Brahmana Gita In Sanskrit

॥ Brahmana Geetaa Sanskrit Lyrics ॥

॥ ब्राह्मणगीता ॥

अध्यायः २१
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
निबोध दश होतॄणां विधानमिह यादृशम् ॥ १॥

सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते ।
रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ॥ २॥

शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते ।
ततश्चाहवनीयस्तु तस्मिन्सङ्क्षिप्यते हविः ॥ ३॥

ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते ।
रूपं भवति वै व्यक्तं तदनुद्रवते मनः ॥ ४॥

ब्राह्मण्युवाच
कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् ।
मनसा चिन्तितं वाक्यं यदा समभिपद्यते ॥ ५॥

केन विज्ञानयोगेन मतिश्चित्तं समास्थिता ।
समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति ॥ ६॥

ब्राह्मण उवाच
तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् ।
तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते ॥ ७॥

प्रश्नं तु वान्मनसोर्मां यस्मात्त्वमनुपृच्छसि ।
तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ॥ ८॥

उभे वान्मनसी गत्वा भूतात्मानमपृच्छताम् ।
आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो ॥ ९॥

मन इत्येव भगवांस्तदा प्राह सरस्वतीम् ।
अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ॥ १०॥

स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम ।
स्थावरं मत्सकाशे वै जङ्गमं विषये तव ॥ ११॥

यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा ।
तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ॥ १२॥

यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने ।
तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति ॥ १३॥

प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति ।
प्रेर्यमाणा महाभागे विना प्राणमपानती ।
प्रजापतिमुपाधावत्प्रसीद भगवन्निति ॥ १४॥

ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः ।
तमादुच्छ्वासमासाद्य न वाग्वदति कर्हि चित् ॥ १५॥

घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते ।
तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी ॥ १६॥

गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी ।
सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ॥ १७॥

दिव्यादिव्य प्रभावेन भारती गौः शुचिस्मिते ।
एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः ॥ १८॥

अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया ।
किं नु पूर्वं ततो देवी व्याजहार सरस्वती ॥ १९॥

प्राणेन या सम्भवते शरीरे
प्राणादपानम्प्रतिपद्यते च ।
उदान भूता च विसृज्य देहं
व्यानेन सर्वं दिवमावृणोति ॥ २०॥

ततः समाने प्रतितिष्ठतीह
इत्येव पूर्वं प्रजजल्प चापि ।
तस्मान्मनः स्थावरत्वाद्विशिष्टं
तथा देवी जङ्गमत्वाद्विशिष्टा ॥ २१॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकविंशोऽध्यायः ॥

अध्यायः २२
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सुभगे सप्त होतॄणां विधानमिह यादृशम् ॥ १॥

घ्राणं चक्षुश्च जिह्वा च त्वक्ष्रोत्रं चैव पञ्चमम् ।
मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ॥ २॥

सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् ।
एतान्वै सप्त होतॄंस्त्वं स्वभावाद्विद्धि शोभने ॥ ३॥

ब्राह्मण्युवाच
सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्य दर्शिनः ।
कथं स्वभावा भगवन्नेतदाचक्ष्व मे विभो ॥ ४॥

ब्राह्मण उवाच
गुणाज्ञानमविज्ञानं गुणि ज्ञानमभिज्ञता ।
परस्परगुणानेते न विजानन्ति कर्हि चित् ॥ ५॥

जिह्वा चक्षुस्तथा श्रोत्रं त्वन्मनो बुद्धिरेव च ।
न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ॥ ६॥

घ्राणं चक्षुस्तथा श्रोत्रं त्वन्मनो बुद्धिरेव च ।
न रसानधिगच्छन्ति जिह्वा तानदिघच्छति ॥ ७॥

घ्राणं जिह्वा तथा श्रोत्रं त्वन्मनो बुद्धिरेव च ।
न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ॥ ८॥

घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा ।
न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ॥ ९॥

घ्राणं जिह्वा च चक्षुश् च त्वन्मनो बुद्धिरेव च ।
न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ॥ १०॥

घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं बुद्धिरेव च ।
संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति ॥ ११॥

घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं मन एव च ।
न निष्ठामधिगच्छन्ति बुद्धिस्ताम् अधिगच्छति ॥ १२॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इन्द्रियाणां च संवादं मनसश्चैव भामिनि ॥ १३॥

मन उवाच
न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते ।
रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते ॥ १४॥

न श्रोत्रं बुध्यते शब्दं मया हीनं कथं चन ।
प्रवरं सर्वभूतानामहमस्मि सनातनम् ॥ १५॥

अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः ।
इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ॥ १६॥

काष्ठानीवार्द्र शुष्काणि यतमानैरपीन्द्रियैः ।
गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ॥ १७॥

इन्द्रियाण्यूचुः
एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् ।
ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि ॥ १८॥

यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् ।
भोगान्भुङ्क्ते रसान्भुङ्क्ते यथैतन्मन्यते तथा ॥ १९॥

अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च ।
यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ॥ २०॥

अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा ।
घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ॥ २१॥

श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया ।
त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ॥ २२॥

बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् ।
भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि ॥ २३॥

यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति ।
ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ॥ २४॥

विषयानेवमस्माभिर्दर्शितानभिमन्यसे ।
अनागतानतीतांश्च स्वप्ने जागरणे तथा ॥ २५॥

वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् ।
अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् ॥ २६॥

बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च ।
बुभुक्षया पीड्यमानो विषयानेव धावसि ॥ १८ ॥

अगारमद्वारमिव प्रविश्य
सङ्कल्पभोगो विषयानविन्दन् ।
प्राणक्षये शान्तिमुपैति नित्यं
दारु क्षयेऽग्निर्ज्वलितो यथैव ॥ २८॥

कामं तु नः स्वेषु गुणेषु सङ्गः
कामच नान्योन्य गुणोपलब्धिः ।
अस्मानृते नास्ति तवोपलब्धिस्
त्वामप्यृतेऽस्मान्न भजेत हर्षः ॥ २९॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि द्वाविंशोऽध्यायः ॥

अध्यायः २३
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सुभगे पञ्च होतॄणां विधानमिह यादृशम् ॥ १॥

प्राणापानावुदानश्च समानो व्यान एव च ।
पञ्च होतॄनथैतान्वै परं भावं विदुर्बुधाः ॥ २॥

ब्राह्मण्युवाच
स्वभावात्सप्त होतार इति ते पूर्विका मतिः ।
यथा वै पञ्च होतारः परो भावस्तथोच्यताम् ॥ ३॥

ब्राह्मण उवाच
प्राणेन सम्भृतो वायुरपानो जायते ततः ।
अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते ॥ ४॥

व्यानेन सम्भृतो वायुस्तदोदानः प्रवर्तते ।
उदाने सम्भृतो वायुः समानः सम्प्रवर्तते ॥ ५॥

तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् ।
यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ॥ ६॥

ब्रह्मोवाच
यस्मिन्प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे ।
यस्मिन्प्रचीर्णे च पुनश् चरन्ति
स वै श्रेष्ठो गच्छत यत्र कामः ॥ ७॥

प्राण उवाच
मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ ८॥

ब्राह्मण उवाच
प्राणः प्रलीयत ततः पुनश्च प्रचचार ह ।
समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे ॥ ९॥

न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् ।
न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव ।
प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत ॥ १०॥

मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ ११॥

व्यानश्च तमुदानश्च भाषमाणमथोचतुः ।
अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव ॥ १२॥

अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १३॥

मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ १४॥

प्रालीयत ततो व्यानः पुनश्च प्रचचार ह ।
प्राणापानावुदानश्च समानश् च तमब्रुवन् ।
न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव ॥ १५॥

प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १६॥

मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ १७॥

ततः समानः प्रालिल्ये पुनश्च प्रचचार ह ।
प्राणापानावुदानश्च व्यानश् चैव तमब्रुवन् ।
समानन त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ १८॥

समानः प्रचचाराथ उदानस्तमुवाच ह ।
श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १९॥

मयि प्रलीने प्रलयं व्रजन्ति
सर्वे प्राणाः प्राणभृतां शरीरे ।
मयि प्रचीर्णे च पुनश् चरन्ति
श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ २०॥

ततः प्रालीयतोदानः पुनश्च प्रचचार ह ।
प्राणापानौ समानश्च व्यानश् चैव तमब्रुवन् ।
उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ २१॥

ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः ।
सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्य धर्मिणः ।
सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्य रक्षिणः ॥ २२॥

See Also  Shiva Gita In Tamil

एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः ।
एक एव ममैवात्मा बहुधाप्युपचीयते ॥ २३॥

परस्परस्य सुहृदो भावयन्तः परस्परम् ।
स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ॥ २४॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि त्रयोविंशोऽध्यायः ॥

अध्यायः २४
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदस्य च संवादमृषेर्देवमतस्य च ॥ १॥

देवमत उवाच
जन्तोः सञ्जायमानस्य किं नु पूर्वं प्रवर्तते ।
प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥ २॥

नारद उवाच
येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् ।
प्राणद्वन्द्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् ॥ ३॥

देवमत उवाच
केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् ।
प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् ॥ ४॥

नारद उवाच
सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते ।
रसात्सञ्जायते चापि रूपादपि च जायते ॥ ५॥

स्पर्शात्सञ्जायते चापि गन्धादपि च जायते ।
एतद्रूपमुदानस्य हर्षो मिथुन सम्भवः ॥ ६॥

कामात्सञ्जायते शुक्रं कामात्सञ्जायते रसः ।
समानव्यान जनिते सामान्ये शुक्रशोणिते ॥ ७॥

शुक्राच्छोणित संसृष्टात्पूर्वं प्राणः प्रवर्तते ।
प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥ ८॥

प्राणापानाविदं द्वन्द्वमवाक्चोर्ध्वं च गच्छतः ।
व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते ॥ ९॥

अग्निर्वै देवताः सर्वा इति वेदस्य शासनम् ।
सञ्जायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् ॥ १०॥

तस्य धूमस्तमो रूपं रजो भस्म सुरेतसः ।
सत्त्वं सञ्जायते तस्य यत्र प्रक्षिप्यते हविः ॥ ११॥

आघारौ समानो व्यानश्चेति यज्ञविदो विदुः ।
प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १२॥

निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः श‍ृणु ॥ १३॥

अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १४॥

उभे चैवायने द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १५॥

उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १६॥

उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १७॥

सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १८॥

प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् ।
तृतीयं तु समानेन पुनरेव व्यवस्यते ॥ १९॥

शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम् ।
एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ २०॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि चतुर्विंशोऽध्यायः ॥

अध्यायः २५
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
चातुर्होत्र विधानस्य विधानमिह यादृशम् ॥ १॥

तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते ।
श‍ृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् ॥ २॥

करणं कर्म कर्ता च मोक्ष इत्येव भामिनि ।
चत्वार एते होतारो यैरिदं जगदावृतम् ॥ ३॥

होतॄणां साधनं चैव श‍ृणु सर्वमशेषतः ।
घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् ।
मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः ॥ ४॥

गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः ।
मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः ॥ ५॥

घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः ।
मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ॥ ६॥

स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम् ।
अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः ॥ ७॥

विदुषां बुध्यमानानां स्वं स्वस्थानं यथाविधि ।
गुणास्ते देवता भूताः सततं भुञ्जते हविः ॥ ८॥

अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते ।
आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते ॥ ९॥

अभक्ष्य भक्षणं चैव मद्य पानं च हन्ति तम् ।
स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः ॥ १०॥

अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः ।
स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ॥ ११॥

मनसा गम्यते यच्च यच्च वाचा निरुध्यते ।
श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते ॥ १२॥

स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् ।
मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः ॥ १३॥

गुणवत्पावको मह्यं दीप्यते हव्यवाहनः ।
योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्म मनोद्भवः ।
प्राणस्तोत्रोऽपान शस्त्रः सर्वत्यागसु दक्षिणः ॥ १४॥

कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः ।
कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा ॥ १५॥

ऋचश्चाप्यत्र शंसन्ति नारायण विदो जनाः ।
नारायणाय देवाय यदबध्नन्पशून्पुरा ॥ १६॥

तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् ।
देवं नारायणं भीरु सर्वात्मानं निबोध मे ॥ १७॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि पञ्चविंशोऽध्यायः ॥

अध्यायः २६
ब्राह्मण उवाच
एकः शास्ता न द्वितीयोऽस्ति शास्ता
यथा नियुक्तोऽस्मि तथा चरामि ।
हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता
तेनैव युक्तः प्रवणादिवोदकम् ॥ १॥

एको गुरुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि ।
तेनानुशिष्टा गुरुणा सदैव
पराभूता दानवाः सर्व एव ॥ २॥

एको बन्धुर्नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि ।
तेनानुशिष्टा बान्धवा बन्धुमन्तः
सप्तर्षयः सप्त दिवि प्रभान्ति ॥ ३॥

एकः श्रोता नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि ।
तस्मिन्गुरौ गुरु वासं निरुष्य
शक्रो गतः सर्वलोकामरत्वम् ॥ ४॥

एको द्वेष्टा नास्ति ततो द्वितीयो
यो हृच्छयस्तमहमनुब्रवीमि ।
तेनानुशिष्टा गुरुणा सदैव
लोकद्विष्टाः पन्नगाः सर्व एव ॥ ५॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ॥ ६॥

देवर्षयश्च नागाश्च असुराश्च प्रजापतिम् ।
पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यताम् इति ॥ ७॥

तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् ।
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ॥ ८॥

तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः ।
सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु ॥ ९॥

असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः ।
दानं देवा व्यवसिता दममेव महर्षयः ॥ १०॥

एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः ।
नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः ॥ ११॥

श‍ृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् ।
पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते ॥ १२॥

तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते ।
गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः ॥ १३॥

पापेन विचरँल्लोके पापचारी भवत्ययम् ।
शुभेन विचरँल्लोके शुभचारी भवत्युत ॥ १४॥

कामचारी तु कामेन य इन्द्रियसुखे रतः ।
व्रतवारी सदैवैष य इन्द्रियजये रतः ॥ १५॥

अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः ।
ब्रह्मभूतश्चरँल्लोके ब्रह्म चारी भवत्ययम् ॥ १६॥

ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्म संस्तरः ।
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ॥ १७॥

एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः ।
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः ॥ १८॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि षड्विंशोऽध्यायः ॥

अध्यायः २७
ब्राह्मण उवाच
सङ्कल्पदंश मशकं शोकहर्षहिमातपम् ।
मोहान्ध कारतिमिरं लोभव्याल सरीसृपम् ॥ १॥

विषयैकात्ययाध्वानं कामक्रोधविरोधकम् ।
तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ॥ २॥

ब्राह्मण्युवाच
क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः ।
गिरयः पर्वताश् चैव कियत्यध्वनि तद्वनम् ॥ ३॥

न तदस्ति पृथग्भावे किं चिदन्यत्ततः समम् ।
न तदस्त्यपृथग्भावे किं चिद्दूरतरं ततः ॥ ४॥

तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् ।
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ॥ ५॥

न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः ।
न च बिभ्यति केषां चित्तेभ्यो बिभ्यति के च न ॥ ६॥

तस्मिन्वने सप्त महाद्रुमाश् च
फलानि सप्तातिथयश् च सप्त ।
सप्ताश्रमाः सप्त समाधयश् च
दीक्षाश्च सप्तैतदरण्यरूपम् ॥ ७॥

