॥ Ajam Nirvikalpam Nirakaramekam Lyrics ॥
अजं निर्विकल्पं निराकारमॆकं
निरानंदमानंदमद्वैतपूर्णं
परं निर्गुणं निर्विशॆषं निरीहं
परब्रह्मरूपं गणॆशं भजॆम ॥
गुणातीतमानं चिदानंदरूपं
चिदाभासकं सर्वगं ध्यानगम्यं
मुनिध्यॆयमाकाशरूपं परॆशं
परब्रह्मरूपं गणॆशं भजॆम ॥
जगत्कारणं कारणज्ञानरूपं
सुरादिं सुखादिं गुणॆशं गणॆशं
जगद्व्यापिनं विश्ववंद्यं सुरॆशं
परब्रह्मरूपं गणॆशं भजॆम ॥