Janaki Panchakam In Sanskrit

॥ Janakipanchakam Sanskrit Lyrics ॥

॥ जानकीपञ्चकम् ॥

मातृके सर्वविश्वैकधात्रीं क्षमां
त्वां सुधां शीतलां पुत्रपुत्रीनुताम् ।
स्नेहवात्सल्यधारायुतां जानकीं
तां नमामीश्वरीं मातरं प्रेमदाम् ॥ १ ॥

नूपुरानन्ददां किङ्कणीमेखलां
शातकुम्भाङ्गदां हाररत्नाकराम् ।
कुण्डलाभूषणां मौलिहीरोज्ज्वलां
तां नमामीश्वरीं मातरं प्रेमदाम् ॥ २ ॥

मेघवृन्दालकां मन्दहासप्रभां
कान्तिगेहाक्षिणी स्वर्णवर्णाश्रयाम् ।
रक्तबिम्बाधरां श्रीमुखीं सुन्दरीं
तां नमामीश्वरीं मातरं प्रेमदाम् ॥ ३ ॥

पद्ममालाधरां पद्मपुष्पारितां
पद्यवर्णाम्बरां पाणिपद्माश्रयाम् ।
पद्मपीठस्थितां पादपद्मावृतां
तां नमामीश्वरीं मातरं प्रेमदाम् ॥ ४ ॥

भुक्तिमुक्तिप्रदां पुष्टितुष्टिप्रदां
ज्ञानविद्याददां पुष्कलानन्ददाम् ।
शुद्धिदां बुद्धिदां शक्तिदां सिद्धिदां
तां नमामीश्वरीं मातरं प्रेमदाम् ॥ ५ ॥

इति जानकीपञ्चकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Janaki Panchakam Lyrics English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Prapanchamata Pitru Ashtakam In Sanskrit