पञ्च वर्णानि दिव्यानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ ८॥

सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ ९॥

चतुर्वर्णाणि दिव्यानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ १०॥

शङ्कराणित्रि वर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ ११॥

सुरभीण्येकवर्णानि पुष्पाणि च फलानिच ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ १२॥

बहून्यव्यक्तवर्णानि पुष्पाणि च फलानिच ।
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ॥ १३॥

एको ह्यग्निः सुमना ब्राह्मणोऽत्र
पञ्चेन्द्रियाणि समिधश्चात्र सन्ति ।
तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा
गुणाः फलान्यतिथयः फलाशाः ॥ १४॥

आतिथ्यं प्रतिगृह्णन्ति तत्र सप्तमहर्षयः ।
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ॥ १५॥

प्रतिज्ञा वृक्षमफलं शान्तिच्छाया समन्वितम् ।
ज्ञानाश्रयं तृप्तितोयमन्तः क्षेत्रज्ञभास्करम् ॥ १६॥

योऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः ।
ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते ॥ १७॥

सप्त स्त्रियस्तत्र वसन्ति सद्यो
अवाङ्मुखा भानुमत्यो जनित्र्यः ।
ऊर्ध्वं रसानां ददते प्रजाभ्यः
सर्वान्यथा सर्वमनित्यतां च ॥ १८॥

See Also  Sri Lakshmanagita From Sri Ramacharitamanas In Telugu

तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च ।
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह ॥ १९॥

यशो वर्चो भगश्चैव विजयः सिद्धितेजसी ।
एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ॥ २०॥

गिरयः पर्वताश्चैव सन्ति तत्र समासतः ।
नद्यश्च सरितो वारिवहन्त्यो ब्रह्म सम्भवम् ॥ २१॥

नदीनां सङ्गमस्तत्र वैतानः समुपह्वरे ।
स्वात्म तृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् ॥ २२॥

कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः ।
आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते ॥ २३॥

ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः ।
तदरण्यमभिप्रेत्य यथा धीरमजायत ॥ २४॥

एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः ।
विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् ॥ २५॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि सप्तविंशोऽध्यायः ॥

अध्यायः २८
ब्राह्मण उवाच
गन्धान्न जिघ्रामि रसान्न वेद्मि
रूपं न पश्यामि न च स्पृशामि ।
न चापि शब्दान्विविधाञ्श‍ृणोमि
न चापि सङ्कल्पमुपैमि किं चित् ॥ १॥

अर्थानिष्टान्कामयते स्वभावः
सर्वान्द्वेष्यान्प्रद्विषते स्वभावः ।
कामद्वेषावुद्भवतः स्वभावात्
प्राणापानौ जन्तु देहान्निवेश्य ॥ २॥

तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावान्
भूतात्मानं लक्षयेयं शरीरे ।
तस्मिंस्तिष्ठन्नास्मि शक्यः कथं चित्
कामक्रोधाभ्यां जरया मृत्युना च ॥ ३॥

अकामयानस्य च सर्वकामान्
अविद्विषाणस्य च सर्वदोषान् ।
न मे स्वभावेषु भवन्ति लेपास्
तोयस्य बिन्दोरिव पुष्करेषु ॥ ४॥

नित्यस्य चैतस्य भवन्ति नित्या
निरीक्षमाणस्य बहून्स्वभावान् ।
न सज्जते कर्मसु भोगजालं
दिवीव सूर्यस्य मयूखजालम् ॥ ५॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अध्वर्यु यति संवादं तं निबोध यशस्विनि ॥ ६॥

प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् ।
यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् ॥ ७॥

तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति ।
श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा ॥ ८॥

यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति ।
यदस्य वारिजं किं चिदपस्तत्प्रतिपद्यते ॥ ९॥

सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च ।
आगमे वर्तमानस्य न मे दोषोऽस्ति कश् चन ॥ १०॥

यतिरुवाच
प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि ।
छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ॥ ११॥

अनु त्वा मन्यतां माता पिता भ्राता सखापि च ।
मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः ॥ १२॥

य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति ।
तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा ॥ १३॥

प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु ।
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ॥ १४॥

इन्धनस्य तु तुल्येन शरीरेण विचेतसा ।
हिंसा निर्वेष्टु कामानामिन्धनं पशुसञ्ज्ञितम् ॥ १५॥

अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् ।
यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ॥ १६॥

अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् ।
शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् ॥ १७॥

अहिंसा सर्वभूतानां नित्यमस्मासु रोचते ।
प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ॥ १८॥

अध्वर्युरुवाच
भूमेर्गन्धगुणान्भुङ्क्ष्व पिबस्यापोमयान्रसान् ।
ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् ॥ १९॥

श‍ृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् ।
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ॥ २०॥

प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् ।
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ॥ २१॥

यतिरुवाच
अक्षरं च क्षरं चैव द्वैधी भावोऽयमात्मनः ।
अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ॥ २२॥

प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह ।
भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः ॥ २३॥

समस्य सर्वभूतेषु निर्ममस्य जितात्मनः ।
समन्तात्परिमुक्तस्य न भयं विद्यते क्व चित् ॥ २४॥

अध्वर्युरुवाच
सद्भिरेवेह संवासः कार्यो मतिमतां वर ।
भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ॥ २५॥

भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् ।
मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज ॥ २६॥

ब्राह्मण उवाच
उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् ।
अध्वर्युरपि निर्मोहः प्रचचार महामखे ॥ १८ ॥

एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः ।
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ॥ २८॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अष्टाविंशोऽध्यायः ॥

अध्यायः २९
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ॥ १॥

कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
येन सागरपर्यन्ता धनुषा निर्जिता मही ॥ २॥

स कदा चित्समुद्रान्ते विचरन्बलदर्पितः ।
अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् ॥ ३॥

तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह ।
मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ॥ ४॥

मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः ।
वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥ ५॥

अर्जुव उवाच
मत्समो यदि सङ्ग्रामे शरासनधरः क्व चित् ।
विद्यते तं ममाचक्ष्व यः समासीत मां मृधे ॥ ६॥

समुद्र उवाच
महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः ।
तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ॥ ७॥

ततः स राजा प्रययौ क्रोधेन महता वृतः ।
स तमाश्रममागम्य रममेवान्वपद्यत ॥ ८॥

स राम प्रतिकूलानि चकार सह बन्धुभिः ।
आयासं जनयामास रामस्य च महात्मनः ॥ ९॥

ततस्तेजः प्रजज्वाल राजस्यामित तेजसः ।
प्रदहद्रिपुसैन्यानि तदा कमललोचने ॥ १०॥

ततः परशुमादाय स तं बाहुसहस्रिणम् ।
चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् ॥ ११॥

तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः ।
असीनादाय शक्तीश्च भार्गवं पर्यवारयन् ॥ १२॥

रामोऽपि धनुरादाय रथमारुह्य स त्वरः ।
विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ॥ १३॥

ततस्तु क्षत्रियाः के चिज्जमदग्निं निहत्य च ।
विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥ १४॥

तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् ।
प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥ १५॥

त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह ।
वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ॥ १६॥

ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः ।
द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ॥ १७॥

एव विंशतिमेधान्ते रामं वागशरीरिणी ।
दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥ १८॥

राम राम निवर्तस्व कं गुणं तात पश्यसि ।
क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ॥ १९॥

तथैव तं महात्मानमृचीकप्रमुखास्तदा ।
पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ॥ २०॥

पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् ।
नार्हन्तीह भवन्तो मां निवारयितुमित्युत ॥ २१॥

पितर ऊचुः
नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर ।
न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ॥ २२॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकोनत्रिंशोऽध्यायः ॥

अध्यायः ३०
पितर ऊचुः
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ॥ १॥

अलर्को नाम राजर्षिरभवत्सुमहातपाः ।
धर्मज्ञः सत्यसन्धश्च महात्मा सुमहाव्रतः ॥ २॥

स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् ।
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥ ३॥

स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह ।
उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते ॥ ४॥

अलर्क उवाच
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः ।
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥ ५॥

यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति ।
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ॥ ६॥

मन उवाच
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ ७॥

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ ८॥

अलक उवाच
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति ।
तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ ९॥

घ्राण उवाच
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १०॥

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ ११॥

अलर्क उवाच
इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति ।
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ १२॥

जिह्वा उवाच
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १३॥

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ १४॥

अलर्क उवाच
सृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति ।
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रभिः ॥ १५॥

त्वगुवाच
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ १६॥

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ १७॥

अलर्क उवाच
श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति ।
तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ १८॥

श्रोत्रमुवाच
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥ १९॥

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ २०॥

अलर्क उवाच
दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति ।
तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ २१॥

See Also  Bhagavata Purana’S Rishabha Gita In Odia

चक्षुरुवाच
नेमे बाणास्तरिष्यन्ति मामालर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ २२॥

अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यति ।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ २३॥

अलर्क उवाच
इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति ।
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ २४॥

बुद्धिरुवाच
नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन ।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ २५॥

ब्राह्मण उवाच
ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् ।
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु ।
सुसमाहित चित्तास्तु ततोऽचिन्तयत प्रभुः ॥ २६॥

स विचिन्त्य चिरं कालमलर्को द्विजसत्तम ।
नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः ॥ १८ ॥

स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः ।
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ॥ २८॥

योगेनात्मानमाविश्य संसिद्धिं परमां ययौ ।
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह ।
अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् ।
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥ २९॥

इति त्वमपि जानीहि राम मा क्षत्रियाञ् जहि ।
तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ॥ ३०॥

ब्राह्मण उवाच
इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः ।
आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् ॥ ३१॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि त्रिंशोऽध्यायः ॥

अध्यायः ३१
ब्राह्मण उवाच
त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः ।
हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः ॥ १॥

शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः ।
स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः ॥ २॥

एतान्निकृत्य धृतिमान्बाणसन्धैरतन्द्रितः ।
जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ॥ ३॥

अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः ।
अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ॥ ४॥

समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु ।
जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ॥ ५॥

स निगृह्य महादोषान्साधून्समभिपूज्य च ।
जगाम महतीं सिद्धिं गाथां चेमां जगाद ह ॥ ६॥

भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः ।
एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया ॥ ७॥

येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति ।
तृष्णार्त इव निम्नानि धावमानो न बुध्यते ॥ ८॥

अकार्यमपि येनेह प्रयुक्तः सेवते नरः ।
तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत ॥ ९॥

लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते ।
स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् ॥ १०॥

स तैर्गुणैः संहतदेहबन्धनः
पुनः पुनर्जायति कर्म चेहते ।
जन्म क्षये भिन्नविकीर्ण देहः
पुनर्मृत्युं गच्छति जन्मनि स्वे ॥ ११॥

तस्मादेनं सम्यगवेक्ष्य लोभं
निगृह्य धृत्यात्मनि राज्यमिच्छेत् ।
एतद्राज्यं नान्यदस्तीति विद्याद्
यस्त्वत्र राजा विजितो ममैकः ॥ १२॥

इति राज्ञाम्बरीषेण गाथा गीता यशस्विना ।
आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता ॥ १३॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकत्रिंशोऽध्यायः ॥

अध्यायः ३२
ब्राह्मण उवाच
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्राह्मणस्य च संवादं जनकस्य च भामिनि ॥ १॥

ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे ।
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥ २॥

इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् ।
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ॥ ३॥

सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो ।
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥ ४॥

इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना ।
मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ॥ ५॥

तमासीनं ध्यायमानं राजानममितौजसम् ।
कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः ॥ ६॥

समाश्वास्य ततो राजा व्यपेते कश्मले तदा ।
ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥ ७॥

जनक उवाच
पितृपैतामहे राज्ये वश्ये जनपदे सति ।
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् ॥ ८॥

नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया ।
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥ ९॥

नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् ।
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥ १०॥

तया न विषयं मन्ये सर्वो वा विषयो मम ॥ ११॥

आत्मापि चायं न मम सर्वा वा पृथिवी मम ।
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ॥ ११॥

ब्राह्मण उवाच
पितृपैतामहे राज्ये वश्ये जनपदे सति ।
ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया ॥ १२॥

कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव ।
नावैषि विषयं येन सर्वो वा विषयस्तव ॥ १३॥

जनक उवाच
अन्तवन्त इहारम्भा विदिता सर्वकर्मसु । var इहावस्था
नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ॥ १४॥

कस्येदमिति कस्य स्वमिति वेद वचस्तथा ।
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ॥ १५॥

एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया ।
श‍ृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम ॥ १६॥

नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि ।
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥ १७॥

नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः ।
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ॥ १८॥

नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा ।
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥ १९॥

नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश् च ये ।
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥ २०॥

नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि ।
तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ॥ २१॥

नाहमात्मार्थमिच्छामि मनो नित्यं मनोऽन्तरे ।
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ॥ २२॥

देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह ।
इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै ॥ २३॥

ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् ।
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥ २४॥

त्वमस्य ब्रह्म नाभस्य बुद्ध्यारस्यानिवर्तिनः ।
सत्त्वनेमि निरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥ २५॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि द्वात्रिंशोऽध्यायः ॥

अध्यायः ३३
ब्राह्मण उवाच
नाहं तथा भीरु चरामि लोके
तथा त्वं मां तर्कयसे स्वबुद्ध्या ।
विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि
गृहस्थ धर्मा ब्रह्म चारी तथास्मि ॥ १॥

नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे ।
मया व्याप्तमिदं सर्वं यत्किं चिज्जगती गतम् ॥ २॥

ये के चिज्जन्तवो लोके जङ्गमाः स्थावराश् च ह ।
तेषां मामन्तकं विद्धि दारूणामिव पावकम् ॥ ३॥

राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे ।
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ॥ ४॥

एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः ।
गृहेषु वनवासेषु गुरु वासेषु भिक्षुषु ।
लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते ॥ ५॥

नाना लिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका ।
ते भावमेकमायान्ति सरितः सागरं यथा ॥ ६॥

बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते ।
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ॥ ७॥

तस्मात्ते सुभगे नास्ति परलोककृतं भयम् ।
मद्भावभावनिरता ममैवात्मानमेष्यसि ॥ ८॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि त्रयस्त्रिंचोऽध्यायः ॥

अध्यायः ३४
ब्राह्मण्युवाच
नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना ।
बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम ॥ १॥

उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः ।
तन्मन्ये कारणतमं यत एषा प्रवर्तते ॥ २॥

ब्राह्मण उवाच
अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः ।
तपः श्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ॥ ३॥

ब्राह्मण्युवाच
यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम् ।
ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु ॥ ४॥

ब्राह्मण्युवाच
अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते ।
उपायमेव वक्ष्यामि येन गृह्येत वा न वा ॥ ५॥

सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते ।
कर्म बुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् ॥ ६॥

इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते ।
पश्यतः श‍ृण्वतो बुद्धिरात्मनो येषु जायते ॥ ७॥

यावन्त इह शक्येरंस्तावतोऽंशान्प्रकल्पयेत् ।
व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः ॥ ८॥

सर्वान्नानात्व युक्तांश्च सर्वान्प्रत्यक्षहेतुकान् ।
यतः परं न विद्येत ततोऽभ्यासे भविष्यति ॥ ९॥

वासुदेव उवाछ
ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसङ्क्षये ।
क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥ १०॥

अर्जुन उवाच
क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः ।
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥ ११॥

वासुदेव उवाच
मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् ।
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय ॥ १२॥

इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि चतुस्त्रिंशोऽध्यायः ॥

॥ इति ब्राह्मणगीता समाप्ता ॥

– Chant Stotra in Other Languages –

Brahmana Gita in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil