुष्वावहितो भूत्वा नगराज वचो मम ॥ ४ ॥

कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता ।
मातुःपुरं द्वितीयं च रेणुकाधिष्ठितं परम् ॥ ५ ॥

तुलजापुरं तृतीयं स्यात्सप्तश‍ृङ्गं तथैव च ।
हिङ्गुलायां महास्थानं ज्वालामुख्यास्तथैव च ॥ ६ ॥

शाकंभर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् ।
श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च ॥ ७ ॥

विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् ।
अन्नपूर्णामहास्थानं काञ्चीपुरमनुत्तमम् ॥ ८ ॥

भीमादेव्याः परं स्थानं विमलास्थानमेव च ।
श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव च ॥ ९ ॥

नीलांबायाः परं स्थानं नीलपर्वतमस्तके ।
जांबूनदेश्वरीस्थानं तथा श्रीनगरं शुभम् ॥ १० ॥

गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् ।
मीनाक्ष्याः परमं स्थानं यच्च प्रोक्तं चिदंबरे ॥ ११ ॥

वेदारण्यं महास्थानं सुन्दर्या समधिष्ठितम् ।
एकांबरं महास्थानं परशक्त्या प्रतिष्ठितम् ॥ १२ ॥

महालसा परं स्थानं योगेश्वर्यास्तथैव च ।
तथा नीलसरस्वत्याः स्थानं चीनेषु विश्रुतम् ॥ १३ ॥

वैद्यनाथे तु बगलास्थानं सर्वोत्तमं मतम् ।
श्रीमच्छ्रीभुवनेश्वर्या मणिद्वीपं मम स्मृतम् ॥ १४ ॥

श्रीमत्त्रिपुरभैरव्याः कामाख्यायोनिमण्डलम् ।
भूमण्डले क्षेत्ररत्नं महामायाधिवासितम् ॥ १५ ॥

नातः परतरं स्थानं क्वचिदस्ति धरातले ।
प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला ॥ १६ ॥

तत्रत्या देवताः सर्वाः पर्वतात्मकतां गताः ।
पर्वतेषु वसन्त्येव महत्यो देवता अपि ॥ १७ ॥

तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः ।
नातः परतरं स्थानं कामाख्यायोनिमण्डलात् ॥ १८ ॥

गायत्र्याश्च परं स्थानं श्रीमत्पुष्करमीरितम् ।
अमरेशे चण्डिका स्यात्प्रभासे पुष्करेक्षिणी ॥ १९ ॥

नैमिषे तु महास्थाने देवी सा लिङ्गधारिणी ।
पुरुहूता पुष्कराक्षे आषाढौ च रतिस्तथा ॥ २० ॥

चण्डमुण्डी महास्थाने दण्डिनी परमेश्वरी ।
भारभूतौ भवेद्भूतिर्नाकुले नकुलेश्वरी ॥ २१ ॥

चन्द्रिका तु हरिश्चन्द्रे श्रीगिरौ शाङ्करी स्मृता ।
जप्येश्वरे त्रिशूला स्यात्सूक्ष्मा चाम्रातकेश्वरे ॥ २२ ॥

शाङ्करी तु महाकाले शर्वाणी मध्यमाभिधे ।
केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी ॥ २३ ॥

भैरवाख्ये भैरवी सा गयायां मङ्गला स्मृता ।
स्थाणुप्रिया कुरुक्षेत्रे स्वायंभुव्यपि नाकुले ॥ २४ ॥

कनखले भवेदुग्रा विश्वेशा विमलेश्वरे ।
अट्टहासे महानन्दा महेन्द्रे तु महान्तका ॥ २५ ॥

भीमे भीमेश्वरी प्रोक्ता रुद्राणी त्वर्धकोटिके ॥ २६ ॥

अविमुक्ते विशालाक्षी महाभागा महालये ।
गोकर्णे भद्रकर्णी स्याद्भद्रा स्याद्भद्रकर्णके ॥ २७ ॥

उत्पलाक्षी सुवर्णाक्षे स्थाण्वीशा स्थाणुसंज्ञके ।
कमलालये तु कमला प्रचण्डा छगलण्डके ॥ २८ ॥

कुरण्डले त्रिसन्ध्या स्यान्माकोटे मुकुटेश्वरी ।
मण्डलेशे शाण्डकी स्यात्काली कालञ्जरे पुनः ॥ २९ ॥

शङ्कुकर्णे ध्वनिः प्रोक्ता स्थूला स्यात्स्थूलकेश्वरे ।
ज्ञानिनां हृदयांभोजे हृल्लेखा परमेश्वरी ॥ ३० ॥

प्रोक्तानीमानि स्थानानि देव्याः प्रियतमानि च ।
तत्तत्क्षेत्रस्य माहात्म्यं श्रुत्वा पूर्वं नगोत्तम ॥ ३१ ॥

तदुक्तेन विधानेन पश्चाद्देवीं प्रपूजयेत् ।
अथवा सर्वक्षेत्राणि काश्यां सन्ति नगोत्तम ॥ ३२ ॥

See Also  Hamsa Gita From Shrimad Bhagavata Purana Skandha 11 In English

तत्र नित्यं वसेन्नित्यं देवीभक्तिपरायणः ।
तानि स्थानानि सम्पश्यञ्जपन्देवीं निरन्तरम् ॥ ३३ ॥

ध्यायंस्तच्चरणांभोजं मुक्तो भवति बन्धनात् ।
इअमानि देवीनामानि प्रातरुत्थाय यः पठेत् ॥ ३४ ॥

भस्मीभवन्ति पापानि तत्क्षणान्नग सत्वरम् ।
श्राद्धकाले पठेदेतान्यमलानि द्विजाग्रतः ॥ ३५ ॥

मुक्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् ।
अधुना कथयिष्यामि व्रतानि तव सुव्रत ॥ ३६ ॥

नारीभिश्च नरैश्चैव कर्तव्यानि प्रयत्नतः ।
व्रतमनन्ततृतीयाख्यं रसकल्याणिनीव्रतम् ॥ ३७ ॥

आर्द्रानन्दकरं नाम्ना तृतीयायां व्रतं च यत् ।
शुक्रवारवतं चैव तथा कृष्णचतुर्दशी ॥ ३८ ॥

भौमवारव्रतं चैव प्रदोषव्रतमेव च ।
यत्र देवो महादेवो देवीं संस्थाप्य विष्टरे ॥ ३९ ॥

नृत्यं करोति पुरतः सार्धं दवैर्निशामुखे ।
तत्रोपोष्य रजन्यादौ प्रदोषे पूजयाच्छिवाम् ॥ ४० ॥

प्रतिपक्षं विशेषेण तद्देवीप्रीतिकारकम् ।
सोमवारव्रतं चैव ममातिप्रियकृन्नग ॥ ४१ ॥

तत्रापि देवीं सम्पूज्य रात्रौ भोजनमाचरेत् ।
नवरात्रद्वयं चैव व्रतं प्रीतिकरं मम ॥ ४२ ॥

एवमन्यान्यपि विभो नित्यनैमित्तिकानि च ।
व्रतानि कुरुते यो वै मत्प्रीत्यर्थं विमत्सरः ॥ ४३ ॥

प्राप्नोति मम सायुज्यं स मे भक्तः स मे प्रियः ।
उत्सवानपि कुर्वीत दोलोत्सवमुखान्विभो ॥ ४४ ॥

शयनोत्सवं तथा कुर्यात्तथा जागरणोत्सवम् ।
रथोत्सवं च मे कुर्याद्दमनोत्सवमेव च ॥ ४५ ॥

पवित्रोत्सवमेवापि श्रावणे प्रीतिकारकम् ।
मम भक्तः सदा कुर्यादेवमन्यान्महोत्सवान् ॥ ४६ ॥

मद्भक्तान्भोजयेत्प्रीत्या तथा चैव सुवासिनीः ।
कुमारीबटुकांश्चापि मद्बुद्ध्या तद्गतान्तरः ॥ ४७ ॥

वित्तशाठ्येन रहितो यजेदेतान्सुमादिभिः ।
य एवं कुरुते भक्त्या प्रतिवर्षमतन्द्रितः ॥ ४८ ॥

स धन्यः कृतकृत्योऽसौ मत्प्रीतेः पात्रमञ्जसा ।
सर्वमुक्तं समासेन मम प्रीतिप्रदायकम् ।
नाशिष्याय प्रदातव्यं नाभक्ताय कदाचन ॥ ४९ ॥

॥ इति श्रीदेवीभागवते देवीगीतायां सप्तमोऽध्यायः ॥

॥ अथ अष्टमोऽध्यायः ॥

हिमालय उवाच –
देवदेवि महेशानि करुणासागरेऽम्बिके ।
ब्रूहि पूजाविधिं सम्यग्यथावदधुना निजम् ॥ १ ॥

श्रीदेव्युवाच –
वक्ष्ये पूजाविधिं राजन्नम्बिकाया यथाप्रियम् ।
अत्यन्तश्रद्धया सार्धं श‍ृणु पर्वतपुङ्गव ॥ २ ॥

द्विविधा मम पूजा स्याद्बाह्या चाभ्यान्तरापि च ।
बाह्यापि द्विविधा प्रोक्ता वैदिकी तान्त्रिकी तथा ॥ ३ ॥

वैदिक्यर्चापि द्विविधा मूर्तिभेदेन भूधर ।
वैदिकी वैदिकैः कार्या वेददीक्षा समन्वितैः ॥ ४ ॥

तन्त्रोक्तदीक्षावद्भिस्तु तान्त्रिकी संश्रिता भवेत् ।
इत्थं पूजारहस्यं च न ज्ञात्वा विपरीतकम् ॥ ५ ॥

करोति यो नरो मूढः स पतत्येव सर्वथा ।
तत्र या वैदिकी प्रोक्ता प्रथमा तां वदाम्यहम् ॥ ६ ॥

यन्मे साक्षात्परं रूपं दृष्टवानसि भूधर ।
अनन्तशीर्षनयनमनन्तचरणं महत् ॥ ७ ॥

सर्वशक्तिसमायुक्तं प्रेरकं यत्परात्परम् ।
तदेव पूजयेन्नित्यं नमेद्ध्यायेत्स्मरेदपि ॥ ८ ॥

इत्येतत्प्रथमाचार्याः स्वरूपं कथितं नग ।
शान्तः समाहितमना दंभाहङ्कारवर्जितः ॥ ९ ॥

तत्परो भव तद्याजी तदेव शरणं व्रज ।
तदेव चेतसा पश्य जप ध्यायस्व सर्वदा ॥ १० ॥

अनन्यया प्रेमयुक्तभक्त्या मद्भावमाश्रितः ।
यज्ञैर्यज तपोदानैर्मामेव परितोषय ॥ ११ ॥

इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात् ।
मत्परा ये मदासक्तचित्ता भक्तपरा मताः ॥ १२ ॥

प्रतिजाने भवादस्मादुद्धाराम्यचिरेण तु ।
ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः ॥ १३ ॥

प्राप्याहं सर्वथा राजन्न तु केवलकर्मभिः ।
धर्मात्सञ्जायते भक्तिर्भक्त्या सञ्जायते परम् ॥ १४ ॥

श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः ।
अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते ॥ १५ ॥

सर्वज्ञात्सर्वशक्तेश्च मत्तो वेदः समुत्थितः ।
अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः ॥ १६ ॥

स्मृतयश्च श्रुतेरर्थं गृहीत्वैव च निर्गताः ।
मन्वादीनां स्मृतीनां च ततः प्रामाण्यमिष्यते ॥ १७ ॥

क्वचित्कदाचित्तन्त्रार्थकटाक्षेण परोदितम् ।
धर्मं वदन्ति सोंऽशस्तु नैव ग्राह्योऽस्ति वैदिकैः ॥ १८ ॥

अन्येषां शास्त्रकर्तॄणामज्ञानप्रभवत्वतः ।
अज्ञानदोषदुष्टत्वात्तदुक्तेर्न प्रमाणता ॥ १९ ॥

तस्मान्मुमुक्षुर्धर्मार्थं सर्वथा वेदमाश्रयेत् ।
राजाज्ञा च यथा लोके हन्यते न कदाचन ॥ २० ॥

सर्वेशाया ममाज्ञा सा श्रुतिस्त्याज्या कथं नृभिः ।
मदाज्ञारक्षणार्थं तु ब्रह्मक्षत्रियजातयः ॥ २१ ॥

मया सृष्टास्ततो ज्ञेयं रहस्यं मे श्रुतेर्वचः ।
यदा यदा हि धर्मस्य ग्लानिर्भवति भूधर ॥ २२ ॥

अभ्युत्थानमधर्मस्य तदा वेषान्बिभर्म्यहम् ।
देवदैत्यविभागश्चाप्यत एवाभवन्नृप ॥ २३ ॥

ये न कुर्वन्ति तद्धर्मं तच्छिक्षार्थं मया सदा ।
सम्पादितास्तु नरकास्रासो यच्छ्रवणाद्भवेत् ॥ २४ ॥

यो वेदधर्ममुज्झित्य धर्ममन्यं समाश्रयेत् ।
राजा प्रवासयेद्देशान्निजादेतानधर्मिणः ॥ २५ ॥

ब्राह्मणैर्न च संभाष्याः पङ्क्तिग्राह्या न च द्विजैः ।
अन्यानि यानि शास्त्राणि लोकेऽस्मिन्विविधानि च ॥ २६ ॥

श्रुतिस्मृतिविरुद्धानि तामसान्येव सर्वशः ।
वामं कापालकं चैव कौलकं भैरवागमः ॥ २७ ॥

शिवेन मोहनार्थाय प्रणीतो नान्यहेतुकः ।
यक्षशापाद् भृगोः शापाद्दधीचस्य च शापतः ॥ २८ ॥

दग्धा ये ब्राह्मणवरा वेदमार्गबहिष्कृताः ।
तेषामुद्धरणार्थाय सोपानक्रमतः सदा ॥ २९ ॥

शैवाश्च वैष्णवाश्चैव सौराः शाक्तास्तथैव च ।
गाणपत्या आगमाश्च प्रणीताः शङ्करेण तु ॥ ३० ॥

तत्र वेदाविरुद्धोंऽशोऽप्युक्त एव क्वचित्क्वचित् ।
वैदिकस्तद्ग्रहे दोषो न भवत्येव कर्हिचित् ॥ ३१ ॥

सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत् ।
वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान् ॥ ३२ ॥

तस्मात्सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् ।
धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ ३३ ॥

सर्वैषणाः परित्यज्य मामेव शरणं गताः ।
सर्वभूतदयावन्तो मानाहङ्कारवर्जिताः ॥ ३४ ॥

मच्चित्ता मद्गतप्राणा मत्स्थानकथने रताः ।
संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः ॥ ३५ ॥

उपासन्ते सदा भक्त्या योगमैश्वरसंज्ञितम् ।
तेषां नित्याभियुक्तानामहमज्ञानजं तमः ॥ ३६ ॥

ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः ।
इत्थं वैदिकपूजायाः प्रथमाया नगाधिप ॥ ३७ ॥

स्वरूपमुक्तं सङ्क्षेपाद्द्वितीयाया अथो ब्रुवे ।
मूर्तौ वा स्थण्डिले वापि तथा सूर्येन्दुमण्डले ॥ ३८ ॥

जलेऽथवा बाणलिङ्गे यन्त्रे वापि महापटे ।
तथा श्रीहृदयांभोजे ध्यात्वा देवीं परात्पराम् ॥ ३९ ॥

सगुणां करुणापूर्णां तरुणीमरुणारुणाम् ।
सौन्दर्यसारसीमान्तां सर्वावयवसुन्दराम् ॥ ४० ॥

श‍ृङ्गाररससम्पूर्णां सदा भक्तार्तिकातराम् ।
प्रसादसुमुखीमम्बां चन्द्रखण्डाशिखण्डिनीम् ॥ ४१ ॥

पाशाङ्कुशवराभीतिधरामानन्दरूपिणीम् ।
पूजयेदुपचारैश्च यथावित्तानुसारतः ॥ ४२ ॥

यावदान्तरपूजायामधिकारो भवेन्न हि ।
तावद्बाह्यामिमां पूजां श्रयेज्जाते तु तां त्यजेत् ॥ ४३ ॥

आभ्यन्तरा तु या पूजा सा तु संविल्लयः स्मृतः ।
संविदेवपरं रूपमुपाधिरहितं मम ॥ ४४ ॥

अतः संविदि मद्रूपे चेतः स्थाप्यं निराश्रयम् ।
संविद्रूपातिरिक्तं तु मिथ्या मायामयं जगत् ॥ ४५ ॥

अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् ।
भावयन्निर्मनस्केन योगयुक्तेन चेतसा ॥ ४६ ॥

अतःपरं बाह्यपूजाविस्तारः कथ्यते मया ।
सावधानेन मनसा श‍ृणु पर्वतसत्तम ॥ ४७ ॥

॥ इति श्रीदेवीभागवते देवीगीतायां अष्टमोऽध्यायः ॥

॥ अथ नवमोऽध्यायः ॥

श्रीदेव्युवाच –
प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् ।
कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् ॥ १ ॥

सुप्रसन्नं लसद्भूषाभूषितं शक्तिसंयुतम् ।
नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः ॥ २ ॥

प्रकाशमानां प्रथमे प्रयाणे
प्रतिप्रयाणेऽप्यमृतायमानाम् ।
अन्तःपदव्यामनुसञ्चरन्ती-
मानन्दरूपामबलां प्रपद्ये ॥ ३ ॥

ध्यात्वैवं तच्छिखामध्ये सच्चिदानन्दरूपिणीम् ।
मां ध्यायेदथ शौचादिक्रियाः सर्वाः समापयेत् ॥ ४ ॥

अग्निहोत्रं ततो हुत्वा मत्प्रीत्यर्थं द्विजोत्तमः ।
होमान्ते स्वासने स्थित्वा पूजासङ्कल्पमाचरेत् ॥ ५ ॥

भूतशुद्धिं पुरा कृत्वा मातृकान्यासमेव च ।
हृल्लेखामातृकान्यासं नित्यमेव समाचरेत् ॥ ६ ॥

मूलाधारे हकारं च हृदये च रकारकम् ।
भ्रूमध्ये तद्वदीकारं ह्रीङ्कारं मस्तके न्यसेत् ॥ ७ ॥

तत्तन्मन्त्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् ।
कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः ॥ ८ ॥

ततो ध्यायेन्महादेवीं प्राणायामैर्विजृम्भिते ।
हृदम्भोजे मम स्थाने पञ्चप्रेतासने बुधः ॥ ९ ॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
एते पञ्च महाप्रेताः पादमूले मम स्थिताः ॥ १० ॥

पञ्चभूतात्मका ह्येते पञ्चावस्थात्मका अपि ।
अहं त्वव्यक्तचिद्रूपा तदतीताऽस्मि सर्वथा ॥ ११ ॥

ततो विष्टरतां याताः शक्तितन्त्रेषु सर्वदा ।
ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि ॥ १२ ॥

जपं समर्प्य श्रीदेव्यै ततोऽर्घ्यस्थापनं चरेत् ।
पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत् ॥ १३ ॥

जलेन तेन मनुना चास्त्रमन्त्रेण देशिकः ।
दिग्बन्धं च पुरा कृत्वा गुरून्नत्वा ततः परम् ॥ १४ ॥

तदनुज्ञां समादाय बाह्यपीठे ततः परम् ।
हृदिस्थां भावितां मूर्तिं मम दिव्यां मनोहराम् ॥ १५ ॥

आवाहयेत्ततः पीठे प्राणस्थापनविद्यया ।
आसनावाहने चार्घ्यं पाद्याद्याचमनं तथा ॥ १६ ॥

स्नानं वासोद्वयं चैव भूषणानि च सर्वशः ।
गन्धपुष्पं यथायोग्यं दत्त्वा देव्यै स्वभक्तितः ॥ १७ ॥

यन्त्रस्थानामावृतीनां पूजनं सम्यगाचरेत् ।
प्रतिवारमशक्तानां शुक्रवारो नियम्यते ॥ १८ ॥

मूलदेवीप्रभारूपाः स्मर्तव्या अङ्गदेवताः ।
तत्प्रभापटलव्याप्तं त्रैलोक्यं च विचिन्तयेत् ॥ १९ ॥

पुनरावृत्तिसहितां मूलदेवीं च पूजयेत् ।
गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः ॥ २० ॥

नैवेद्यैस्तर्पणैश्चैव तांबूलैर्दक्षिणादिभिः ।
तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च ॥ २१ ॥

कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो ।
देव्यथर्वशिरोमन्त्रैर्हृल्लेखोपनिषद्भवैः ॥ २२ ॥

महाविद्यामहामन्त्रैस्तोषयेन्मां मुहुर्मुहुः ।
क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः ॥ २३ ॥

पुलकाङ्कितसर्वाङ्गैर्बाल्यरुद्धाक्षिनिःस्वनः ।
नृत्यगीतादिघोषेण तोषयेन्मां मुहुर्मुहुः ॥ २४ ॥

वेदपारायणैश्चैव पुराणैः सकलैरपि ।
प्रतिपाद्या यतोऽहं वै तस्मात्तैस्तोषयेत्तु माम् ॥ २५ ॥

निज सर्वस्वमपि मे सदेहं नित्यशोऽर्पयेत् ।
नित्यहोमं ततः कुर्याद्ब्राह्मणांश्च सुवासिनीः ॥ २६ ॥

बटुकान्पामराननन्यान्देवीबुद्ध्या तु भोजयेत् ।
नत्वा पुनः स्वहृदये व्युत्क्रमेण विसर्जयेत् ॥ २७ ॥

सर्वं हृल्लेखया कुर्यात्पूजनं मम सुव्रत ।
हृल्लेखा सर्वमन्त्राणां नायिका परमा स्मृता ॥ २८ ॥

हृल्लेखादर्पणे नित्यमहं तु प्रतिबिम्बिता ।
तस्माधृल्लेखया दत्तं सर्वमन्त्रैः समर्पितम् ॥ २९ ॥

गुरुं सम्पूज्य भृषाद्यैः कृतकृत्यत्वमावहेत् ।
य एवं पूजयेद्देवीं श्रीमद्भुवनसुन्दरीम् ॥ ३० ॥

न तस्य दुर्लभं किञ्चित्कदाव्हित्क्वचिदस्ति हि ।
देहान्ते तु मणिद्वीपं माम यात्येव सर्वथा ॥ ३१ ॥

ज्ञेयो देवीस्वरूपोऽसौ देवा नित्यं नमन्ति तम् ।
इति ते कथितं राजन्महादेव्याः प्रपूजनम् ॥ ३२ ॥

विमृश्यैतदशेषेणाप्यधिकारानुरूपतः ।
कुरु मे पूजनं तेन कृतार्थस्त्वं भविष्यसि ॥ ३३ ॥

इदं तु गीताशास्त्रं मे नाशिष्याय वदेत्क्वचित् ।
नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे ॥ ३४ ॥

एतत्प्रकाशनं मातुरुद्धाटनमुरोजयोः ।
तस्मादवश्यं यत्नेन गोपनीयमिदं सदा ॥ ३५ ॥

देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि ।
सुशीलाय सुवेषाय देवीभक्तियुताय च ॥ ३६ ॥

श्राद्धकाले पठेदेतद् ब्राह्मणानां समीपतः ।
तृप्तास्तत्पितरः सर्वे प्रयान्ति परमं पदम् ॥ ३७ ॥

व्यास उवाच –
इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत ।
देवाश्च मुदिताः सर्वे देवीदर्शनतोऽभवन् ॥ ३८ ॥

तता हिमालये जज्ञे देवी हैमवती तु सा ।
या गौरीति प्रसिद्धासीद्दत्ता सा शङ्कराय च ॥ ३९ ॥

ततः स्कन्दः समुद्भूतस्तारकस्तेन पातितः ।
समुद्रमन्थने पूर्वं रत्नान्यासुर्नराधिप ॥ ४० ॥

तत्र देवैस्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् ।
तेषामनुग्रहार्थाय निर्गता तु रमा ततः ॥ ४१ ॥

वैकुण्ठाय सुरैर्दत्ता तेन तस्य शमाभवत् ।
इति ते कथितं राजन्देवीमाहात्म्यमुत्तमम् ॥ ४२ ॥

गौरीलक्ष्म्योः समुद्भूतिविषयं सर्वकामदम् ।
न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः ॥ ४३ ॥

गीता रहस्यभूतेयं गोपनीया प्रयत्नतः ।
सर्वमुक्तं समासेन यत्पृष्टं तत्वयानघ ।
पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ ४४ ॥

॥ इति श्रीदेवीभागवते देवीगीतायां नवमोऽध्यायः ॥

॥ इति श्रीमद्देवीगीता समाप्ता ॥

– Chant Stotra in Other Languages –

Devi Gita in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil