॥ Gakaradi Ganapati Sahasranama Stotram Sanskrit Lyrics ॥
॥ गकारादि श्रीगणपतिसहस्रनामस्तोत्रम् ॥
अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य ।
दुर्वासा ऋषिः । अनुष्टुप् छन्दः । श्रीगणपतिर्देवता ।
गं बीजम् । स्वाहा शक्तिः । ग्लौं कीलकम् ।
मम सकलाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
॥ करन्यासः ॥
ॐ अङ्गुष्ठाभ्यां नमः । श्रीं तर्जनीभ्यां नमः ।
ह्रीं मध्यमाभ्यां नमः । क्रीं अनामिकाभ्यां नमः ।
ग्लौं कनिष्ठिकाभ्यां नमः । गं करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।
अथवा षड्दीर्ङभाजागमितिबीजेन कराङ्गन्यासः ॥
॥ ध्यानम् ॥
ओङ्कार सन्निभमिभाननमिन्दुभालम् मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् ।
लम्बोदरं कलचतुर्भुजमादिदेवं ध्यायेन्महागणपतिं मतिसिद्धिकान्तम् ॥
॥ स्तोत्रम् ॥
ॐ गणेश्वरो गणाध्यक्षो गणाराध्यो गणप्रियः ।
गणनाथो गणस्वामी गणेशो गणनायकः ॥ १ ॥
गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः ।
गणपोऽथ गणक्रीडो गणदेवो गणाधिपः ॥ २ ॥
गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराट् ।
गणराड् गणगोप्ताथ् गणाङ्गो गणदैवतम् ॥ ३ ॥
गणबन्धुर्गणसुहृद् गणाधीशो गणप्रथः ।
गणप्रियसखः शश्वद् गणप्रियसुहृत् तथा ॥ ४ ॥
गणप्रियरतो नित्यं गणप्रीतिविवर्धनः ।
गणमण्डलमध्यस्थो गणकेलिपरायणः ॥ ५ ॥
गणाग्रणीर्गणेशानो गणगीतो गणोच्छ्रयः ।
गण्यो गणहितो गर्जद्गणसेनो गणोद्धतः ॥ ६ ॥
गणभीतिप्रमथनो गणभीत्यपहारकः ।
गणनार्हो गणप्रौढो गणभर्ता गणप्रभुः ॥ ७ ॥
गणसेनो गणचरो गणप्रज्ञो गणैकराट् ।
गणाग्र्यो गणनामा च गणपालनतत्परः ॥ ८ ॥
गणजिद्गणगर्भस्थो गणप्रवणमानसः ।
गणगर्वपरीहर्ता गणो गणनमस्कृतः ॥ ९ ॥
गणार्चिताङ्घ्रियुगळो गणरक्षणकृत् सदा ।
गणध्यातो गणगुरुर्गणप्रणयतत्परः ॥ १० ॥
गणागणपरित्राता गणाधिहरणोद्धुरः ।
गणसेतुर्गणनुतो गणकेतुर्गणाग्रगः ॥ ११ ॥
गणहेतुर्गणग्राही गणानुग्रहकारकः ।
गणागणानुग्रहभूर्गणागणवरप्रदः ॥ १२ ॥
गणस्तुतो गणप्राणो गणसर्वस्वदायकः ।
गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टदः ॥ १३ ॥
गणसौख्यप्रदाता च गणदुःखप्रणाशनः ।
गणप्रथितनामा च गणाभीष्टकरः सदा ॥ १४ ॥
गणमान्यो गणख्यातो गणवीतो गणोत्कटः ।
गणपालो गणवरो गणगौरवदायकः ॥ १५ ॥
गणगर्जितसन्तुष्टो गणस्वच्छन्दगः सदा ।
गणराजो गणश्रीदो गणाभयकरः क्षणात् ॥ १६ ॥
गणमूर्धाभिषिक्तश्च गणसैन्यपुरस्सरः ।
गुणातीतो गुणमयो गुणत्रयविभागकृत् ॥ १७ ॥
गुणी गुणाकृतिधरो गुणशाली गुणप्रियः ।
गुणपूर्णो गुणाम्भोधिर्गुणभाग् गुणदूरगः ॥ १८ ॥
गुणागुणवपुर्गौणशरीरो गुणमण्डितः ।
गुणस्त्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वरः ॥ १९ ॥
गुणसृष्टजगत्सङ्घो गुणसङ्घो गुणैकराट् ।
गुणप्रवृष्टो गुणभूर्गुणीकृतचराचरः ॥ २० ॥
गुणप्रवणसन्तुष्टो गुणहीनपराङ्मुखः ।
गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभुः ॥ २१ ॥
गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा ।
गुणप्रणयवान् गौणप्रकृतिर्गुणभाजनम् ॥ २२ ॥
गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वलः ।
गुणवान् गुणसम्पन्नो गुणानन्दितमानसः ॥ २३ ॥
गुणसञ्चारचतुरो गुणसञ्चयसुन्दरः ।
गुणगौरो गुणाधारो गुणसंवृतचेतनः ॥ २४ ॥
गुणकृद्गुणभृन्नित्यं गुणाग्र्यो गुणपारदृक् ।
गुणप्रचारी गुणयुग् गुणागुणविवेककृत् ॥ २५ ॥
गुणाकरो गुणकरो गुणप्रवणवर्धनः ।
गुणगूढचरो गौणसर्वसंसारचेष्टितः ॥ २६ ॥
गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित् ।
गुणहारी गुणकलो गुणसङ्घसखः सदा ॥ २७ ॥
गुणसंस्कृतसंसारो गुणतत्त्वविवेचकः ।
गुणगर्वधरो गौणसुखदुःखोदयो गुणः ॥ २८ ॥
गुणाधीशो गुणलयो गुणवीक्षणलालसः ।
गुणगौरवदाता च गुणदाता गुणप्रदः ॥ २९ ॥
गुणकृद्गुणसम्बन्धो गुणभृद्गुणबन्धनः ।
गुणहृद्यो गुणस्थायी गुणदायी गुणोत्कटः ॥ ३० ॥
गुणचक्रधरो गौणावतारो गुणबान्धवः ।
गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालयः ॥ ३१ ॥
गुणधाता गुणप्राणो गुणगोपो गुणाश्रयः ।
गुणयायी गुणाधायी गुणपो गुणपालकः ॥ ३२ ॥
गुणाहृततनुर्गौणो गीर्वाणो गुणगौरवः ।
गुणवत्पूजितपदो गुणवत्प्रीतिदायकः ॥ ३३ ॥
गुणवद्गीतकीर्तिष्च गुणवद्बद्धसौहृदः ।
गुणवद्वरदो नित्यं गुणवत्प्रतिपालकः ॥ ३४ ॥
गुणवद्गुणसन्तुष्टो गुणवद्रचितस्तवः ।
गुणवद्रक्षणपरो गुणवत्प्रणयप्रियः ॥ ३५ ॥
गुणवच्चक्रसञ्चारो गुणवत्कीर्तिवर्धनः ।
गुणवद्गुणचित्तस्थो गुणवद्गुणरक्षकः ॥ ३६ ॥
गुणवत्पोषणकरो गुनवच्छत्रुसूदनः ।
गुणवत्सिद्धिदाता च गुणवद्गौरवप्रदः ॥ ३७ ॥
गुणवत्प्रवणस्वान्तो गुणवद्गुणभूषणः ।
गुणवत्कुलविद्वेषिविनाषकरणक्षमः ॥ ३८ ॥
गुणिस्तुतगुणो गर्जप्रलयाम्बुदनिःस्वनः ।
गजो गजपतिर्गर्जद्गजयुद्धविषारदः ॥ ३९ ॥
गजास्यो गजकर्णोऽथ गजराजो गजाननः ।
गजरूपधरो गर्जद्गजयूथोद्धुरध्वनिः ॥ ४० ॥
गजाधीषो गजाधारो गजासुरजयोद्धुरः ।
गजदन्तो गजवरो गजकुम्भो गजध्वनिः ॥ ४१ ॥
गजमायो गजमयो गजश्रीर्गजगर्जितः ।
गजामयहरो नित्यं गजपुष्टिप्रदायकः ॥ ४२ ॥
गजोत्पत्तिर्गजत्राता गजहेतुर्गजाधिपः ।
गजमुख्यो गजकुलप्रवरो गजदैत्यहा ॥ ४३ ॥
गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृतिः ।
गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभुः ॥ ४४ ॥
गजमत्तो गजेशानो गजेशो गजपुङ्गवः ।
गजदन्तधरो गुञ्जन्मधुपो गजवेषभृत् ॥ ४५ ॥
गजच्छन्नो गजाग्रस्थो गजयायी गजाजयः ।
गजराड्गजयूथस्थो गजगञ्जकभञ्जकः ॥ ४६ ॥
गर्जितोज्ञितदैत्यासुर्गर्जितत्रातविष्टपः ।
गानज्ञो गानकुशलो गानतत्त्वविवेचकः ॥ ४७ ॥
गानश्लाघी गानरसो गानज्ञानपरायणः ।
गानागमज्ञो गानाङ्गो गानप्रवणचेतनः ॥ ४८ ॥
गानकृद्गानचतुरो गानविद्याविशारदः ।
गानध्येयो गानगम्यो गानध्यानपरायणः ॥ ४९ ॥
गानभूर्गानशीलश्च गानशाली गतश्रमः ।
गानविज्ञानसम्पन्नो गानश्रवणलालसः ॥ ५० ॥
गानयत्तो गानमयो गानप्रणयवान् सदा ।
गानध्याता गानबुद्धिर्गानोत्सुकमनाः पुनः ॥ ५१ ॥
गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वलः ।
गानङ्गज्ञानवान् गानमानवान् गानपेशलः ॥ ५२ ॥
गानवत्प्रणयो गानसमुद्रो गानभूषणः ।
गानसिन्धुर्गानपरो गानप्राणो गणाश्रयः ॥ ५३ ॥
गानैकभूर्गानहृष्टो गानचक्षुर्गाणैकदृक् ।
गानमत्तो गानरुचिर्गानविद्गानवित्प्रियः ॥ ५४ ॥
गानान्तरात्मा गानाढ्यो गानभ्राजत्सभः सदा ।
गानमयो गानधरो गानविद्याविशोधकः ॥ ५५ ॥
गानाहितघ्रो गानेन्द्रो गानलीनो गतिप्रियः ।
गानाधीशो गानलयो गानाधारो गतीश्वरः ॥ ५६ ॥
गानवन्मानदो गानभूतिर्गानैकभूतिमान् ।
गानतानततो गानतानदानविमोहितः ॥ ५७ ॥
गुरुर्गुरुदरश्रोणिर्गुरुतत्त्वार्थदर्शनः ।
गुरुस्तुतो गुरुगुणो गुरुमायो गुरुप्रियः ॥ ५८ ॥
गुरुकीर्तिर्गुरुभुजो गुरुवक्षा गुरुप्रभः ।
गुरुलक्षणसम्पन्नो गुरुद्रोहपराङ्मुखः ॥ ५९ ॥
गुरुविद्यो गुरुप्राणो गुरुबाहुबलोच्छ्रयः ।
गुरुदैत्यप्राणहरो गुरुदैत्यापहारकः ॥ ६० ॥
गुरुगर्वहरो गुह्यप्रवरो गुरुदर्पहा ।
गुरुगौरवदायी च गुरुभीत्यपहारकः ॥ ६१ ॥
गुरुशुण्डो गुरुस्कन्धो गुरुजङ्घो गुरुप्रथः ।
गुरुभालो गुरुगलो गुरुश्रीर्गुरुगर्वनुत् ॥ ६२ ॥
गुरूरुगुरुपीनांसो गुरुप्रणयलालसः ।
गुरुमुख्यो गुरुकुलस्थायी गुरुगुणः सदा ॥ ६३ ॥
गुरुसंशयभेत्ता च गुरुमानप्रदायकः ।
गुरुधर्मसदाराध्यो गुरुधर्मनिकेतनः ॥ ६४ ॥
गुरुदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युतिः ।
गुरुधर्माग्रगण्योऽथ गुरुधर्मधुरन्धरः ।
गरिष्ठो गुरुसन्तापशमनो गुरुपूजितः ॥ ६५ ॥
गुरुधर्मधरो गौरधर्माधारो गदापहः ।
गुरुशास्त्रविचारज्ञो गुरुशास्त्रकृतोद्यमः ॥ ६६ ॥
गुरुशास्त्रार्थनिलयो गुरुशास्त्रालयः सदा ।
गुरुमन्त्रो गुरुशेष्ठो गुरुमन्त्रफलप्रदः ॥ ६७ ॥
गुरुस्त्रीगमनोद्दामप्रायश्चित्तनिवारकः ।
गुरुसंसारसुखदो गुरुसंसारदुःखभित् ॥ ६८ ॥
गुरुश्लाघापरो गौरभानुखण्डावतंसभृत् ।
गुरुप्रसन्नमूर्तिश्च गुरुशापविमोचकः ॥ ६९ ॥
गुरुकान्तिर्गुरुमयो गुरुशासनपालकः ।
गुरुतन्त्रो गुरुप्रज्ञो गुरुभो गुरुदैवतम् ॥ ७० ॥
गुरुविक्रमसञ्चारो गुरुदृग्गुरुविक्रमः ।
गुरुक्रमो गुरुप्रेष्ठो गुरुपाखण्डखण्डकः ॥ ७१ ॥
गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जितः ।
गुरुपुत्रप्रियसखो गुरुपुत्रभयापहः ॥ ७२ ॥
गुरुपुत्रपरित्राता गुरुपुत्रवरप्रदः ।
गुरुपुत्रार्तिशमनो गुरुपुत्राधिनाशनः ॥ ७३ ॥
गुरुपुत्रप्राणदाता गुरुभक्तिपरायणः ।
गुरुविज्ञानविभवो गौरभानुवरप्रदः ॥ ७४ ॥
गौरभानुस्तुतो गौरभानुत्रासापहारकः ।
गौरभानुप्रियो गौरभानुर्गौरववर्धनः ॥ ७५ ॥
गौरभानुपरित्राता गौरभानुसखः सदा ।
गौरभानुर्प्रभुर्गौरभानुभीतिप्रणशनः ॥ ७६ ॥
गौरीतेजःसमुत्पन्नो गौरीहृदयनन्दनः ।
गौरीस्तनन्धयो गौरीमनोवाञ्छितसिद्धिकृत् ॥ ७७ ॥
गौरो गौरगुणो गौरप्रकाशो गौरभैरवः ।
गौरीशनन्दनो गौरीप्रियपुत्रो गदाधरः ॥ ७८ ॥
गौरीवरप्रदो गौरीप्रणयो गौरसच्छविः ।
गौरीगणेश्वरो गौरीप्रवणो गौरभावनः ॥ ७९ ॥
गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठदृक् ।
गौतमो गौतमीनाथो गौतमीप्राणवल्लभः ॥ ८० ॥
गौतमाभीष्टवरदो गौतमाभयदायकः ।
गौतमप्रणयप्रह्वो गौतमाश्रमदुःखहा ॥ ८१ ॥
गौतमीतीरसञ्चारी गौतमीतीर्थनायकः ।
गौतमापत्परिहारो गौतमाधिविनाशनः ॥ ८२ ॥
गोपतिर्गोधनो गोपो गोपालप्रियदर्शनः ।
गोपालो गोगणाधीशो गोकश्मलनिवर्तकः ॥ ८३ ॥
गोसहस्रो गोपवरो गोपगोपीसुखावहः ।
गोवर्धनो गोपगोपो गोपो गोकुलवर्धनः ॥ ८४ ॥
गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत् ।
गोमी गोकष्टसन्त्राता गोसन्तापनिवर्तकः ॥ ८५ ॥
गोष्ठो गोष्ठाश्रयो गोष्ठपतिर्गोधनवर्धनः ।
गोष्ठप्रियो गोष्ठमयो गोष्ठामयनिवर्तकः ॥ ८६ ॥
गोलोको गोलको गोभृद्गोभर्ता गोसुखावहः ।
गोधुग्गोधुग्गणप्रेष्ठो गोदोग्धा गोमयप्रियः ॥ ८७ ॥
गोत्रं गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापहः ।
गोत्रवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशनः ॥ ८८ ॥
गोत्रोद्धारपरो गोत्रप्रवरो गोत्रदैवतम् ।
गोत्रविख्यातनामा च गोत्री गोत्रप्रपालकः ॥ ८९ ॥
गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लमः ।
गोत्रत्राणकरो गोत्रपतिर्गोत्रेशपूजितः ॥ ९० ॥
गोत्रभिद्गोत्रभित्त्राता गोत्रभिद्वरदायकः ।
गोत्रभित्पूजितपदो गोत्रभिच्छत्रुसूदनः ॥ ९१ ॥
गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्गोत्रपालकः ।
गोत्रभिद्गीतचरितो गोत्रभिद्राज्यरक्षकः ॥ ९२ ॥
गोत्रभिज्जयदायी च गोत्रभित्प्रणयः सदा ।
गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायकः ॥ ९३ ॥
गोत्रभिद्गोपनपरो गोत्रभित्सैन्यनायकः ।
गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रियः ॥ ९४ ॥
ग्रन्थज्ञो ग्रन्थकृद्ग्रन्थग्रन्थिभिद्ग्रन्थविघ्नहा ।
ग्रन्थादिर्ग्रन्थसञ्चारो ग्रन्थश्रवणलोलुपः ॥ ९५ ॥
ग्रन्थादीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् ।
ग्रन्थसंशयसञ्छेदी ग्रन्थवक्ता ग्रहाग्रणीः ॥ ९६ ॥
ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजितः ।
ग्रन्थारम्भस्तुतो ग्रन्थग्राही ग्रन्थार्थपारदृक् ॥ ९७ ॥
ग्रन्थदृग्ग्रन्थविज्ञानो ग्रन्थसन्दर्भषोधकः ।
ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायणः ॥ ९८ ॥
ग्रन्थपारायणपरो ग्रन्थसन्देहभञ्जकः ।
ग्रन्थकृद्वरदाता च ग्रन्थकृद्वन्दितः सदा ॥ ९९ ॥
ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायकः ।
ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः ॥ १०० ॥
ग्रन्थपारङ्गमो ग्रन्थगुणविद्ग्रन्थविग्रहः ।
ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रगः ॥ १०१ ॥
ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थग्रथनलालसः ।
ग्रन्थभूमिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रयः ॥ १०२ ॥
ग्रन्थकारो ग्रन्थकारमान्यो ग्रन्थप्रसारकः ।
ग्रन्थश्रमज्ञो ग्रन्थाङ्गो ग्रन्थभ्रमनिवारकः ॥ १०३ ॥
ग्रन्थप्रवणसर्वाङ्गो ग्रन्थप्रणयतत्परः ।
गीतं गीतगुणो गीतकीर्तिर्गीतविशारदः ॥ १०४ ॥
गीतस्फीतयशा गीतप्रणयो गीतचञ्चुरः ।
गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृहः ॥ १०५ ॥
गीताश्रयो गीतमयो गीततत्त्वार्थकोविदः ।
गीतसंशयसञ्छेत्ता गीतसङ्गीतशाशनः ॥ १०६ ॥
गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गताश्रयः ।
गीतासारोऽथ गीताकृद्गीताकृद्विघ्ननाशनः ॥ १०७ ॥
गीताशक्तो गीतलीनो गीताविगतसञ्ज्वरः ।
गीतैकदृग्गीतभूतिर्गीतप्रीतो गतालसः ॥ १०८ ॥
गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित् ।
गीतागीतविवेकज्ञो गीताप्रवणचेतनः ॥ १०९ ॥
गतभीर्गतविद्वेषो गतसंसारबन्धनः ।
गतमायो गतत्रासो गतदुःखो गतज्वरः ॥ ११० ॥
गतासुहृद्गतज्ञानो गतदुष्टाशयो गतः ।
गतार्तिर्गतसङ्कल्पो गतदुष्टविचेष्टितः ॥ १११ ॥
गताहङ्कारसञ्चारो गतदर्पो गताहितः ।
गतविघ्नो गतभयो गतागतनिवारकः ॥ ११२ ॥
गतव्यथो गतापायो गतदोषो गतेः परः ।
गतसर्वविकारोऽथ गतगञ्जितकुञ्जरः ॥ ११३ ॥
गतकम्पितभूपृष्ठो गतरुग्गतकल्मषः ।
गतदैन्यो गतस्तैन्यो गतमानो गतश्रमः ॥ ११४ ॥
गतक्रोधो गतग्लानिर्गतम्लानो गतभ्रमः ।
गताभावो गतभवो गततत्त्वार्थसंशयः ॥ ११५ ॥
गयासुरशिरश्छेत्ता गयासुरवरप्रदः ।
गयावासो गयानाथो गयावासिनमस्कृतः ॥ ११६ ॥
गयातीर्थफलाध्यक्षो गयायात्राफलप्रदः ।
गयामयो गयाक्षेत्रं गयाक्षेत्रनिवासकृत् ॥ ११७ ॥
गयावासिस्तुतो गयान्मधुव्रतलसत्कटः ।
गायको गायकवरो गायकेष्टफलप्रदः ॥ ११८ ॥
गायकप्रणयी गाता गायकाभयदायकः ।
गायकप्रवणस्वान्तो गायकः प्रथमः सदा ॥ ११९ ॥
गायकोद्गीतसम्प्रीतो गायकोत्कटविघ्नहा ।
गानगेयो गानकेशो गायकान्तरसञ्चरः ॥ १२० ॥
गायकप्रियदः शश्वद्गायकाधीनविग्रहः ।
गेयो गेयगुणो गेयचरितो गेयतत्त्ववित् ॥ १२१ ॥
गायकत्रासहा ग्रन्थो ग्रन्थतत्त्वविवेचकः ।
गाढानुरागो गाढाङ्गो गाढागङ्गाजलोऽन्वहम् ॥ १२२ ॥
गाढावगाढजलधिर्गाढप्रज्ञो गतामयः ।
गाढप्रत्यर्थिसैन्योऽथ गाढानुग्रहतत्परः ॥ १२३ ॥
गाढश्लेषरसाभिज्ञो गाढनिर्वृतिसाधकः ।
गङ्गाधरेष्टवरदो गङ्गाधरभयापहः ॥ १२४ ॥
गङ्गाधरगुरुर्गङ्गाधरध्यातपदः सदा ।
गङ्गाधरस्तुतो गङ्गाधराराध्यो गतस्मयः ॥ १२५ ॥
गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दरः ।
गङ्गाजलरसास्वादचतुरो गाङ्गतीरयः ॥ १२६ ॥
गङ्गाजलप्रणयवान् गङ्गातीरविहारकृत् ।
गङ्गाप्रियो गङ्गाजलावगाहनपरः सदा ॥ १२७ ॥
गन्धमादनसंवासो गन्धमादनकेलिकृत् ।
गन्धानुलिप्तसर्वाङ्गो गन्धलुब्धमधुव्रतः ॥ १२८ ॥
गन्धो गन्धर्वराजोऽथ गन्धर्वप्रियकृत् सदा ।
गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्धनः ॥ १२९ ॥
गकारबीजनिलयो गकारो गर्विगर्वनुत् ।
गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः ॥ १३० ॥
गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम् ।
गन्धर्वगर्वसञ्छेत्ता गन्धर्ववरदर्पहा ॥ १३१ ॥
गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुतः ।
गन्धर्वार्चितपादाब्जो गन्धर्वभयहारकः ॥ १३२ ॥
गन्धर्वाभयदः शश्वद् गन्धर्वप्रतिपालकः ।
गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुकः ॥ १३३ ॥
गन्धर्वगानश्रवणप्रणयी गर्वभञ्जनः ।
गन्धर्वत्राणसन्नद्धो गन्धर्वसमरक्षमः ॥ १३४ ॥
गन्धर्वस्त्रीभिराराध्यो गानं गानपटुः सदा ।
गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा ॥ १३५ ॥
गच्छराजोऽथ गच्छेशो गच्छराजनमस्कृतः ।
गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यमः ॥ १३६ ॥
गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यमः ।
गच्छगीतगुणो गच्छमर्यादाप्रतिपालकः ॥ १३७ ॥
गच्छधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरुः ।
गृत्सो गृत्समदो गृत्समदाभीष्टवरप्रदः ॥ १३८ ॥
गीर्वाणगीतचरितो गीर्वाणगणसेवितः ।
गीर्वाणवरदाता च गीर्वाणभयनाशकृत् ॥ १३९ ॥
गीर्वाणगुणसंवीतो गीर्वाणारातिसूदनः ।
गीर्वाणधाम गीर्वाणगोप्ता गीर्वाणगर्वहृत् ॥ १४० ॥
गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायकः ।
गीर्वाणशरणं गीतनामा गीर्वाणसुन्दरः ॥ १४१ ॥
गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षकः ।
गुहेहापूरको गन्धमत्तो गीर्वाणपुष्टिदः ॥ १४२ ॥
गीर्वाणप्रयुतत्राता गीतगोत्रो गताहितः ।
गीर्वाणसेवितपदो गीर्वाणप्रथितो गलत् ॥ १४३ ॥
गीर्वाणगोत्रप्रवरो गीर्वाणफलदायकः ।
गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित् ॥ १४४ ॥
गीर्वाणागमसम्पत्तिर्गीर्वाणव्यसनापहह् ।
गीर्वाणप्रणयो गीतग्रहणोत्सुकमानसः ॥ १४५ ॥
गीर्वाणभ्रमसम्भेत्ता गीर्वाणगुरुपूजितः ।
ग्रहो ग्रहपतिर्ग्राहो ग्रहपीडाप्रणाशनः ॥ १४६ ॥
ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशो ग्रहदैवतम् ।
ग्रहकृद्ग्रहभर्ता च ग्रहेशानो ग्रहेश्वरः ॥ १४७ ॥
ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता ग्रहोत्कटः ।
ग्रहगीतगुणो ग्रन्थप्रणेता ग्रहवन्दितः ॥ १४८ ॥
गवी गवीश्वरो गर्वी गर्विष्ठो गर्विगर्वहा ।
गवाम्प्रियो गवान्नाथो गवीशानो गवाम्पती ॥ १४९ ॥
गव्यप्रियो गवाङ्गोप्ता गविसम्पत्तिसाधकः ।
गविरक्षणसन्नद्धो गवाम्भयहरः क्षणात् ॥ १५० ॥
गविगर्वहरो गोदो गोप्रदो गोजयप्रदः ।
गजायुतबलो गण्डगुञ्जन्मत्तमधुव्रतः ॥ १५१ ॥
गण्डस्थललसद्दानमिळन्मत्ताळिमण्डितः ।
गुडो गुडप्रियो गुण्डगळद्दानो गुडाशनः ॥ १५२ ॥
गुडाकेशो गुडाकेशसहायो गुडलड्डुभुक् ।
गुडभुग्गुडभुग्गणयो गुडाकेशवरप्रदः ॥ १५३ ॥
गुडाकेशार्चितपदो गुडाकेशसखः सदा ।
गदाधरार्चितपदो गदाधरवरप्रदः ॥ १५४ ॥
गदायुधो गदापाणिर्गदायुद्धविशारदः ।
गदहा गददर्पघ्नो गदगर्वप्रणाशनः ॥ १५५ ॥
गदग्रस्तपरित्राता गदाडम्बरखण्डकः ।
गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशयः ॥ १५६ ॥
गुहप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक् ।
गीर्गीष्पतिर्गिरीशानो गीर्देवीगीतसद्गुणः ॥ १५७ ॥
गीर्देवो गीष्प्रियो गीर्भूर्गीरात्मा गीष्प्रियङ्करः ।
गीर्भूमिर्गीरसन्नोऽथ गीःप्रसन्नो गिरीश्वरः ॥ १५८ ॥
गिरीशजो गिरौशायी गिरिराजसुखावहः ।
गिरिराजार्चितपदो गिरिराजनमस्कृतः ॥ १५९ ॥
गिरिराजगुहाविष्टो गिरिराजाभयप्रदः ।
गिरिराजेष्टवरदो गिरिराजप्रपालकः ॥ १६० ॥
गिरिराजसुतासूनुर्गिरिराजजयप्रदः ।
गिरिव्रजवनस्थायी गिरिव्रजचरः सदा ॥ १६१ ॥
गर्गो गर्गप्रियो गर्गदेहो गर्गनमस्कृतः ।
गर्गभीतिहरो गर्गवरदो गर्गसंस्तुतः ॥ १६२ ॥
गर्गगीतप्रसन्नात्मा गर्गानन्दकरः सदा ।
गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जकः ॥ १६३ ॥
गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः ।
गर्गग्लानिहरो गर्गभ्रमहृद्गर्गसङ्गतः ॥ १६४ ॥
गर्गाचार्यो गर्गमुनिर्गर्गसम्मानभाजनः ।
गम्भीरो गणितप्रज्ञो गणितागमसारवित् ॥ १६५ ॥
गणको गणकश्लाघ्यो गणकप्रणयोत्सुकः ।
गणकप्रवणस्वान्तो गणितो गणितागमः ॥ १६६ ॥
गद्यं गद्यमयो गद्यपद्यविद्याविशारदः ।
गललग्नमहानागो गलदर्चिर्गलसन्मदः ॥ १६७ ॥
गलत्कुष्ठिव्यथाहन्ता गलत्कुष्ठिसुखप्रदः ।
गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचनः ॥ १६८ ॥
गम्भीरगुणसम्पन्नो गम्भीरगतिशोभनः ।
गर्भप्रदो गर्भरूपो गर्भापद्विनिवारकः ॥ १६९ ॥
गर्भागमनसन्नाशो गर्भदो गर्भशोकनुत् ।
गर्भत्राता गर्भगोप्त गर्भपुष्टिकरः सदा ॥ १७० ॥
गर्भाश्रयो गर्भमयो गर्भामयनिवारकः ।
गर्भाधारो गर्भधरो गर्भसन्तोषसाधकः ॥ १७१ ॥
गर्भगौरवसन्धानसन्धानं गर्भवर्गहृत् ।
गरीयान् गर्वनुद्गर्वमर्दी गरदमर्दकः ॥ १७२ ॥
गरसन्तापशमनो गुरुराज्यसुखप्रदः ।
॥ फलश्रुतिः ॥
नाम्नां सहस्रमुदितं महद्गणपतेरिदम् ॥ १७४ ॥
गकारादि जगद्वन्द्यं गोपनीयं प्रयत्नतः ।
य इदं प्रयतः प्रातस्त्रिसन्ध्यं वा पठेन्नरः ॥ १७३ ॥
वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ।
पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् ॥ १७४ ॥
विद्यार्थी लभते विद्यां सत्यं सत्यं न संशयः ।
भूर्जत्वचि समालिख्य कुङ्कुमेन समाहितः ॥ १७५ ॥
चतुर्थां भौमवारो च चन्द्रसूर्योपरागके ।
पूजयित्वा गणधीशं यथोक्तविधिना पुरा ॥ १७६ ॥
पूजयेद् यो यथाशक्त्या जुहुयाच्च शमीदलैः ।
गुरुं सम्पूज्य वस्त्राद्यैः कृत्वा चापि प्रदक्षिणम् ॥ १७७ ॥
धारयेद् यः प्रयत्नेन स साक्षाद्गणनायकः ।
सुराश्चासुरवर्याश्च पिशाचाः किन्नरोरगः ॥ १७८ ॥
प्रणमन्ति सदा तं वै दुष्ट्वां विस्मितमानसाः ।
राजा सपदि वश्यः स्यात् कामिन्यस्तद्वशो स्थिराः ॥ १७९ ॥
तस्य वंशो स्थिरा लक्ष्मीः कदापि न विमुञ्चति ।
निष्कामो यः पठेदेतद् गणेश्वरपरायणः ॥ १८० ॥
स प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् ।
इदं ते कीर्तितं नाम्नां सहस्रं देवि पावनम् ॥ १८१ ॥
न देयं कृपणयाथ शठाय गुरुविद्विषे ।
दत्त्वा च भ्रंशमाप्नोति देवतायाः प्रकोपतः ॥ १८२ ॥
इति श्रुत्वा महादेवी तदा विस्मितमानसा ।
पूजयामास विधिवद्गणेश्वरपदद्वयम् ॥ १८३ ॥
॥ इति श्रीरुद्रयामले महागुप्तसारे शिवपार्वतीसंवादे
गकारादि श्रीगणपतिसहस्रनामस्तोत्रं सम्पूर्णम् ॥
– Chant Stotra in Other Languages -1000 Names of Gakaradi Ganapati:
Gakaradi Sri Ganapati 1000 Names – Sahasranama Stotram in Sanskrit – English – Bengali – Gujarati – – Kannada – Malayalam – Odia – Telugu – Tamil