From Mahabharata Vanaparva Adhyaya 2, shloka 15-48.
॥ Shaunaka Geetaa Sanskrit Lyrics ॥
॥ शौनकगीता ॥
॥ अथ शौनकगीता ॥
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ १ ॥
न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु ।
श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ २ ॥
अष्टाङ्गां बुद्धिमाहुर्या सर्वाश्रेयोविघातिनीम् ।
श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता ॥ ३ ॥
अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च ।
शारीर मानसैर्दुःखैर्नसीदन्ति भवद्विधाः ॥ ४ ॥
श्रूयतां चाभिधास्यामि जनकेन यथा पुरा ।
आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ॥ ५ ॥
मनोदेहसमुत्थाभ्यां दुःखाभ्यां मर्दितं जगत् ।
तयोर्व्याससमासाभ्यां शमोपायमिमं श्रुणु ॥ ६ ॥
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् ।
दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते ॥ ७ ॥
तदातत्प्रतिकाराच्च सततं चाविचिन्तनात् ।
आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु ॥ ८ ॥
मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते ।
मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् ॥ ९ ॥
मानसेनहि दुःखेन शरीरमुपतप्यते ।
अयस्तप्तेन पिण्डेन कुम्भसंस्थमिवोदकम् ॥ १० ॥
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना ।
प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति ॥ ११ ॥
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते ।
स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥ १२ ॥
स्नेहमूलानि दुःखानि स्नेहजानि भयानि च ।
शोकहर्षौ तथायासः सर्वस्नेहात्प्रवर्तते ॥ १३ ॥
स्नेहाद्भावोऽनुरागश्च प्रजज्ञे विषये तथा ।
अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥ १४ ॥
कोटराग्निर्यथाशेषं समूलं पादपं दहेत् ।
धर्मार्थौ तु तथाऽल्पोपि रागदोषो विनाशयेत् ॥ १५ ॥
विप्रयोगेन तु त्यागी दोषदर्शी समागमे ।
विरागं भजते जन्तुर्निर्वैरो निरवग्रहः ॥ १६ ॥
तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो धनसंचयात् ।
स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत् ॥ १७ ॥
ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु ।
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥ १८ ॥
रागाभिभूतः पुरुषः कामेन परिकृष्यते ।
इच्छा संजायते तस्य ततस्तृष्णा विवर्धते ॥ १९ ॥
तृष्णाहि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता ।
अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥ २० ॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ २१ ॥
अनाद्यन्ता हि सा तृष्णा अन्तर्देहगता नृणाम् ।
विनाशयति भूतानि अयोनिज इवानलः ॥ २२ ॥
यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति ।
तथाऽकृतात्मा लोभेन सहजेन विनश्यति ॥ २३ ॥
राजतः सलिलादग्नेश्चोरतः स्वजनादपि ।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ २४ ॥
यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि ।
भक्ष्यन्ते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ॥ २५ ॥
अर्थ एव हि केषांचिदनर्थ भजते नृणाम् ।
अर्थ श्रेयसि चासक्तो न श्रेयो विन्दते नरः ॥ २६ ॥
तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः ।
कार्पण्यं दर्पमानौ च भयमुद्वेग एव च ॥ २७ ॥
अर्थजानिं विदुः प्राज्ञा दुःखन्येतानि देहिनाम् ।
अर्थस्योत्पादने चैव पालने च तथाक्षये ॥ २८ ॥
सहन्ति च महद्दुःखं घ्नन्ति चैवार्थकारणात् ।
अर्थाद्दुःखं परित्यक्तं पालिताश्चैव शत्रवः ॥ २९ ॥
दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत् ।
असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः ॥ ३० ॥
अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम् ।
तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः ॥ ३१ ॥
अनित्यं यौवनं रूपं जीवितं रत्नसंचयः ।
ऐश्वर्यं प्रियसंवासो गृद्ध्येत्तत्र न पण्डितः ॥ ३२ ॥
त्यजेत सञ्चयांस्तस्मात्तज्जान्क्लेशान् सहेत च ।
न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः ।
अतश्च धार्मिकैः पुंभिरनीहार्थः प्रशस्यते ॥ ३३ ॥
धर्मार्थ यस्य वित्तेहा वरं तस्य निरीहता ।
प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम् ॥ ३४ ॥
युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि ।
धर्मेण यदिते कार्य विमुक्तेच्छो भवार्थतः ॥ ३५ ॥
॥ इति शौनकगीता समाप्ता ॥
– Chant Stotra in Other Languages –
shaunaka Gita in Sanskrit – English – Bengali – Gujarati – Kannada – Malayalam – Odia – Telugu – Tamil