Kashyapa Gita In Sanskrit

॥ Kashyapa Geetaa Sanskrit Lyrics ॥

॥ काश्यपगीता ॥

अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् ।
गीताः क्षमावतां कृष्णे काश्यपेन महात्मना । १ ।

क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् ।
य एतदेव जानाति स सर्व क्षन्तुमर्हति । २ ।

क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च ।
क्षमा तपः क्षमा शौचं क्षमयेदं धृतं जगत् । ३ ।

अतियज्ञविदांलोकान्क्षमिणः प्राप्नुवन्ति च ।
अतिब्रह्मविदांलोकानतिचापि तपस्विनाम् । ४ ।

अन्येवै यजुषां लोकाः कर्मिणामपरे तथा ।
क्षमावतां ब्रह्मलोके लोकाः परमपूजिताः । ५ ।

क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम् ।
क्षमा सत्यं सत्यवतां क्षमा यज्ञः क्षमा शमः । ६ ।

तां क्षमां तादृशीं कृष्णे कथमस्मद्विधस्त्यजेत् ।
यस्यां ब्रह्म च सत्यं च यज्ञालोकाश्चधिष्ठिताः । ७ ।

क्षन्तव्यमेव सततं पुरुषेण विजानता ।
यदा हि क्षमते सर्वं ब्रह्म सम्पद्यते तदा । ८ ।

क्षमावतामयं लोकः परश्चैव क्षमावताम् ।
इह सन्मानमृच्छति परत्र च शुभां गतिम् ॥ ९ ॥

येषां मन्युर्मनुष्याणां क्षमयाऽभिहतः सदा ।
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ॥ १० ॥

See Also  Shrimad Bhagavad Gita In Odia

इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् ।
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि माक्रुधः । ११ ।

पितामहः शान्तनवः क्षमां सम्पूजयिष्यति ।
कृष्णश्च देवकीपुत्रः क्षमां सम्पूजयिष्यति । १२ ।

आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः ।
कृपश्च संजयश्चैव शममेव वदिष्यतः । १३ ।

सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च ।
पितामहश्च नो व्यासः शमं वदति नित्यशः । १४ ।

सुयोधनो नार्हतीति क्षमामेवं न विन्दति ।
अर्हस्तत्राहमित्येवं तस्मान्मां विन्दते क्षमा । १५ ।

एतदात्मवतां वृत्तमेष धर्मः सनातनः ।
क्षमाचैवानृशंस्यं च तत्कर्तास्म्यहमंजसा । १६ ।

परैस्ताडितस्यापितत्ताडनसमर्थस्य
चिते क्षोभानुत्पत्तिः क्षमा । १७ ।

। इति काश्यपगीता समाप्ता ।

– Chant Stotra in Other Languages –

Kashyapa Gita in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil