Brahma Gita Of Yoga Vasishtha In Sanskrit

॥ Brahma Gita of Yoga Vasishtha Sanskrit Lyrics ॥

॥ ब्रह्मगीता योगवासिष्ठान्तर्गता ॥

Yoga Vasishtha – MokSha-Nirvana Uttarardha Brahmagita – Chs. 173-186
॥ योगवासिष्ठान्तर्गता ब्रह्मगीता ॥

सर्ग-क्रमांक नाम श्लोकसंख्या

१ – १७३ परमार्थोपदेशः ३४
२ – १७४ निर्वाणोपदेशः ३०
३ – १७५ अद्वैतयुक्तिः ७९
४ – १७६ ब्रह्माण्डोपाख्यानम् २५
५ – १७७ सत्यवर्णनम् ४४
६ – १७८ ऐन्दवोपाख्यानम् ६४
७ – १७९ ब्रह्ममयत्वप्रतिपादनम् २२
८ – १८० तापसोपाख्यानम् ४१
९ – १८१ गौर्याश्रमवर्णनम् ३९
१० – १८२ सप्तदीपेश्वर ५३
११ – १८३ द्वीपसप्काष्टकवर्णनम् ७०
१३ – १८५ कुन्ददन्तप्रबोधः २७
१४ – १८६ सर्वं खल्विदं ब्रह्मेति- ९०
प्रतिपादनयोगोपदेशः
६१८

॥ अथ प्रारभ्यते योगवासिष्ठान्तर्गता ब्रह्मगीता ॥

श्रीराम उवाच ।
सर्वानुभवरूपस्य तथा सर्वात्मनोऽप्ययम् ।
अनंतस्यात्मतत्त्वस्य देहेऽपि किमहंग्रहः ॥ १ ॥

चितः पाषाणकाष्ठत्वं स्वप्नादिषु कथं भवेत् ।
इदं पाषाणकाष्ठादि कथं नास्त्यस्ति वा कथम् ॥ २ ॥

वसिष्ठ उवाच ।
शरीरिणो यथा हस्ते हस्ततायां यथाग्रहः ।
सर्वात्मनस्तथा देहे देहतायां तथाग्रहः ॥ ३ ॥

पादपस्थ यथा पत्रे पत्रतायां यथाग्रहः ।
सर्वात्मनस्तथा वृक्षे वृक्षतायां तथाग्रहः ॥ ४ ॥

आकाशस्य यथा शून्ये शून्यतायां यथाग्रहः ।
सर्वात्मनस्तथा द्रव्ये द्रव्यतायां तथाग्रहः ॥ ५ ॥

स्वप्नोचितः स्वप्नपुरे रूपतायां यथाग्रहः ।
सर्वात्मनस्तथा स्वप्नजाग्रदादौ तथाग्रहः ॥ ६ ॥

यथागेन्द्रे दृषद्दृक्षवार्यादौ स तथाग्रहः ।
तथा सर्वात्मनोऽगेन्द्रपुरतायां तथाग्रहः ॥ ७ ॥

शरीरस्य यथा केशनखादिषु यथाग्रहः ।
सर्वात्मनस्तथा काष्ठदृषदादौ तथाग्रहः ॥ ८ ॥

चित एव यथा स्वप्ने भवेत्काष्ठोपलादिता ।
चिदाकाशस्य सर्गादौ तथैवावयवादिता ॥ ९ ॥

चेतनाचेतनात्मैकं पुरुषस्य यथा वपुः ।
नखकेशजलाकाशधर्ममाकारभासुरम् ॥ १० ॥

चेतनाचेतनात्मैकं तथा सर्वात्मनो वपुः ।
जंगमं स्थावरमयं किंतु नित्यमनाकृति ॥ ११ ॥

यथास्थितं शाम्यतीदं सम्यग्ज्ञानवतो जगत् ।
स्वप्ने स्वप्नपरिज्ञातुर्यथा दृष्टार्थसंभ्रमः ॥ १२ ॥

चिन्मात्राकाशमेवेदं न द्रष्टास्ति न दृश्यता ।
इति मौनमलं स्वप्नद्रष्टुर्यत्सा प्रबुद्धता ॥ १३ ॥

कल्पकोटिसहस्राणि सर्गा आयान्ति यान्ति च ।
त एवान्ये च चिद्व्योम्नि जलावर्ता इवार्णवे ॥ १४ ॥

करोत्यब्धौ यथोर्म्यादौ नाना कचकचं वपुः ।
चित्करोति तथा संज्ञाः सर्गाद्याश्चेतने निजे ॥ १५ ॥

यथास्थितमिदं विश्वं ब्रह्मैवानामयं सदा ।
तत्त्वज्ञं प्रत्यतत्त्वज्ञजनतानिश्चयादृते ॥ १६ ॥

नाहं तरंगः सलिलमहमित्येव युक्तितः ।
बुद्धं येन तरंगेण कुतस्तस्य तरंगता ॥ १७ ॥

ब्रह्मणोऽस्य तरंगत्वमिवाभानं यतस्ततः ।
तरंगत्वातरंगत्वे ब्राह्म्यौ शक्ती स्थितिं गते ॥ १८ ॥

चिद्व्योम्नोऽत्यजतो रूपं स्वप्नवद्व्यस्तवेदनम् ।
तदिदं हि मनो राम ब्रह्मेत्युक्तः पितामहः ॥ १९ ॥

एवमाद्यः प्रजानाथो निराकारो निरामयः ।
चिन्मात्ररूपसंकल्पपुरवत्कारणोज्झितः ॥ २० ॥

येनांगदत्वं नास्तीति बुद्धं हेमांगदेन वै ।
अंगदत्वं कुतस्तस्य तस्य शुद्धेव हेमता ॥ २१ ॥

अजे संकल्पमात्रात्मचिन्मात्रव्योमदेहिनि ।
अहं त्वं जगदित्यादि यद्विभातं तदेव तत् ॥ २२ ॥

चिच्चमत्कृतयो भान्ति याश्चिद्व्योमनि शून्यताः ।
एतास्ताः सर्गसंहारस्थितिसंरभसंविदः ॥ २३ ॥

अच्छं चिन्मात्रनभसः कचनं स्वयमेव तत् ।
स्वप्नाभं चित्ततामात्रं स एष प्रपितामहः ॥ २४ ॥

यथा तरंगस्तेनैव रूपेणान्येन वानिशम् ।
स्फुरत्येवमनाद्यन्तः सर्गप्रलयविभ्रमः ॥ २५ ॥

चिद्व्योम्नः कचनं कान्तं यद्विराडिति शब्दितम् ।
भवेत्संकल्पपुरवत्तस्य कुर्यान्मनोऽपि वै ॥ २६ ॥

सर्गः स्वप्नः स्वप्न एव जाग्रद्देहः स एव च ।
घनं सुषुप्तं तैमिर्याद्यथा संवेदनं भवेत् ॥ २७ ॥

तस्य कल्पान्तरजनी शिरोरुहतयोदिता ।
प्रकाशतमसी कालक्रियाख्याः स्वांगसंधयः ॥ २८ ॥

तस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ।
चंद्रार्कौ दृग्दिशौ श्रोत्रे कल्पनेति विजृम्भिता ॥ २९ ॥

एवं सम्यग्दृश्यमानो व्योमात्मा वितताकृतिः ।
अस्मत्संकल्पशैलाभो विराट् स्वप्नाकृतिस्थितः ॥ ३० ॥

यच्च चेतच्चिदाकाशे स्वयं कचकचायते ।
तदेतज्जगदित्येवं तेनात्मैवानुभूयते ॥ ३१ ॥

विराडात्मैवमाकाशं भाति चिन्मयमाततम् ।
स्वभावस्वप्ननगरं नगनागमयात्मकम् ॥ ३२ ॥

अनुभवितैवानुभवं सत्यं स्वात्मानमप्यसन्तमिव ।
अनुभवतीयत्त्वेन स्वप्ननटः स्वप्नदेशमिव ॥ ३३ ॥

वेदान्तार्हतसांख्यसौगतगुरुत्र्यक्षादिसूक्तादृशो
ब्रह्मैव स्फुरितं तथात्मकलयास्तादात्मनित्यं यतः ।
तेषां चात्मविदोऽनुरूपमखिलं स्वर्गं फलं तद्भव-
त्यस्य ब्रह्मण ईदृगेव महिमा सर्वात्म यत्तद्वपुः ॥ ३४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु परमार्थोपदेशो
नाम त्रिसप्तत्यधिकशततमः सर्गः ॥ १७३ ॥ -१-

॥ अथ द्वितीयोऽध्याः ॥

॥ निर्वाणोपदेशः ॥

वसिष्ठ उवाच ।
सर्गादौ स्वप्नसंवित्या चिदेवाभाति केवला ।
जगदित्यवभासेव ब्रह्मैवातो जगत्त्रयम् ॥ १ ॥

सर्गास्तरंगा ब्रह्माब्धेस्तेषु संवेदनं द्रवः ।
सर्गान्तरं सुखाद्यात्म द्वैत्यैक्यादीतरत्कुतः ॥ २ ॥

यथा स्वप्नसुषुप्तात्म निद्रारूपकमेव खम् ।
दृश्यादृश्यांशमेकात्म रूपं चिन्नभस्तथा ॥ ३ ॥

जाग्रति स्वप्ननगरं यादृक्तादृगिदं जगत् ।
परिज्ञातं भवेदत्र कथामास्था विवेकिनः ॥ ४ ॥

सर्गादौ सर्गसंवित्तेर्यथाभूतार्थवेदनात् ।
जाग्रति स्वाप्ननगरं यादृशं तादृशं जगत् ॥ ५ ॥

जाग्रति स्वप्ननगरवासना विविधा यथा ।
सत्या अपि न सत्यास्ता जाग्रत्यो वासनास्तथा ॥ ६ ॥

अन्यथोपप्रपद्येह कल्प्यते यदि कारणम् ।
तत्किं नेदीयसी नात्र भ्रान्तता कल्प्यते तथा ॥ ७ ॥

स्वानुभूयत एवेयं भ्रान्तिः स्वप्नजगत्स्विव ।
कारणं त्वनुमासाध्यं क्वानुमानुभवाधिका ॥ ८ ॥

दृष्टमप्यस्ति यन्नेशे न चात्मनि विचारितम् ।
अन्यथानुपपत्त्यान्तर्भ्रान्त्यात्म स्वप्नशैलवत् ॥ ९ ॥

निर्विकल्पं परं जाड्यं सविकल्पं तु संसृतिः ।
ध्यानं तेन समाधानं न संभवति किंचन ॥ १० ॥

सचेत्यं संसृतिर्ध्यानमचेत्यं तूपलस्थिति ।
मोक्षो नोपलवद्भानं न विकल्पात्मकं ततः ॥ ११ ॥

न च नामोपलाभेन निर्विकल्पसमाधिना ।
अन्यदासाद्यते किंचिल्लभ्यते किं स्वनिद्रया ॥ १२ ॥

तस्मात्सम्यक्परिज्ञानाद्भ्रान्तिमात्रं विवेकिनः ।
सर्गात्यन्तासंभवतो यो जीवन्मुक्ततोदयः ॥ १३ ॥

निर्विकल्पं समाधानं तदनन्तमिहोच्यते ।
यथास्थितमविक्षुब्धमासनं सर्वभासनम् ॥ १४ ॥

तदनन्तसुषुप्ताख्यं तत्तुरीयमिति स्मृतम् ।
तन्निर्वाणमिति प्रोक्तं तन्मोक्ष इति शब्दितम् ॥ १५ ॥

सम्यग्बोधैकघनता यासौ ध्यानमिति स्मृतम् ।
दृश्यात्यन्तासंभवात्म बोधमाहुः परं पदम् ॥ १६ ॥

तच्च नोपलवज्जाड्यं न सुषुप्तोपमं भवेत् ।
न निर्विकल्पं न च वा सविकल्पं न वाप्यसत् ॥ १७ ॥

दृश्यात्यन्तासंभवात्म तदेवाद्यं हि वेदनम् ।
तत्सर्वं तन्न किंचिच्च तद्वदेवांग वेत्ति तत् ॥ १८ ॥

सम्यक्प्रबोधान्निर्वाणं परं तत्समुदाहृतम् ।
यथास्थितमिदं विश्वं तत्रालंप्रलयं गतम् ॥ १९ ॥

न तत्र नानानाना न न च किंचिन्न किंचन ।
समस्तसद सद्भावसीमान्तः स उदाहृतः ॥ २० ॥

अत्यन्तासंभवं दृश्यं यद्वै निर्वाणमासितम् ।
शुद्धबोधोदयं शान्तं तद्विद्धि परमं पदम् ॥ २१ ॥

स च सम्प्राप्यते शुद्धो बोधो ध्यानमनुत्तमम् ।
शास्त्रात्पदपदार्थज्ञबोधिनोत्पन्नबुद्धिना ॥ २२ ॥

मोक्षोपायाभिधं शास्त्रमिदं वाचयतानिशम् ।
बुद्ध्युपायेन शुद्धेन पुंसा नान्येन केनचित् ॥ २३ ॥

न तीर्थेन न दानेन न स्नानेन न विद्यया ।
न ध्यानेन न योगेन न तपोभिर्न चाध्वरैः ॥ २४ ॥

भ्रान्तिमात्रं किलेदं सदसत्सदिव लक्ष्यते ।
व्योमैव जगदाकारं स्वप्नोऽनिद्रे चिदंबरे ॥ २५ ॥

न शाम्यति तपस्तीर्थैर्भ्रान्तिर्नाम कदाचन ।
तपस्तीर्थादिना स्वर्गाः प्राप्यन्ते न तु मुक्तता ॥ २६ ॥

भ्रान्तिः शाम्यति शास्त्रार्थात्सम्यग्बुद्ध्यावलोकितात् ।
आत्मज्ञानमयान्मोक्षोपायादेवेह नान्यतः ॥ २७ ॥

आलोककारिणात्यर्थं शास्त्रार्थेनैव शाम्यति ।
अमलेनाखिला भ्रान्तिः प्रकाशेनैव तामसी ॥ २८ ॥

सर्गसंहारसंस्थानां भासो भान्ति चिदंबरे ।
स्पन्दनानीव मरुति द्रवत्वानीव वारिणि ॥ २९ ॥

द्रव्यस्य हृद्येव चमत्कृतिर्निजा
नभस्वतः स्पन्द इवानिशं यथा ।
यथा स्थिता सृष्टिरियं तथास्तिता
लयं नभस्यन्तरनन्यरूपिणी ॥ ३० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु निर्वाणोपदेशो
नाम चतुःसप्तत्यधिकशततमः सर्गः ॥ १७४ ॥ -२-

॥ अथ तृतीयोऽध्यायः ॥

॥ अद्वैतयुक्तिः ॥

वसिष्ठ उवाच ।
स्वप्नाभमाद्यं चिद्व्योम कारणं देहसंविदाम् ।
दृश्यान्यता संभवतश्चिद्व्योम्नस्तत्कुतो वपुः ॥ १ ॥

सर्गादौ स्वप्नसंवित्तिरूपं सर्वं विनानघ ।
न सर्गो न परो लोको दृश्यमानोऽपि सिध्यति ॥ २ ॥

असदेवानुभूरित्थमेवेदं भासते जगत् ।
स्वप्नांगनासंग इव शान्तं चिद्व्योम केवलम् ॥ ३ ॥

एवं नामास्ति चिद्धातुरनादिनिधनोऽमलः ।
शून्यात्मैवाच्छरूपोऽपि जगदित्यवभाति यः ॥ ४ ॥

मलस्त्वेषोऽपरिज्ञातः परिज्ञातः परं भवेत् ।
कुतः किल परे व्योमन्यनादिनिधने मलः ॥ ५ ॥

यदेतद्वेदनं शुद्धं तदेव स्वप्नपत्तनम् ।
जगत्तदेव सर्गादौ पृथ्व्यादेः संभवः कुतः ॥ ६ ॥

चिद्व्योमात्मावभासस्य नभसः सर्गरूपिणी ।
कृता पृथ्व्यादिकलता मनोबुद्ध्यादिता तथा ॥ ७ ॥

वार्यावर्त इअवाभाति पवनस्पंदवच्च यत् ।
अबुद्धिपूर्वं चिद्व्योम्नि जगद्भानमभित्तिमत् ॥ ८ ॥

पश्चात्तस्यैव तेनैव स्वयमैश्वर्यशंसिना ।
कृतं बुद्ध्यादिपृथ्व्यादिकल्पनं सदसन्मयम् ॥ ९ ॥

स्वयमेव कचत्यच्छाच्छायेयं स्वा महाचितिः ।
सर्गाभिधानमस्यैव नभ एवेह नेतरत् ॥ १० ॥

न च किंचन नामांग कचत्यच्छैव सा स्मृता ।
चिन्मात्रैकैककलनं ततमेवात्मनात्मनि ॥ ११ ॥

