Baka Gita In Sanskrit

॥ Baka Geetaa Sanskrit Lyrics ॥

॥ बकगीता ॥
॥ अथ बकगीता ॥

वैशम्पायन उवाच –
मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिरश्च पर्यपृच्छन्नृषिः ।
केन दीर्घायुरासीद्बको मार्कण्डेयस्तु तान्सर्वानुवाच ॥ १ ॥

महातपा दीर्घायुश्च बको राजर्षिर्नात्रकार्या विचारणा ॥ २ ॥

एतच्छृत्वा तु कौन्तेयो भ्रातृभिः सह भारत ।
मार्कण्डेयं पर्यपृच्छद्धर्मराजो युधिष्ठिरः ॥ ३ ॥

बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ ।
सखायौ देवराजस्य तावृषी लोकसंमितौ ॥ ४ ॥

एतदिच्छामि भगवन् बकशक्रसमागमम् ।
सुखदुःखसमायुक्तं तत्त्वेन कथयस्व मे ॥ ५ ॥

मार्कण्डेय उवाच –
वृत्ते देवासुरे राजन्संग्रामे लोमहर्षणे ।
त्रयाणामपि लोकानामिन्द्रो लोकाधिपो भवत् ॥ ६ ॥

सम्यग्वर्षति पर्जन्ये सुखसम्पद उत्तमाः ।
निरामयास्तु धर्मिष्ठाः प्रजा धर्मपरायणाः ॥ ७ ॥

मुदितश्च जनः सर्वः स्वधर्मे सुव्यवस्थितः ।
ताः प्रजा मुदिताः सर्वा दृष्टाबलनिषूदनः ॥ ८ ॥

ततस्तु मुदितो राजन् देवराजः शतक्रतुः ।
ऐरावतं समास्थाय ताः पश्यन्मुदिताः प्रजाः ॥ ९ ॥

आश्रमांश्च विचित्रांश्च नदीश्च विविधाः शुभाः ।
नगराणि समृद्धानि खेटाञ्जनपदांस्तथा ॥ १० ॥

प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः ।
उदपानप्रपावापीतडागानिसरांसिच ॥ ११ ॥

नानाब्रह्मसमाचारैः सेवितानि द्विजोत्तमैः ।
ततोवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः ॥ १२ ॥

See Also  Sri Yama Gita-S From Vishnu, Nrisimha, And Agni Purana In Odia

तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले ।
पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप ॥ १३ ॥

तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम् ।
तत्राश्रमपदे रम्ये बकं पश्यति देवराट् ॥ १४ ॥

बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाभवत् ।
पाद्यासनार्घदानेन फलमूलैरथार्चयत् ॥ १५ ॥

सुखोपविष्टो वरदस्ततस्तु बलसूदनः ।
ततः प्रश्नं बकं देव उवाच-त्रिदशेश्वरः ॥ १६ ॥

शतं वर्षसहस्राणि मुने जातस्य तेनघ ।
समाख्याहि मम ब्रह्मन् किं दुःखं चिरजीविनाम् ॥ १७ ॥

बक उवाच –
अप्रियैः सह संवासः प्रियैश्चापि विनाभवः ।
असद्भिः सम्प्रयोगश्च तद्दुःखं चिर्जीविनाम् ॥ १८ ॥

पुत्रदारविनाशोत्र ज्ञातीनां सुहृदामपि ।
परेष्वापतते कृछ्रं किंनु दुःखतरं ततः ॥ १९ ॥

नान्यद्दुःखतरं किंचिल्लोकेषु प्रतिभाति मे ।
अर्थैर्विहीनः पुरुषः परैः सम्परिभूयते ॥ २० ॥

अकुलानां कुले भावं कुलीनानां कुलक्षयम् ।
संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥ २१ ॥

अपि प्रत्यक्षमेवैतद्देवदेव शतक्रतो ।
अकुलानां समृद्धानां कथं कुलविपर्ययः ॥ २२ ॥

देवदानवगन्धर्वमनुष्योरगराक्षसाः ।
प्राप्नुवन्ति विपर्यासं किंनु दुःखतरं ततः ॥ २३ ॥

कुले जाताश्च क्लिश्यन्ते दौष्कुले यवशानुगाः ।
आढ्यैर्दरिद्रावमताः किंनु दुःखतरं ततः ॥ २४ ॥

See Also  Sri Guru Gita In Telugu

लोके वैधर्म्यमेतत्तु दृश्यते बहुविस्तरम् ।
हीनज्ञानाश्च दृश्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः ॥ २५ ॥

बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते ।
इन्द्र उवाच –
पुनरेव महाभाग देवर्षिगणसेवित ॥ २६ ॥

समाख्याहि मम ब्रह्मन् किं सुखं चिरजीविनाम् ।
बक उवाच –
अष्टमे द्वादशे वापि शाकं यः पचते गृहे ॥ २७ ॥

कुमित्राण्यनपाश्रित्य किं वै सुखतरं ततः ।
यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम् ॥ २८ ॥

अपि शाकंपचानस्य सुखं वै मघवन् गृहे ।
अर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कञ्चन ॥ २९ ॥

फलशाकमपि श्रेयो भोक्तुं ह्यकृपणे गृहे ।
परस्य तु गृहे भोक्तुः परिभूतस्य नित्यशः ॥ ३० ॥

सुमृष्टमपि ने श्रेयो विकल्पोयमतः सताम् ।
श्ववत्कीलालपो यस्तु परान्नं भोक्तुमिच्छति ॥ ३१ ॥

धिगस्तु तस्यतद्भुक्तं कृपणस्य दुरात्मनः ।
यो दत्त्वातिथिभूतेभ्यः पितृभ्यश्च द्विजोत्तमः ॥ ३२ ॥

शिष्टान्यनानि यो भुङ्क्ते किंवै सुखतरं ततः ।
अतो मृष्टतरं नान्यत्पूतं किञ्चिच्छ्तक्रतो ॥ ३३ ॥

दत्वा यस्त्वतिथिभ्यो वै भुङ्क्ते तेनैव नित्यशः ।
यावतोह्यंधसः पिण्डानश्नाति सततं द्विजः ॥ ३४ ॥

तावतां गोसहस्राणां फलं प्राप्नोति दायकः ।
यदेनो यौवनकृतं तत्सर्व नश्यते ध्रुवम् ॥ ३५ ॥

See Also  Sri Ramana Gita In Gujarati

सदक्षिणस्य भुक्तस्य द्विजस्य तु करे गतम् ।
यद्वारि वारिणा सिंचेत्तद्ध्येनस्तरते क्षणात् ॥ ३६ ॥

एतश्चान्याश्चवै बह्वीः कथयित्वा कथाः शुभाः ।
बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः ॥ ३७ ॥

॥ इति बक शक्र संवाद एवं बकगीता समाप्ता ॥

– Chant Stotra in Other Languages –

Baka Gita in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil