Gurujnanavasishtha’S Ribhu Gita In Sanskrit

॥ Ribhu Geetaa Sanskrit Lyrics ॥

॥ ऋभुगीता गुरुज्ञानवासिष्ठे ॥ From Gurujnanavasishtha
प्रथमोऽध्यायः ।
श्री गुरुमूर्तिः ।
पुनर्ज्ञानं प्रवक्ष्यामि यथावत्पद्मसम्भव ।
येनैव सर्वे मुच्यन्ते जनास्संसारबन्धनात् ॥ १.०१॥

विधे पुरा निदाघाख्यो मुनिः पप्रच्छ सद्गुरुम् ।
ऋभुसंज्ञं महाप्राज्ञं तद्वदामि तवाधुना ॥ १.०२॥

निदाघः ।
आत्मानात्मविवेकं मे कृपया ब्रूहि सद्गुरो ।
येन संसारपादोधिं तरिष्यामि सुखेन वै ॥ १.०३॥

ऋभुरेवं तदा पृष्ट उवाच सकलार्थवित् ।
सर्ववेदान्तसारज्ञस्सर्वपूज्यो महत्तमः ॥ १.०४॥

ऋभुः ।
सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्ताऽवधिर्गुरुः ।
सर्वकारणकार्यात्मा कार्यकारणवर्जितः ॥ १.०५॥

सर्वसंकल्परहितस्सर्वनादमयश्शिवः ।
सर्ववर्जितचिन्मात्रस्सर्वानन्दमयः परः ॥ १.०६॥

सर्वतेजः प्रकाशात्मा नादानन्दमयात्मकः ।
सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः ॥ १.०७॥

सर्वनादकलातीत एष आत्माऽहमव्ययः ।
आत्मानात्मविवेकादि भेदाभेदविवर्जितः ॥ १.०८॥

शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरात्मकः ।
महावाक्यार्थतो दूरो ब्रह्मास्मीत्यति दूरगः ॥ १.०९॥

तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः ।
क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः ॥ १.१०॥

अखण्डैकरसो वाऽहमानन्दोस्मीति वर्जितः ।
सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः ॥ १.११॥

आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः ।
सच्चिदानन्दहीनो य एषैवात्मा सनातनः ॥ १.१२॥

ननिर्देष्टुं च शक्नो यो वेदवाक्यैरगम्यकः ।
यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्नच ॥ १.१३॥

यस्य लिङ्गं प्रपंचं वा ब्रह्मैवात्मा न संशयः ।
नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः ॥ १.१४॥

नामरूपाऽदिकं नास्ति भोज्यं वा भोगभुक्च वा ।
सद्वाऽसद्वा स्थितिर्वाऽपि यस्य नास्ति क्षराक्षरम् ॥ १.१५॥

गुणं वा विगुणं वाऽपि सम आसीन् न संशयः ।
यस्य वाच्यं वाचकं वा श्रवणं मननं च वा ॥ १.१६॥

गुरुशिष्याऽदि भेदं वा देवलोकास्सुरासुराः ।
यत्र धर्ममधर्मं वा शुद्धं वाऽशुद्धमण्वपि ॥ १.१७॥

यत्र कालमकालं वा निश्चयं संशयं नहि ।
यत्र मन्त्रममन्त्रं वा विद्याऽविद्ये न विद्यते ॥ १.१८॥

द्रष्टृदर्शनदृश्यं वा ईषण्मात्रं कलादिकम् ।
अनात्मेति प्रसंगो वा ह्यनात्मेति मनोपि वा ॥ १.१९॥

अनात्मेति जगद्वाऽपि नास्ति नास्तीति निश्चिनु ।
सर्वसंकल्पशून्यत्वात् सर्वकार्यविवर्जनात् ॥ १.२०॥

केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु ।
देहत्रयविहीनत्वात् कालत्रयविवर्जनात् ॥ १.२१॥

लोकत्रयविहीनत्वात् सर्वमात्मेति शासनात् ।
चित्ताभावान्नचिन्तास्ति देहाभावाज्जरा न च ॥ १.२२॥

पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया न च ।
मृत्युर्नास्ति जराऽभावात् बुद्ध्यभावात् सुखादिकम् ॥ १.२३॥

धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च ।
अक्षरोच्चारणम् नास्ति गुरुशिष्यादि नास्त्यपि ॥ १.२४॥

एकाभावे द्वितीयं न न द्वितीये नचैकता ।
सत्यत्वमस्तिचेत् किंचिदसत्यं न च संभवेत् ॥ १.२५॥

असत्यत्वं यदि भवेत् सत्यत्वं न वदिष्यति ।
शुभं यद्यशुभं विद्धि अशुभाच्चुभमिष्यते ॥ १.२६॥

भयं यद्यभयं विद्धि अभयाद्भयमापतेत् ।
बन्धत्वमपिचेन्मोक्षो बन्धाभावे न मोक्षता ॥ १.२७॥

मरणम् यदि चेज्जन्म जन्माभावे मृतिर्नच ।
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ॥ १.२८॥

इदं यदि तदेवास्ति तदभावादिदं न च ।
अस्तीति चेन्नास्ति तदा नास्तिचेदस्ति किञ्चन ॥ १.२९॥

कार्यं चेत्कारणम् किंचित् कार्याभावे न कारणम् ।
द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं न च ॥ १.३०॥

दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ।
अन्तर्यदि बहिस्सत्यमन्ताभावे बहिर्नच ॥ १.३१॥

पूर्णत्वमस्ति चेद्किंचिदपूर्णत्वं प्रसज्यते ।
तस्मादेतद्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् ॥ १.३२॥

नास्ति दृष्टान्तकस्सत्ये नास्तिदार्ष्टान्तिकं ह्यजे ।
परं ब्रह्माहमस्मीति स्मरणस्य मनो नहि ॥ १.३३॥

ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् ।
चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु ॥ १.३४॥

इदं प्रपंचं नास्त्येव नोत्पन्नं नोस्थितं क्वचित् ।
चित्तं प्रपंचमित्याहुर्नास्ति नास्त्येव सर्वदा ॥ १.३५॥

न प्रपंचं न चित्तदि नाहंकारो न जीवकः ।
मायाकार्यादिकं नास्ति माया नास्ति भयं न च ॥ १.३६॥

कर्ता नास्ति क्रिया नास्ति श्रवणं मननं न हि ।
समाधि द्वितयं नास्ति मातृमानादि नास्ति हि ॥ १.३७॥

अज्ञानं चापि नास्त्येव ह्यविवेकः कदा च न ।
अनुबन्धचतुष्कं न संबन्धत्रयमेव न ॥ १.३८॥

न गंगा न गया सेतुर्न भूतं नान्यदस्ति हि ।
न भूमिर्न जलं नाग्निर्न वायुर्न च खं क्वचित् ॥ १.३९॥

न देवो न च दिक्पाला न वेदा न गुरुः क्वचित् ।
न दूरं नातिकं नान्तं न मध्यं न क्वचित् स्थितम् ॥ १.४०॥

नाद्वैतद्वैतसत्यं वा ह्यसत्यं वा इदं च न ।
बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा ॥ १.४१॥

जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ।
सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्येव नास्ति हि ॥ १.४२॥

चिदित्येवेति नास्त्येव चिदहं भाषणं नहि ।
अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोस्मि न क्वचित् ॥ १.४३॥

वाचा यदुच्यते किंचिन् मनसा मनुते क्वचित् ।
बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि ॥ १.४४॥

योगियोगादिकं नास्ति सदा सर्वं सदा न च ।
अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि ॥ १.४५॥

भ्रान्त्यभ्रान्त्यादिकं नास्ति नास्त्यनात्मेति निश्चिनु ।
वेदश्शास्त्रं पुराणं च कार्यं कारणमीश्वरः ॥ १.४६॥

लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः ।
वाचा वदति यत्किंचित्संकल्पैः कल्प्यते च यत् ॥ १.४७॥

मनसा चिन्त्यते यद्यत् सर्वं मिथ्या न संशयः ।
बुद्ध्या निश्चीयते किंचिच्चित्ते निश्चीयते क्वचित् ॥ १.४८॥

शास्त्रैः प्रपंच्यते यद्यत् नेत्रेणैव निरीक्ष्यते ।
श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च ॥ १.४९॥

त्वमहं तदिदं सोऽहमन्यत् सद्भावमेव च ।
नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् ॥ १.५०॥

इदं मिध्यैवनिर्दिष्टमयमित्येव कल्प्यते ।
यद्यत्संभाव्यते लोके सर्वं संकल्पसंभ्रमः ॥ १.५१॥

सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् ।
सर्वदोषप्रभेदं च नास्त्यनात्मेति निश्चिनु ॥ १.५२॥

मदीयं च त्वदीयं च ममेति च तवेति च ।
मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् ॥ १.५३॥

रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् ।
संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु ॥ १.५४॥

स्नानं जपस्तपो होमस्स्वाध्यायो देवपूजनम् ।
मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृभणम् ॥ १.५५॥

अन्तःकरण सद्भावोऽविद्यायाश्च संभवः ।
अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु ॥ १.५६॥

सर्वदेशिकवाक्योक्तिर्येनकेनापि निश्चिता ।
दृश्यते जगति यद्यत् यद्यज्जगति वीक्ष्यते ॥ १.५७॥

वर्तते जगति यद्यत् सर्वं मिथ्येति निश्चिनु ।
येनेकेनाक्षरेणोक्तं येनेकेन विवर्णितम् ॥ १.५८॥

येनेकेनापि गदितं येनेकेनापि मोदितम् ।
येनेकेनापि यद्दत्तं येनकेनापि यत्कृतम् ॥ १.५९॥

यत्रयत्र शुभं कर्म यत्रयत्र च दुष्कृतम् ।
यद्यत्करोति सत्येन सर्वं मिथ्येति निश्चिनु ॥ १.६०॥

इदं प्रपंचं यत्किंचित् यद्यज्जगति विद्यते ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ १.६१॥

श्री गुरुमूर्तिः ।
एवं श्रुत्वा निदाघस्स ब्रह्मन् संशयवेष्टितः ।
ऋभुं पप्रच्छ पुनरप्यात्मविज्ञानसिद्धये ॥ १.६२॥

निदाघः ।
स्वामिन् मुमुक्षोस्संसारान् ममारूपेण वस्तुना ।
प्रपंचितेन न फलं भवेदिति मे मतिः ॥ १.६३॥

यतस्त्वद्कथितं ब्रह्म तत्त्वमस्याद्यगोचरम् ।
अखण्डैकरसातीतं मोक्षातीतं च सद्गुरो ॥ १.६४॥

ज्ञेयत्वादिविहीनं तत् कथं ज्ञास्याम्यहं नु वा ।
तज्ज्ञानेन फलं किं वा मोक्षस्यैव फलत्वतः ॥ १.६५॥

फलमास्तिक्यबुद्ध्या स्यान् न चैवंभूतवस्तुनः ।
त्वदुक्त निश्चये सर्वसांकर्यं च प्रसज्यते ॥ १.६६॥

यद्युक्त व्यतिरिक्तानां सर्वेषां स्यादनात्मता ।
हेयत्वान्नैव जिज्ञास्यं किंचिदप्यत्र सिद्ध्यति ॥ १.६७॥

शशश‍ृंग समानत्वं यथाप्रोक्तमनात्मनाम् ।
अत्यन्तारूपवत्त्वेन तथा तत्सिद्धिरात्मनः ॥ १.६८॥

अथवा तत् तथैवास्ताम् अन्यथावापि मे गुरो ।
यज्ज्ञानेन भवान्मुक्तिर्भवेत् तद् ब्रूहि वेदितुम् ॥ १.६९॥

एवम् उक्तो निदाघेन कुशाग्रमतिना परम् ।
ऋभुस्सन्तुष्टहृदयः पुनरेवाब्रवीदिदम् ॥ १.७०॥

ऋभुः ।
निदाघ सत्यमेवैतत्त्वदुक्तं युक्तिगर्भितम् ।
तथापि युक्तं मद्वाक्यं त्रैविद्ध्याज्ज्ञेयवस्तुनः ॥ १.७१॥

सगुणं निर्गुणं ताभ्याम् अन्यन्निष्प्रतियोगिकम् ।
ब्रह्मैवं त्रिविधं लिन्गैर्वेदान्तेषु हि विश्रुतम् ॥ १.७२॥

तत्राद्यं हेयगुणकं सोपाधित्वान्मुमुक्षुभिः ।
तत्त्वमस्यादिवाच्यत्वाज्ज्ञेयं हेयतयाग्रतः ॥ १.७३॥

जीवेश्वरविभागेन सगुणं द्विविधं भवेत् ।
जीवश्च त्रिविधस्तद्वद् ईशश्चास्ताम् इदं तथा ॥ १.७४॥

उपादेयं द्वितीयं स्यान्निर्गुणं मोक्षकांक्षिभिः ।
तत्त्वमस्यादिलक्ष्यत्वाज्ज्ञेयं चात्मतया ततः ॥ १.७५॥

हेयोपादेयशून्यं तत्तृतीयं प्रकृतं यतः ।
मुक्तैः प्राप्यम् अतश्शब्दमपि ज्ञेयं मुमुक्षुभिः ॥ १.७६॥

इदन्त्वेनाप्यहन्त्वेन स्वत्वेनापि नवेद्यता ।
तथाप्यस्यास्ति वेद्यत्वं श्रुत्युक्तत्वान्न नास्तिता ॥ १.७७॥

मुक्तस्य स्वगतो भेदो यदनाप्तौ न नश्यति ।
तज्ज्ञाने फलमेतत्स्यात् सर्वभेदनिबर्हणम् ॥ १.७८॥

अतोऽस्यालक्षणत्वेन सदसद्परतास्त्यपि ।
शशश‍ृंगसमानत्वं निदाघाशक्यमीरितुम् ॥ १.७९॥

विशेषसत्ताऽभावेपि सत्तासामान्यता यतः ।
निर्द्वन्द्वत्वेन संसिद्धा ततस्सत्त्वादिकं भवेत् ॥ १.८०॥

अथवा शशश‍ृंगादि सादृश्यं भवतु स्वतः ।
सिद्धान्तता श्रुतिप्रोक्ता नैराश्यस्य हि सुव्रत ॥ १.८१॥

न तावता विरोधोस्ति कश्चिदप्यधुना तव ।
संसारमोक्षसिद्ध्यर्थम् अस्यानुक्ततया मया ॥ १.८२॥

॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे तृतीयोऽध्यायः एवं
श्री ऋभुगीता प्रथमोऽध्यायः समाप्तः ॥

द्वितीयोऽध्यायः ।
अथातस्सम्प्रवक्ष्यामि निदाघ श‍ृणु सादरम् ।
संसारमोक्षसिद्ध्यर्थं सरूपं ब्रह्म निर्गुणम् ॥ २.०१ ॥

तत्त्वमस्यादिवाक्यैर्यल्लक्ष्यं जीवादिकारणम् ।
नित्यशुद्धविबुद्धं च नित्यमुक्तं च शाश्वतम् ॥ २.०२ ॥

यत्सर्ववेदसिद्धान्तं यज्ज्ञानेनैव मुक्तता ।
जीवस्य यच्च सम्पूर्णं तत्त्वमेवासि निर्मलम् ॥ २.०३ ॥

त्वमेव परमात्मासि त्वमेव परमोगुरुः ।
त्वमेवाकाशरूपोसि साक्षिहीनोसि सर्वदा ॥ २.०४ ॥

त्वमेव सर्वभावोसि त्वं ब्रह्मासि नसंशयः ।
कालहीनोसि कालोसि सदा ब्रह्मासि चिद्घनः ॥ २.०५ ॥

सर्वतस्सर्वरूपोसि चैतन्यघनवानसि ।
सर्वभूतान्तरस्थोसि कर्माध्यक्षोसि निर्गुणः ॥ २.०६ ॥

सत्योसि सिद्धोसि सनातनोसि मुक्तोसि मोक्षोसि मुदाऽमृतोसि ।
देवोसि शान्तोसि निरामयोसि ब्रह्मासि पूर्णोसि परात्परोसि ॥ २.०७ ॥

See Also  Shruti Gita In Sanskrit

समोसि सच्चसि चिरन्तनोसि सत्यादिवक्यैः प्रतिबोधितोसि ।
सर्वाङ्गहीनोसि सदास्थितोसि ब्रह्मेन्द्ररुद्रादिविभावितोसि ॥ २.०८ ॥

सर्वप्रपंचभ्रमवर्जितोसि सर्वेषु भूतेषु च भावितोसि ।
सर्वत्र सङ्कल्पविवर्जितोसि सर्वागमान्तार्थविभावितोसि ॥ २.०९ ॥

सर्वत्र सन्तोषसुखासनोसि सर्वत्र गत्यादिविवर्जितोसि ।
सर्वत्र लक्ष्यादि विवर्जितोसि ध्यातोसि विष्ण्वादिसुरैरजस्रम् ॥ २.१० ॥

चिदाकार स्वरूपोसि चिन्मात्रोसि निरङ्कुशः ।
आत्मन्येव स्थितोसि त्वं सर्वशून्योसि निश्चलः ॥ २.११ ॥

आनन्दोसि परोसि त्वमेकमेवाद्वितीयकः ।
चिद्घनानन्दरूपोसि परिपूर्णस्वरूपकः ॥ २.१२ ॥

सदसि त्वमभिज्ञोसि सोसि जानासि वीक्ष्यसि ।
सच्चिदानन्दरूपोसि वासुदेवोसि वै प्रभुः ॥ २.१३ ॥

अमृतोसि विभुश्चसि चञ्चलोस्यचलोह्यसि ।
सर्वोसि सर्वहीनोसि शान्ताशान्तविवर्जितः ॥ २.१४ ॥

सत्तामात्रप्रकाशोसि सत्तासामान्यकोह्यसि ।
नित्यसिद्धस्वरूपोसि सर्वसिद्धिविवर्जितः ॥ २.१५ ॥

ईषण्मात्रविशून्योसि ह्यणुमात्रविवर्जितः ।
अस्तित्ववर्जितोसि त्वं नास्तित्वादिविवर्जितः ॥ २.१६ ॥

लक्ष्यलक्षणहीनोसि निर्विकारो निरामयः ।
सर्वनादान्तरोसि त्वं कलाकाष्ठादिवर्जितः ॥ २.१७ ॥

ब्रह्मविष्ण्वीशहीनोसि स्वस्वरूपं प्रपश्यसि ।
स्वस्वरूपावशेषोसि स्वानन्दाब्धौ निमज्जसि ॥ २.१८ ॥

स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः ।
शिष्टपूर्णस्वरूपोसि स्वस्मात्किञ्चिन्नपश्यसि ॥ २.१९ ॥

स्वस्वरूपान्नचलसि स्वस्वरूपेण जृंभसि ।
स्वस्वरूपादनन्योसि ह्यहमेवासि निश्चिनु ॥ २.२० ॥

इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते ।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ २.२१ ॥

लक्ष्यलक्षणहीनत्वाद्युक्त्यानिष्प्रतियोगिकम् ।
न मन्तव्यं यथायोग्यं लौकिकैस्त्वं विनिश्चिनु ॥ २.२२ ॥

निर्गुणं निर्मलं शान्तं ब्रह्मसप्रतियोगिकम् ।
शुद्धान्तःकरणज्ञेयं वेदोक्तं प्रकृतं खलु ॥ २.२३ ॥

आत्मस्त्वं सच्चिदानन्दलक्ष्णैर्लक्ष्यमद्वयम् ।
ब्रह्मैवास्मि न देहोऽयमिति चित्तेऽवधारय ॥ २.२४ ॥

देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् ।
देहोऽहमिति सङ्कल्पो महान् संसार उच्यते ॥ २.२५ ॥

देहोऽहमिति सङ्कल्पस्तद्बन्ध इति चोच्यते ।
देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोचय्ते ॥ २.२६ ॥

देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् ।
देहोऽहमिति सङ्कल्पो जगत्सर्वं समीर्यते ॥ २.२७ ॥

देहोऽहमिति सङ्कल्पो हृदयग्रन्धिरीरितः ।
देहोऽहमिति यज्ज्ञानं तदसज्ज्ञानमेवच ॥ २.२८ ॥

देहोऽहमिति यद्बुद्धिः सा चाविद्येति भण्यते ।
देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते ॥ २.२९ ॥

देहोऽहमिति सङ्कल्पस्सत्यजीवस्स एव च ।
देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् ॥ २.३० ॥

देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् ।
देहोऽहमिति या बुद्धिस्तृष्णादोषाऽऽमयः किल ॥ २.३१ ॥

यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् ।
तच्च सर्वं मनुष्याणां मानसं हि निगद्यते ॥ २.३२ ॥

कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम् ।
यत्किञ्चेदं सर्वसङ्कल्पजातं तत्किञ्चेदं मानसं सोम्य विद्धि ॥ २.३३ ॥

मन एव जगत्सर्वं मन एव महारिपुः ।
मन एव हि संसारो मन एव जगत्त्रयम् ॥ २.३४ ॥

मन एव महद्दुःखं मन एव जरादिकम् ।
मन एव हि कालश्च मन एव मलं तथा ॥ २.३५ ॥

मन एव हि सङ्कल्पो मन एव च जीवकः ।
मन एव हि चित्तं च मनोऽहङ्कार एव च ॥ २.३६ ॥

मन एव महान् बन्धो मनोऽन्तःकरणं च तत् ।
मन एव हि भूमिश्च मन एव हि तज्जलम् ॥ २.३७ ॥

मन एव हि तेजश्च मन एव मरुन्महान् ।
मन एव हि चकाशो मन एव हि शब्दकः ॥ २.३८ ॥

स्पर्शरूपरसा गन्धः कोशाः पञ्च मनोभवाः ।
जाग्रत्स्वप्नसुषुप्त्यादि मनोमयमितीरितम् ॥ २.३९ ॥

दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः ।
दृश्यं बन्धं द्वन्द्वजातमज्ञानं मानसं स्मृतम् ॥ २.४० ॥

सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु ।
नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं निहि ॥ २.४१ ॥

व्यवहारदशायां हि गुरुशिष्यादिकं भवेत् ।
परमार्थदशायां तत् कथं मुक्तौ प्रसिद्ध्यति ॥ २.४२ ॥

मुक्त्यतीत दशायां च प्रोच्यते परमार्थता ।
तथाप्यसत्यहंतृत्वान्मुक्तेरेवास्ति मुख्ययाः ॥ २.४३ ॥

मनसा कल्पितं सर्वं मनसा परिपालितम् ।
मनसा संस्मृतं तस्मान्मन एवास्ति कारणम् ॥ २.४४ ॥

मनसा संस्मृतं सर्वं मनसैव च विस्मृतम् ।
मनसा भावितं सर्वं मनसैव ह्यभावितं ॥ २.४५ ॥

मनसा दूषितं सर्वं मनसैव च भूषितम् ।
मनसा सुखवृत्तिस्स्यान्मनसा दुःखसञ्चयः ॥ २.४६ ॥

तस्मात्सर्वनिदानं तन्मनस्सूक्ष्मं परात्मनि ।
त्वयि सच्चित्सुखांबोधौ कल्पितं विद्धि मायया ॥ २.४७ ॥

त्वदन्यस्य च सर्वस्य कल्पितत्वादबोधतः ।
त्वमेव सर्वसाक्षी सन् स्वयं भासि निरन्तरम् ॥ २.४८ ॥

तव बोधस्वरूपत्वात् त्वय्यबोधस्य का गतिः ।
मन्दबुद्ध्या गतौ सत्यामपि नाशस्स्वयं भवेत् ॥ २.४९ ॥

नित्यबोधस्वरूपस्त्वं ह्यबोधप्रतियोगिकः ।
त्वयि तत्सन्निवर्तेत तमस्सूर्योदये यथा ॥ २.५० ॥

ज्ञातृज्ञानेप्रकल्प्येते यत्र ज्ञेयेऽद्वये त्वयि ।
तस्याखण्डस्वरूपत्वात् सर्वाधिष्ठानतोचिता ॥ २.५१ ॥

मुमुक्षुभिश्च विज्ञेयास्स्वधर्मास्सच्चिदादयः ।
सन्मयश्चिन्मयश्चत्मा तथानन्दमयो यतः ॥ २.५२ ॥

चिद्रूपस्य तवात्मत्वादनात्मानस्त्वचिन्मयाः ।
अनात्मनां विकारित्वान्निर्विकारस्त्वमिष्यसे ॥ २.५३ ॥

विकारस्य समस्तस्याप्यविद्याकल्पितत्वतः ।
विलये निर्विकारस्त्वं विद्यावानवशिष्यसे ॥ २.५४ ॥

बृहद् ब्रह्मावशेषो हि नाशः कल्पितवस्तुनः ।
यच्छेषास्स्युरिमे सर्वे स शेषी नित्यतां व्रजेत् ॥ २.५५ ॥

शेषस्य शेष्यनन्यत्वं वास्तवं सर्वसम्मतम् ।
शेषिणस्तु तवान्यत्वान्न शेषस्यास्ति नित्यता ॥ २.५६ ॥

शेषिणश्शेषसापेक्ष्यान्न स्वातन्त्र्येण शेषिता ।
इति वक्तुं न शक्यं हि स्वमहिम्नि स्थितत्वतः ॥ २.५७ ॥

स्वस्यैष महिमा सर्वव्यापकत्वादिलक्षणः ।
सर्वश‍ृत्यादि संसिद्धः काभीर्हीयेत युक्तिभिः ॥ २.५८ ॥

व्याप्यसापेक्षता तस्य व्यापकस्येतिचेच्छृणु ।
व्याप्यानपेक्षं सिद्धिर्हि व्यापकस्य निजाश्रयात् ॥ २.५९ ॥

व्याप्यस्यैव हि जीवस्य विकारापेक्षया तथा ।
व्यापकापेक्षया च स्यात् स्थितिर्न व्यापकस्यतु ॥ २.६० ॥

विकारालंबनाभावात्स्वालंबनतयापि च ।
सर्वालंबनता सिद्धा न स्वहानेश्च सङ्गतिः ॥ २.६१ ॥

सर्वाधारस्य नाधारोऽपेक्ष्यतेपि क्वचिद्विभोः ।
स चेदाधारसापेक्षो न सर्वाधारतां व्रजेत् ॥ २.६२ ॥

सर्वाधारस्य च व्योम्नो यथात्माधार इष्यते ।
तथात्मनोपि कश्चित्स्यादिति चेद्बाढमुच्यते ॥ २.६३ ॥

आत्मैवात्मन आधार आत्मन्येवात्मनस्स्थितेः ।
अनात्मनो यथाऽनात्मा कश्चिदेवास्ति चश्रयः ॥ २.६४ ॥

आत्मनोऽपि तु नानात्वे स्यादनात्माविशेषता ।
इति चेन्नैष भेदो हि विकारावाश्रयो भवेत् ॥ २.६५ ॥

यथा भवति देहस्य प्राण एवाश्रयः पुनः ।
प्राणस्य चश्रयो देहस्तथात्माऽनात्मनोरपि ॥ २.६६ ॥

अन्योन्याश्रयता प्राप्ता तथा नाशो द्वयोरपि ।
इति चेदुक्तमेवैतदात्मा हि स्वाश्रयो मतः ॥ २.६७ ॥

आश्रयाश्रयि वार्ता च व्यवहारे निगद्यते ।
परमार्थदशायां तु स्वस्मादन्यन्नविद्यते ॥ २.६८ ॥

आत्मनस्स्वगतो भेदो योस्मिन्नभ्युपगम्यते ।
स किं नित्योस्त्यनित्योवेत्येवं प्रश्ने तु कथ्यते ॥ २.६९ ॥

लब्धात्मसम्यग्बोधस्य तव यावदिहस्थितिः ।
तावत्तस्याविनाशित्वान्नित्य एवेति निर्णयः ॥ २.७० ॥

पश्चदनित्यतायाश्च तव प्रष्टुरभावतः ।
स्वभेदानित्यवार्ताया नावकाशोऽत्र विद्यते ॥ २.७१ ॥

आत्मा स किं भवेद्द्रष्टा दृश्यो वा किन्नु दर्शनम् ।
द्रष्टृत्वे सति जीवत्वात्संसारित्वं प्रसज्यते ॥ २.७२ ॥

दृश्यत्वे तु घटादीनामिवस्याद्विषयात्मता ।
दर्शनत्वे तु वृत्तित्वाज्जाड्यमेव प्रसज्यते ॥ २.७३ ॥

असंसारी परात्माऽसौ स्वयं निर्विषयस्तथा ।
चैतन्यरूप इत्येतद्व्यर्थमेवेति चेच्छृणु ॥ २.७४ ॥

द्रष्टृत्वं तस्य विद्ध्येवं जीवेशादीक्षितृत्वतः ।
दृश्यत्वं च तथा विद्धि मुक्तैर्द्रष्टृत्वतस्स्वतः ॥ २.७५ ॥

दर्शनत्वं च साक्षित्वाद्दृग्रूपत्वाच्च तस्य वै ।
संसारित्वादयो दोषाः प्रसज्यन्ते न तत्र वै ॥ २.७६ ॥

असंसारिणमात्मानं संसार्यात्मा यदि स्वयं ।
पश्येत्तदाक्षिरोगी सम्प्रपश्येच्च निरङ्कुशम् ॥ २.७७ ॥

असम्भवानि सर्वाणि संभवेयुश्च वैदिकाः ।
सिद्धान्तानियमापेतास्स्वेच्छाव्याहार संभवात् ॥ २.७८ ॥

इति चेन्नैव दोषोऽस्ति संसारस्यापवादतः ।
विशुद्धसत्वसम्पन्नस्संसारी निर्मलो हि सः ॥ २.७९ ॥

यदि जीवस्य संसारस्स्वतस्सिद्धस्तथाऽखिलाः ।
उक्त दोषाः प्रसज्येरन्नज्ञानाद्ध्यागतो न ते ॥ २.८० ॥

जीवस्य यदि संसारो ब्रह्मणस्तदभावतः ।
ब्रह्मात्मत्वोपदेशोऽयमयुक्त इति चेच्छृणु ॥ २.८१ ॥

उक्तजीवैकदेशस्य ह्यसंसारित्वमन्वहम् ।
ततस्तत्त्वोपदेशेस्मिन् निदाघास्त्यनवद्यता ॥ २.८२ ॥

तस्मात्सर्वगतं सत्यसुखबोधैकलक्षणम् ।
ब्रह्मास्मीति विजानीहि केवलं त्वमसंशयम् ॥ २.८३ ॥

मुक्त्यै ज्ञेयं च तद् ब्रह्म सच्चिदानन्दलक्षणम् ।
नत्वलक्षणमन्यत्स्यादिति चोक्तं न विस्मर ॥ २.८४ ॥

॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे चतुर्थोऽध्यायः एवं
श्री ऋभुगीता द्वितीयोऽध्यायः समाप्तः ॥

तृतीयोऽध्यायः ।
पुनर्ज्ञानं प्रवक्ष्यामि निदाघ श‍ृणु सादरम् ।
ब्रह्मणोऽति दुरूहत्वादसकृच्छ्राव्यमेव तत् ॥ ३.०१ ॥

सर्वं चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् ।
सच्चिदानन्दमद्वैतं सच्चिदानन्दमव्ययम् ॥ ३.०२ ॥

सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् ।
सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् ॥ ३.०३ ॥

सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् ।
मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी ॥ ३.०४ ॥

न त्वं नाहं नचन्यद्वा सर्वं ब्रह्मैव केवलम् ।
न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् ॥ ३.०५ ॥

न मध्यं नादि नान्तं वा न सत्यं न निबन्धनम् ।
न दुःखं न सुखं भावं न माया प्रकृतिस्तथा ॥ ३.०६ ॥

न देहं न मुखं घ्राणं न जिह्वा न च तालुनी ।
न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च ॥ ३.०७ ॥

न स्वेदमस्थिमासं च न रक्तं न च मूत्रकम् ।
न दूरं नान्तिकं नाहं नोदरं न किरीटकम् ॥ ३.०८ ॥

न हस्तपादचलनं न शास्त्रं न च शासनम् ।
न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः ॥ ३.०९ ॥

तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् ।
नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् ॥ ३.१० ॥

न विश्वस्तैजसः प्राज्ञः विराट्सूत्रात्मकेश्वराः ।
न गमागमचेष्टा च न नष्ष्टं न प्रयोजनम् ॥ ३.११ ॥

See Also  Rasa Gita In Kannada

त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यं मेध्यकं तथा ।
न पीनं न कृशं क्लेदं न कालं देशभाषणम् ॥ ३.१२ ॥

न सर्वं न भयं चैतन्न वृक्षतृणपर्वताः ।
न ध्यानं योगसंसिद्धिर्नब्रह्मक्षत्रवैश्यकम् ॥ ३.१३ ॥

न पक्षी न मृगो नागी न लोभो मोह एव च ।
न मदो न च मात्सर्यं कामक्रोधादयस्तथा ॥ ३.१४ ॥

न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् ।
न प्रौढहीननास्तिक्यं न वार्तावसरोस्ति हि ॥ ३.१५ ॥

न लौकिको न लोकोवा न व्यापारो न मूढता ।
न भोक्ता भोजनं भोज्यं मातृमानं न मेयकम् ॥ ३.१६॥

न शत्रुमित्रपुत्रादि न माता न पिता स्वसा।
न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः ॥ ३.१७ ॥

न शून्यं नापि चशून्यं नान्तःकरणसंस्मृतिः ।
न रात्रिर्नदिवा नक्तं न ब्रह्मा न हरिश्शिवः ॥ ३.१८ ॥

न वारपक्षमासादि वत्सरं न च चञ्चलम् ।
न ब्रह्मलोको वैकुण्ठो न कैलासो न चन्यकः ॥ ३.१९ ॥

न स्वर्गो न च देवेन्द्रो नाग्निलोको न चग्निकः ।
न यमो न यमलोको वा न लोका लोकपालकाः ॥ ३.२० ॥

न भूर्भुवस्स्वस्त्रैलोक्यं न पाताळं न भूतलं ।
नाविद्या न च विद्या च न माया प्रकृतिर्न च ॥ ३.२१ ॥

न स्थिरं क्षणिकं नाशो न गतिर्न च धावनम् ।
न ध्यातव्यं न मे स्नानं न मन्त्रो न जपः क्वचित् ॥ ३.२२ ॥

न पदार्थं न पूजार्हं नाभिषेकं न चर्चनं ।
न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् ॥ ३.२३ ॥

न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि ।
न प्रार्थना पृथग्भावो न हविर्नास्ति वन्दनम् ॥ ३.२४ ॥

न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् ।
न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः ॥ ३.२५ ॥

न दुराशा न दुष्टात्मा न चण्डालो न पौल्कसः ।
न दुस्सहं दुरालापं न किरातो न कैतवम् ॥ ३.२६ ॥

न पक्षपातं पक्षं वा न विभूषणतस्करौ ।
न च डंभो डांभिको वा न हीनो नाधिको नरः ॥ ३.२७ ॥

नैकं द्वयं त्रयं तुर्यं न महत्वं न चल्पता ।
न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः ॥ ३.२८ ॥

न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता ।
न स्त्रीर्न योषिन्नो वृद्धा न कन्या न वितन्तुका ॥ ३.२९ ॥

न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः ।
न महावाक्यमैक्यं वा नाणिमादिविभूतयः ॥ ३.३० ॥

एवं सलक्षणं ब्रह्म व्यतिरेकमुखेन वै ।
निदाघ त्वं विजानीहि ब्रह्मेतरनिषेधतः ॥ ३.३१ ॥

ब्रह्मणः प्रकृतस्यात्र द्विविधं प्रतिपादनं ।
असन्निषेधरूपं सद्विधिरूपं च तत्र तु ॥ ३.३२ ॥

आत्मा निषेधरूपेण तुभ्यं सम्प्रतिपादितः ।
अथाद्य विधिरूपेण श‍ृणु सम्प्रतिपाद्यते ॥ ३.३३ ॥

सर्वं चैतन्यमात्रत्वात्सर्वदोषस्सदानहि ।
सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दरूपकम् ॥ ३.३४ ॥

ब्रह्मैव सर्वं नान्योऽस्मि तदहं तदहं तथा ।
तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् ॥ ३.३५ ॥

ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः ।
ब्रह्मैवाहं न मे सिद्धिर्ब्रह्मैवाहं न चेन्द्रियम् ॥ ३.३६ ॥

ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः ।
ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेद भूः ॥ ३.३७ ॥

ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः ।
ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परम् ॥ ३.३८ ॥

इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः ।
कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् ॥ ३.३९ ॥

एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् ।
दोषो ब्रह्म गुणो ब्रह्म दिशश्शान्तर्विभुः प्रभुः ॥ ३.४० ॥

लोका ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः ।
पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् ॥ ३.४१ ॥

जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् ।
सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् ॥ ३.४२ ॥

स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन ।
सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमव्ययम् ॥ ३.४३ ॥

नित्यनिर्मलरूपात्मा ह्यात्मनोन्यन्न किञ्चन ।
अणुमात्रलसद्रूपमणुमात्रमिदं जगत् ॥ ३.४४ ॥

अणुमात्रं शरीरं वा ह्यणुमात्रमसत्यकम् ।
अणुमात्रं मनश्चित्तमणुमत्राप्यहङ्कृतिः ॥ ३.४५ ॥

अणुमात्रा च बुद्धिश्च ह्यणुमात्रोऽपि जीवकम् ।
अणुमात्रमिदं चित्तं सर्वमप्यणुमात्रकम् ॥ ३.४६ ॥

ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् ।
आनन्दं परमानन्दमन्यत्किञ्चिन्नकिञ्चन ॥ ३.४७ ॥

चैतन्यमात्रमोङ्कारं ब्रह्मैव भवति स्वयम् ।
अहमेव जगत्सर्वमहमेव परंपदम् ॥ ३.४८ ॥

अहमेव गुणातीतोस्म्यहमेव परात्परः ।
अहमेव परंब्रह्म ह्यहमेव गुरोर्गुरुः ॥ ३.४९ ॥

अहमेवाखिलाधारोस्म्यहमेव सुखात्सुखम् ।
आत्मनोन्यज्जगन्नास्ति ह्यात्मनोन्यत्सुखं न च ॥ ३.५० ॥

आत्मनोन्या गतिर्नास्ति सर्वमात्ममयं जगत् ।
आत्मनोन्यन्नहि क्वापि आतमनोन्यत्तृणं न हि ॥ ३.५१ ॥

आत्मनोन्यत्तुषं नास्ति सर्वमात्ममयं जगत् ।
ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ॥ ३.५२ ॥

ब्रह्ममात्रमिदं सर्वं स्वयं ब्रह्मैव केवलम् ।
ब्रह्ममात्रं व्रतं सर्वं ब्रह्ममात्रं रसं सुखम् ॥ ३.५३ ॥

ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमद्वयंम् ।
ब्रह्मणोन्यतरं नास्ति ब्रह्मणोन्यन्न किञ्चन ॥ ३.५४ ॥

ब्रह्मणोन्यदहं नास्ति ब्रह्मणोन्यत्फलं नहि ।
ब्रह्मणोन्यत्पदं नास्ति ब्रह्मणोन्यत्पदं नहि ॥ ३.५५ ॥

ब्रह्मणोन्यद्गुरुर्नास्ति ब्रह्मणोन्यदसद्वपुः ।
ब्रह्मणोन्यन्नचहन्ता त्वत्तेदं तेन हि क्वचित् ॥ ३.५६ ॥

स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्नकिञ्चन ।
यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः ॥ ३.५७ ॥

यत्किञ्चित्क्रियते नित्यं यत्किञ्चिद्गम्यते जनैः ।
यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि ॥ ३.५८ ॥

कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ।
लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् ॥ ३.५९ ॥

कालभेदं देशभेदं वस्तुभेदं जयाजयम् ।
यद्यद्भेदं च तत्सर्वमसदेवहि केवलम् ॥ ३.६० ॥

असदन्तःकरणमसदेवेन्द्रियादिकम् ।
असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् ॥ ३.६१ ॥

असत्यं पञ्चकोशाख्यमसत्याः पञ्चदेवताः ।
असत्यं षड्विकारादि ह्यसत्यमरिवर्गकम् ॥३.६२ ॥

असत्यष्षदृतुश्चैव ह्यसत्यष्षड्रसस्सदा ।
सप्तर्षयोप्यसत्यास्तेप्यसत्यास्सप्तसागराः ॥ ३.६३ ॥

सच्चिदानन्दमात्रोहमनुत्पन्नमिदं जगत् ।
आत्मैवाहं परंसत्यो नान्यास्संसारदृष्टयः ॥ ३.६४ ॥

सत्यमानन्दरूपोहं चिद्घनानन्दविग्रहः ।
अहमेव परानन्दोऽस्म्यहमेव परात्परः ॥ ३.६५ ॥

ज्ञानाकारमिदं सर्वं ज्ञानानन्दोहमद्वयः ।
ज्ञानप्रकाशरूपोहं ज्ञानानन्दैकविग्रहः ॥ ३.६६ ॥

येन ज्ञातमिदं ज्ञानमज्ञानध्वान्तनाशकः ।
ज्ञानेनाज्ञाननाशेन स हि ज्ञानी समीर्यते ॥३.६७ ॥

ज्ञानं यथा द्विधा प्रोक्तं स्वरूपं वृत्तिरित्यपि ।
अज्ञानं च तथा विद्धि मूलं च प्रतिबन्ध्कम् ॥ ३.६८ ॥

यथा ज्ञानं विना लोके किञ्चिदेव न सिद्ध्यति ।
तथा ज्ञानं विना लोके क्वचिन्मुक्तिर्न सिद्ध्यति ॥ ३.६९ ॥

ज्ञानद्वयं तथाऽज्ञानद्वयमप्यत्रवर्ष्मणि ।
सर्वदा भान्ति जीवानं ज्ञानाज्ञानोक्तिदर्शनात् ॥ ३.७० ॥

ज्ञानस्य क्व तिरोभावो ज्ञानस्याविर्भवस्तथा ।
दृष्टस्सर्वत्र लोकेस्मिन् दुर्लभोहि विपर्ययः ॥ ३.७१ ॥

ज्ञानं सर्वान्तरं भाति कूटस्थात्मस्वरूपकम् ।
प्रज्ञामात्रमिदं सूक्ष्मं कोऽपि जानाति पुण्यकृत् ॥ ३.७२ ॥

प्रज्ञायां कल्पितां प्रज्ञां प्रज्ञयैव विहाय यः ।
प्रज्ञामात्रेण सन्तिष्टेत् स प्रज्ञावानितीर्यते ॥ ३.७३ ॥

बहिः प्रज्ञां सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः ।
कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते ॥ ३.७४ ॥

प्रज्ञैव यस्य नेत्रं स्यत् प्रज्ञैव श्रोत्रमिन्द्रियम् ।
अन्यच्च सर्वं प्रज्ञैव स प्राज्ञः पुरुषोत्तमः ॥ ३.७५ ॥

प्रज्ञया जायते सर्वं प्रज्ञया पाल्यतेऽखिलम् ।
प्रज्ञया क्षीयते सर्वं तस्मात्प्रज्ञां समाश्रय ॥ ३.७६ ॥

प्रज्ञाहीनमसत्सर्वं प्रज्ञाहीनं जडं खलु ।
प्रज्ञाहीनं सदा दुःखं तस्मात्प्रज्ञां समाश्रय ॥ ३.७७ ॥

न विना प्रज्ञया पुण्यं न लोकः प्रज्ञया विना ।
विना न प्रज्ञयाऽभीष्टं तस्मात्प्रज्ञां समाश्रय ॥ ३.७८ ॥

सुसूक्ष्मया धिया प्रज्ञामिमां तां ज्ञप्तिसञ्ज्ञिकाम् ।
ज्ञात्वा भवभवान्मुक्तो निर्गुणब्रह्मरूपिणीम् ॥ ३.७९ ॥

जाग्रदाद्यास्ववस्थासु या ज्ञप्तिस्त्रिसृषु स्वयम् ।
आभासतोप्यनुस्यूता ज्ञप्तिस्सा निर्मला स्वतः ॥ ३.८० ॥

ज्ञप्तिस्सा साक्षिणी नित्या तुर्या सर्वश्रुतीरिता ।
विषयज्ञप्तिसन्त्यागात् ज्ञायते विबुधैस्स्वतः ॥ ३.८१ ॥

ज्ञप्तिरेव परंब्रह्म ज्ञप्तिरेव परं पदम् ।
ज्ञप्तिरेव परो मोक्षो ज्ञप्तिरेव परं सुखम् ॥ ३.८२ ॥

ज्ञप्तिरेव पराचार्यो ज्ञप्तिरेव परामृतम् ।
ज्ञप्तिरेव परातृप्तिर्ज्ञप्तिरेव परागतिः ॥ ३.८३ ॥

तस्मात्ज्ञप्तिं समाश्रित्य विज्ञप्तिधिषणां त्यज ।
अज्ञप्तेर्दुःखहेतुत्वात्सुखार्थीज्ञप्तिमाश्रय ॥ ३.८४ ॥

अज्ञप्ति वोषयो जीवः कूटस्थो ज्ञप्ति गोचरः ।
हेयोपादेयता सिद्धा धर्मधर्मित्वतस्तयोः ॥ ३.८५ ॥

अहंप्रत्ययशब्दाभ्यां विज्ञेयो जीवसञ्ज्ञकः ।
अस्मत्प्रत्ययशब्दाभ्यां ज्ञेयो कूटस्थसञ्ज्ञकः ॥ ३.८६ ॥

यदहं प्रत्ययी जीवस्तद्युष्मत्प्रत्ययी च सः ।
त्वमहं शब्दयोरैक्यात्तत्साक्षी प्रत्यगाह्वयः ॥ ३.८७ ॥

अस्मत्प्रत्ययिनं साक्षिचैतन्यात्मकमद्वयम् ।
कूटस्थं प्रत्यगात्मानं साक्षाद्विषयिणं परम् ॥ ३.८८ ॥

जहि ज्ञात्वा तदन्यं त्वमहंप्रत्ययिनं बहिः ।
साक्ष्यं जीवं चिदाभासं पराञ्चं विषयं स्वतः ॥ ३.८९ ॥

दृग्दृश्यभूतयोरत्र जीवात्मप्रत्यगात्मनोः ।
विवेकेन परं सौख्यं निदाघ व्रज सन्ततम् ॥ ३.९० ॥

॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे पञ्चमोऽध्यायः एवं
श्री ऋभुगीता तृतीयोऽध्यायः समाप्तः ॥

चतुर्थोऽध्यायः ।
पुनर्ज्ञानं प्रवक्ष्यामि जाग्रदादि विलक्षणम् ।
तुरीयब्रह्मरूपं तद्यद्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ ४.०१ ॥

ऊर्णनाभिर्यथातन्तून् सृजते संहरत्यपि ।
जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥ ४.०२ ॥

See Also  Saptashloki Gita In English

नेत्रे जागरितं विद्यात्कण्ठे स्वप्नं समाविशेत् ।
सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ॥ ४.०३ ॥

यतो वचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दमेतज्जीवस्य यज्ज्ञात्वा मुच्यते बुधः ॥ ४.०४ ॥

सर्वव्यापिनमात्मानं क्षीरेसर्पिरिवार्पितम् ।
आत्मविद्या तपोमूलं तद् ब्रह्मोपनिषत्पदं ॥ ४.०५ ॥

श्री गुरुमूर्तिः ।
ऋभुणोक्तमिदं श्रुत्वा निदाघस्संशयाकुलः ।
पप्रच्छ सद्गुरुं शान्तं सावधानेन चेतसा ॥ ४.०६ ॥

निदाघः ।
भगवन् भवता पूर्वं यतोवाच इति श्रुतेः ।
आनन्दो ब्रह्मणः प्रोक्तो जीवस्यत्वधुनोच्यते ॥ ४.०७ ॥

आनन्दमयसंज्ञस्य जीवस्योक्तश्च यद्यपि ।
श्रुतौ तथापि हेयत्वान्नतदीयो भवेद्धि सः ॥ ४.०८ ॥

नावाङ्मनसगम्यत्वं जीवस्य खलु युज्यते ।
नानन्दस्य च वेद्यत्ववचनाद् ब्रह्मणोहि तत् ॥ ४.०९ ॥

एवं पृष्टो मुनिश्रेष्टो निदाघेन महात्मना ।
ऋभुः प्रोवाच सर्वज्ञो ब्रह्मन् सस्मितमादरात् ॥ ४.१० ॥

ब्रह्मोक्तं जीवशब्देन ह्यवाङ्मनसगोचरम् ।
मोक्षातीतदशायां यज्जीवस्तद् ब्रह्मतां व्रजेत् ॥ ४.११ ॥

पूर्वोत्तरविरोधो वा मद्वाक्येषु न तद्भवेत् ।
श्रुत्यर्थस्योपरोधो वा सम्यगालोच्य निश्चिनु ॥ ४.१२ ॥

उपसंक्रमितव्यो यदानन्दमय उच्यते ।
वेद्यत्वं तस्यचसिद्धं पुच्छस्याविषयत्वतः ॥ ४.१३ ॥

तस्मात्स्वयं सदापूर्णः पञ्चमस्य विकारिणः ।
आत्मस्थानीय आनन्द इह वेद्य इति स्थितिः ॥ ४.१४ ॥

भृगवे वरुणेनैवं तैत्तिरीयाभिदश्रुतौ ।
पञ्चमस्य विकारित्वं न प्रोक्तमितिचेच्छृणु ॥ ४.१५ ॥

मयट्प्रयोगाभावेन हेतुना निर्विकारता ।
न शङ्क्या पूर्वपर्यायेष्वन्नादिष्वप्यदर्शनात् ॥ ४.१६ ॥

अतष्षष्टं परंब्रह्म पञ्चमेनोपलक्षितम् ।
निर्गुणं भृगवे पित्रा प्रोक्तमित्यवधारय ॥ ४.१७ ॥

प्राचुर्यार्थकतायां तु मयटो निर्विकारिणः ।
सच्चिदानन्दरूपस्य ब्रह्मणो वेद्यता भवेत् ॥ ४.१८ ॥

शारीरत्वाभिदानेन पूर्वानन्दमयस्य तु ।
विकारित्वं पुनस्स्पष्टमुपसंक्रमणेन च ॥ ४.१९ ॥

नानुकर्षश्च पुच्छस्य पूर्वपूर्वस्य दृश्यते ।
उत्तरोत्तरकोशे प्राक्तत्तदात्मानुकर्षणात् ॥ ४.२० ॥

उपसंक्रमणं चोक्तं मयडन्तस्य केवलम् ।
आनन्दस्य ततोन्यस्य न परात्मतया खलु ॥ ४.२१ ॥

ब्रह्मवित्परमाप्नोतीत्यादौ द्वैविध्यमीरितम् ।
यत्तत्सरूपारूपाभ्यां ब्रह्मणोन्ते च निश्चिनु ॥ ४.२२ ॥

आत्मस्थानीयचिद्रूपानन्दब्रह्मविदोमुने ।
प्रारब्धान्ते पुच्छभूताऽरूपब्रह्माप्तिरिष्यते ॥ ४.२३ ॥

प्रतिष्ठाशब्दगम्यत्वात्सर्वशेषित्वतोपि च ।
शास्त्रस्यारूपवद् ब्रह्मप्राधान्यं यद्यपि स्थितम् ॥ ४.२४ ॥

तथापिवेद्यताऽभावादरूपस्य मुमुक्षुभिः ।
आनन्दरूपवद् ब्रह्मप्राधान्यं मुख्यमिष्यते ॥ ४.२५ ॥

मोदप्रमोदयोश्चैवं सति वेद्यत्वमापतेत् ।
इतिचेन्नैष दोषोस्ति तयोर्ब्रह्मांशता यतः ॥ ४.२६ ॥

ब्रह्मणस्स्वगते भेदे नित्यसिद्धे मुमुक्षुवः ।
उपेक्षितुं समर्थास्स्युर्निदाघ कथमत्र ते ॥ ४.२७ ॥

स्थूलार्थदर्शिनो ये वै शुष्काद्वैतसमाश्रयाः ।
तेषां सावयवत्वादि दोषस्स्फुरतु चेतसि ॥ ४.२८ ॥

न तावता त्रिपाच्छ्रुत्याद्यनुरोधेन निश्चितम् ।
स्वभेदं विदुषां किञ्चिच्छिद्यते मुक्तजन्मनाम् ॥ ४.२९ ॥

सूक्ष्मबुद्ध्या विचरे हि स्वात्मभेदः प्रकाशते ।
अत्यन्ताभेदवार्तायां पुच्छगायां फलं किमु ॥ ४.३० ॥

एते कोशा हि पञ्चैव तिस्रोऽवस्थास्समीरिताः ।
जाग्रदाद्याः क्रमेणैतद्भेदं च श‍ृणु सादरम् ॥ ४.३१ ॥

आद्या जागरिताऽवस्था द्वितीया स्वप्नसंज्ञिका ।
तृतीया सुप्तिरूपान्या तुरीया चित्सुखात्मिका ॥ ४.३२ ॥

आद्याभिमानी विश्वाख्यो द्वितीयस्तैजसस्स्मृतः ।
तृतीयः प्राज्ञ एतेभ्यो कूटस्थ इतरः प्रभुः ॥ ४.३३ ॥

बहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः ।
घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिथा स्थितः ॥ ४.३४ ॥

दक्षिणाक्षिमुखे विश्वो मनस्यतन्तस्तु तैजसः ।
आकाशे च हृदि प्राज्ञस्त्रिथा देहे व्यवस्थितः ॥ ४.३५ ॥

विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक्तथा प्राज्ञस्त्रिथा भोगं निबोध च ॥ ४.३६ ॥

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
आनन्दश्च तथा प्राज्ञं त्रिथा तृप्तिं निबोध च ॥ ४.३७ ॥

त्रिषु धामसु यद्भोज्यं भोक्ता यश्च प्रकीर्तितः ।
वेदैतदुभयं यस्तु स भुञ्जानो न लिप्यते ॥ ४.३८ ॥

प्रभवस्सर्वभावानां सतामिति विनिश्चयः ।
सर्वं जनयति प्राणश्चेतोंशून्पुरुषः पृथक् ॥ ४.३९ ॥

विभूतिं प्रसवन्त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायास्वरूपेति सृष्टिरन्यैर्विकल्पिता ॥ ४.४० ॥

इच्छामात्रं प्रभोस्सृष्टिरिति सृष्टौ विनिश्चिताः ।
कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः ॥ ४.४१ ॥

भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमितिचपरे ।
देवस्यैष स्वभावोयमाप्तकामस्य का स्पृहा ॥ ४.४२ ॥

आप्तकामस्य देवस्य तुर्यस्योक्तस्य सुव्रत ।
स्वरूपं प्रोच्यते सम्यङ्निदाघ श‍ृणु तत्त्वतः ॥ ४.४३ ॥

नान्तःप्रज्ञं बहिःप्रज्ञं न प्रज्ञं नोभयात्मकं ।
न प्रज्ञानघनं प्रज्ञं नाप्रज्ञं न च केवलम् ॥ ४.४४ ॥

इदंत्वे नतद्ग्राह्यमदृश्यं चप्यलक्षणम् ।
अचिन्त्याव्यवहार्यं चव्यपदेशं पृथक्तया ॥ ४.४५ ॥

एकात्मप्रत्ययं सारं प्रपञ्चोपशमं शिवं ।
शान्तं चतुर्थमद्वैतं मन्यन्ते ब्रह्मवादिनः ॥ ४.४६ ॥

स आत्मा स हि विज्ञेयः सर्वैरपि मुमुक्षुभिः ।
तुर्यात्मज्ञानहीनानां न मुक्तिस्याद्कदाचन ॥ ४.४७ ॥

निवृत्तेस्सर्वदुःखानामीशानः प्रभुरव्ययः ।
अद्वैतस्सर्वभावानां देवस्तुर्यो विभुस्स्मृतः ॥ ४.४८ ॥

कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिद्ध्यतः ॥ ४.४९ ॥

नात्मानं न परं चैव न सत्यं नापिचनृतं ।
प्राज्ञः किंच न संवेत्ति तुर्यं तत्सर्वदृक्सदा ॥ ४.५० ॥

द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञतुर्ययोः ।
बीजनिद्रायुतः प्राज्ञस्सा च तुर्ये न विद्यते ॥ ४.५१ ॥

स्वप्ननिद्रायुतावाद्यौ प्राज्ञस्त्वस्वप्ननिद्रया ।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चिताः ॥ ४.५२ ॥

अन्यथागृह्णतस्स्वप्नो निद्रा तत्त्वमजानतः ।
विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ॥ ४.५३ ॥

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजमद्वैतमस्वप्नमनिद्रं बुध्यते तदा ॥ ४.५४ ॥

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ ४.५५ ॥

विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ॥ ४.५६ ॥

निदाघः ।
भगवन् कथमद्वैतं ब्रह्मद्वैविध्यवादिनः ।
भवतोभिमतं तत्र संशयो मे भवत्यलम् ॥ ४.५७ ॥

ऋभुः ।
द्वैतप्रपञ्चशून्येस्मिन् निर्गुणे पूर्णचिद्घने ।
ब्रह्मण्यद्वैतसंसिद्धिर्यतो नान्यत्र सर्वधा ॥ ४.५८ ॥

अतस्सरूपारूपाभ्यां ब्रह्मद्वैविध्यवादिनः ।
ममैवाद्वैतवादित्वन्नारूपाद्वैतवादिनः ॥ ४.५९ ॥

द्वैताद्वैतोभयातीते व्य्वहाराद्यगोचरे ।
नीरूपे ब्रह्मणि प्राज्ञाऽद्वैतवादः कथं भवेत् ॥ ४.६० ॥

द्वैताचिद्रूपकार्यस्याद्वैतचिद्रूपकारणात् ।
निवृत्तिस्याद्यथादीपात्तमसो नत्वरूपतः ॥ ४.६१ ॥

अतो नाद्वैतसिद्धिस्यात्कथञ्चिदपि सत्तम ।
अरूपागोचरब्रह्मवादिनां तादृशे मते ॥ ४.६२ ॥

चिद्रूपब्रह्मतादात्म्यं जीवस्य हि विवक्षितम् ।
नारूपवाक्यदूरत्वात्तन्नाद्वैतमरूपिणाम् ॥ ४.६३ ॥

यद्यप्यरूपब्रह्मत्वं जीवस्यान्ते प्रसिद्ध्यति ।
तथाप्यद्वैतितां वक्तुं न शक्यं द्वन्द्वहानितः ॥ ४.६४ ॥

वाच्यवाचकहीने च लक्ष्यलक्षणवर्जिते ।
कथमद्वैतशब्दोयं सावकाशो भवेन्मुने ॥ ४.६५ ॥

निदाघः ।
देवतापुरुषाद्यैर्हि वेदशब्दैस्समीर्यते ।
तस्यौपनिषदत्वस्याव्यभिचरोस्त्यरूपिणः ॥ ४.६६ ॥

ततोस्य शब्दगम्यत्वात् प्रष्टव्यत्वं मया भवेत् ।
वाच्यत्वं च त्वयेत्यद्य मन्ये श्रीगुरुनायक ॥ ४.६७ ॥

ऋभुः ।
अरूपब्रह्मविषयाश्श्ब्दास्सन्त्येव यद्यपि ।
तेनौपनिषदत्वं च कथञ्चित्तस्य सिद्ध्यति ॥ ४.६८ ॥

तथापि प्रश्नयोग्यत्वं वाच्यत्वं वा न सिद्ध्यति ।
रूढ्यर्थमात्रवत्त्वेनालक्षकत्वादयोगतः ॥ ४.६९ ॥

योगार्थवद्भिश्शब्दैर्हि लक्षकैर्वाचकैश्च वा ।
शिष्येभ्यः प्रोच्यते सत्यंवस्तु श्रीगुरुमूर्तिभिः ॥ ४.७० ॥

अरूपवस्तुनः प्रश्नः प्रतिषिद्धश्श्रुतौ यतः ।
याज्ञवल्क्येन गार्ग्यै तन्नत्वं प्रष्टुमिहार्हसि ॥ ४.७१ ॥

तस्मात् तुरीयं सद् ब्रह्म योगवृत्त्यैव लक्षणैः ।
सच्चिदानन्दपूर्वैस्त्वं मदुक्तं विद्धि मुक्तये ॥ ४.७२ ॥

जाग्रत्यन्नमयं कोशं स्थूलदेहं च विद्धि वै ।
स्वप्ने प्रणमनोज्ञानमयास्सूक्ष्मवपुस्ततः ॥ ४.७३ ॥

सुषुप्तौ कारणं देहमानन्दमयकोशकम् ।
तुरीये त्वशरीरं तच्चिद्रूपं कोशवर्जितम् ॥ ४.७४ ॥

स एव मायापरिमोहितात्मा शरीरमास्थाय करोति सर्वम् ।
स्त्र्यन्नपानादि विचित्रभोगैस्स एव जाग्रत्परितृप्तिमेति ॥ ४.७५ ॥

स्वप्नेऽपि जीवस्सुखदुःखभोक्ता स्वमायया कल्पितविश्वलोके ।
सुषुप्तिकाले सकले विलीने तमोभिभूतस्सुखरूपमेति ॥ ४.७६ ॥

पुनश्च जन्मान्तरकर्मयोगात्स एव जीवस्स्वपितिप्रबुद्धः ।
पुरत्रये क्रीडति यस्तु जीवस्ततस्तु जातं सकलं विचित्रम् ॥ ४.७७ ॥

आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च ।
यत्सर्ववेदान्तरहस्यतत्त्वं यत्पूर्णचैतन्यनिजस्वरूपं ॥ ४.७८ ॥

एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथ्वी सर्वस्य धारिणी ॥ ४.७९ ॥

यत्परंब्रह्म सर्वात्मा विश्वस्यायतनं महत् ।
सूक्ष्मात्सूक्ष्मतरं नित्यं तत्त्वमेव त्वमेव तत् ॥ ४.८० ॥

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं यत्प्रकाशते ।
तद् ब्रह्माहमितिज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ४.८१ ॥

त्रिषु धामसु यद्भोज्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणस्साक्षि चिन्मात्रोहं सदाशिवः ॥ ४.८२ ॥

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद् ब्रह्माद्वयमस्म्यहम् ॥ ४.८३ ॥

अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रम् ।
पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि ॥ ४.८४ ॥

अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुस्सश्रुणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो न चस्ति वेत्ता मम चित्सदाऽहं ॥ ४.८५ ॥

वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेवचहम् ।
न पुण्यपापे मम नास्ति नाशो न जन्मदेहेन्द्रियबुद्धिरस्ति ॥ ४.८६ ॥

न भूमिरापो मम वह्निरस्ति न चनिलोमेऽस्ति न चम्बरं च ।
एवं विदित्वा परमार्थरूपं गुहाशयं निष्कळमद्वितीयम् ॥ ४.८७ ॥

अखण्डमाद्यन्तविहीनमेकं तेजोमयानन्दघनस्वरूपम् ।
समस्तसाक्षिं सदसद्विहीनं प्रयाति शुद्धं परमार्थतत्त्वम् ॥ ४.८८ ॥

श्री गुरुमूर्तिः ।
एवं श्रुत्वा निदाघस्स ऋभुवक्त्राद्यदार्थतः ।
ब्रह्मैवाहमिति ज्ञात्वा कृतकृत्योऽभवद्विधे ॥ ४.८९ ॥

यतस्त्वं च परात्मानं श्रुतवानसि मन्मुखात् ।
त्वं च धन्यः पुनः पृच्छ श्रोतव्यान्तरमस्तिचेत् ॥ ४.९० ॥

॥ इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे षष्ठोऽध्यायः एवं
श्री ऋभुगीताख्योऽयं ग्रन्थस्समाप्तः ॥

॥ ॐ तत्सत् ॥

– Chant Stotra in Other Languages –

Gurujnanavasishtha’s Ribhu Gita in SanskritEnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil