Sri Surya Namaskar Mantra With Names In Sanskrit

॥ Sri Surya Namaskar Mantra with Names Sanskrit Lyrics ॥

॥ श्री सूर्य नमस्कार मन्त्र ॥
ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥

ओं मित्राय नमः । १ ।
ओं रवये नमः । २ ।
ओं सूर्याय नमः । ३ ।
ओं भानवे नमः । ४ ।
ओं खगाय नमः । ५ ।
ओं पूष्णे नमः । ६ ।
ओं हिरण्यगर्भाय नमः । ७ ।
ओं मरीचये नमः । ८ ।
ओं आदित्याय नमः ॥ ९ ॥
ओं सवित्रे नमः ॥ १० ॥
ओं अर्काय नमः । ११ ।
ओं भास्कराय नमः । १२ ।

आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने ।
आयुः प्रज्ञां बलं वीर्यं तेजस्तेषां च जायते ॥

– Chant Stotra in Other Languages –

Sri Surya Namaskar Mantra with Names in English – Hindi – KannadaTeluguTamil

See Also  Sri Surya Ashtottara Shatanama Stotra By Vishvakarma In Odia