Vindhyeshwari Stotra In Sanskrit

॥Sri Vindhyeshwari Stotra Hindi Lyrics ॥

श्री विन्ध्येश्वरी स्तोत्र

निशुम्भ-शुम्भ-गर्जनीं, प्रचण्ड-मुण्ड-खण्डिनीम् ।
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥ 1 ॥

त्रिशुल-मुण्ड-धारिणीं धरा-विघात-हारिणीम् ।
गृहे-गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥ 2 ॥

दरिद्रदुःख-हारिणीं, सदा विभुतिकारिणीम् ।
वियोग-शोक-हारिणीं, भजामि विन्ध्यवासिनीम् ॥ 3 ॥

लसत्सुलोल-लोचनं लतासनं वरप्रदम् ।
कपाल-शुल-धारिणीं, भजामि विन्ध्यवासिनीम् ॥ 4 ॥

कराब्जदानदाधरां, शिवाशिवां प्रदायिनीम् ।
वरा-वराननां शुभां भजामि विन्ध्यवासिनीम् ॥ 5 ॥

ऋषिन्द्रजामिनीप्रदां, त्रिधा स्वरूप-धारिणीम् ।
जले स्थले निवासिनीं, भजामि विन्ध्यवासिनीम् ॥ 6 ॥

विशिष्ट-शिष्ट-कारिणीं, विशाल रूप-धारिणीम् ।
महोदरे विलासिनीं, भजामि विन्ध्यवासिनीम् ॥ 7 ॥

पुरन्दरादि-सेवितां पुरादिवंशखण्डिताम् ।
विशुद्ध-बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम् ॥ 8 ॥

See Also  Shree Vindhyeshwari Aarti In Sanskrit