चिदाकाशश्चिदाकाशे तदिदं स्वमल वपुः ।
चित्तं दृश्यमिवाभाति स्वप्ने तथा स्थितम् ॥ १२ ॥

अन्यथानुपपन्यार्थकारणाभावतः स्वतः ।
सर्गादावेव स्वात्मैव दृश्यं चिद्व्योम पश्यति ॥ १३ ॥

स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते ।
तस्माच्चिद्व्योम चिद्व्योम शून्यत्वं गगनादिवत् ॥ १४ ॥

यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् ।
तदेवैकं तथारूपमेवं सर्वतया स्थितम् ॥ १५ ॥

स्वप्नेऽनुभूयते चैतत्स्वप्नो ह्यात्मैव भासते ।
नानाबोधमनानैव ब्रह्मैवामलमेव तत् ॥ १६ ॥

ब्रह्मैवात्मनि चिद्भावाज्जीवत्वमिव कल्पयत् ।
रूपमन्यजदेवाच्छं मनस्तामिव गच्छति ॥ १७ ॥

इदं सर्वं तनोतीव तच्च खात्मकमेव खम् ।
भवतीव जगद्रूपं विकारीवाविकार्यपि ॥ १८ ॥

मन एव स्वयं ब्रह्मा स सर्गम्य हृदि स्थितः ।
करोत्यविरतं सर्वमजस्रं संहरत्यपि ॥ १९ ॥

पृथ्वादिरहितो यस्मिन्मनोहृद्यंगवर्जिते ।
अन्यद्वा त्रिजगद्भाति यथा स्वप्ने निराकृति ॥ २० ॥

देहरूपजगद्रूपैरहमेकमनाकृति ।
मनस्तिष्ठाम्यनंतात्मबोधाबोधं पराभवम् ॥ २१ ॥

नेह पृथ्व्यादि नो देहो न चैवान्यास्ति दृश्यता ।
जगत्रया केवलं खं मनः कचकचायते ॥ २२ ॥

विचार्यदृष्ट्यैतदपि न किंचिदपि विद्यते ।
केवलं भाति चिन्मात्रमात्मनात्मनि निर्धनम् ॥ २३ ॥

यतो वाचो निवर्तन्ते तूष्णींभावोऽवशिष्यते ।
व्यवहार्यपि खात्मैव तद्वत्तिष्ठति मूकवत् ॥ २४ ॥

अनन्तापारपर्यन्ता चिन्मात्रपरमेष्टका ।
तूष्णींभूत्वा भवत्येष प्रबुद्धः पुरुषोत्तमः ॥ २५ ॥

अबुद्धिपूर्वं द्रवतो यथावर्तादयोंऽभसि ।
क्रियन्ते ब्रह्मणा तद्वच्चित्तबुद्ध्यादयो जडाः ॥ २६ ॥

अबुद्धिपूर्वं वातेन क्रियते स्पंदनं यथा ।
अनन्यदेवं बुद्ध्यादि क्रियते परमात्मना ॥ २७ ॥

अनन्यदात्मनो वायोर्यथा स्पंदनमव्ययम् ।
अनन्यदात्मनस्तद्वच्चिन्मात्रं परमात्मनः ॥ २८ ॥

चिद्व्योम ब्रह्मचिन्मात्रमात्मा चिति महानिति ।
परमात्मेति पर्याया ज्ञेया ज्ञानवतां वर ॥ २९ ॥

ब्रह्मोन्मेषनिमेषात्म स्पंदास्पंदात्म वातवत् ।
निमेषो यादृगेवास्य समुन्मेषस्तथा जगत् ॥ ३० ॥

दृश्यमस्य समुन्मेषो दृश्याभावो निमेषणम् ।
एकमेतन्निराकारं तद्द्वयोरप्युपक्षयात् ॥ ३१ ॥

निमेषोन्मेषयोरेकरूपमेव परं मतम् ।
अतोऽस्ति दृश्यं नास्तीति सदसच्च सदाचितिः ॥ ३२ ॥

निमेषो नान्य उन्मेषान्नोन्मेषोऽपि निमेषतः ।
ब्रह्मणः सर्गवपुषो निमेषोन्मेषरूपिणः ॥ ३३ ॥

तद्यथास्थितमेवेदं विद्धि शान्तमशेषतः ।
अजातमजरं व्योम सौम्यं समसमं जगत् ॥ ३४ ॥

चिदचित्यात्मकं व्योम रूपं कचकचायते ।
चिन्नाम तदिदं भाति जगदित्येव तद्वपुः ॥ ३५ ॥

न नश्यति न चोत्पन्नं दृश्यं नाप्यनुभूयते ।
स्वयं चमत्करोत्यन्तः केवलं केवलैव चित् ॥ ३६ ॥

महाचिद्व्योममणिभा दृश्यनाम्नी निजाकरात् ।
अनन्यान्येव भातापि भानुभास इवोष्णता ॥ ३७ ॥

सुषुप्तं स्वप्नवद्भाति ब्रह्मैव सर्गवत् ।
सर्वमेकं शिवं शान्तं नानेवापि स्थितं स्फुरत् ॥ ३८ ॥

यद्यत्संवेद्यते यादृक्सद्वासद्वा यथा यदा ।
तथानुभूयते तादृक्तत्सदस्त्वसदस्तु वा ॥ ३९ ॥

अन्यथानुपपत्या चेत्कारणं परिकल्प्यते ।
तत्स्वप्नाभो जगद्भावादन्यथा नोपपद्यते ॥ ४० ॥

प्रमातीतात्पराद्विश्वमनन्यदुदितं यतः ।
प्रमातीतमिदं चैव किंचिन्नाभ्युदितं ततः ॥ ४१ ॥

यस्य यद्रसिकं चित्तं तत्तथा तस्य गच्छति ।
ब्रह्मैकरसिकं तेन मनस्तत्तां समश्नुते ॥ ४२ ॥

यच्चित्तो यद्गतप्राणो जनो भवति सर्वदा ।
तत्तेन वस्त्विति ज्ञातं जानाति तदसौ स्फुटम् ॥ ४३ ॥

ब्रह्मैकरसिकं यत्स्यान्मनस्तत्तद्भवेत्क्षणात् ।
यस्य यद्रसिकं चेतो बुद्धं तेन तदेव सत् ॥ ४४ ॥

विश्रान्तं यस्य वै चित्तं जन्तोस्तत्परमार्थसत् ।
व्यवहृत्यै करोत्यन्यत्सदाचारादतद्रसम् ॥ ४५ ॥

द्वित्वैकत्वादिकलना नेह काचन विद्यते ।
सत्तामात्रं च दृगियमितश्चेदलमीक्ष्यते ॥ ४६ ॥

अदृश्यदृश्यसदसन्मूर्तामूर्तदृशामिह ।
नैवास्ति न च नास्त्येव कर्ता भोक्ताथवा क्वचित् ॥ ४७ ॥

इदमित्थमनाद्यन्तं जगत्पर्यायमात्मनि ।
ब्रह्मैकघनमाशान्तं स्थितं स्थाणुरिवाध्वनि ॥ ४८ ॥

यदेव ब्रह्मबुद्ध्यादि तदेवैतन्निरंजनम् ।
यदेव गगनं शान्तं शून्यं विद्धि तदेव तत् ॥ ४९ ॥

केशोण्ड्रकादयो व्योम्नि यथा सदसदात्मकाः ।
द्वितामिवागता भान्ति परे बुद्ध्यादयस्तथा ॥ ५० ॥

तथा बुद्ध्यादि देहादि वेदनादि परापरे ।
अनेकान्यप्यनन्यानि शून्यत्वानि यथांबरे ॥ ५१ ॥

सुषुप्ताद्विशतः स्वप्नमेकनिद्रात्मनो यथा ।
सर्गस्थस्यापि न द्वित्वं नैकत्वं ब्रह्मणस्तथा ॥ ५२ ॥

एवमेव कचत्यच्छा छायेयं स्वा महाचितेः ।
न च किंचन नामांग कचत्यच्छैवमास्थिता ॥ ५३ ॥

चिद्व्योम्नि हि चिदाकाशमेव स्वममलं वपुः ।
चेत्यं दृश्यमिवाभाति स्वप्नेष्विव यथास्थितम् ॥ ५४ ॥

अन्यथानुपपत्त्यार्थकारणाभावतः स्वतः ।
चिद्व्योमात्मानमेवादौ दृश्यमित्येव पश्यति ॥ ५५ ॥

सर्गादावेव खात्मैव दृश्यं भाति निराकृति ।
संभ्रमः स्वप्नसंकल्पमिथ्याज्ञानेष्विवाभितः ॥ ५६ ॥

स्वप्नवत्तच्च निर्धर्म मनागपि न भिद्यते ।
विकार्यपि सधर्मापि चिद्व्योम्नो वस्तुनो मलात् ॥ ५७ ॥

तत्स्वप्ननगराकारं सधर्माप्यसधर्मकम् ।
शिवादनन्यमेवेत्थं स्थितमेव निरन्तरम् ॥ ५८ ॥

दृश्यं स्वप्नाद्रिवत्स्वच्छं मनागपि न भिद्यते ।
तस्माच्चिद्व्योम चिद्व्योम्नः शून्यत्वं गगनादिव ॥ ५९ ॥

यदेव तत्परं ब्रह्म सर्वरूपविवर्जितम् ।
तदेवेदं तथाभूतमेव सर्गतया स्थितम् ॥ ६० ।
स्वप्नेऽनुभूयते चैतत्स्वप्ने ह्यात्मैव भासते ।
पुरादित्वेन न तु सत्पुरादिरचितं तदा ॥ ६१ ॥

स्वप्ने च प्रत्यभिज्ञायाः संस्कारस्य स्मृतेस्तथा ।
न सत्ता तदिदं दृष्टमित्यर्थस्यात्यसंभवात् ॥ ६२ ॥

तस्मादेतत्त्रयं त्यक्त्वा यद्भानं ब्रह्मसंविदः ।
तस्य दृष्टार्थसादृश्यान्मूढैः स्मृत्यादितोहिता ॥ ६३ ॥

यथा यत्रैव लहरी वारिण्येति पुनः पुनः ।
तत्रैवेति तथा तद्वदनन्या खे परे जगत् ॥ ६४ ॥

विधयः प्रतिषेधाश्च सर्व एव सदैव च ।
विभक्ताश्च विमिश्राश्च परे सन्ति न सन्ति च ॥ ६५ ॥

तस्मात्सद्ब्रह्म सर्वात्म किमिवात्र न विद्यते ।
सैव सत्तैव सर्वात्म चैतदप्येतदात्मकम् ॥ ६६ ॥

भ्रान्तस्य भ्रमणं भूमेर्न भूभ्रान्तैव वा गणैः ।
न शाम्यति ज्ञातुरपि तथाभ्यासं विनात्र दृक् ॥ ६७ ॥

शास्त्रस्यास्य तु यन्नाम वादनं तद्विनापरः ।
अभ्यासो दृश्यसंशान्त्यै न भूतो न भविष्यति ॥ ६८ ॥

न जीवन्नमृतं चित्तं रोधमायाति संसृतेः ।
अविनाभाविदेहत्वाद्बोधात्त्वेतन्न पश्यति ॥ ६९ ॥

सर्वदैवाविनाभावि चित्तं दृश्यशरीरयोः ।
इह चामुत्र चैतस्य बोधान्ते शाम्यतः स्वयम् ॥ ७० ॥

चित्तदृश्यशरीराणि त्रीणि शाम्यन्ति बोधतः ।
पवनस्पन्दसैन्यानि कारणाभावतो यथा ॥ ७१ ॥

कारणं मौर्ख्यमेवास्य तच्चास्मादेव शास्त्रतः ।
किंचित्संस्कृतबुद्धीनां वाचितादेव शाम्यति ॥ ७२ ॥

अबुद्धमुत्तरग्रंथात्पूर्वं पूर्वं हि बुध्यते ।
ग्रंथं पदपदार्थज्ञः खेदवान्न निवर्तते ॥ ७३ ॥

उपायमिदमेवातो विद्धि शास्त्रं भ्रमक्षये ।
अनन्यसाधारणतां गतमित्यनुभूयते ॥ ७४ ॥

तस्मादस्मान्महाशास्त्राद्यथाशक्ति विचारयेत् ।
भागौ द्वौ भागमेकं वा तेन दुःखक्षयो भवेत् ॥ ७५ ॥

आरुषेयमिदमिति प्रमादाच्चेन्न रोचते ।
तदन्यदात्मविज्ञानशास्त्रं किंचिद्विचारयेत् ॥ ७६ ॥

अनर्थेनाविचारेण वयः कुर्यान्न भस्मसात् ।
बोधेन ज्ञानसारेण दृश्यं कर्तव्यमात्मसात् ॥ ७७ ॥

आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते ।
नीयते तद्वृथा येन प्रमादः सुमहानहो ॥ ७८ ॥

अनुभूतमपि च नो सदृश्यमिदं द्रष्टृसहितमपि ।
स्वप्ननिजमरणबांधवरोदनमिव सदिव कचितमपि ॥ ७९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु परमार्थगीतासु
अद्वैतयुक्तिर्नाम पञ्चसप्तत्यधिकशततमः सर्गः ॥ १७५ ॥ -३-

॥ अथ पंचमोऽध्यायः ॥

॥ सत्यवर्णनम् ॥

श्रीराम उवाच ।
अकारणकमेवेदं जगद्ब्रह्म परात्पदात् ।
यदि प्रवर्तते नाम स्वप्नसंकल्पनादिवत् ॥ १ ॥

तदकारणतः सिद्धेः संभवेऽन्यदकारणम् ।
कथं न जायते वस्तु क्वचित्किंचित्कदाचन ॥ २ ॥

वसिष्ठ उवाच ।
यद्यथा कल्पितं येन स सम्पश्यति तत्तथा ।
कल्पनैवान्यथा न स्यात्तादृक्कारणविच्युतेः ॥ ३ ॥

यथेदं कल्पितं दृश्यं मनसा येन तत्तथा ।
वेत्त्यसौ यादृगन्येन कल्पितं वेत्त्यसौ तथा ॥ ४ ॥

कल्पनाकल्पनात्मैकं तच्च ब्रह्म स्वभावतः ।
कल्पनात्मेदृशं जन्तुर्यथा केशनखादिमान् ॥ ५ ॥

अकारणपदार्थत्वं सकारणपदार्थता ।
ब्रह्मणि द्वयमप्यस्ति सर्वशक्त्यात्म तद्यतः ॥ ६ ॥

यतः स्याद्ब्रह्मणस्त्वन्यत्क्वचित्किंचित्कदाचन ।
तत्कारणविकल्पेन संयोगस्तस्य युज्यते ॥ ७ ॥

यत्र सर्वमनाद्यन्तं नानानानात्म भासते ।
ब्रह्मैव शान्तमेकात्म तत्र किं कस्य कारणम् ॥ ८ ॥

नेह प्रवर्तते किंचिन्न च नाम निवर्तते ।
स्थितमेकमनाद्यन्तं ब्रह्मैव ब्रह्म खात्मकम् ॥ ९ ॥

किं कस्य कारणं केन किमर्थं भवतु क्व वा ।
किं कस्य कारणं केन किमर्थं मास्तु वा क्वचित् ॥ १० ॥

नेह शून्यं न वा शून्यं न सन्नासन्न मध्यता ।
विद्यते न महाशून्ये न नेति न न नेति च ॥ ११ ॥

इदं न किंचित्किंचिद्वा यन्नामास्त्यथ नास्ति वा ।
सर्वं ब्रह्मैव तद्विद्धि यत्तथैवातथैव तत् ॥ १२ ॥

See Also  Baka Gita In Tamil

श्रीराम उवाच ।
अतज्ञविषये ब्रह्मन्कार्ये कारणसंभवे ।
किमकारणतात्म स्यात्कथं वेति वद प्रभो ॥ १३ ॥

वसिष्ठ उवाच ।
अतज्ञो नाम नास्त्येव तावत्तज्ज्ञजनं प्रति ।
असतो व्योमवृक्षस्य विचारः कीदृशस्ततः ॥ १४ ॥

एकबोधमयाः शान्तविज्ञानघनरूपिणः ।
तज्ज्ञास्तेषामसद्रूपे कथमर्थे विचारणा ॥ १५ ॥

अतज्ज्ञत्वं च बोधेऽन्तरवभाति तदंगता ।
गते स्वप्नसुषुप्तेऽन्तरिव निद्रात्म केवलम् ॥ १६ ॥

तथाप्यभ्युपगम्यापि मूर्खनिश्चय उच्यते ।
प्रयेदमणु सर्वात्म यस्माद्ब्रह्म निरामयम् ॥ १७ ॥

सन्त्यकारणका एव सन्ति कारणजास्तथा ।
भावाः संविद्यथा यस्मात्कल्प्यते लभ्यते तथा ॥ १८ ॥

सर्वकारणसंशान्तौ सर्वानुभवशालिनाम् ।
सर्गस्य कारणं नास्ति तेन सर्गस्त्वकारणः ॥ १९ ॥

हृदयंगमतात्यक्तमीश्वरादि प्रकल्प्यते ।
यदत्र किंचिदुःस्वादु व्यर्थं वाग्जालमेव तत् ॥ २० ॥

अन्यथानुपपत्त्यैव स्वप्नाभाकलनादृते ।
स्थूलाकारात्मिका काचिन्नास्ति दृश्यस्य दृश्यता ॥ २१ ॥

स्वप्नपृथ्व्याद्यनुभवे किमबुद्धस्य कारणम् ।
चित्स्वभावादृते ब्रूहि स्वप्नार्थो नाम कीदृशः ॥ २२ ॥

स्वप्नार्थो ह्यपरिज्ञातो महामोहभरप्रदः ।
परिज्ञातो न मोहाय यथा सर्गास्तथैव च ॥ २३ ॥

शुष्कतर्कहठावेशाद्यद्वाप्यनुभवोज्झितम् ।
कल्प्यते कारणं किंचित्सा मौर्ख्याभिनिवेशिता ॥ २४ ॥

अग्नेरौष्ण्यमपां शैत्यं प्राकाश्यं सर्वतेजसाम् ।
स्वभावो वाखिलार्थानां किमबुद्धस्य कारणम् ॥ २५ ॥

किं ध्यातृशतलब्धस्य ध्येयस्यैकस्य कारणम् ।
किं च गंधर्वनगरे पुरे भित्तिषु कारणम् ॥ २६ ॥

धर्माद्यमुत्रामूर्तत्वान्मूर्ते देहे न कारणम् ।
देहस्य कारणं किं स्यात्तत्र सर्गादिभोगिनः ॥ २७ ॥

भित्त्यभित्त्यादिरूपाणां ज्ञानस्य ज्ञानवादिनः ।
किं कारणमनन्तानामुत्पन्नध्वंसिनां मुहुः ॥ २८ ॥

स्वभावस्य स्वभावोऽसौ किल कारणमित्यपि ।
यदुच्यते स्वभावस्य सा पर्यायोक्तिकल्पता ॥ २९ ॥

तस्मादकारणा भ्रान्तिर्भावा भान्ति च कारणम् ।
अज्ञे ज्ञे त्वखिलं कार्यं कारणाद्भवति स्थितम् ॥ ३० ॥

यद्वत्स्वप्नपरिज्ञानात्स्वप्ने द्रव्यापहारिभिः ।
न दुःखाकरणं तद्वज्जीवितं तत्त्वदर्शनात् ॥ ३१ ॥

सर्गादावेव नोत्पन्नं दृश्यं चिद्गगनं त्विदम् ।
स्वरूपं स्वप्नवद्भाति नान्यदत्रोपपद्यते ॥ ३२ ॥

अन्या न काचित्कलना दृश्यते सोपपत्तिका ।
अस्मान्न्यायादृते कस्माद्ब्रह्मैवैषानुभूतिभूः ॥ ३३ ॥

ऊर्म्यावर्तद्रवत्वादि शुद्धे जलघने यथा ।
तथेदं सर्गपर्यायं ब्रह्मणि ब्रह्म भासते ॥ ३४ ॥

स्पन्दावर्तविवर्तादि निर्मले पवने यथा ।
तथायं ब्रह्मपवने सर्गस्पन्दोऽवभासते ॥ ३५ ॥

यथानन्तत्वसौषिर्यशून्यत्वादि महांबरे ।
स सन्नासन्नबोधात्म तथा सर्गः परापरः ॥ ३६ ॥

एषु निद्रादिकेष्वेते सूपलब्धा अपि स्फुटम् ।
भावा असन्मया एवमेतेऽनन्यात्मका यतः ॥ ३७ ॥

सर्गप्रलयसंस्थानान्येवमात्मनि चिद्घने ।
सौम्ये स्वप्नसुषुप्ताभा शुद्धे निद्राघने यथा ॥ ३८ ॥

स्वप्नात्स्वप्नान्तराण्यास्ते निद्रायां मानवो यथा ।
सर्गात्सर्गान्तराण्यास्ते स्वसत्तायामजस्तथा ॥ ३९ ॥

पृथ्वादिरहितोऽप्येष ब्रह्माकाशो निरामयः ।
अतद्वांस्तद्वदाभाति यथा स्वप्नानुभूतिषु ॥ ४० ॥

स्थिता यथास्यां पश्यन्तां शब्दा घटपटादयः ।
जाताजाताः स्थिताः सर्गास्तथानन्ये महाचिति ॥ ४१ ॥

पश्यन्तामेव पश्यन्ती यथा भाति तथैव च ।
यथा शब्दास्तथा सर्गाश्चितैव चितिचिन्मयः ॥ ४२ ॥

किं शास्त्रकं तत्र कथाविचारै-
र्निर्वासनं जीवितमेव मोक्षः ।
सर्गे त्वसत्येवप्रकारणत्वा-
त्सत्येव नास्त्येव न नाम काचित् ॥ ४३ ॥

एषा च सिद्धेह हि वासनेति
सा बोधसत्तैव निरन्तरैका ।
नानात्वनानारहितैव भाति
स्वप्ने चिदेवेह पुरादिरूपा ॥ ४४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु सत्यवर्णनं
नाम सप्तसप्तत्यधिकशततमः सर्गः ॥ १७७ ॥ -५-

॥ अथ षष्ठः सर्गः ॥

॥ ऐन्दवोपाख्यानम् ॥

श्रीराम उवाच ।
पदार्था द्विविधाः सन्ति मूर्तामूर्ता जगत्त्रये ।
यत्र सप्रतिघाः केचित्केचिदप्रतिघा अपि ॥ १ ॥

तानिहाप्रतिघानाढुर्नान्योन्यं वेल्लयन्ति ये ।
तांश्च सप्रतिघानाहुरन्योन्यं वेल्लयन्ति ये ॥ २ ॥

इह सप्रतिघानं तु दृष्टमन्योन्यवेल्लनम् ।
नत्वप्रतिघरूपाणां केषांचिदपि किंचन ॥ ३ ॥

तत्र संवेदनं नाम यदिदं चंद्रमण्डले ।
इतः पतत्यप्रतिघं तत्सर्वेणानुभूयते ॥ ४ ॥

अर्धप्रबुद्धसंकल्पविकल्पाद्वैतकल्पितम् ।
वदाम्यभ्युपगम्येदं न तु बोधदशास्थितम् ॥ ५ ॥

कः प्राणमारुतः क्षोभं जनयत्याशयस्थितः ।
प्रवेशनिर्गमभयं कथं वा वद मे प्रभो ॥ ६ ॥

कथमप्रतिघं नाम वेदनं प्रतिघात्मकम् ।
इमं देहं चालयति भारं भारहरो यथा ॥ ७ ॥

यदि सप्रतिघं वस्तु वेल्लत्यप्रतिघात्मकम् ।
कथं संवित्तिमात्रेण पुंसः शैलो न वल्गति ॥ ८ ॥

वसिष्ठ उवाच ।
विकासमथ संकोचमत्र नाली हृदि स्थिता ।
यदा याति तदा प्राणश्च्छेदैरायाति याति च ॥ ९ ॥

बाह्योपस्करभस्रायां यथाकाशास्पदात्मकः ।
वायुर्यात्यपि चायाति तथात्र स्पंदनं हृदि ॥ १० ॥

श्रीराम उवाच ।
बहिर्भस्रामयस्कारः संकोचनविकासनैः ।
योजयत्यान्तरं नाडीं कश्चालयति चालकः ॥ ११ ॥

शतं कथं भवेदेकं कथमेकं शतं भवेत् ।
कथं सचेतना एते काष्ठलोष्टूपलादयः ॥ १२ ॥

कस्मान्न स्थावरं वस्तु प्रस्पन्द्यपि चमत्कृतम् ।
वस्तु जंगममेवेह स्पन्दिमात्रेव किं वद ॥ १३ ॥

वसिष्ठ उवाच ।
अन्तःसंवेदनं नाम चालयत्यान्त्रवेष्टनम् ।
बहिर्भस्रामयस्कार इव लोकेऽनुचेष्टनम् ॥ १४ ॥

श्रीराम उवाच ।
वाय्वन्त्रादिशरीरस्थं सर्वं सप्रतिघं मुने ।
कथमप्रतिघा संविच्चालयेदिति मे वद ॥ १५ ॥

संविदप्रतिघाकारा यदि सप्रतिघात्मकम् ।
चालयेदचलिप्यत्तददूरमम्भो यदिच्छया ॥ १६ ॥

सप्रतिघाप्रतिघयोर्मिथो यदि पदार्थयोः ।
वेल्लनं स्यात्तदिच्छैव कर्तृकर्मेन्द्रियैः क्व किम् ॥ १७ ॥

सप्रतिघाप्रतिघयोः शेषो नास्ति बहिर्यथा ।
तथैवान्तरहं मन्ये शेषं कथय मे मुने ॥ १८ ॥

अन्तःस्वयं योगिना वा यथैतदनुभूयते ।
अमूर्तस्यैव मूर्तेन वेल्लनं तद्वदाशु मे ॥ १९ ॥

वसिष्ठ उवाच ।
सर्वसंदेहवृक्षाणां मूलकाषमिदं वचः ।
सर्वैकतानुभूत्यर्थं श‍ृणु श्रवणभूषणम् ॥ २० ॥

नेह किंचिन्न नामास्ति वस्तु सप्रतिघं क्वचित् ।
सर्वदा सर्वमेवेदं शान्तमप्रतिघं ततम् ॥ २१ ॥

शुद्धं संविन्मयं सर्वं शान्तमप्रतिघात्मकम् ।
पदार्थजातं पृथ्व्यादि स्वप्नसंकल्पयोरिव ॥ २२ ॥

आदावन्ते च नास्तीदं कारणाभावतोऽखिलम् ।
भ्रान्त्यात्मा वर्तमानापि भाति चित्स्वप्नगा यथा ॥ २३ ॥

द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
महता कारणौघेन बोधमप्रतिघं विदुः ॥ २४ ॥

अन्तःकरणभूतादि मृत्काष्ठदृषदादि वा ।
सर्वं शून्यमशून्यं च चेतनं विद्धि नेतरत् ॥ २५ ॥

तत्रैवमैन्दवाख्यानं श‍ृणु श्रवणभूषणम् ।
मया च पूर्वमुक्तं तत्किंचान्यदभिवर्ण्यते ॥ २६ ॥

तथापि वर्तमानोक्तप्रश्नबोधाय तच्छृणु ।
यथेदं सर्वमद्र्यादि चिदित्येव तु भोत्स्यते ॥ २७ ।
कस्मिंश्चित्प्राक्तनेनैव जगज्जालेऽभवद्द्विजः ।
तपोवेदक्रियाधारो ब्रह्मन्निन्दुरिति स्मृतः ॥ २८ ॥

दश तस्याभवन्पुत्रा जगतो दिक्तटा इव ।
महाशया महात्मानो महतामास्पदां सतां ॥ २९ ॥

स तेषां कालवशतः पितान्तर्धिमुपाययौ ।
दशानां भगवान्रुद्र एकादश इव क्षये ॥ ३० ॥

तस्यानुगमनं चक्रे भार्या वैधव्यभीतिभिः ।
अनुरक्ता दिनस्येव संध्या ताराविलोचना ॥ ३१ ॥

तयोस्ते तनया दुःखकलिता विपिनं गताः ।
कृतौर्ध्वदेहिकास्त्यक्त्वा व्यवहारं समाधये ॥ ३२ ॥

धारणानां समस्तानां का स्यादुत्तमसिद्धिदा ।
धारणा यन्मयाः सन्तः स्यामः सर्वेश्वरा वयम् ॥ ३३ ॥

इति ते तत्र संचिन्त्य बद्धपद्मासना दश ।
इदं संचिन्तयामासुर्निर्विघ्ने कंदरोदरे ॥ ३४ ॥

पद्मजाधिष्ठिताशेषजगद्धारणया स्थिताः ।
भवाम पद्मजोपेतं जगद्रूपमविघ्नतः ॥ ३५ ॥

इति संचिन्त्य सब्रह्म जगद्धारणया चिरम् ।
निमीलितदृशस्तस्थुस्ते चित्ररचिता इव ॥ ३६ ॥

अथैतद्धारणाबद्धचित्तास्ते तावदच्युताः ।
आसन्मासान्दशाष्टौ च यावत्ते तत्र देहकाः ॥ ३७ ॥

शुष्काः कंकालतां याताः क्रव्यादैश्चर्वितांगकाः ।
नाशमभ्याययुस्तत्र छायाभागा इअवातपैः ॥ ३८ ॥

अहं ब्रह्मा जगच्चेदं सर्गोऽयं भुवनान्वितः ।
इति सम्पश्यतां तेषां दीर्घकालोऽभ्यवर्तत ॥ ३९ ॥

तानि चित्तान्यदेहानि दशैकध्यानतस्ततः ।
सम्पन्नानि जगन्त्येव दश देहानि वै पृथक् ॥ ४० ॥

इति तेषां चिदिच्छासासम्पन्ना सकलं जगत् ।
अत्यंतस्वच्छरूपैव स्थिता चाकारवर्जिता ॥ ४१ ॥

संविन्मयत्वाज्जगतां तेषां भूम्यचलादि तत् ।
सर्वं चिदात्मकं विद्धि नो चेदन्यत्किमुच्यताम् ॥ ४२ ॥

किलयत्त्रिजगज्जालं तेषां किमात्मतत्तथा ।
संविदाकाशशून्यत्वमात्रमेवेतरन्न तत् ॥ ४३ ॥

विद्यते न यथा किंचित्तरंगः सलिलादृते ।
संवित्तत्वादृते तद्वद्विद्यते चलनादिकम् ॥ ४४ ॥

ऐंदवानि यथैतानि चिन्मयानि जगन्ति खे ।
तथा चिन्मयमेतेषु काष्ठलोष्टोपलाद्यपि ॥ ४५ ॥

यथैवैंदवसंकल्पास्ते जगत्त्वमुपागताः ।
तथैवाब्जजसंकल्पो जगत्त्वमयमागतः ॥ ४६ ॥

तस्मादिहेमे गिरयो वसुधापादपा घनाः ।
महाभूतानि सर्वं च चिन्मात्रमयमाततम् ॥ ४७ ॥

चिद्वृक्षाश्चिन्मही चिद्द्यौश्चिदाकाशं चिदद्रयः ।
नाचित्क्वचित्संभवति तेष्वैंदवजगत्स्विव ॥ ४८ ॥

चिन्मात्रखकुलालेन स्वदेहचलचक्रके ।
स्वशरीरमृदा सर्गः कुतोऽयं क्रियतेऽनिशम् ॥ ४९ ॥

संकल्पनिर्मिते सर्गे दृषदश्चेन्नचेतनाः ।
तदत्र लोष्टशैलादि किमेतदिति कथ्यताम् ॥ ५० ॥

कलनस्मृतिसंस्कारा दधत्यर्थं च नोदरे ।
प्राङ्मृष्टं कल्पनादीनामन्यैवार्थकलावताम् ॥ ५१ ॥

तद्धामसंविदो नाम्नि मणिराशौ मणिर्यथा ।
सर्वात्मनि तथा चित्ते कश्चिदर्थ उदेत्यलम् ॥ ५२ ॥

अकार्यकरणस्यार्थो न भिन्नो ब्रह्मणः क्वचित् ।
स्वभाव इति तेनेदं सर्वं ब्रह्मेति निश्चयः ॥ ५३ ॥

यथाप्रवृत्तं चिद्वारि वहत्यावर्ततेव नौ ।
स्वयत्नेनातितीव्रेण परात्मीयात्मना विना ॥ ५४ ॥

पद्मलीला जगदिव प्रकचन्ति जगन्ति यत् ।
चिन्मात्राद्ब्रह्मणः स्वस्मादन्यानि न मनागपि ॥ ५५ ॥

अजात्मानिरुद्धं च सन्मात्रं ब्रह्म खात्मकम् ।
शान्तं सदसतोर्मध्यं चिद्भामात्रमिदं जगत् ॥ ५६ ॥

यत्संविन्मयमद्र्यादिसंकल्पं जगति स्थितम् ।
तदसंविन्मयमिति वक्ताऽज्ञो ज्ञैर्विहस्यते ॥ ५७ ॥

जगन्त्यात्मेव संकल्पमयान्येतानि वेत्ति खे ।
खात्मकानि तथेदं च ब्रह्म संकल्पजं जगत् ॥ ५८ ॥

यावद्यावदियं दृष्टिः शीघ्रं शीघ्रं विलोक्यते ।
तावत्तावदिदं दुःखं शीघ्रं शीघ्रं विलीयते ॥ ५९ ॥

यावद्यावदियं दृष्टिः प्रेक्ष्यते न चिराच्चिता ।
तावत्तावदिदं दुःखं भवेत्प्रतिघनं घनम् ॥ ६० ॥

दीर्घदुष्कृतमूढानामिमां दृष्टिमपश्यताम् ।
संसृतिर्वज्रसारेयं न कदाचित्प्रशाम्यति ॥ ६१ ॥

नेहाकृतिर्न च भवाभवजन्मनाशाः
सत्ता न चैव न च नाम तथास्त्यसत्ता ।
शान्तं परं कचति केवलमात्मनीत्थं
ब्रह्माथवा कचनमप्यलमत्र नास्ति ॥ ६२ ॥

आद्यन्तवर्जितमलभ्यलताग्रमूल-
निर्माणमूलपरिवेशमशेषमच्छम् ।
अन्तस्थनिर्गगनसर्गकपुत्रकौघं
नित्यं स्थितं ननु घनं गतजन्मनाशम् ॥ ६३ ॥

सन्मात्रमन्तरहिताखिलहस्तजातं
पर्यन्तहीनगणनाङ्गममुक्तरूपम् ।
आत्माम्बरात्मकमहं त्विदमेव सर्वं
सुस्तम्भरूपमजमौनमलं विकल्पैः ॥ ६४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु ऐन्दवो
नामाष्टसप्तत्यधिकशततमः सर्गः ॥ १७८ ॥ -६-

॥ अथ सप्तमः सर्गः ॥

॥ ब्रह्ममयत्वप्रतिपादनम् ॥

वसिष्ठ उवाच ।
एवं चिन्मात्रमेवैकं शुद्धं सत्त्वं जगत्त्रयम् ।
संभवन्तीह भूतानि नाज्ञबुद्धानि कानिचित् ॥ १ ॥

तस्मात्कुतः शरीरादि वस्तु सप्रतिघं कुतः ।
यदिदं दृश्यते किंचित्तदप्रतिघमाततम् ॥ २ ॥

स्थितं चिद्व्योम चिद्व्योम्नि शान्ते शान्तं समं स्थितम् ।
स्थितमाकाशमाकाशे ज्ञप्तिर्ज्ञप्तौ विजृम्भते ॥ ३ ॥

सर्वं संविन्मयं शान्तं सत्स्वप्नं इव जाग्रति ।
स्थितमप्रतिघाकारं क्वासौ सप्रतिघां स्थितिः ॥ ४ ॥

क्व देह अवयवाः क्वान्त्रवेष्टनी क्वास्थिपंजरम् ।
व्योमेवाप्रतिघं विद्धि देहं सप्रतिघोषमम् ॥ ५ ॥

संवित्करौ शिरः संवित्संविदिन्द्रियवृन्दकम् ।
शान्तमप्रतिघं सर्वं न सप्रतिघमस्ति हि ॥ ६ ॥

ब्रह्मव्योम्नः स्वप्नरूपस्वभावत्वाज्जगत्स्थितेः ।
इदं सर्वं संभवति सहेतुकमहेतुकम् ॥ ७ ॥

न कारणं विना कार्यं भवतीत्युपपद्यते ।
यद्यथा येन निर्णीतं तत्तथा तेन लक्ष्यते ॥ ८ ॥

कारणेन विना कार्यं सद्वदित्युपपद्यते ।
यथा भावितमेवार्थं संविदाप्नोत्यसंशयम् ॥ ९ ॥

यथा संभवति स्वप्ने सर्वं सर्वत्र सर्वथा ।
चिन्मयत्वात्तथा जाग्रत्यस्ति सर्वात्मरूपता ॥ १० ॥

सर्वात्मनि ब्रह्मपदे नानानात्मनि स्थिता ।
अस्त्यकारणकार्याणां सत्ता कारणजापि च ॥ ११ ॥

एकः सहस्रं भवति यथा ह्येते किलैन्दवाः ।
प्रयाता भूतलक्षत्वं संकल्पजगतां गणैः ॥ १२ ॥

सहस्रमेकं भवति संविदां च तथा हि यत् ।
सायुज्ये चक्रपाण्यादेः सर्गैरेकं भवेद्वपुः ॥ १३ ॥

एक एक भवत्यब्धिः स्रवन्तीनां शतैरपि ।
एक एक भवेत्काल ऋतुसंवत्सरोत्करैः ॥ १४ ॥

संविदाकाश एवायं देहः स्वप्न इवोदितः ।
स्वप्नाद्रिवन्निराकारः स्वानुभूतिस्फुटोऽपि च ॥ १५ ॥

संवित्तिरेवानुभवात्सैवाननुभवात्मिका ।
द्रष्टृदृश्यदृशा भाति चिद्व्योमैकमतो जगत् ॥ १६ ॥

वेदनावेदनात्मैकं निद्रास्वप्नसुषुप्तवत् ।
वातस्पन्दाविवाभिन्नौ चिद्व्योमैकमतो जगत् ॥ १७ ॥

द्रष्टा दृश्यं दर्शनं च चिद्भान परमार्थखम् ।
शून्यस्वप्न इवाभाति चिद्व्योमैकमतो जगत् ॥ १८ ॥

जगत्त्वमसदेवेशे भ्रान्त्या प्रथमसर्गतः ।
स्वप्ने भयमिवाशेषं परिज्ञात प्रशाम्यति ॥ १९ ॥

एकस्याः संविदः स्वप्ने यथा भानमनेकधा ।
नानापदार्थरूपेण सर्गादौ गगने तथा ॥ २० ॥

बहुदीपे गृहे च्छाया बह्व्यो भान्त्येकवद्यथा ।
सर्वशक्तेस्तथैवैका भाति शक्तिरनेकधा ॥ २१ ॥

यत्सीकरस्फुरणमम्बुनिधौ शिवाख्य
व्योम्नीव वृक्षनिकरस्फुरणं स सर्गः ।
व्योम्नेष वृक्षनिकरो व्यतिरिक्तरूपो
ब्रह्माम्बुधौ न तु मनागपि सर्गबिन्दुः ॥ २२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु
ब्रह्ममयत्वप्रतिपादनं नामैकोनाशीत्यधिकशततमः
सर्गः ॥ १७९ ॥ -७-

॥ अथ अष्टमोऽध्यायः ॥

॥ तापसोपाख्यानम् ॥

श्रीराम उवाच ।
इमं मे संशयं छिन्धि भगवन्भास्करं तमः ।
भुवनस्येव भावानां सम्यग्रूपानुभूतये ॥ १ ॥

कदाचिदहमेकाग्रो विद्यागेहे विपश्चिताम् ।
संसदि स्थितवान्यावत्तापसः कश्चिदागतः ॥ २ ॥

विद्वान् द्विजवरः श्रीमान्विदेहजनमण्डलात् ।
महातपाः कान्तियुतो दुर्वासा इव दुःसहः ॥ ३ ॥

स प्रविश्याभिवाद्याशु सभामाभास्वरद्युतिम् ।
उपविश्यासने तिष्ठन्नस्माभिरभिवादितः ॥ ४ ॥

वेदान्तसांख्यसिद्धान्तवादान्संहृत्य सत्तमम् ।
सुखोपविष्टं विश्रान्तं तमहं पृष्टवानिदम् ॥ ५ ॥

दीर्घाध्वना परिश्रान्तः सयत्न इव लक्ष्यसे ।
वदाद्य वदतां श्रेष्ठ कुत आगमनं कृतम् ॥ ६ ॥

ब्राह्मण उवाच ।
एवमेतन्महाभाग सुमहायत्नवानहम् ।
यदर्थमागतोऽस्मीह तस्याकर्णय निर्णयम् ॥ ७ ॥

वैदेहो नाम देशोऽस्ति सर्वसौभाग्यसंयुतः ।
स्वर्गस्यास्वरसंस्थस्य प्रतिबिम्बमिवावनौ ॥ ८ ॥

तत्राहं ब्राह्मणो जातः प्राप्तविद्यश्च संस्थितः ।
कुन्दावदादन्तत्वात्कुन्ददन्त इति श्रुतः ॥ ९ ॥

अथाहं जातवैराग्यः प्रविहर्तुं प्रवृत्तवान् ।
देवद्विजमुनीन्द्राणां संभ्रमाच्छमशान्तये ॥ १० ॥

श्रीपर्वतमखण्डेऽहं कदाचित्प्राप्तवानहम् ।
तत्रावसं चिरं कालं मृदु दीर्घं तपश्चरन् ॥ ११ ॥

तत्रास्त्यरण्यं विदितं मुक्तं तृणवनादिभिः ।
त्यक्ततेजस्तमोभ्रादिभूमाविव नभस्तलम् ॥ १२ ॥

तत्रास्ति मध्ये विटपि लघुः पेलवपल्लवः ।
स्थित एषोऽम्बरे शून्ये मन्दरश्मिरिवांशुमान् ॥ १३ ॥

लम्बते तस्य शाखायां पुरुषः पावनाकृतिः ।
भानुर्भानाविव रश्मिगृहीतो ग्रथिताकृतिः ॥ १४ ॥

मौञ्जदामनि बद्धोर्ध्वपादो नित्यमवाक्षिराः ।
अष्ठीलत्वं दधदिव महाष्ठीलस्य शाल्मलेः ॥ १५ ॥

दृष्टः प्राप्तेन तं देशं स कदाचिन्मया पुमान् ।
विचारितो निकटतो वक्षःस्थाञ्जलिसम्पुटः ॥ १६ ॥

यावज्जीवत्यसौ विप्रो निःश्वसित्यहताकृतिः ।
शीतवातातपस्पर्शान्सर्वान्वेत्ति च कालजान् ॥ १७ ॥

अनन्तरमसावेको नोपचर्यमया बहून् ।
दिवसातपखेदेन विश्रम्भे पातितः शनैः ॥ १८ ॥

पृष्टश्च कोऽसि भगवन्किमर्थं दारुणं तपः ।
करोषीदं विशालाक्ष लक्ष्यालक्ष्यात्मजीवितः ॥ १९ ॥

अथ तेनोक्तमर्थस्ते क इवानेन तापस ।
अर्थे नातिविचित्रा हि भवन्तीच्छाः शरीरिणाम् ॥ २० ॥

इत्युक्तवान्प्रयत्नेन सोऽनुबन्धेन वै मया ।
यदा पृष्टस्तदा तेन ममोक्तमिदमुत्तरम् ॥ २१ ॥

मथुरायामहं जातो वृद्धिं यातः पितुर्गृहे ।
बाल्ययौवनयोर्मध्ये स्थितः पदपदार्थवित् ॥ २२ ॥

समग्रसुखसंभारकोशो भवति भूमिपः ।
इत्यहं श्रुतवांस्तत्र भोगार्थी नवयौवनः ॥ २३ ॥

अथ सप्तमहाद्वीपविस्तीर्णाया भुवः पतिः ।
स्यामित्यहमुदारात्मा परिबिम्बितवांश्चिरम् ॥ २४ ॥

इत्यर्थेन समागत्य देशमित्थमहं स्थितः ।
अत्र द्वादशवर्षाणि समतीतानि मानद ॥ २५ ॥

तदकारणमित्रत्वं गच्छेष्टं देशमाशुगः ।
अहं चाभिमतप्राप्तेरित्थमेव दृढस्थितिः ॥ २६ ॥

इति तेनेहमुक्तः संस्तमिच्छं प्रोक्तवाञ्छृणु ।
आश्चर्यश्रवणे चेतः खेदमेति न धीमतः ॥ २७ ॥

साधो यावत्तया प्राप्तो न नामाभिमतो वरः ।
त्वद्रक्षापरिचर्यार्थमिह तावदहं स्थितः ॥ २८ ॥

मयेत्युक्ते स पाषाण मौनवानभमच्छमी ।
निमीलितेक्षणः क्षीणरूपस्त्वकलनो बहिः ॥ २९ ॥

तथाहं पुरतस्तस्य काष्ठमौनवतोऽवसम् ।
षण्मासान्विगतोद्वेगं वेगान्कालकृतान्सहन् ॥ ३० ॥

अर्कबिम्बाद्विनिष्क्रम्य तत्प्रदेशान्तरे स्थितम् ।
एकदा दृष्टवानस्मि पुरुषं भानुभास्वरम् ॥ ३१ ॥

स तेन पूज्यते यावन्मनसा कर्मणा मया ।
उवाच तावद्वचनममृतस्यन्दसुन्दरम् ॥ ३२ ॥

शाखाप्रलम्बनपर हे ब्रह्मन्दीर्घतापस ।
तपः संहर संहारी गृहाणाभिमतं वरम् ॥ ३३ ॥

सप्ताब्धिद्वीपवलयां पालयिष्यसि मेदिनीम् ।
सप्तवर्षसहस्राणि देहेनानेन धर्मतः ॥ ३४ ॥

एवं समीहितं दत्वा स द्वितीयो दिवाकरः ।
गन्तुमस्तमथार्काब्धिमविशत्प्रोदितो यतः ॥ ३५ ॥

तस्मिन्याते मया प्रोक्तं तस्य शाखातपस्विनः ।
श्रुतदृष्टानुभूताग्र्यवरदस्य विवेकिनः ॥ ३६ ॥

सम्प्राप्ताभिमतं ब्रह्मंस्तरुशाखावलम्बनम् ।
तपस्त्यक्त्वा यथा प्राप्तं व्यवहारं समाचर ॥ ३७ ॥

एवमङ्गीकृतवतः पादौ तस्य मया ततः ।
मुक्तौ विटपिनस्तस्मादालानात्कालभाविव ॥ ३८ ॥

स्वातः पवित्रहस्तोऽसौ चक्रे जप्त्वाघमर्षणम् ।
फलेन पुण्यलब्धेन विटपाद्व्रतपारणम् ॥ ३९ ॥

तत्पुण्यवशतः प्राप्तैः स्वादुभिस्तैस्तरोः फलैः ।
समाश्वस्तावसंक्षुब्धावावां तत्र दिनत्रयम् ॥ ४० ॥

सप्तद्वीपसमुद्रमुद्रितदिशं भोक्तुं समग्रां महीं
विप्रः पादपलम्बितेन वपुषा तप्त्वोर्ध्वपादस्तपः ।
सम्प्राप्याभिमतं वरं दिनकृतो विश्वस्य चाह्नां त्रयं
सार्धं मत्सुहृदा स्वमेव सदनं गन्तुं प्रवृत्तोऽभवत् ॥ ४१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु ताप्सोपाख्यानं
नामाशीत्यधिकशततमः सर्गः ॥ १८० ॥ -८-

॥ अथ नवमोऽध्यायः ॥

॥ गौर्याश्रमवर्णनम् ॥

कुन्ददन्त उवाच ।
आवासमन्तरे गन्तुं प्रवृत्तौ मुदिताकृती ।
मथुरानगरीं चन्द्रसूर्याविन्द्रपुरीमिव ॥ १ ॥

प्राप्य रोधाभिधं ग्रामं विश्रम्याम्रवणाचले ।
उषितौ द्वे दिने तस्मिन्सालीसे नगरे सुखम् ॥ २ ॥

अध्वानन्दितचित्ताभ्यामावाभ्यामतिवाहितः ।
द्वितीयेऽहनि शीताम्बुस्निग्धच्छायावनद्रुमाः ॥ ३ ॥

नदीतीरलतोन्मुक्तपुष्पप्रकरपाण्डुराः ।
तरत्तरङ्गझांकारगायनानन्दिताध्वगाः ॥ ४ ॥

See Also  Shampaka Gita In Sanskrit

स्निग्धद्रुमवनच्छायरणन्मृगविहंगमाः ।
स्थूलशाद्वलशाखाग्रप्रोतावश्यायमौक्तिकाः ॥ ५ ।
जंगलाद्रिपुरग्रामश्वभ्राभूपस्थलावनीः ।
समुल्लंघ्य दिने तस्मिन्सरित्स्रोतः सरांसि च ॥ ६ ॥

नीतवन्तौ निशामावां कदलीकानने घने ।
तुषारशिशिरे श्रान्तौ कदलीदलतल्पके ॥ ७ ॥

प्राप्तावावां तृतीयेऽह्नि षण्डषण्डकमण्डितम् ।
जङ्गलं जनविच्छेदविभक्तं खमिवाकृतम् ॥ ८ ॥

तत्र स प्रकृतं मार्गं परित्यज्य वनान्तरम् ।
प्रविशन्समुवाचेदमकार्यकरणं वचः ॥ ९ ॥

गच्छावोऽत्राश्रमे गौर्या मुनिमण्डलमण्डिते ।
भ्रातरो मे स्थिताः सप्त वनेष्वेवमिवार्थिनः ॥ १० ॥

भ्रातरोष्टौ वयमिमे जातानेकतया तया ।
एकसंविन्मया जाता एकसंकल्पनिश्चयाः ॥ ११ ॥

तेन तेऽप्यत्र तपसे स्वनिश्चयसमाश्रयाः ।
स्थिता आगत्य विविधैस्तपोभिः क्षपितैनसः ॥ १२ ॥

तैः सार्धं भ्रातृभिः पूर्वमागत्याहमिहावसम् ।
षण्मासानाश्रमे गौर्यास्तेन दृष्टो मयैष सः ॥ १३ ॥

पुष्पखण्ड तरुच्छाया सुप्तमुग्धमृगार्भकः ।
पर्णोटजाग्रविश्रान्तशुकोद्ग्राहितशास्त्रदृक् ॥ १४ ॥

तद्ब्रह्मलोकसंकाशमेहि मुन्याश्रमं श्रिये ।
गच्छावोऽच्छतरं तत्र चेतः पुण्यैर्भविष्यति ॥ १५ ॥

विदुषामपि धीराणामपि तत्त्वविदामपि ।
त्वरते हि मनः पुंसामलंबुद्धिविलोकने ॥ १६ ॥

तेनेत्युक्ते च तावावां प्राप्तौ मुन्याश्रमं च तम् ।
यावत्तत्र महारण्ये पश्यावश्चान्तरूपिणम् ॥ १७ ॥

न वृक्षं नोटजं किंचिन्न गुल्मं न च मानवम् ।
न मुनिं नार्भकं नान्यन्न वेदिं न च वा द्विजम् ॥ १८ ॥

केवलं शून्यमेवाति तदरण्यमनन्तकम् ।
तापोपतप्तमभितो भूमौ स्थितमिवाम्बरम् ॥ १९ ॥

हा कष्टं किमिदं जातमिति तस्मिन्वदत्यथ ।
आवाभ्यां सुचिरं भ्रान्त्वा दृष्ट एकत्र वृक्षकः ॥ २० ॥

स्निग्धच्छविर्घनच्छायः शीतलोऽम्बुधरोपमः ।
तले तस्य समाधाने संस्थितो वृद्धतापसः ॥ २१ ॥

आवामग्रे मुनेस्तस्य च्छायायां शाद्वलस्थले ।
उपविष्टौ चिरं यावन्नासौ ध्यानान्निवर्तते ॥ २२ ॥

ततश्चिरेण कालेन मयोद्वेगेन चापलात् ।
उक्तं मुने प्रबुध्यस्व ध्यानादित्युच्चकैर्वचः ॥ २३ ॥

शब्देनोच्चैर्मदीयेन सम्प्रबुद्धोऽभवन्मुनिः ।
सिंहोऽम्बुदरवेणेव जृम्भां कृत्वाभ्युवाच च ॥ २४ ॥

कौ भवन्ताविमौ साधू क्वासौ गौर्याश्रमो गतः ।
केन वाहमिहानीतः कालोऽयं कश्च वर्तते ॥ २५ ॥

तेनेत्युक्ते मयाप्युक्तं भगवन्विद्धि ईदृशम् ।
न किंचिदावां बुद्धोऽपि कस्माज्जानासि न स्वयम् ॥ २६ ॥

इति श्रुत्वा स भगवान्पुनर्ध्यानमयोऽभवत् ।
ददर्शोदन्तमखिलमस्माकं स्वात्मनस्तथा ॥ २७ ॥

मुहूर्तमात्रेणोवाच प्रबुध्य ध्यानतो मुनिः ।
श्रूयतामिदमाश्चर्यमार्यौ हि कार्यवेदिनौ ॥ २८ ॥

यमिमं पश्यथः साधू कदम्बतरुपुत्रकम् ।
मदास्पदमरण्यान्याधम्मिल्लमिव पुष्पितम् ॥ २९ ॥

केनापि कारणेनास्मिन्सती वागीश्वरी सती ।
अवसद्दशवर्षाणि समस्तर्तुनिषेविता ॥ ३० ॥

तदा तेनेहविस्तीर्णमभवद्घनकाननम् ।
गौरिवनमिति ख्यातं भूषितं कुसुमर्तुभिः ॥ ३१ ॥

भृङ्गाङ्गनाजनमनोहरहारिगीत-
लीलाविलोलकलकण्ठविहंगमङ्ग ।
पुष्पाम्बुवाहशतचन्द्रनभोवितानं
राजीवरेणुकणकीर्णदिगन्तरालम् ॥ ३२ ॥

मन्दारकुन्दमकरन्दसुगन्धिताशं
संसूच्छ्वसत्कुसुमराशिशशाङ्कनिष्ठम् ।
संतानकस्तबकहासविकासकान्त-
मामोदिमारुतसमस्तलताङ्गनौघम् ॥ ३३ ॥

पुष्काकरस्य नगरं नवगीतभृङ्गं
भृङ्गाङ्गनाकुसुमखण्डकमण्डपाढ्यम् ।
चन्द्रांशुजालपरिकोमलपुष्पदोला-
दोलायमानसुरसिद्धवधूसमूहम् ॥ ३४ ॥

हारीतहंसशुककोकिलकोककाक-
चक्राह्वभासकलविङ्ककुलाकुलाङ्गम् ।
मेरुण्डकुक्कुटकपिञ्जलहेमचूड-
राढामयूरबककल्पितकेलिरम्यम् ॥ ३५ ॥

गन्धर्वयक्षसुरसिद्धकिरीटघृष्ट-
पादाब्जकर्णिककदम्बसरस्वतीकम् ।
वातायनं कनककोमलचम्पकौघ-
ताराम्बराम्बुधरपूरगृहीतगन्धम् ॥ ३६ ॥

मन्दानिलस्खलितपल्लवबालवल्ली-
विन्यासगुप्तदिवसाधिपरश्मिशीतम् ।
पीतं कदम्बकरवीरकनालिकेर-
तालीतमालकुलपुष्पपरागपूरैः ॥ ३७ ॥

कह्वारकीर्णकुमुदोत्पलपद्मखण्ड-
वल्गच्चकोरबककोककदम्बहंसम् ।
तालीसगुग्गुलकचन्दनपारिभद्र-
भद्रद्रुमोदविहारिविचित्रशक्ति ॥ ३८ ॥

तस्मिन्वने चिरमुवास हरार्धदेहा
केनापि कारणवशेन चिराय गौरी ।
भूत्वा प्रसन्नशशिबिम्बमुखी कदम्ब-
वागीश्वरी शशिकलेव शिवस्य मूर्ध्नि ॥ ३९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु तापसोपाख्याने
गौर्याश्रमवर्णनं नामैकाशीत्यधिकशततमः
सर्गः ॥ १८१ ॥ -९-

॥ अथ दशमोऽध्यायः ॥

॥ सप्तदीपेश्वर ॥

वृद्धतापस उवाच ।
तस्मिन्नेव कदम्बेऽस्मिन्वर्षाणि स्वेच्छया दश ।
स्थित्वा गौरी जगामाथ हरवामार्धमन्दिरम् ॥ १ ॥

तत्स्पर्शामृतसिक्तोऽयं कदम्बतरुपुत्रकः ।
उत्सङ्ग इव चासीनो न यात्येव पुराणताम् ॥ २ ॥

ततो गौर्या प्रयातायां तद्वनं तादृशं महत् ।
सामान्यवनतां यातं जनवृन्दोपजीवितम् ॥ ३ ॥

मालवो नाम देशोऽस्ति तत्राहं पृथिवीपतिः ।
कदाचित्त्यक्तराज्य श्रीर्मुनीनामाश्रमान्भ्रमन् ॥ ४ ॥

इमं देशमनुप्राप्त इह चाश्रमवासिभिः ।
पूजितोऽस्य कदम्बस्य ध्याननिष्ठस्तले स्थितः ॥ ५ ॥

केनचित्त्वथ कालेन भ्रातृभिः सप्तभिः सह ।
भवानभ्यागतः पूर्वं तपोर्थमिममाश्रमम् ॥ ६ ॥

तपस्विनोऽष्टाविह ते तथा नाम तदावसन् ।
यथा तपस्विनोऽन्ये ते तेषां मान्यास्तपस्विनः ॥ ७ ॥

कालेनान्तरमसावेकः श्रीपर्वतं गतः ।
स्वामिनं कार्तिकेयं च द्वितीयस्तपसे गतः ॥ ८ ॥

वाराणसीं तृतीयस्तु चतुर्थोऽगाद्धिमाचलम् ।
इहैव ते परे धीराश्चत्वारोऽन्ये परं तपन् ॥ ९ ॥

सर्वेषामेव चैतेषां प्रत्येकं त्वेतदीप्सितम् ।
यथा समस्तद्वीपाया भुवोऽस्याः स्यां महीपतिः ॥ १० ॥

अथ सम्पादितं तेषां सर्वेषामेतदीप्सितम् ।
तपस्तुष्टाभिरिष्टभिर्देवताभिर्वरैः ॥ ११ ॥

तपतस्ते ततो याता भ्रातरः सदनं निजम् ।
भूमौ धर्मयुगं भुक्त्वा वेधा ब्रह्मपुरीमिव ॥ १२ ॥

तद्भवद्भ्रातृभिर्भव्य वरदानविधौ तदा ।
इदं वरोद्यता यत्नात्प्रार्थिताः स्वेष्टदेवताः ॥ १३ ॥

देव्यस्माकमिमे सर्वे सप्तद्वीपेश्वरौ स्थितौ ।
सत्याः प्रकृतयः सन्तु सर्व आश्रमवासिनः ॥ १४ ॥

तमिष्टदेवतासार्थमुररीकृत्य सादरम् ।
तेषामस्त्वेवमित्युक्त्वा जगामान्तर्द्धिमीश्वरी ॥ १५ ॥

ते ततः सदनं यातास्तेषामाश्रमवासिनः ।
सर्व एव गताः पश्चादेक एवास्मि नो गतः ॥ १६ ॥

अहं केवलमेकान्ते ध्यानैकगतमानसः ।
वागीश्वरीकदम्बस्य तले तिष्ठामि शैलवत् ॥ १७ ॥

अथ काले वहत्यस्मिन्नृतुसंवत्सरात्मनि ।
इअदं सर्वं वनं छिन्नं जनैः पर्यन्तवासिभिः ॥ १८ ॥

इदं कदम्बमम्लानं जनताः पूजयन्त्यलम् ।
वागीश्वरीगृहमिति मां चैवैकसमाधिगम् ॥ १९ ॥

अथैनं देशमायातौ भवन्तौ दीर्घतापसौ ।
एतत्त्वत्कथितं सर्वं ध्यानदृष्टं मयाखिलम् ॥ २० ॥

तस्मादुत्थाय हे साधू गच्छतं गृहमागतौ ।
तत्र ते भ्रातरः सर्वे संगता दारबन्धुभिः ॥ २१ ॥

अष्टानां भवतां भव्यं सदने स्वे भविष्यति ।
महात्मनां ब्रह्मलोके वसूनामिव संगमः ॥ २२ ॥

इत्युक्ते तेन स मया पृष्टः परमतापसः ।
संदेहादिदमाश्चर्यमार्यास्तद्वर्णयाम्यहम् ॥ २३ ॥

एकैव सप्तद्वीपास्ति भगवन्भूरियं किल ।
तुल्यकालं भवन्त्यष्टौ सप्तद्वीपेश्वराः कथम् ॥ २४ ॥

कदम्बतापस उवाच ।
असमंजसमेतावदेव नो यावदुच्यते ।
इदमन्यदसंबद्धतरं संश्रूयतां मम ॥ २५ ॥

एतेऽष्टौ भ्रातरस्तत्र तापसा देहसंक्षये ।
सप्तद्वीपेश्वराः सर्वे भविष्यन्ति गृहोदरे ॥ २६ ॥

अष्टौ ह्येते महीपीठेष्वेतेष्वेतेषु सद्मसु ।
सप्तद्वीपेश्वरा भूपा भविष्यन्तीह मे श‍ृणु ॥ २७ ॥

अस्त्येतेषां किलाष्टानां भार्याष्टकमनिन्दितम् ।
दिगन्तराणां नियतं ताराष्टकमिवोज्ज्वलम् ॥ २८ ॥

तद्भार्याष्टकमेतेषु यातेषु तपसे चिरम् ।
बभूव दुःखितं स्त्रीणां यद्वियोगोऽहिदुःसहः ॥ २९ ॥

दुःखिताः प्रत्यये तेषां चक्रुस्ता दारुणं तपः ।
शतचान्द्रायणं तासां तुष्टाभूत्तेन पार्वती ॥ ३० ॥

अदृश्योवाच सा तासां वचोऽन्तःपुरमन्दिरे ।
देवी सपर्यावसरे प्रत्येकं पृथगीश्वरी ॥ ३१ ॥

देव्युवाच ।
भर्त्रर्थमथ चात्मार्थं गृह्यतां बालिके वरः ।
चिरं क्लिष्टासि तपसा निदाघेनैव मंजरी ॥ ३२ ॥

इत्याकर्ण्य वचो देव्या दत्तपुष्पा चिरंटिका ।
स्ववासनानुसारेण कुर्वाणैवेश्वरीस्तवम् ॥ ३३ ॥

आनन्दमन्थरोवाच वचनं मृदुभाषिणी ।
आकाशसंस्थितां देवीं मयूरीवाभ्रमालिकाम् ॥ ३४ ॥

चिरंटिकोवाच ।
देवि देवाधिदेवेन यथ ते प्रेमशंभुना ।
भर्त्रा मम तथा प्रेम स भर्तास्तु ममामरः ॥ ३५ ॥

देव्युवाच ।
आसृष्टेर्नियतेर्दार्ढ्यादमरत्वं न लभ्यते ।
तपोदानैरतोऽन्यत्वं वरं वरय सुव्रते ॥ ३६ ॥

चिरंटिकोवाच ।
अलभ्यमेतन्मे देवि तन्मद्भर्तृर्गृहान्तरात् ।
मृतस्य मा विनिर्यातु जीवो बाह्यमपि क्षणात् ॥ ३७ ॥

देहपातश्च मे भर्तुर्यदा स्यादात्ममन्दिरे ।
तदेतदस्त्विति वरू दीयतामम्बिके मम ॥ ३८ ॥

देव्युवाच ।
एवमस्तु सुते त्वं च पत्यौ लोकान्तरास्थिते ।
भविष्यसि प्रिया भार्या देहान्ते नात्र संशयः ॥ ३९ ॥

इत्युक्त्वा विररामासौ गौर्या गीर्गगनोदरे ।
मेघमालाध्वनिरिव निरवद्यसमुद्यता ॥ ४० ॥

देव्यां गतायां भर्तारस्तासां कालेन केनचित् ।
ते ककुब्भ्यः समाजग्मुः सर्वे प्राप्तमहावराः ॥ ४१ ॥

अद्यायमपि संयातु भार्याया निकटं पतिः ।
भ्रातृणां बान्धवानां च भवत्वन्योन्यसंगमः ॥ ४२ ॥

इदमन्यदथैतेषामसमंजसमाकुलम् ।
श‍ृणु किंवृत्तमाश्चर्यमार्यकार्योपरोधकम् ॥ ४३ ॥

तप्यतां तप एतेषां पितरौ तौ वधू युतौ ।
तीर्थमुन्याश्रमश्रेणीं द्रष्टुं दुःखान्वितौ गतौ ॥ ४४ ॥

शरीरनैरपेक्ष्येण पुत्राणां हितकाम्यया ।
गन्तुं कलापग्रामं तं यत्नवन्तौ बभूवतुः ॥ ४५ ॥

तौ प्रयातौ मुनिग्राम मार्गे ददृशतुः सितम् ।
पुरुषं कपिलं ह्रस्वं भस्माङ्गं चोर्ध्वमूर्धजम् ॥ ४६ ॥

धूलीलवमनादृत्य तं जरत्पान्थशंकया ।
यदा तौ जग्मतुस्तेन स उवाचान्वितः क्रुधा ॥ ४७ ॥

सवधूक महामूर्ख तीर्थार्थी दारसंयुतः ।
मां दुर्वाससमुल्लंघ्य गच्छस्यविहितानतिः ॥ ४८ ॥

वधूनां ते सुतानां च गच्छतस्तपसार्जिताः ।
विपरीता भविष्यन्ति लब्धा अपि महावराः ॥ ४९ ॥

इत्युक्तवन्तं तं यावत्सदारोऽथ वधूयुतः ।
सन्मानं कुरुते तावन्मुनिरन्तर्धिमाययौ ॥ ५० ॥

अथ तौ पितरौ तेषां सवधूकौ सुदुःखितौ ।
कृशीभूतौ दीनमुखौ निराशौ गृहमागतौ ॥ ५१ ॥

अतो वदाम्यहं तेषां नैकं नामासमंजसम् ।
असमंजसलक्षाणि गण्डे स्फोटाः स्फुटा इव ॥ ५२ ॥

चिद्व्योमसंकल्पमहापुएरेस्मि-
न्नित्थं विचित्राण्यसमंजसानि ।
निःशून्यरूपेऽपि हि संभवन्ति
दृश्ये यथा व्योमनि दृश्यजृम्भाः ॥ ५३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु
तापसोपाख्यानान्तर्गतसप्तद्वीपेश्वरो सप्तद्वीपेश्वर
नाम व्यशीत्यधिकशततमः सर्गः ॥ १८२ ॥ -१०-

॥ अथ एकादशोऽध्यायः ॥

॥द्वीपसप्तकाष्टकवर्णनम् ॥

कुन्ददन्त उवाच ।
ततः पृष्टो मया तत्र स गौर्याश्रमतापसः ।
तापसंशुष्कदर्भाग्रजराजर्जरमूर्धजः ॥ १ ॥

एकैव सप्तद्वीपास्ति वसुधा यत्र तत्र ते ।
सप्तद्वीपेश्वरा अष्टौ भवन्ति कथमुत्तमाः ॥ २ ॥

यस्य जीवस्य सदनान्नास्ति निर्गमनं बहिः ।
स करोति कथं सप्तद्वीपेशत्वेन दिग्जयम् ॥ ३ ॥

यैर्वरा वरदैर्दत्ताः शापैस्ते तद्विरुद्धताम् ।
कथं गच्छन्ति गच्छन्ति कथं छाया हि तापताम् ॥ ४ ॥

मिथोऽशक्यां कथं धर्मौ स्थितिमेकत्र गच्छतः ।
आधार एवाधेयत्वं करोति कथमात्मनि ॥ ५ ॥

गौर्याश्रमतापस उवाच ।
सम्पश्यसि किमेतेषां भो साधो श‍ृण्वनन्तरम् ।
अष्टमेऽस्मिन्सुसम्प्राप्ते तं प्रदेशं सबान्धवम् ॥ ६ ॥

इतो भवन्तौ तं देशमासाद्य सुखसंस्थितौ ।
स्वबन्धुसुखसंस्थानौ कंचित्कालं भविष्यतः ॥ ७ ॥

ततस्तेऽष्टौ मरिष्यन्ति भ्रातरः क्रमशो गृहे ।
बान्धवोऽथ करिष्यन्ति तेषां देहांस्तदग्निसात् ॥ ८ ॥

तेषां ते संविदाकाशः पृथक्पृथगवस्थिताः ।
मुहूर्तमात्रं स्थास्यन्ति सुषुप्तस्था जडा इव ॥ ९ ॥

एतस्मिन्नन्तरे तेषां तानि कर्माणि धर्मतः ।
एकत्र संघटिष्यन्ति वरशापात्मकानि खे ॥ १० ॥

कर्माणि तान्यधिष्ठातृदेवरूपाणि पेटकम् ।
वरशापशरीराणि करिष्यन्ति पृथक् पृथक् ॥ ११ ॥

वरास्तेऽत्र गमिष्यन्ति सुभगाः पद्मपाणयः ।
ब्रह्मदण्डायुधाश्चन्द्रधवलाङ्गाश्चतुर्भुजाः ॥ १२ ॥

शापास्तत्र भविष्यन्ति त्रिनेत्राः शूलपाणयः ।
भीषणाः कृष्णमेघाभा द्विभुजा भ्रुकुटीमुखाः ॥ १३ ॥

वरा वदिष्यन्ति
सुदूरं गम्यतां शापाः कालोऽस्माकमुपागतः ।
ऋतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥ १४ ॥

शापा वदिष्यन्ति
गम्यतां हे वरा दूरं कालोऽस्माकमुपागतः ।
ऋतूनामिव तन्नाम कः समर्थोऽतिवर्तितुम् ॥ १५ ॥

वरा वदिष्यन्ति
कृता भवन्तो मुनिना वयं दिनकृता कृताः ।
मुनीनां चाधिको देवो भगवन्तं पुरा यतः ॥ १६ ॥

प्रवदत्सु वरेष्वेवं शापाः क्रुद्धधियो वरान् ।
विवस्वता कृता यूयं वयं रुद्रांशतः कृताः ॥ १७ ॥

देवानामधिको रुद्रो रुद्रांशप्रभवो मुनिः ।
इत्युक्त्वा प्रोद्यता तेषां चक्रुःश्रुङ्गाण्यगा इव ॥ १८ ॥

अशापेषूद्यतश‍ृङ्गेषु वरा इदमरातिषु ।
विहसन्तः प्रवक्ष्यन्ति प्रमेयीकृतनिश्चयम् ॥ १९ ॥

हे शापाः पापतां त्यक्त्वा कार्यस्यान्तो विचार्यताम् ।
यत्कार्यं कलहस्यान्ते तदेवादौ विचार्यताम् ॥ २० ॥

पितामहपुरीं गत्वा कलहान्ते विनिर्णयः ।
कर्तव्योऽस्माभिरेततत्किमादौ नेह विधीयते ॥ २१ ॥

शापैर्वरोक्तमाकर्ण्य बाढमित्युररीकृतम् ।
को न गृह्णाति मूढोऽपि वाक्यं युक्तिसमन्वितम् ॥ २२ ॥

ततः शापा वरैः सार्धं यास्यन्ति ब्रह्मणः पुरम् ।
महानुभावा हि गतिः सदा संदेहनशने ॥ २३ ॥

प्रणामपूर्वं तत्सर्वं यथावृत्तं परस्परम् ।
ब्रह्मणे कथयिष्यन्ति श्रुत्वा तेषां स वक्ष्यति ॥ २४ ॥

ब्रह्मोवाच ।
वरशापाधिपा भोभो येऽन्तः सारा जयन्ति ते ।
केऽन्तःसारा इति मिथो नूनमन्विष्यतां स्वयम् ॥ २५ ॥

इति श्रुत्वा प्रविष्टास्ते सारतां समवेक्षितुम् ।
वराणां हृदयं शापाः शापानां हृदयं वराः ॥ २६ ॥

ते परस्परमन्विष्य स्वयं हृदयसारताम् ।
ज्ञात्वा च समवायेन प्रवक्ष्यन्ति पितामहम् ॥ २७ ॥

शापा वक्ष्यन्ति
जिताः प्रजानाथ वयं नान्तःसारा वयं यतः ।
अन्तःसारा वरा एव वज्रस्तम्भा इवाचलाः ॥ २८ ॥

वयं किलेमे भगवन्वराः शापाश्च सर्वदा ।
ननु संविन्मया एव देहोऽन्योऽस्माकमस्ति नो ॥ २९ ॥

वरदस्य हि या संविद्वरो दत्त इति स्थिता ।
सैवार्थिनि मया लब्धो वरोऽयमिति तिष्ठति ॥ ३० ॥

विज्ञप्तिमात्रवचनं देहं सैव फलं ततः ।
पश्यत्यनुभवत्यत्ति देशकालशतभ्रमैः ॥ ३१ ॥

वरदात्मा गृहीतत्वाच्चित्कालान्तरसंभृता ।
यदा तदान्तःसारासौ दुर्जया न तु शापजा ॥ ३२ ॥

वरप्रदानं वरदैर्वरदानां वरार्थिभिः ।
यदा सुचिरमभ्यस्तं वराणां सारता तदा ॥ ३३ ॥

यदेव सुचिरं संविदभ्यस्यति तदेव सा ।
सारमेवाशु भवति भवत्याशु च तन्मयी ॥ ३४ ॥

शुद्धानामतिशुद्धैव संविज्जयति संविदाम् ।
अशुद्धानां त्वशुद्धैव कालात्साम्यं न विद्यते ॥ ३५ ॥

क्षणांशेनापि यो ज्येष्ठो न्यायस्तेनावपूर्यते ।
नार्थे न्यायान्तरं किंचित्कर्तुमुत्सहते मदम् ॥ ३६ ॥

समेनोभयकोटिस्थं मिश्रं वस्तु भवेत्समम् ।
वरशापविलासेन क्षीरमिश्रं यथा पयः ॥ ३७ ॥

समाभ्यां वरशापाभ्यामथवा चिद्द्विरूपताम् ।
स्वयमेवानुभवति स्वप्नेष्विव पुरात्मिका ॥ ३८ ॥

शिक्षितं त्वत्त एवेति यत्तदेव तव प्रभो ।
पुनः प्रतीपं पठितं शीघ्रं यामो नमोऽस्तु ते ॥ ३९ ॥

इत्युक्त्वा स स्वयंशापः क्वापि शापगणो ययौ ।
प्रशान्ते तिमिरे दृष्टे व्योम्नि केशोण्ड्रकं यथा ॥ ४० ॥

अथान्यो वरपूगोऽत्र गृहनिर्गमरोधकः ।
स्थानिस्थानमिवादेशः समानार्थोऽभ्यपूरयत् ॥ ४१ ॥

शापस्थानका वदिष्यन्ति
सप्तद्वीपेशजीवानां निर्याणं शवसद्मनः ।
देवेश विद्मो न वयमन्धकूपादिवाम्भसाम् ॥ ४२ ॥

सप्तद्वीपेश्वरानेतानिमे द्वीपेषु सद्मसु ।
कारयन्ति वरा वर्या वीरा दिग्विजयं रणे ॥ ४३ ॥

तदेवमनिवार्येऽस्मिन्विरोधे विबुधेश्वर ।
यदनुष्ठेयमस्माभिस्तदादिश शिवाय नः ॥ ४४ ॥

ब्रह्मोवाच ।
सप्तद्वीपेश्वरवरा गृहरोधवराश्च हे ।
कामः सम्पन्न एवेह भवतां भवतामपि ॥ ४५ ॥

व्रजतैतदपेक्षत्वं यावन्नेष्टावपि क्षणात् ।
चिरं चिराय सदने सप्तद्वीपेश्वराः स्थिताः ॥ ४६ ॥

समनन्तरमेवैते देहपातात्स्वसद्मसु ।
सप्तद्वीपेश्वराः सर्वे सम्पन्नाः परमं वराः ॥ ४७ ॥

सर्वे वरा वदिष्यन्ति
कुतो भूमण्डलान्यष्टौ सप्तद्वीपानि भूतयः ।
एकमेवेह भूपीठं श्रुतं दृष्टं च नेतरत् ॥ ४८ ॥

कथं चैतानि तिष्ठन्ति कस्मिंश्चिद्गृहकोशके ।
पद्माक्षकोशके सूक्ष्मे कथं भान्ति मतंगजाः ॥ ४९ ॥

ब्रह्मोवाच ।
युक्तं युष्माभिरस्माभिः सर्वं व्योमात्मकं जगत् ।
स्थितं चित्परमाण्वन्तरन्तःस्वप्नोऽनुभूयते ॥ ५० ॥

भाति यत्परमस्याणोरन्तस्थस्वगृहोदरे ।
स्फुरितं तत्किमाश्चर्यं कः स्मयः प्रकृतेः क्रमे ॥ ५१ ॥

मृतेरनन्तरं भाति यथास्थितमिदं जगत् ।
शून्यात्मैव घनाकारं तस्मिन्नैव क्षणे चितः ॥ ५२ ॥

अणावपि जगन्माति यत्र तत्र गृहोदरे ।
सप्तद्वीपा वसुमती कचतीति किमद्भुतम् ॥ ५३ ॥

यद्भातीदं च चित्तत्वं जगत्वं जगत्क्वचित् ।
चिन्मात्रमेव तद्भाति शून्यत्वेन यथाम्बरम् ॥ ५४ ॥

इति ते ब्रह्मणा प्रोक्ता वरदेन वरास्ततः ।
तानाधिभौतिकभ्रान्तिमयान्संत्यज्य देहकान् ॥ ५५ ॥

प्रणम्याजं समं जग्मुरातिवाहिकदेहिनः ।
सप्तद्वीपे च देवानां गृहकोशान्कचज्जनान् ॥ ५६ ॥

यावत्ते तत्र सम्पन्ना सप्तद्वीपाधिनायकाः ।
अष्टावपीष्टापुष्टानां दिनाष्टकमहीभुजाम् ॥ ५७ ॥।

ते परस्परमज्ञाता अज्ञाश्चान्योन्यबन्धवः ।
अन्योन्यभूमण्डलगा अन्योन्याभिमते हिताः ॥ ५८ ॥

तेषां कश्चिद्गृहस्यान्तरेव तारुण्यसुन्दरः ।
उज्जयिन्यां महापुर्यां राजधान्यां सुखे स्थितः ॥ ५९ ॥

शाकद्वीपास्पदः कश्चिन्नागलोकजिगीषया ।
विचरत्यब्धिजठरे सर्वदिग्विजयोद्यतः ॥ ६० ॥

कुशद्वीपराजधान्यां निराधिः सकलप्रजाः ।
कृतदिग्विजयः कश्चित्सुप्तः कान्तावलम्बितः ॥ ६१ ॥

शाल्मलिद्वीपशैलेन्द्रशिरःपुर्याः सरोवरे ।
जललीलारतः कश्चित्सहविद्याधरीगणैः ॥ ६२ ॥

क्रौञ्चद्वीपे हेमपुरे सप्तद्वीपविवर्धिते ।
प्रवृत्तो वाजिमेधेन कश्चिद्यष्टुं दिनाष्टकम् ॥ ६३ ॥

उद्यतः शाल्मलिद्वीपे कश्चिद्द्वीपान्तचारिणा ।
योद्धुमुद्धृतदिग्दन्तिदन्ताकृष्टकुलाचलः ॥ ६४ ॥

गोमेदद्वीपकः कश्चित्पुष्करद्वीपराट् सुताम् ।
समानेतुं वशाद्याति कषत्सेनोऽष्टमोऽभवत् ॥ ६५ ॥

पुष्करद्वीपकः कश्चिल्लोकालोकाद्रिभूभुजः ।
दूतेन सह निर्यातो धनभूमिदिदृक्षया ॥ ६६ ॥

प्रत्येकमित्थमेतेषां द्वीपद्वीपाधिनाथताम् ।
कुर्वतां स्वगृहाकाशे दृष्ट्वा स्वप्रतिभोचिताम् ॥ ६७ ॥

त्यक्ताभिमानिकाकारा द्विविधास्ते वरास्ततः ।
तत्संविद्भिर्गृहेष्वन्तरेकतां खानि खैरिव ॥ ६८ ॥

यास्यन्ति ते भविष्यन्ति सम्प्राप्ताभिमताश्चिरम् ।
सप्तद्वीपेश्वरास्तुष्टा नन्वष्टावपि तुष्टिमत् ॥ ६९ ॥

इत्येते प्रविकसितोदितक्रियार्थाः
प्राप्स्यन्ति प्रविततबुद्धयस्तपोभिः ।
अन्तर्यत्स्फुरति विदस्तदेव बाह्ये
नाप्तं कैस्तदुचितकर्मभिः किलेति ॥ ७० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु
तापसोपाख्यानान्तर्गत द्वीपसप्तकाष्टकवर्णनं
नाम त्रिसप्तत्यधिकशततमः सर्गः ॥ १८३ ॥ -११-

॥ अथ द्वादशोऽध्यायः ॥

॥ कुन्ददन्तोपदेशः ॥

कुन्ददन्त उवाच ।
इत्युक्तवानसौ पृष्टः कदम्बतलतापसः ।
सप्तद्वीपा भुवोऽष्टौ ताः कथं भ्राता गृहेष्विति ॥ १ ॥

कदम्बतापस उवाच ।
चिद्धातुरीदृगेवायं यदेश व्योमरूप्यपि ।
सर्वगो यत्र यत्रास्ते तत्र तत्रात्मनि स्वयम् ॥ २ ॥

आत्मानमित्थं त्रैलोक्यरूपेणान्येन वा निजम् ।
परिपश्यति रूपं स्वमत्यजन्नेव खात्मकम् ॥ ३ ॥

कुन्ददन्त उवाच ।
एकस्मिन्विमले शान्ते शिवे परमकारणे ।
कथं स्वभावसंसिद्धा नानाता वास्तवी स्थिता ॥ ४ ॥

कदम्बतापस उवाच ।
सर्वं शान्तं चिदाकाशं नानास्तीह न किंचन ।
दृश्यमानमपि स्फारमावर्तात्मा यथाम्भसि ॥ ५ ॥

See Also  Uddhava Gita In Odia

असत्स्वेषु पदार्थेषु पदार्था इति भान्ति यत् ।
चित्खं स्वप्नसुषुप्तात्म तत्तस्याच्छं निजं वपुः ॥ ६ ॥

सस्पन्दोऽपि हि निःस्पन्दः पर्वतोऽपि न पर्वतः ।
यथा स्वप्नेषु चिद्भावःस्वभोऽर्थगतस्तथा ॥ ७ ॥

न स्वभावा न चैवार्थाः सन्ति सर्वात्मकोचिते ।
सर्गादौ कचितं रूपं यद्यथा तत्तथा स्थितम् ॥ ८ ॥

न च नाम परं रूपं कचनाकचनात्मकम् ।
द्रव्यात्मा चिच्च चिद्व्योम स्थितमित्थं हि केवलम् ॥ ९ ॥

एकैव चिद्यथा स्वप्ने सेनायां जनलक्षताम् ।
गतेवाच्छैव कचति तथैवास्याः पदार्थता ॥ १० ॥

यत्स्वतः स्वात्मनि स्वच्छे चित्खं कचकचायते ।
तत्तेनैव तदाकारं जगदित्यनुभूयते ॥ ११ ॥

असत्यपि यथा वह्नावुष्णसंविद्धि भासते ।
संविन्मात्रात्मके व्योम्नि तथार्थः स्वस्वभासकः ॥ १२ ॥

असत्यपि यथा स्तम्भे स्वप्ने खे स्तम्भता विदः ।
तथेदमस्या नानात्वमनन्यदपि चान्यवत् ॥ १३ ॥

आदिसर्गे पदार्थत्वं तत्स्वभावाच्छमेव च ।
चिद्व्योम्ना यद्यथा बुद्धं तत्तथाद्यापि विन्दते ॥ १४ ॥

पुष्पे पत्रे फले स्तम्भे तरुरेव यथा ततः ।
सर्व सर्वत्र सर्वात्म परमेव तथाऽपरम् ॥ १५ ॥

परमार्थाम्बराम्भोधावापः सर्ग परंपरा ।
परमार्थ महाकाशे शून्यता सर्गसंविदः ॥ १६ ॥

परमार्थश्च सर्गश्च पर्यायौ तरुवृक्षवत् ।
बोधादेतदबोधात्तु द्वैतं दुःखाय केवलम् ॥ १७ ॥

परमार्थो जगच्चेदकमित्येव निश्चयः ।
अध्यात्मशास्त्रबोधेन भवेत्सैषा हि मुक्तता ॥ १८ ॥

संकल्पस्य वपुर्ब्रह्म संकल्पकचिदाकृतेः ।
तदेव जगतो रूपं तस्माद्ब्रह्मात्मकं जगत् ॥ १९ ॥

यतो वाचो निवर्तन्ते न निवर्तन्त एव वा ।
विधयः प्रतिषेधाश्च भावाभावदृशस्तथा ॥ २० ॥

अमौनमौनं जीवात्म यत्पाषाणवदासनम् ।
यत्सदेवासदाभासां तद्ब्रह्माभिधमुच्यते ॥ २१ ॥

सर्वस्मिन्नेकसुघने ब्रह्मण्येव निरामये ।
का प्रवृत्तिर्निवृत्तिः का भावाभावादिवस्तुनः ॥ २२ ॥

एकस्यामेव निद्रायां सुषुप्तस्वप्नविभ्रमाः ।
यदा भान्त्यविचित्रायां चित्रा इव निरन्तराः ॥ २३ ॥

एतस्यां चित्खसत्तायां तथा मूलकसर्गकाः ।
बहवो भान्त्यचित्रायां चित्रा इव निरन्तराः ॥ २४ ॥

द्रव्ये द्रव्यान्तरश्लिष्टं यत्कार्यान्तरमाक्षिपेत् ।
तद्वदन्तस्तथाभूतचित्सारं स्फुरणं मिथः ॥ २५ ॥

सर्वे पदार्थाश्चित्सारमात्रमप्रतिघाः सदा ।
यथा भान्ति तथा भान्ति चिन्मात्रैकात्मतावशात् ॥ २६ ।
चिन्मात्रैकात्मसारत्वाद्यथासंवेदनं स्थिताः ।
निःस्पन्दा निर्मनस्काराः स्फुरन्ति द्रव्यशक्तयः ॥ २७ ॥

अविद्यमानमेवेदं दृश्यतेऽथानुभूयते ।
जगत्स्वप्न इवाशेषं सरुद्रोपेन्द्रपद्मजम् ॥ २८ ॥

विचित्राः खलु दृश्यन्ते चिज्जले स्पन्दरीतयः ।
हर्षामर्षविषादोत्थजङ्गमस्थावरात्मनि ॥ २९ ॥

स्वभाववाताधूतस्य जगज्जालचमत्कृतेः ।
हा चिन्मरीचिपांश्वभ्रनीहारस्य विसारिता ॥ ३० ॥

यथा केशोण्ड्रकं व्योम्नि भाति व्यामलचक्षुषः ।
तथैवेयं जगद्भान्तिर्भात्यनात्मविदोऽम्बरे ॥ ३१ ॥

यावत्संकल्पितं तावद्यथा संकल्पितं तथा ।
यथा संकल्पनगरं कचतीदं जगत्तथा ॥ ३२ ॥

संकल्पनगरे यावत्संकल्पसकला स्थितिः ।
भवत्येवाप्यसद्रूपा सतीवानुभवे स्थिता ॥ ३३ ॥

प्रवहत्येव नियतिर्नियतार्थप्रदायिनी ।
स्थावरं जङ्गमं चैव तिष्ठत्येव यथाक्रमम् ॥ ३४ ॥

जायते जङ्गमं जीवात्स्थावरं स्थावरादपि ।
नियत्याधो वहत्यम्बु गच्छत्यूर्ध्वमथानलः ॥ ३५ ॥

वहन्ति देहयन्त्राणि ज्योतींषि प्रतपन्ति च ।
वायवो नित्यगतयः स्थिताः शैलादयः स्थिराः ॥ ३६ ॥

ज्योतिर्मयं निवृत्तं तु धारासाराम्बरीकृतम् ।
युगसंवत्सराद्यात्म कालचक्रं प्रवर्तते ॥ ३७ ॥

भूतलैकान्तराब्ध्यद्रिसंनिवेशः स्थितायते ।
भावाभावोग्रहोत्सर्गद्रव्यशक्तिश्च तिष्ठति ॥ ३८ ॥

कुन्ददन्त उवाच ।
प्राग्दृष्टं स्मृतिमायाति तत्स्वसंकल्पनान्यतः ।
भाति प्रथमसर्गे तु कस्य प्राग्दृष्टभासनम् ॥ ३९ ॥

तापस उवाच ।
अपूर्वं दृश्यते सर्वं स्वप्ने स्वमरणं यथा ।
प्राग्दृष्टं दृष्टमित्येव तत्रैवाभ्यासतः स्मृतिः ॥ ४० ॥

चित्त्वाच्चिद्व्योम्नि कचति जगत्संकल्पपत्तनम् ।
न सन्नासदिदं तस्माद्भाताभातं यतः स्वतः ॥ ४१ ॥

चित्प्रसादेन संकल्पस्वप्नाद्यद्यानुभूयते ।
शुद्धं चिद्व्योम संकल्पपुरं मा स्मर्यतां कथम् ॥ ४२ ॥

हर्षामर्षविनिर्मुक्तैर्दुःखेन च सुखेन च ।
प्रकृतेनैव मार्गेण ज्ञश्चक्रैरिव गम्यते ॥ ४३ ॥

निद्राव्यपगमे स्वप्ननगरे यादृशं स्मृतौ ।
चिद्व्योमात्म परं विद्धि तादृशं त्रिजगद्भ्रमम् ॥ ४४ ॥

संविदाभासमात्रं यज्जगदित्यभिशब्दितम् ।
तत्संविद्व्योम संशान्तं केवलं विद्धि नेतरत् ॥ ४५ ॥

यस्मिन्सर्वं यतः सर्वं यत्सर्वं सर्वतश्च यत् ।
सर्वं सर्वतया सर्वं तत्सर्वं सर्वदा स्थितम् ॥ ४६ ॥

यथेयं संसृतिर्ब्राह्मी भवतो यद्भविष्यति ।
यथा भानं च दृश्यस्य तदेतत्कथितं मया ॥ ४७ ॥

उत्तिष्ठतं व्रजतमास्पदमह्नि पद्मं
भृङ्गाविवाभिमतमाशु विधीयतां स्वम् ।
तिष्ठामि दुःखमलमस्तसमाधिसंस्थं
भूयः समाधिमहमङ्ग चिरं विशामि ॥ ४८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु
तापसोपाख्यानान्तर्गत कुन्ददन्तोपदेशो नाम
चतुःशीत्यधिकशततमः सर्गः ॥ १८४ ॥ -१२-

॥ अथ त्रयोदशोऽध्यायः ॥

॥ कुन्ददन्तप्रबोधः ॥

कुन्ददन्त उवाच ।
जरन्मुनिरपीत्युक्त्वा ध्यानमीलितलोचनः ।
आसीदस्पन्दितप्राणमनाश्चित्र इवार्पितः ॥ १ ॥

आवाभ्यां प्रणयोदारैः प्रार्थितोऽपि पुनःपुनः ।
वाक्यैः संसारमविदन्न वचो दत्तवान्पुनः ॥ २ ॥

आवां प्रदेशतस्तस्माच्चलित्वा मन्दमुत्सुकौ ।
दिनैः कतिपयैः प्राप्तौ गृहं मुदितबान्धवम् ॥ ३ ॥

अथ तत्रोत्सवं कृत्वा कथाः प्रोच्य चिरंतनीः ।
स्थितास्तावद्वयं यावत्सप्तापि भ्रातरोऽथ ते ॥ ४ ॥

क्रमेण विलयं प्राप्ताः प्रलयेष्वर्णवा इव ।
मुक्तोऽसौ मे सखैवैक एकार्णव इवाष्टकः ॥ ५ ॥

ततः कालेन सोऽप्यस्तं दिनान्तेऽर्क इवागतः ।
अहं दुःखप्रीतात्मा परं वैधुर्यमागतः ॥ ६ ॥

ततोऽहं दुःखितो भूयः कदम्बतरुतापसम् ।
गतो दुःखोपघाताय तज्ज्ञानं प्रष्टुमादृतः ॥ ७ ॥

तत्र मासत्रयेणासौ समाधिविरतोऽभवत् ।
प्रणतेन मया पृष्टः सन्निदं प्रोक्तवानथ ॥ ८ ॥

कदम्बतापस उवाच ।
अहं समाधिविरतः स्थातुं शक्नोमि न क्षणम् ।
समाधिमेव प्रविश्याम्यहमाशु कृतत्वरः ॥ ९ ॥

परमार्थोपदेशस्ते नाभ्यासेन विनानघ ।
लगत्यत्र परां युक्तिमिमां श‍ृणु ततः कुरु ॥ १० ॥

अयोध्यानाम पूरस्ति तत्रास्ति वसुधाधिपः ।
नाम्ना दशरथस्तस्य पुत्रो राम इति श्रुतः ॥ ११ ॥

सकाशं तत्र गच्छ त्वं तस्मै कुलगुरुः किल ।
वसिष्ठाख्यो मुनिश्रेष्ठः कथयिष्यति संसदि ॥ १२ ॥

मोक्षोपायकथां दिव्यां तां श्रुत्वा सुचिरं द्विज ।
विश्रान्तिमेष्यसि परे पदेऽहमिव पावने ॥ १३ ॥

इत्युक्त्वा स समाधानरसायनमहार्णवम् ।
विंवशाहमिमं देशं त्वत्सकाशमुपागतः ॥ १४ ॥

एषोऽहमेतद्वृत्तं मे सर्वं कथितवानहम् ।
यथावृत्तं यथादृष्टं यथाश्रुतमखण्डितम् ॥ १५ ॥

श्रीराम उवाच ।
सकुन्ददन्त इत्यादिकथाकथनकोविदः ।
स्थितस्ततः प्रभृत्येव मत्समीपगतः सदा ॥ १६ ॥

स एष कुन्ददन्ताख्यो द्विजः पार्श्वे समास्थितः ।
श्रुतवान्संहितामेतां मोक्षोपायाभिधामिह ॥ १७ ॥

स एष कुन्ददन्ताख्यो मम पार्श्वगतो द्विजः ।
अद्य निःसंशयो जातो न वेति परिपृच्छ्यताम् ॥ १८ ॥

श्रीवाल्मीकिरुवाच ।
इत्युक्ते राघवेणाथ प्रोवाच वदतांवरः ।
स वसिष्ठो मुनिश्रेष्ठः कुन्ददन्तं विलोकयन् ॥ १९ ॥

श्रीवसिष्ठ उवाच ।
कुन्ददन्त द्विजवर कथ्यतां किं त्वयानघ ।
बुद्धं श्रुतवता ज्ञेयं मदुक्तं मोक्षदं परम् ॥ २० ॥

कुन्ददन्त उवाच ।
सर्वसंशयविच्छेदि चेत एव जयाय मे ।
सर्वसंशयविच्छेदो ज्ञातं ज्ञेयमखण्डितम् ॥ २१ ॥

ज्ञातं ज्ञातव्यममलं दृष्टं द्रष्टव्यमक्षतम् ।
प्राप्तं प्राप्तव्यमखिलं विश्रान्तोऽस्मि परे पदे ॥ २२ ॥

बुद्धेयं त्वदिदं सर्वं परमार्थघनं घनम् ।
अनन्येनात्मनो व्योम्नि जगद्रूपेण जृम्भितम् ॥ २३ ॥

सर्वात्मकतया सर्वरूपिणः सर्वगात्मनः ।
सर्वं सर्वेण सर्वत्र सर्वदा संभवत्यलम् ॥ २४ ॥

संभवन्ति जगत्यन्तः सिद्धार्थकणकोटरे ।
न संभवन्ति च यथा ज्ञानमेतदशेषतः ॥ २५ ॥

गृहेऽन्तः संभवत्येव सप्तद्वीपा वसुंधरा ।
गेहं च शून्यमेवास्ते सत्यमेतदसंशयम् ॥ २६ ॥

यद्यद्यदा वस्तु यथोदितात्म
भातीह भूतैरनुभूयते च ।
तत्तत्तदा सर्वघनस्तथास्ते
ब्रह्मेत्थमाद्यन्तविमुक्तमस्ति ॥ २७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु
तापसोपाख्यानान्तर्गत कुन्ददन्तप्रबोधो सप्तद्वीपेश्वर
नाम पञ्चाशीत्यधिकशततमः सर्गः ॥ १८५ ॥ -१३-

॥ अथ चतुर्दशोऽध्यायः ॥

॥ सर्वं खल्विदं ब्रह्मेतिप्रतिपादनयोगोपदेशः ॥

श्रीवाल्मीकिरुवाच ।
कुन्ददन्ते वदत्येवं वसिष्ठो भगवान्मुनिः ।
उवाचेदमनिन्द्यात्मा परमार्थोचितं वचः ॥ १ ॥

श्रीवसिष्ठ उवाच ।
बत विज्ञानविश्रान्तिरस्य जाता महात्मनः ।
करामलकवद्विश्वं ब्रह्मेति परिपश्यति ॥ २ ॥

किलेदं भ्रान्तिमात्रात्म विश्वं ब्रह्मेति भात्यजम् ।
भ्रान्तिर्ब्रह्मैव च ब्रह्म शान्तमेकमनामयम् ॥ ३ ॥

यद्यथा येन यत्रास्ति यादृग्यावद्यदा यतः ।
तत्तथा तेन तत्रास्ति तादृक्तावत्तदा ततः ॥ ४ ॥

शिवं शान्तमजं मौनममौनमजरं ततम् ।
सुशून्याशून्यमभवमनादिनिधनं ध्रुवम् ॥ ५ ॥

यस्या यस्यास्त्ववस्थायाः क्रियते संविदा भरः ।
सा सा सहस्रशाखत्वमेति सेकैर्यथा लता ॥ ६ ॥

परो ब्रह्माण्डमेवाणुश्चिद्व्योम्नोन्तः स्थितो यतः ।
परमाणुरेव ब्रह्माण्डमन्तः स्थितजगद्यतः ॥ ७ ॥

तस्माच्चिदाकाशमनादिमध्य-
मखण्डितं सौम्यमिदं समस्तम् ।
निर्वाणमस्तं गतजातिबन्धो
यथास्थितं तिष्ठ निरामयात्मा ॥ ८ ॥

स्वयं दृश्यं स्वयं द्रष्टृ स्वयं चित्त्वं स्वयं जडम् ।
स्वयं किंचिन्न किंचिच्च ब्रह्मात्मन्येव संस्थितम् ॥ ९ ॥

यथा यत्र जगत्येतत्स्वयं ब्रह्म खमात्मनि ।
स्वरूपमजहच्छान्तं यत्र सम्पद्यते तथा ॥ १० ॥

ब्रह्म दृश्यमिति द्वैतं न कदाचिद्यथास्थितम् ।
एकत्वमेतयोर्विद्धि शून्यत्वाकाशयोरिव ॥ ११ ॥

दृश्यमेव परं ब्रह्म परं ब्रह्मैव दृश्यता ।
एतन्न शान्तं नाऽशान्तं नानाकारं न चाकृतिः ॥ १२ ॥

यादृक्प्रबोधे स्वप्नादिस्तादृग्देहो निराकृतिः ।
संविन्मात्रात्मा प्रतिघः स्वानुभूतोऽप्यसन्म्यः ॥ १३ ॥

संविन्मयो यथा जन्तुर्निद्रात्मास्ते जडोऽभवत् ।
जडीभूता तथैवास्ते संवित्स्थावरनामिका ॥ १४ ॥

स्थावरत्वाज्जडाच्चित्त्वं जंगमात्म प्रयाति चित् ।
जीवः सुषुप्तात्मा स्वप्नं जाग्रच्चैव जगच्छतैः ॥ १५ ॥

आमोक्षमेषा जीवस्य भुव्यम्भस्यनिलेऽनले ।
खे खात्मभिर्जगल्लक्षैः स्वप्नाभैर्भासते स्थितिः ॥ १६ ॥

चिच्चिनोति तथा जाड्यं नरो निद्रास्थितिर्यथा ।
चिनोति जडतां चित्त्वं न नाम जडतावशात् ॥ १७ ॥

चिता वेदन वेत्तारं स्थावरं क्रियते वपुः ।
चिता वेदन वेत्तारं जङ्गमं क्रियते वपुः ॥ १८ ॥

यथा पुंसो नखाः पादवेकमेव शरीरकम् ।
तथैकमेवाप्रतिघं चितः स्थावरजङ्गमम् ॥ १९ ॥

आदिसर्गे स्वप्न इव यत्प्रथामागतं स्थितम् ।
चितो रूपं जगदिति तत्तथैवान्त उच्यते ॥ २० ॥

तच्चैवाप्रतिघं शान्तं यथास्थितमवस्थितम् ।
न प्रथामागतं किंचिन्नासीदप्रथितं हितम् ॥ २१ ॥

अयमादिरयं चान्तः सर्गस्येत्यवभासते ।
चितः सुघननिद्रायाः सुषुप्तस्वप्नकोष्ठतः ॥ २२ ॥

स्थित एको ह्यनाद्यन्तः परमार्थघनो यतः ।
प्रलयस्थितिसर्गाणां न नामाप्यस्ति मां प्रति ॥ २३ ॥

प्रलयस्थितिसर्गादि दृश्यमानं न विद्यते ।
एतन्न चात्मनश्चान्यच्चित्रे चित्रवधूर्यथा ॥ २४ ॥

कर्तव्यचित्रसेनास्माद्यथा चित्रान्न भिद्यते ।
नानाऽनानैव प्रतिघा चित्तत्त्वे सर्गता तथा ॥ २५ ॥

विभागहीनयाप्येष भागश्चिद्धननिद्रया ।
सुषुप्तान्मुच्यते मोक्ष इति स्वप्नस्तु चित्तकम् ॥ २६ ॥

प्रलयोऽयमियं सृष्टिरयं स्वप्नो घनस्त्वयम् ।
भासोऽप्रतिघरूपस्य चित्सहस्ररुचेरिति ॥ २७ ॥

चिन्निद्रायाः स्वप्नमयो भागश्चित्तमुदाहृतम् ।
तदेव मुच्यते भूतं जीवो देवससुरादिदृक् ॥ २८ ॥

एष एव परिज्ञातः सुषुप्तिर्भवति स्वयम् ।
यदा तदा मोक्ष इति प्रोच्यते मोक्षकांक्षिभिः ॥ २९ ॥

श्रीराम उवाच ।
चित्तं देवासुराद्यात्म चिन्निद्रा स्वात्मदर्शनम् ।
कियत्प्रमाणं भगवन्कथमस्योदरे जगत् ॥ ३० ॥

श्रीवसिष्ठ उवाच ।
विद्धि चित्तं नरं देवमसुरं स्थावरं स्त्रियम् ।
नागं नगं पिशाचादि खगकीटादिराक्षसम् ॥ ३१ ॥

प्रमाणं तस्य चानन्तं विद्धि यद्यत्र रेणुताम् ।
आब्रह्मस्तम्बपर्यन्तं जगद्याति सहस्रशः ॥ ३२ ॥

यदेतदादित्यपथादूर्ध्वं संयाति वेदनम् ।
एतच्चितं भूतमेतदपर्यन्तामलाकृति ॥ ३३ ॥

एतदुग्रं चितो रूपमस्यान्तर्भुवनर्द्धयः ।
यदायान्ति तदा सर्गश्चित्तादागत उच्यते ॥ ३४ ॥

चित्तमेव विदुर्जीवं तदाद्यन्तविवर्जितम् ।
खं घटेष्विव देहेषु चास्ते नास्ते तदिच्छया ॥ ३५ ॥

निम्नोन्नतान्भुवो भागान् गृह्णाति च जहाति च ।
सरित्प्रवाहोऽङ्ग यथा शरीराणि तथा मनः ॥ ३६ ॥

अस्य त्वात्मपरिज्ञानादेष देहादिसंभ्रमः ।
शाम्यत्याश्ववबोधेन मरुवाःप्रत्ययो यथा ॥ ३७ ॥

जगत्यन्तरणुर्यत्र तत्प्रमाणं हि चेतसः ।
सदेव च पुमांस्तस्मात्पुंसामन्तः स्थितं जगत् ॥ ३८ ॥

यावत्किंचिदिदं दृश्यं तच्चित्तं स्वप्नभूष्विव ।
तदेव च पुमांस्तस्मात्को भेदो जगदात्मनोः ॥ ३९ ॥

चिदेवायं पदार्थौघो नास्त्यन्यस्मिन्पदार्थता ।
व्यतिरिक्ता स्वप्न इव हेम्नीव कटकादिता ॥ ४० ॥

यथैकदेशे सर्वत्र स्फुरन्त्यापोऽम्बुधौ पृथक् ।
ब्रह्मण्यनन्या नित्यस्थाश्चितो दृश्यात्मिकास्तथा ॥ ४१ ॥

यथा द्रवत्वमम्भोधावापो जठरकोशगाः ।
स्फुरन्त्येवंविदाऽनन्याः पदार्थौघास्तथापरे ॥ ४२ ॥

यथा स्थितजगच्छालभञ्जिकाकाशरूपधृक् ।
चित्स्तम्भोयमपस्पन्दः स्थित आद्यन्तवर्जितः ॥ ४३ ॥

यथास्थितमिदं विश्वं संविद्व्योम्नि व्यवस्थितम् ।
स्वरूपमत्यजच्छान्तं स्वप्नभूमाविवाखिलम् ॥ ४४ ॥

समता सत्यता सत्ता चैकता निर्विकारिता ।
आधाराधेयतान्योन्यं चैतयोर्विश्वसंविदोः ॥ ४५ ॥

स्वप्नसंकल्पसंसारवरशापदृशामिह ।
सरोब्धिसरिदम्बूनामिअवान्यत्वं न वाथवा ॥ ४६ ॥

श्रीराम उवाच ।
वरशापार्थसंवित्तौ कार्यकारणता कथम् ।
उपादानं विना कार्यं नास्त्येव किल कथ्यताम् ॥ ४७ ॥

श्रीवसिष्ठ उवाच ।
स्ववदातचिदाकाशकचनं जगदुच्यते ।
स्फुरणे पयसामब्धावावर्तचलनं यथा ॥ ४८ ॥

ध्वनन्तोऽब्धिजलानीव भान्ति भावाश्चिदात्मकाः ।
संकल्पादीनि नामानि तेषामाहुर्मनीषिणः ॥ ४९ ॥

कालेनाभ्यासयोगेन विचारेण समेन च ।
जातेर्वा सात्त्विकत्वेन सात्त्विकेनामलात्मना ॥ ५० ॥

सम्यग्ज्ञानवतो ज्ञस्य यथा भूतार्थदर्शिनः ।
बुद्धिर्भवति चिन्मात्ररूपा द्वैतैक्यवर्जिता ॥ ५१ ॥

निरावरणविज्ञानमयी चिद्ब्रह्मरूपिणी ।
संवित्प्रकाशमात्रैकदेहादेहविवर्जिता ॥ ५२ ॥

सोऽयं पश्यत्यशेषेण यावत्संकल्पमात्रकम् ।
स्वमात्मकचनं शान्तमनन्यत्परमार्थतः ॥ ५३ ॥

अस्या इदं हि संकल्पमात्रमेवाखिलं जगत् ।
यथासंकल्पनगरं यथा स्वप्नमहापुरम् ॥ ५४ ॥

आत्मा स्वसंकल्पवरः स्ववदातो यथा यथा ।
यद्यथा संकल्पयति तथा भवति तस्य तत् ॥ ५५ ॥

संकल्पनगरे बालः शिलाप्रोड्डयनं यथा ।
सत्यं वेत्त्यनुभूयाशु स्वविधेयनियन्त्रणम् ॥ ५६ ॥

स्वसंकल्पात्मभूतेऽस्मिन्परमात्मा जगत्त्रये ।
वरशापादिकं सत्यं वेत्त्यनन्यत्तथात्मनः ॥ ५७ ॥

स्वसंकल्पपुरे तैलं यथा सिद्ध्यति सैकतात् ।
कल्पनात्सर्गसंकल्पैर्वरादीह तथात्मनः ॥ ५८ ॥

अनिरावरणज्ञप्तेर्यतः शान्ता न भेदधीः ।
ततः संकल्पनाद्वैताद्वराद्यस्य न सिद्ध्यति ॥ ५९ ॥

या यथा कलना रूढा तावत्साद्यापि संस्थिता ।
न परावर्तिता यावद्यत्नात्कल्पनयान्यया ॥ ६० ॥

ब्रह्मण्यवयवोन्मुक्ते द्वितैकत्वे तथा स्थिरे ।
यथा सावयवे तत्त्वे विचित्रावयवक्रमः ॥ ६१ ॥

श्रीराम उवाच ।
अनिरावरणाज्ञानात्केवलं धर्मचारिणः ।
शापादीन्सम्प्रयच्छन्ति यथा ब्रह्मंस्तथा वद ॥ ६२ ॥

वसिष्ठ उवाच ।
संकल्पयति यन्नाम सर्गादौ ब्रह्म ब्रह्मणि ।
तत्तदेवानुभवति यस्मात्तत्तास्ति नेतरत् ॥ ६३ ॥

ब्रह्म वेत्ति यदात्मानं स ब्रह्मायं प्रजापतिः ।
स च नो ब्रह्मणो भिन्नं द्रवत्वमिव वारिणः ॥ ६४ ॥

संकल्पयति यन्नाम प्रथमोऽसौ प्रजापतिः ।
तत्तदेवाशु भवति तस्येदं कल्पनं जगत् ॥ ६५ ॥

निराधारं निरालम्बं व्योमात्म व्योम्नि भासते ।
दुर्दृष्टेरिव केशोण्ड्रं दृष्टमुक्तावलीव च ॥ ६६ ॥

संकल्पिताः प्रजास्तेन धर्मो दानं तपो गुणाः ।
वेदाः शास्त्राणि भूतानि पञ्च ज्ञानोपदेशनाः ॥ ६७ ॥

तपस्विनोऽथ वादैश्च यद्ध्युरविलम्बितम् ।
यद्यद्वेदविदस्तत्स्यादिति तेनाथ कल्पितम् ॥ ६८ ॥

इदं चिद्ब्रह्मच्छिद्रं खं वायुश्चेष्टाग्निरुष्णता ।
द्रवोऽम्भः कठिनं भूमिरिति तेनाथ कल्पिताः ॥ ६९ ॥

चिद्धातुरीदृशो वासौ यद्यत्खात्मापि चेतति ।
तत्तथानुभवत्याशु त्वमहं स इवाखिलम् ॥ ७० ॥

यद्यथा वेत्ति चिद्व्योम तत्तथा तद्भवत्यलम् ।
स्वप्ने त्वमहमादीव सदात्माप्यसदात्मकम् ॥ ७१ ॥

शिलानृतं यथा सत्यं संकल्पनगरे तथा ।
जगत्संकल्पनगरे सत्यं ब्रह्मण ईप्सितम् ॥ ७२ ॥

चित्स्वभावेन शुद्धेन यद्बुद्धं यच्च यादृशम् ।
तदशुद्धोऽन्यथा कर्तुं न शक्तः कीटको यथा ॥ ७३ ॥

अभ्यस्तं बहुलं संवित्पश्यतीतरदल्पकम् ।
स्वप्ने जाग्रत्स्वरूपे च वर्तमानेऽखिलं च सत् ॥ ७४ ॥

सदा चिद्व्योम चिद्व्योम्नि कचदेकमिदं निजम् ।
द्रष्टृदृश्यात्मकं रूपं पश्यदाभाति नेतरत् ॥ ७५ ॥

एकं द्रष्टा च दृश्यं च चिन्नभः सर्वगं यतः ।
तस्माद्यथेष्टं यद्यत्र दृष्टं तत्तत्र सत्सदा ॥ ७६ ॥

वाय्वङ्गगस्पन्दनवज्जलाङ्गद्रवभाववत् ।
यथा ब्रह्मणि ब्रह्मत्वं तथाजस्याङ्गगं जगत् ॥ ७७ ॥

ब्रह्मैवाहं विराडात्मा विराडात्मवपुर्जगत् ।
भेदो न ब्रह्मजगतोः शून्यत्वाम्बरयोरिव ॥ ७८ ॥

यथा प्रपाते पयसो विचित्राः कणपङ्क्तयः ।
विचित्रदेशकालान्ता निपतन्त्युत्पतन्ति च ॥ ७९ ॥

निपत्त्यैवैकयाऽऽकल्पं मनोबुद्ध्यादिवर्जिताः ।
आत्मन्येवात्मनो भान्ति तथा या ब्रह्मसंविदः ॥ ८० ॥

तांभि स्वयं स्वदेहेषु बुद्ध्यादिपरिकल्पनाः ।
कृत्वोररीकृता सर्गश्रीरद्भिर्द्रवता यथा ॥ ८१ ॥

तदेवं जगदित्यस्ति दुर्बोधेन मम त्विदम् ।
अकारणकमद्वैतमजातं कर्म केवलम् ॥ ८२ ॥

अस्तस्थितिः शरीरेऽस्मिन्यादृग्रूपानुभूयतेः ।
उपलादौ जडा सत्ता तादृशी परमात्मनः ॥ ८३ ॥

यथैकस्यां सुनिद्रायां सुषुप्तस्वप्नकौ स्थितौ ।
तथैते सर्गसंहारभासौ ब्रह्मणि संस्थिते ॥ ८४ ॥

सुषुप्तस्वप्नयोर्भातः प्रकाशतमसी यथा ।
एकस्यामेव निद्रायां सर्गासर्गो तथा परे ॥ ८५ ॥

यथा नरोऽनुभवति निद्रायां दृषदः स्थितिम् ।
परमात्मानुभवति तथैतज्जडसंस्थितिम् ॥ ८६ ॥

अङ्गष्ठस्याथवाङ्गुल्या वाताद्यस्पर्शने सति ।
योऽन्यचित्तस्यानुभवो दृषदादौ स आत्मनः ॥ ८७ ॥

व्योमोपलजलादीनां यथा देहानुभूतयः ।
तथास्माकमचित्तानामद्य नानानुभूतयः ॥ ८८ ॥

काले कल्पेषु भान्त्येता यथाहोरात्रसंविदः ।
तथाऽसंख्याः परे भान्ति सर्गसंहारसंविदः ॥ ८९ ॥

आलोकरूपमननानुभवैषणेच्छा
मुक्तात्मनि स्फुरति वारिघने स्वभावात् ।
आवर्तवीचिवलयादि यथा तथायं
शान्ते परे स्फुरति संहृतिसर्गपूगः ॥ ९० ।
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मिकीये
मोक्ष-निर्वाण उत्तरार्धे ब्रह्मगीतासु
सर्वं खल्विदं ब्रह्मेतिप्रतिपादनयोगोपदेशो
नाम षडशीत्यधिकशततमः ॥ १८६ ॥ -१४-

– Chant Stotra in Other Languages –

Brahma Gita of Yoga Vasishtha in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil