Shiva Gita In Sanskrit

॥ Shiva Geetaa Sanskrit Lyrics ॥

॥ श्रीशिवगीता ॥

॥ शिव गीता ॥

अथ श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
१ शिवभक्त्युत्कर्षनिरूपणं नाम प्रथमोऽध्यायः ॥ १ ॥ ४०
२ वैराग्योपदेशो नाम द्वितीयोऽध्यायः ॥ २ ॥ ४३
३ विरजादीक्षानिरूपणं नाम तृतीयोऽध्यायः ॥ ३ ॥ ३५
४ शिवप्रदुर्भावाख्यः नाम चतुर्थोऽध्यायः ॥ ४ ॥ ५२
५ रामाय वरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥ ४१
६ विभूतियोगो नाम षष्ठोऽध्यायः ॥ ६ ॥ ६०
७ विश्वरूपदर्शनं नाम सप्तमोऽध्यायः ॥ ७ ॥ ४७
८ पिण्डोत्पत्तिकथनं नाम अष्टमोऽध्यायः ॥ ८ ॥ ७०
९ देहस्वरूपनिर्णयो नाम नवमोऽध्यायः ॥ ९ ॥ ५१
१० जीवस्वरूपकथनं नाम दशमोऽध्यायः ॥ १० ॥ ६३
११ जीवगत्यादिनिरूपणं नाम एकादशोऽध्यायः ॥ ११ ॥ ४५
१२ उपासनाज्ञानफलं नाम द्वादशोऽध्यायः ॥ १२ ॥ ४२
१३ मोक्षयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥ ३८
१४ पञ्चकोशोपपादनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ ४५
१५ भक्तियोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥ ४२
१६ गीताधिकारिनिरूपणं नाम षोडशोऽध्यायः ॥ १६ ॥ ६९ ट् = ७८३

॥ शिव गीता ॥

अथ प्रथमोऽध्यायः ।
सूत उवाच ॥

अथातः सम्प्रवक्ष्यामि शुद्धं कैवल्यमुक्तिदम् ।
अनुग्रहान्महेशस्य भवदुःखस्य भेषजम् ॥ १॥

न कर्मणामनुष्ठानैर्न दानैस्तपसापि वा ।
कैवल्यं लभते मर्त्यः किंतु ज्ञानेन केवलम् ॥ २॥

रामाय दण्डकारण्ये पार्वतीपतिना पुरा ।
या प्रोक्ता शिवगीताख्या गुह्याद्गुह्यतमा हि सा ॥ ३॥

यस्याः श्रवणमात्रेण नृणां मुक्तिर्ध्रुवं भवेत् ।
पुरा सनत्कुमाराय स्कन्देनाभिहिता हि सा ॥ ४॥

सनत्कुमारः प्रोवाच व्यासाय मुनिसत्तमाः ।
मह्यं कृपातिरेकेण प्रददौ बादरायणः ॥ ५॥

उक्तं च तेन कस्मैचिन्न दातव्यमिदं त्वया ।
सूतपुत्रान्यथा देवाः क्षुभ्यन्ति च शपन्ति च ॥ ६॥

अथ पृष्टो मया विप्रा भगवान्बादरायणः ।
भगवन्देवताः सर्वाः किं क्षुभ्यन्ति शपन्ति च ॥ ७॥

तासामत्रास्ति का हानिर्यया कुप्यन्ति देवताः ।
पाराशर्योऽथ मामाह यत्पृष्टं श‍ृणु वत्स तत् ॥ ८॥

नित्याग्निहोत्रिणो विप्राः संति ये गृहमेधिनः ।
त एव सर्वफलदाः सुराणां कामधेनवः ॥ ९॥

भक्ष्यं भोज्यं च पेयं च यद्यदिष्टं सुपर्वणाम् ।
अग्नौ हुतेन हविषा सत्सर्वं लभ्यते दिवि ॥ १०॥

नान्यदस्ति सुरेशानामिष्टसिद्धिप्रदं दिवि ।
दोग्ध्री धेनुर्यथा नीता दुःखदा गृहमेधिनाम् ॥ ११॥

तथैव ज्ञानवान्विप्रो देवानां दुःखदो भवेत् ।
त्रिदशास्तेन विघ्नन्ति प्रविष्टा विषयं नृणाम् ॥ १२॥

ततो न जायते भक्तिः शिवे कस्यापि देहिनः ।
तस्मादविदुषां नैव जायते शूलपाणिनः ॥ १३॥

यथाकथंचिज्जातापि मध्ये विच्छिद्यते नृणाम् ।
जातं वापि शिवज्ञानं न विश्वासं भजत्यलम् ॥ १४॥

ऋषय ऊचुः ॥

यद्येवं देवता विघ्नमाचरन्ति तनूभृताम् ।
पौरुषं तत्र कस्यास्ति येन मुक्तिर्भविष्यति ॥ १५॥

सत्यं सूतात्मज ब्रूहि तत्रोपायोऽस्ति वा न वा ॥

सूत उवाच ॥

कोटिजन्मार्जितैः पुण्यैः शिवे भक्तिः प्रजायते ॥ १६॥

इष्टापूर्तादिकर्माणि तेनाचरति मानवः ।
शिवार्पणधिया कामान्परित्यज्य यथाविधि ॥ १७॥

अनुग्रहात्तेन शंभोर्जायते सुदृढो नरः ।
ततो भीताः पलायन्ते विघ्नं हित्वा सुरेश्वराः ॥ १८॥

जायते तेन शुश्रूषा चरिते चन्द्रमौलिनः ।
श‍ृण्वतो जायते ज्ञानं ज्ञानादेव विमुच्यते ॥ १९॥

बहुनात्र विमुक्तेन यस्य भक्तिः शिवे दृढा ।
महापापोपपापौघकोटिग्रस्तोऽपि मुच्यते ॥ २०॥

अनादरेण शाठ्येन परिहासेन मायया ।
शिवभक्तिरतश्चेत्स्यादन्त्यजोऽपि विमुच्यते ॥ २१॥

एवं भक्तिश्च सर्वेषां सर्वदा सर्वतोमुखी ।
तस्यां तु विद्यमानायां यस्तु मर्त्यो न मुच्यते ॥ २२॥

संसारबन्धनात्तस्मादन्यः को वास्ति मूढधीः ।
नियमाद्यस्तु कुर्वीत भक्तिं वा द्रोहमेव वा ॥ २३॥

तस्यापि चेत्प्रसन्नोऽसौ फलं यच्छति वाञ्छितम् ।
ऋद्धं किंचित्समादाय क्षुल्लकं जलमेव वा ॥ २४॥

यो दत्ते नियमेनासौ तस्मै दत्ते जगत्त्रयम् ।
तत्राप्यशक्तो नियमान्नमस्कारं प्रदक्षिणाम् ॥ २५॥

यः करोति महेशस्य तस्मै तुष्टो भवेच्छिवः ।
प्रदक्षिणास्वशक्तोऽपि यः स्वान्ते चिन्तयेच्छिवम् ॥ २६॥

गच्छन्समुपविष्टो वा तस्याभीष्टं प्रयच्छति ।
चन्दनं बिल्वकाष्ठस्य पुष्पाणि वनजान्यपि ॥ १८ ॥

फलानि तादृशान्येव यस्य प्रीतिकराणि वै ।
दुष्करं तस्य सेवायां किमस्ति भुवनत्रये ॥ २८॥

वन्येषु यादृशी प्रीतिर्वर्तते परमेशितुः ।
उत्तमेष्वपि नास्त्येव तादृशी ग्रामजेष्वपि ॥ २९॥

तं त्यक्त्वा तादृशं देवं यः सेवेतान्यदेवताम् ।
स हि भागीरथीं त्यक्त्वा काङ्क्षते मृगतृष्णिकाम् ॥ ३०॥

किंतु यस्यास्ति दुरितं कोटिजन्मसु संचितम् ।
तस्य प्रकाशते नायमर्थो मोहान्धचेतसः ॥ ३१॥

न कालनियमो यत्र न देशस्य स्थलस्य च ।
यत्रास्य चित्रं रमते तस्य ध्यानेन केवलम् ॥ ३२॥

आत्मत्वेन शिवस्यासौ शिवसायुज्यमाप्नुयात् ।
अतिस्वल्पतरायुः श्रीर्भूतेशांशाधिपोऽपि यः ॥ ३३॥

स तु राजाहमस्मीति वादिनं हन्ति सान्वयम् ।
कर्तापि सर्वलोकानामक्षयैश्वर्यवानपि ॥ ३४॥

शिवः शिवोऽहमस्मीति वादिनं यं च कञ्चन ।
आत्मना सह तादात्म्यभागिनं कुरुते भृशम् ॥ ३५॥

धर्मार्थकाममोक्षाणां पारं यस्याथ येन वै ।
मुनयस्तत्प्रवक्ष्यामि व्रतं पाशुपताभिधम् ॥ ३६॥

कृत्वा तु विरजां दीक्षां भूतिरुद्राक्षधारिणः ।
जपन्तो वेदसाराख्यं शिवनामसहस्रकम् ॥ ३७॥

संत्यज्य तेन मर्त्यत्वं शैवीं तनुमवाप्स्यथ ।
ततः प्रसन्नो भगवाञ्छंकरो लोकशंकरः ॥ ३८॥

भवतां दृश्यतामेत्य कैवल्यं वः प्रदास्यति ।
रामाय दण्डकारण्ये यत्प्रादात्कुम्भसंभवः ॥ ३९॥

तत्सर्वं वः प्रवक्ष्यामि श‍ृणुध्वं भक्तियोगिनः ॥ ४०॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
शिवभक्त्युत्कर्षनिरूपणं नाम प्रथमोऽध्यायः ॥ १ ॥

अथ द्वितीयोऽध्यायः ॥

ऋषय ऊचुः ॥

किमर्थमागतोऽगस्त्यो रामचन्द्रस्य सन्निधिम् ।
कथं वा विरजां दीक्षां कारयामास राघवम् ।
ततः किमाप्तवान् रामः फलं तद्वक्तुमर्हसि ॥ १॥

सूत उवाच ॥

रावणेन यदा सीताऽपहृता जनकात्मजा ।
तदा वियोगदुःखेन विलपन्नास राघवः ॥ २॥

निर्निद्रो निरहंकारो निराहारो दिवानिशम् ।
मोक्तुमैच्छत्ततः प्राणान्सानुजो रघुनन्दनः ॥ ३॥

लोपामुद्रापतिर्ज्ञात्वा तस्य सन्निधिमागमत् ।
अथ तं बोधयामास संसारासारतां मुनिः ॥ ४॥

अगस्त्य उवाच ॥

किं विषीदसि राजेन्द्र कान्ता कस्य विचार्यताम् ।
जडः किं नु विजानाति देहोऽयं पाञ्चभौतिकः ॥ ५॥

निर्लेपः परिपूर्णश्च सच्चिदानन्दविग्रहः ।
आत्मा न जायते नैव म्रियते न च दुःखभाक् ॥ ६॥

सूर्योऽसौ सर्वलोकस्य चक्षुष्ट्वेन व्यवस्थितः ।
तथापि चाक्षुषैर्दोषैर्न कदाचिद्विलिप्यते ॥ ७॥

सर्वभूतान्तरात्मापि तद्वद्दृश्यैर्न लिप्यते ।
देहोऽपि मलपिण्डोऽयं मुक्तजीवो जडात्मकः ॥ ८॥

दह्यते वह्निना काष्ठैः शिवाद्यैर्भक्ष्यतेऽपि वा ।
तथापि नैव जानाति विरहे तस्य का व्यथा ॥ ९॥

सुवर्णगौरी दूर्वाया दलवच्छ्यामलापि वा ।
पीनोत्तुङ्गस्तनाभोगभुग्नसूक्ष्मवलग्निका ॥ १०॥

बृहन्नितम्बजघना रक्तपादसरोरुहा ।
राकाचन्द्रमुखी बिम्बप्रतिबिम्बरदच्छदा ॥ ११॥

नीलेन्दीवरनीकाशनयनद्वयशोभिता ।
मत्तकोकिलसँल्लापा मत्तद्विरदगामिनी ॥ १२॥

कटाक्षैरनुगृह्णाति मां पञ्चेषुशरोत्तमैः ।
इति यां मन्यते मूढ स तु पञ्चेषुशासितः ॥ १३॥

तस्याविवेकं वक्ष्यामि श‍ृणुष्वावहितो नृप ।
न च स्त्री न पुमानेष नैव चायं नपुंसकः ॥ १४॥

अमूर्तः पुरुषः पूर्णो द्रष्टा देही स जीविनः ।
या तन्वङ्गी मृदुर्बाला मलपिण्डात्मिका जडा ॥ १५॥

सा न पश्यति यत्किंचिन्न श‍ृणोति न जिघ्रति ।
चर्ममात्रा तनुस्तस्या बुद्ध्वा त्यक्षस्व राघव ॥ १६॥

या प्राणादधिका सैव हंत ते स्याद्घृणास्पदम् ।
जायन्ते यदि भूतेभ्यो देहिनः पाञ्चभौतिकाः ॥ १७॥

आत्मा यदेकलस्तेषु परिपूर्णः सनातनः ।
का कान्ता तत्र कः कान्तः सर्व एव सहोदराः ॥ १८॥

निर्मितायां गृहावल्यां तदवच्छिन्नतां गतम् ।
नभस्तस्यां तु दग्धायां न कांचित्क्षतिमृच्छति ॥ १९॥

तद्वदात्मापि देहेषु परिपूर्णः सनातनः ।
हन्यमानेषु तेष्वेव स स्वयं नैव हन्यते ॥ २०॥

हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ।
तावुभौ न विजानीतो नायं हन्ति न हन्यते ॥ २१॥

अस्मान्नृपातिदुःखेन किं खेदस्यास्ति कारणम् ।
स्वस्वरूपं विदित्वेदं दुःखं त्यक्त्वा सुखी भव ॥ २२॥

राम उवाच ॥

मुने देहस्य नो दुःखं नैव चेत्परमात्मनः ।
सीतावियोगदुःखाग्निर्मां भस्मीकुरुते कथम् ॥ २३॥

सदाऽनुभूयते योऽर्थः स नास्तीति त्वयेरितः ।
जायातां तत्र विश्वासः कथं मे मुनिपुङ्गव ॥ २४॥

अन्योऽत्र नास्ति को भोक्ता येन जन्तुः प्रतप्यते ।
सुखस्य वापि दुःखस्य तद्ब्रूहि मुनिसत्तम ॥ २५॥

अगस्त्य उवाच ॥

दुर्ज्ञेया शांभवी माया तया संमोह्यते जगत् ।
माया तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।२६॥

तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्।
सत्यज्ञानात्मकोऽनन्तो विभुरात्मा महेश्वरः ॥ १८ ॥

तस्यैवांशो जीवलोके हृदये प्राणिनां स्थितः ।
विस्फुलिङ्गा यथा वह्नेर्जायन्ते काष्ठयोगतः ॥ २८॥

अनादिकर्मसंबद्धास्तद्वदंशा महेशितुः ।
अनादिवासनायुक्ताः क्षेत्रज्ञा इति ते स्मृताः ॥ २९॥

मनो बुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ।
अन्तःकरणमित्याहुस्तत्र ते प्रतिबिम्बिताः ॥ ३०॥

जीवत्वं प्राप्नुयुः कर्मफलभोक्तार एव ते ।
ततो वैषयिकं तेषां सुखं वा दुःखमेव वा ॥ ३१॥

त एव भुञ्जते भोगायतनेऽस्मिन् शरीरके ।
स्थावरं जङ्गमं चेति द्विविधं वपुरुच्यते ॥ ३२॥

स्थावरास्तत्र देहाः स्युः सूक्ष्मा गुल्मलतादयः ।
अण्डजाः स्वेदजास्तद्वदुद्भिज्जा इति जङ्गमाः ॥ ३३॥

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ३४॥

सुख्यहं दुःख्यहं चेति जीव एवाभिमन्यते ।
निर्लेपोऽपि परं ज्योतिर्मोहितः शंभुमायया ॥ ३५॥

कामः क्रोधस्तथा लोभो मदो मात्सर्यमेव च ।
मोहश्चेत्यरिषड्वर्गमहंकारगतं विदुः ॥ ३६॥

स एव बध्यते जीवः स्वप्नजाग्रदवस्थयोः ।
सुषुप्तौ तदभावाच्च जीवः शंकरतां गतः ॥ ३७॥

स एव मायासंस्पृष्टः कारणं सुखदुःखयोः ।
शुक्तो रजतवद्विश्वं मायया दृश्यते शिवे ॥ ३८॥

ततो विवेकज्ञानेन न कोऽप्यत्रास्ति दुःखभाक् ।
ततो विरम दुःखात्त्वं किं मुधा परितप्यसे ॥ ३९॥

श्रीराम उवाच ॥

मुने सर्वमिदं तथ्यं यन्मदग्रे त्वयेरितम् ।
तथापि न जहात्येतत्प्रारब्धादृष्टमुल्बणम् ॥ ४०॥

मत्तं कुर्याद्यथा मद्यं नष्टाविद्यमपि द्विजम् ।
तद्वत्प्रारब्धभोगोऽपि न जहाति विवेकिनम् ॥ ४१॥

ततः किं बहुनोक्तेन प्रारब्धसचिवः स्मरः ।
बाधते मां दिवारात्रमहंकारोऽपि तादृशः ॥ ४२॥

अत्यन्तपीडितो जीवः स्थूलदेहं विमुञ्चति ।
तस्माज्जीवाप्तये मह्यमुपायः क्रियतां द्विज ॥ ४३॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
वैराग्योपदेहो नाम द्वितीयोऽध्यायः ॥ २ ॥

अथ तृतीयोऽध्यायः ॥

अगस्त्य उवाच ॥

न गृह्णाति वचः पथ्यं कामक्रोधादिपीडितः ।
हितं न रोचते तस्य मुमूर्षोरिव भेषजम् ॥ १॥

मध्येसमुद्रं या नीता सीता दैत्येन मायिना ।
आयास्यति नरश्रेष्ठ सा कथं तव संनिधिम् ॥ २॥

बध्यन्ते देवताः सर्वा द्वारि मर्कटयूथवत् ।
किं च चामरधारिण्यो यस्य संति सुराङ्गनाः ॥ ३॥

भुङ्क्ते त्रिलोकीमखिलां यः शंभुवरदर्पितः ।
निष्कण्टकं तस्य जयः कथं तव भविष्यति ॥ ४॥

इन्द्रजिन्नाम पुत्रो यस्तस्यास्तीशवरोद्धतः ।
तस्याग्रे संगरे देवा बहुवारं पलायिताः ॥ ५॥

कुम्भकर्णाह्वयो भ्राता यस्यास्ति सुरसूदनः ।
अन्यो दिव्यास्त्रसंयुक्तश्चिरजीवी बिभीषणः ॥ ६॥

दुर्गं यस्यास्ति लंकाख्यं दुर्जेयं देवदानवैः ।
चतुरङ्गबलं यस्य वर्तते कोटिसंख्यया ॥ ७॥

एकाकिना त्वया जेयः स कथं नृपनन्दन ।
आकांक्षते करे धर्तुं बालश्चन्द्रमसं यथा ।
तथा त्वं काममोहेन जयं तस्याभिवाञ्छसि ॥ ८॥

श्रीराम उवाच ॥

क्षत्रियोऽहं मुनिश्रेष्ठ भार्या मे रक्षसा हृता ।
यदि तं न निहन्म्याशु जीवने मेऽस्ति किं फलम् ॥ ९॥

अतस्ते तत्त्वबोधेन न मे किंचित्प्रयोजनम् ।
कामक्रोधादयः सर्वे दहन्त्येते तनुं मम ॥ १०॥

अहंकारोऽपि मे नित्यं जीवनं हन्तुमुद्यतः ।
हृतायां निजकान्तायां शत्रुणाऽवमतस्य वा ॥ ११॥

यस्य तत्त्वबुभुत्सा स्यात्स लोके पुरुषाधमः ।
तस्मात्तस्य वधोपायं लङ्घयित्वाम्बुधिं रणे ॥ १२॥

अगस्त्य उवाच ॥

एवं चेच्छरणं याहि पार्वतीपतिमव्ययम् ।
स चेत्प्रसन्नो भगवान्वाञ्छितार्थं प्रदास्यति ॥ १३॥

देवैरजेयः शक्राद्यैर्हरिणा ब्रह्मणापि वा ।
स ते वध्यः कथं वा स्याच्छंकरानुग्रहं विना ॥

अतस्त्वां दीक्षयिष्यामि विरजामार्गमाश्रितः ।
तेन मार्गेन मर्त्यत्वं हित्वा तेजोमयो भव ॥ १५॥

येन हत्वा रणे शत्रून्सर्वान्कामानवाप्स्यसि ।
भुक्त्वा भूमण्डले चान्ते शिवसायुज्यमाप्स्यसि ॥ १६॥

सूत उवाच ॥

अथ प्रणम्य रामस्तं दण्डवन्मुनिसत्तमम् ।
उवाच दुःखनिर्मुक्तः प्रहृष्टेनान्तरात्मना ॥ १७॥

श्रीराम उवाच ॥

कृतार्थोऽहं मुने जातो वाञ्छितार्थो ममागतः ।
पीताम्बुधिः प्रसन्नस्त्वं यदि मे किमु दुर्लभम् ।
अतस्त्वं विरजां दीक्षां ब्रूहि मे मुनिसत्तम ॥ १८॥

अगस्त्य उवाच ॥

शुक्लपक्षे चतुर्दश्यामष्टम्यां वा विशेषतः ।
एकादश्यां सोमवारे आर्द्रायां वा समारभेत् ॥ १९॥

यं वायुमाहुर्यं रुद्रं यमग्निं परमेश्वरम् ।
परात्परतरं चाहुः परात्परतरं शिवम् ॥ २०॥

ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम् ।
ध्यात्वाग्निनाऽवसथ्याग्निं विशोध्य च पृथक्पृथक् ॥ २१॥

पञ्चभूतानि संयम्य ध्यात्वा गुणविधिक्रमात् ।
मात्राः पञ्च चतस्रश्च त्रिमात्रादिस्ततः परम् ॥ २२॥

एकमात्रममात्रं हि द्वादशान्तं व्यवस्थितम् ।
स्थित्यां स्थाप्यामृतो भूत्वा व्रतं पाशुपतं चरेत् ॥ २३॥

इदं व्रतं पाशुपतं करिष्यामि समासतः ।
प्रातरेवं तु संकल्प्य निधायाग्निं स्वशाखया ॥ २४॥

उपोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम् ।
शुक्लयज्ञोपवीतश्च शुक्लमाल्यानुलेपनः ॥ २५॥

जुहुयाद्विरजामन्त्रैः प्राणापानादिभिस्ततः ।
अनुवाकान्तमेकाग्रः समिदाज्यचरून्पृथक् ॥ २६॥

आत्मन्यग्निं समारोप्य याते अग्नेति मंत्रतः ।
भस्मादायाग्निरित्याद्यैर्विमृज्याङ्गानि संस्पृशेत् ॥ १८ ॥

भस्मच्छन्नो भवेद्विद्वान्महापातकसंभवैः ।
पापैर्विमुच्यते सत्यं मुच्यते च न संशयः ॥ २८॥

वीर्यमग्नेर्यतो भस्म वीर्यवान्भस्मसंयुतः ।
भस्मस्नानरतो विप्रो भस्मशायी जितेन्द्रियः ॥ २९॥

सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् ।
एवं कुरु महाभाग शिवनामसहस्रकम् ॥ ३०॥

इदं तु सम्प्रदास्यामि तेन सर्वार्थमाप्स्यसि ।
सूत उवाच ॥

इत्युक्त्वा प्रददौ तस्मै शिवनामसहस्रकम् ॥ ३१॥

वेदसाराभिधं नित्यं शिवप्रत्यक्षकारकम् ।
उक्तं च तेन राम त्वं जप नित्यं दिवानिशम् ॥ ३२॥

ततः प्रसन्नो भगवान्महापाशुपतास्त्रकम् ।
तुभ्यं दास्यति तेन त्वं शत्रून्हत्वाऽऽप्स्यसि प्रियाम् ॥ ३३॥

तस्यैवास्त्रस्य माहात्म्यात्समुद्रं शोषयिष्यसि ।
संहारकाले जगतामस्त्रं तत्पार्वतीपतेः ॥ ३४॥

तदलाभे दानवानां जयस्तव सुदुर्लभः ।
तस्माल्लब्धं तदेवास्त्रं शरणं याहि शंकरम् ॥ ३५॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
विरजादीक्षानिरूपणं नाम तृतीयोऽध्यायः ॥ ३ ॥

अथ चतुर्थोऽध्यायः ॥

सूत उवाच ॥

एवमुक्त्वा मुनिश्रेष्ठ गते तस्मिन्निजाश्रमम् ।
अथ रामगिरौ रामस्तस्मिन्गोदावरीतटे ॥ १॥

शिवलिङ्गं प्रतिष्ठाप्य कृत्वा दीक्षां यथाविधि ।
भूतिभूषितसर्वाङ्गो रुद्राक्षाभरणैर्युतः ॥ २॥

अभिषिच्य जलैः पुण्यैर्गौतमीसिन्धुसंभवैः ।
अर्चयित्वा वन्यपुष्पैस्तद्वद्वन्यफलैरपि ॥ ३॥

भस्मच्छन्नो भस्मशायी व्याघ्रचर्मासने स्थितः ।
नाम्नां सहस्रं प्रजपन्नक्तंदिवमनन्यधीः ॥ ४॥

मासमेकं फलाहारो मासं पर्णाशनः स्थितः ।
मासमेकं जलाहारो मासं च पवनाशनः ॥ ५॥

शान्तो दान्तः प्रसन्नात्मा ध्यायन्नेवं महेश्वरम् ।
हृत्पङ्कजे समासीनमुमादेहार्धधारिणम् ॥ ६॥

चतुर्भुजं त्रिनयनं विद्युत्पिङ्गजटाधरम् ।
कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ ७॥

सर्वाभरणसंयुक्तं नागयज्ञोपवीतिनम् ।
व्याघ्रचर्माम्बरधरं वरदाभयधारिणम् ॥ ८॥

व्याघ्रचर्मोत्तरीयं च सुरासुरनमस्कृतम् ।
पञ्चवक्त्रं चन्द्रमौलिं त्रिशूलडमरूधरम् ॥ ९॥

नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ।
एवं नित्यं प्रजपतो गतं मासचतुष्टयम् ॥ १०॥

अथ जातो महानादः प्रलयाम्बुदभीषणः ।
समुद्रमथनोद्भूतमन्दरावनिभृद्ध्वनिः ॥ ११॥

रुद्रबाणाग्निसंदीप्तभ्रश्यत्त्रिपुरविभ्रमः ।
तमाकर्ण्याथ संभ्रान्तो यावत्पश्यति पुष्करम् ॥ १२॥

तावदेवो महातेजो समस्यासीत्पुरो द्विजाः ।
तेजसा तेन संभ्रान्तो नापश्यत्स दिशो दश ॥ १३॥

अन्धीकृतेक्षणस्तूर्णं मोहं यातो नृपात्मजः ।
विचिन्त्य तर्कयामास दैत्यमायां द्विजेश्वराः ॥ १४॥

अथोत्थाय महावीरः सज्जं कृत्वा स्वकं धनुः ।
अविध्यन्निशितैर्बाणैर्दिव्यास्त्रैरभिमन्त्रितैः ॥ १५॥

आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् ।
विष्णुचक्रं महाचक्रं कालचक्रं च वैष्णवम् ॥ १६॥

रौद्रं पाशुपतं ब्राह्मं कौबेरं कुलिशानिलम् ।
भार्गवादिबहून्यस्त्राण्ययं प्रायुङ्क्त राघवः ॥ १७॥

तस्मिंस्तेजसि शस्त्राणि चास्त्रान्यस्य महीपतेः ।
विलीनानि महाभ्रस्य करका इव नीरधौ ॥ १८॥

ततः क्षणेन जज्वाल धनुस्तस्य करच्च्युतम् ।
तूणीरं चाङ्गुलित्राणं गोधिकापि महीपते ॥ १९॥

तद्दृष्ट्वा लक्ष्मणो भीतः पपात भुवि मूर्च्छितः ।
अथाकिञ्चित्करो रामो जानुभ्यामवनिं गतः ॥ २०॥

मीलिताक्षो भयाविष्टः शंकरं शरणं गतः ।
स्वरेणाप्युच्चरन्नुच्चैः शंभोर्नामसहस्रकम् ॥ २१॥

शिवं च दण्डवद्भूमौ प्रणनाम पुनः पुनः ।
पुनश्च पूर्ववच्चासीच्छब्दो दिङ्मण्डलं ग्रसन् ॥ २२॥

चचाल वसुधा घोरं पर्वताश्च चकम्पिरे ।
ततः क्षणेन शीतांशुशीतलं तेज आपतत् ॥ २३॥

उन्मीलिताक्षो रामस्तु यावदेतत्प्रपश्यति ।
तावद्ददर्श वृषभं सर्वालंकारसंयुतम् ॥ २४॥

पीयूषमथनोद्भूतनवनीतस्य पिण्डवत् ।
प्रोतस्वर्णं मरकतच्छायश‍ृङ्गद्वयान्वितम् ॥ २५॥

नीलरत्नेक्षणं ह्रस्वकण्ठकम्बलभूषितम् ।
रत्नपल्याणसंयुक्तं निबद्धं श्वेतचामरैः ॥ २६॥

घण्टिकाघर्घरीशब्दैः पूरयन्तं दिशो दश ।
तत्रासीनं महादेवं शुद्धस्फटिकविग्रहम् ॥ १८ ॥

कोटिसूर्यप्रतीकाशं कोटिशीतांशुशीतलम्।
व्याघ्रचर्माम्बरधरं नागयज्ञोपवीतिनम् ॥ २८॥

सर्वालंकारसंयुक्तं विद्युत्पिङ्गजटाधरम् ।
नीलकण्ठं व्याघ्रचर्मोत्तरीयं चन्द्रशेखरम् ॥ २९॥

नानाविधायुधोद्भासिदशबाहुं त्रिलोचनम् ।
युवानं पुरुषश्रेष्ठं सच्चिदानन्दविग्रहम् ॥ ३०॥

तत्रैव च सुखासीनां पूर्णचन्द्रनिभाननाम् ।
नीलेन्दीवरदामाभामुद्यन्मरकतप्रभाम् ॥ ३१॥

मुक्ताभरणसंयुक्तां रात्रिं ताराञ्चितामिव ।
विन्ध्यक्षितिधरोत्तुङ्गकुचभारभरालसाम् ॥ ३२॥

सदसत्संशयाविष्टमध्यदेशान्तराम्बराम् ।
दिव्याभरणसंयुक्तां दिव्यगन्धानुलेपनाम् ॥ ३३॥

दिव्यमाल्याम्बरधरां नीलेन्दीवरलोचनाम् ।
अलकोद्भासिवदनां ताम्बूलग्रासशोभिताम् ॥ ३४॥

शिवालिङ्गनसंजातपुलकोद्भासिविग्रहाम् ।
सच्चिदानन्दरूपाढ्यां जगन्मातरमम्बिकाम् ॥ ३५॥

सौन्दर्यसारसंदोहां ददर्श रघुनन्दनः ।
स्वस्ववाहनसंयुक्तान्नानायुधलसत्करान् ॥ ३६॥

बृहद्रथन्तरादीनि सामानि परिगायतः ।
स्वस्वकान्तासमायुक्तान्दिक्पालान्परितः स्थितान् ॥ ३७॥

अग्रगं गरुडारूढं शंखचक्रगदाधरम् ।
कालाम्बुदप्रतीकाशं विद्युत्कान्त्या श्रिया युतम् ॥ ३८॥

जपन्तमेकमनसा रुद्राध्यायं जनार्दनम् ।
पश्चाच्चतुर्मुखं देवं ब्रह्माणं हंसवाहनम् ॥ ३९॥

चतुर्वक्त्रैश्चतुर्वेदरुद्रसूक्तैर्महेश्वरम् ।
स्तुवन्तं भारतीयुक्तं दीर्घकूर्चं जटाधरम् ॥ ४०॥

अथर्वशिरसा देवं स्तुवन्तं मुनिमण्डलम् ।
गङ्गादितटिनीयुक्तमम्बुधिं नीलविग्रहम् ॥ ४१॥

श्वेताश्वतरमन्त्रेण स्तुवन्तं गिरिजापतिम् ।
अनन्तादिमहानागान्कैलासगिरिसन्निभान् ॥ ४२॥

कैवल्योपनिषत्पाठान्मणिरत्नविभूषितान् ।
सुवर्णवेत्रहस्ताढ्यं नन्दिनं पुरतः स्थितम् ॥ ४३॥

दक्षिणे मूषकारूढं गणेशं पर्वतोपमम् ।
मयूरवाहनारूढमुत्तरे षण्मुखं तथा ॥ ४४॥

महाकालं च चण्डेशं पार्श्वयोर्भीषणाकृतिम् ।
कालाग्निरुद्रं दूरस्थं ज्वलद्दावाग्निसन्निभम् ॥ ४५॥

त्रिपादं कुटिलाकारं नटद्भृङ्गिरिटिं पुरः ।
नानाविकारवदनान्कोटिशः प्रमथाधिपान् ॥ ४६॥

नानावाहनसंयुक्तं परितो मातृमण्डलम् ।
पञ्चाक्षरीजपासक्तान्सिद्धविद्याधरादिकान् ॥ ४७॥

दिव्यरुद्रकगीतानि गायत्किन्नरवृन्दकम् ।
तत्र त्रैयम्बकं मन्त्रं जपद्द्विजकदम्बकम् ॥ ४८॥

गायन्तं वीणया गीतं नृत्यन्तं नारदं दिवि ।
नृत्यतो नाट्यनृत्येन रम्भादीनप्सरोगणान् ॥ ४९॥

गायच्चित्ररथादीनां गन्धर्वाणां कदम्बकम् ।
कम्बलाश्वतरौ शंभुकर्णभूषणतां गतौ ॥ ५०॥

गायन्तौ पन्नगौ गीतं कपालं कम्बलं तथा ।
एवं देवसभां दृष्ट्वा कृतार्थो रघुनन्दनः ॥ ५१॥

हर्षगद्गदया वाचा स्तुवन्देवं महेश्वरम् ।
दिव्यनामसहस्रेण प्रणनाम पुनः पुनः ॥ ५२॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
शिवप्रादुर्भावाख्यश्चतुर्थोऽध्यायः ॥ ४ ॥

अथ पञ्हमोऽध्यायः ॥

सूत उवाच ॥

अथ प्रादुरभूत्तत्र हिरण्मयरथो महान् ।
अनेकदिव्यरत्नांशुकिर्मीरितदिगन्तरः ॥ १॥

नद्युपान्तिकपङ्काढ्यमहाचक्रचतुष्टयः ।
मुक्तातोरणसंयुक्तः श्वेतच्छत्रशतावृतः ॥ २॥

शुद्धहेमखलीनाढ्यतुरङ्गगणसंयुतः ।
शुक्तावितानविलसदूर्ध्वदिव्यवृषध्वजः ॥ ३॥

मत्तवारणिकायुक्तः पट्टतल्पोपशोभितः ।
पारिजाततरूद्भूतपुष्पमालाभिरञ्चितः ॥ ४॥

मृगनाभिसमुद्भूतकस्तूरिमदपङ्किलः ।
कर्पूरागधूपोत्थगन्धाकृष्टमधुव्रतः ॥ ५॥

संवर्तघनघोषाढ्यो नानावाद्यसमन्वितः ।
वीणावेणुस्वनासक्तकिन्नरीगणसंकुलः ॥ ६॥

एवं दृष्ट्वा रथश्रेष्ठं वृषादुत्तीर्य शंकरः ।
अम्बया सहितस्तत्र पट्टतल्पेऽविशत्तदा ॥ ७॥

नीराजनैः सुरस्त्रीणां श्वेतचामरचालनैः ।
दिव्यव्यजनपातैश्च प्रहृष्टो नीललोहितः ॥ ८॥

क्वणत्कङ्कणनिध्वानैर्मंजुमञ्जीरसिञ्जितैः ।
वीणावेणुस्वनैर्गीतैः पूर्णमासीज्जगत्त्रयम् ॥ ९॥

शुककेकिकुलारावैः श्वेतपारावतस्वनैः ।
उन्निद्रभूषाफणिनां दर्शनादेव बर्हिणः ॥ १०॥

ननृतुर्दर्शयन्तः सर्वांश्चन्द्रकान्कोटिसंख्यया ।
प्रणमन्तं ततो राममुत्थाप्य वृषभध्वजः ॥ ११॥

आनिनाय रथं दिव्यं प्रहृष्टेनान्तरात्मना ।
कमण्डलुजलैः स्वच्छैः स्वयमाचम्य यत्नतः ॥ १२॥

समाचम्याथ पुरतः स्वांके राममुपानयत् ।
अथ दिव्यं धनुस्तस्मै ददौ तूणीरमक्षयम् ॥ १३॥

महापाशुपतं नाम दिव्यमस्त्रं ददौ ततः ।
उक्तश्च तेन रामोऽपि सादरं चन्द्रमौलिना ॥ १४॥

जगन्नाशकरं रौद्रमुग्रमस्त्रमिदं नृप ।
अतो नेदं प्रयोक्तव्यं सामान्यसमरादिके ॥ १५॥

अन्यन्नास्ति प्रतीघातमेतस्य भुवनत्रये ।
तस्मात्प्राणत्यये राम प्रयोक्तव्यमुपस्थिते ॥ १६॥

अन्यदैत्यत्प्रयुक्तं तु जगत्संक्षयकृद्भवेत् ।
अथाहूय सुरश्रेष्ठान् लोकपालान्महेश्वरः ॥ १७॥

उअवाच परमप्रीतः स्वं स्वमस्त्रं प्रयच्छत ।
राघवोऽयं च तैरस्त्रै रावणं निहनिष्यति ॥ १८॥

तस्मै देवैरवध्यत्वमिति दत्तो वरो मया ।
तस्माद्वानरतामेत्य भवन्तो युद्धदुर्मदाः ॥ १९॥

साहाय्यमस्य कुर्वन्तु तेन सुस्था भविष्यथ ।
तदाज्ञां शिरसा गृह्य सुराः प्राञ्जलयस्तथा ॥ २०॥

प्रणम्य चरणौ शंभोः स्वं स्वमस्त्रं ददुर्मुदा ।
नारायणास्त्रं दैत्यारिरैन्द्रमस्त्रं पुरंदरः ॥ २१॥

ब्रह्मापि ब्रह्मदण्डास्त्रमाग्नेयास्त्रं धनंजयः ।
याम्यं यमोऽपि मोहास्त्रं रक्षोराजस्तथा ददौ ॥ २२॥

वरुणो वारुणं प्रादाद्वायव्यास्त्रं प्रभञ्जनः ।
कौबेरं च कुबेरोऽपि रौद्रमीशान एव च ॥ २३॥

सौरमस्त्रं ददौ सूर्यः सौम्यं सोमश्च पार्वतम् ।
विश्वेदेवा ददुस्तस्मै वसवो वासवाभिधम् ॥ २४॥

अथ तुष्टः प्रणम्येशं रामो दशरथात्मजः ।
प्राञ्जलिः प्रणतो भूत्वा भक्तियुक्तो व्यजिज्ञपत् ॥ २५॥

श्रीराम उवाच ॥

भगवान्मानुषेणैव नोल्लङ्घ्यो लवणाम्बुधिः ।
तत्र लङ्काभिधं दुर्गं दुर्जयं देवदानवैः ॥ २६॥

See Also  Yudhishthira Gita In Bengali

अनेककोटयस्तत्र राक्षसा बलवत्तराः ।
सर्वे स्वाध्यायनिरताः शिवभक्ता जितेन्द्रियाः ॥ १८ ॥

अनेकमायासंयुक्ता बुद्धिमन्तोऽग्निहोत्रिणः ।
कथमेकाकिना जेया मया भ्रात्रा च संयुगे ॥ २८॥

श्रीमहादेव उवाच ॥

रावणस्य वधे राम रक्षसामपि मारणे ।
विचारो न त्वया कार्यस्तस्य कालोऽयमागतः ॥ २९॥

अधर्मे तु प्रवृत्तास्ते देवब्राह्मणपीडने ।
तस्मादायुःक्षयं यातं तेषां श्रीरपि सुव्रत ॥ ३०॥

राजस्त्रीकामनासक्तं रावणं निहनिष्यसि ।
पापासक्तो रिपुर्जेतुः सुकरः समराङ्गणे ॥ ३१॥

अधर्मे निरतः शत्रुर्भाग्येनैव हि लभ्यते ।
अधीतधर्मशास्त्रोऽपि सदा वेदरतोऽपि वा ॥ ३२॥

विनाशकाले सम्प्राप्ते धर्ममार्गाच्च्युतो भवेत् ।
पीड्यन्ते देवताः सर्वाः सततं येन पापिना ॥ ३३॥

ब्राह्मणा ऋषयश्चैव तस्य नाशः स्वयं स्थितः ।
किष्किंधानगरे राम देवानामंशसंभवाः ॥ ३४॥

वानरा बहवो जाता दुर्जया बलवत्तराः ।
साहाय्यं ते करिष्यन्ति तैर्बध्वा च पयोनिधिम् ॥ ३५॥

अनेकशैलसंबद्धे सेतौ यान्तु वलीमुखाः ।
रावणं सगणं हत्वा तामानय निजां प्रियाम् ॥ ३६॥

शस्त्रैर्युद्धे जयो यत्र तत्रास्त्राणि न योजयेत् ।
निरस्त्रेष्वल्पशस्त्रेषु पलायनपरेषु च ॥ ३७॥

अस्त्राणि मुञ्चन् दिव्यानि स्वयमेव विनश्यति ।
अथवा किं बहूक्तेन मयैवोत्पादितं जगत् ॥ ३८॥

मयैव पाल्यते नित्यं मया संह्रियतेऽपि च ।
अहमेको जगन्मृत्युर्मृत्योरपि महीपते ॥ ३९॥

ग्रसेऽहमेव सकलं जगदेतच्चराचरम् ।
मम वक्त्रगताः सर्वे राक्षसा युद्धदुर्मदाः ॥ ४०॥

निमित्तमात्रं त्वं भूयाः कीर्तिमाप्स्यसि संगरे ॥ ४१॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
रामाय वरप्रदानं नाम पञ्चमोऽध्यायः ॥ ५ ॥

अथ षष्ठोऽध्यायः ॥

श्रीराम उवाच ॥

भगवन्नत्र मे चित्रं महदेतत्प्रजायते ।
शुद्धस्फटिकसंकाशस्त्रिनेत्रश्चन्द्रशेखरः ॥ १॥

मूर्तस्त्वं तु परिच्छिन्नाकृतिः पुरुषरूपधृक् ।
अम्बया सहितोऽत्रैव रमसे प्रमथैः सह ॥ २॥

त्वं कथं पञ्चभूतादि जगदेतच्चराचरम् ।
तद्ब्रूहि गिरिजाकान्त मयि तेऽनुग्रहो यदि ॥ ३॥

श्रीभगवानुवाच ॥

साधु पृष्टं महाभाग दुर्ज्ञेयममरैरपि।
तत्प्रवक्ष्यामि ते भक्त्या ब्रह्मचर्येण सुव्रत ॥ ४॥

पारं यास्यस्यनायासाद्येन संसारनीरधेः ।
दृश्यन्ते पञ्चभूतानि ये च लोकाश्चतुर्दश ॥ ५॥

समुद्राः सरितो देवा राक्षसा ऋषयस्तथा ।
दृश्यन्ते यानि चान्यानि स्थावराणि चराणि च ॥ ६॥

गन्धर्वाः प्रमथा नागाः सर्वे ते मद्विभूतयः ।
पुरा ब्रह्मादयो देवा द्रष्टुकामा ममाकृतिम् ॥ ७॥

मंदरं प्रययुः सर्वे मम प्रियतरं गिरिम् ।
स्तुत्वा प्राञ्जलयो देवा मां तदा पुरतः स्थिताः ॥ ८॥

तान्दृष्ट्वाथ मया देवान् लीलाकुलितचेतसः ।
तेषामपहृतं ज्ञानं ब्रह्मादीनां दिवौकसाम् ॥ ९॥

अथ तेऽपहृतज्ञाना मामाहुः को भवानिति ।
अथाब्रुवमहं देवानहमेव पुरातनः ॥ १०॥

आसं प्रथममेवाहं वर्तामि च सुरेश्वराः ।
भविष्यामि च लोकेऽस्मिन्मत्तो नान्यस्ति कश्चन ॥ ११॥

व्यतिरिक्तं च मत्तोऽस्ति नान्यत्किञ्चित्सुरेश्वराः ।
नित्योऽनित्योऽहमनघो ब्रह्मणां ब्रह्मणस्पतिः ॥ १२॥

दक्षिणाञ्च उदञ्चोऽहं प्राञ्चः प्रत्यञ्च एव च ।
अधश्चोर्ध्वं च विदिशो दिशश्चाहं सुरेश्वराः ॥ १३॥

सावित्री चापि गायत्री स्त्री पुमानपुमानपि ।
त्रिष्टुब्जगत्यनुष्टुप् च पंक्तिश्छन्दस्त्रयीमयः ॥ १४॥

सत्योऽहं सर्वगः शान्तस्त्रेताग्निर्गौर्यहं गुरुः ।
गौर्यहं गह्वरं चाहं द्यौरहं जगतां विभुः ॥ १५॥

ज्येष्ठः सर्वसुरश्रेष्ठो वरिष्ठोऽहमपांपतिः ।
आर्योऽहं भगवानीशस्तेजोऽहं चादिरप्यहम् ॥ १६॥

ऋग्वेदोऽहं यजुर्वेदः सामवेदोऽहमात्मभूः ।
अथर्वणश्च मन्त्रोऽहं तथा चाङ्गिरसो वरः ॥ १७॥

इतिहासपुराणानि कल्पोऽहं कल्पवानहम् ।
नाराशंसी च गाथाहं विद्योपनिषदोऽस्म्यहम् ॥ १८॥

श्लोकाः सूत्राणि चैवाहमनुव्याख्यानमेव च ।
व्याख्यानानि परा विद्या इष्टं हुतमथाहुतिः ॥ १९॥

दत्तादत्तमयं लोकः परलोकऽहमक्षरः ।
क्षरः सर्वाणि भूतानि दान्तिः शान्तिरहं खगः ॥ २०॥

गुह्योऽहं सर्ववेदेषु आरण्योहमजोऽप्यहम् ।
पुष्करं च पवित्रं च मध्यं चाहमतः परम् ॥ २१॥

बहिश्चाहं तथा चान्तः पुरस्तादहमव्ययः ।
ज्योतिश्चाहं तमश्चाहं तन्मात्राणीन्द्रियाण्यहम् ॥ २२॥

बुद्धिश्चाहमहंकारो विषयाण्यहमेव हि ।
ब्रह्मा विष्णुर्महेशोहमुमा स्कन्दो विनायकः ॥ २३॥

इन्द्रोऽग्निश्च यमश्चाहं निरृतिर्वरुणोऽनिलः ।
कुबेरोऽहं तथेशानो भूर्भुवः स्वर्महर्जनः ॥ २४॥

तपः सत्यं च पृथिवी चापस्तेजोऽनिलोऽप्यहम् ।
आकाशोऽहं रविः सोमो नक्षत्राणि ग्रहास्तथा ॥ २५॥

प्राणः कालस्तथा मृत्युरमृतं भूतमप्यहम् ।
भव्यं भविष्यत्कृत्स्नं च विश्वं सर्वात्मकोऽप्यहम् ॥ २६॥

ओमादौ च तथा मध्ये भूर्भुवः स्वस्तथैव च ।
ततोऽहं विश्वरूपोऽस्मि शीर्षं च जपतां सदा ॥ १८ ॥

अशितं पायितं चाहं कृतं चाकृतमप्यहम् ।
परं चैवापरं चाहमहं सर्वपरायणः ॥ २८॥

अहं जगद्धितं दिव्यमक्षरं सूक्ष्ममव्ययम् ।
प्राजापत्यं पवित्रं च सौम्यमग्राह्यमग्रियम् ॥ २९॥

अहमेवोपसंहर्ता महाग्रासौजसां निधिः ।
हृदि यो देवतात्वेन प्राणत्वेन प्रतिष्ठितः ॥ ३०॥

शिरश्चोत्तरतो यस्य पादौ दक्षिणतस्तथा ।
यश्च सर्वोत्तरः साक्षादोङ्कारोऽहं त्रिमात्रकः ॥ ३१॥

ऊर्ध्वं चोन्नामहे यस्मादधश्चापनयाम्यहम् ।
तस्मादोङ्कार एवाहमेको नित्यः सनातनः ॥ ३२॥

ऋचो यजूंषि सामानि यो ब्रह्मा यज्ञकर्मणि ।
प्रणामहे ब्राह्मणेभ्यस्तेनाहं प्रणवो मतः ॥ ३३॥

स्नेहो यथा मांसपिण्डं व्याप्नोति व्याप्ययत्यपि ।
सर्वान् लोकानहं तद्वत्सर्वव्यापी ततोऽस्म्यहम् ॥ ३४॥

ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान् ।
ततोऽन्ये च सुरा यस्मादनन्तोऽहमितीरितः ॥ ३५॥

गर्भजन्मजरामृत्युसंसारभवसागरात् ।
तारयामि यतो भक्तं तस्मात्तारोऽहमीरितः ॥ ३६॥

चतुर्विधेषु देहेषु जीवत्वेन वसाम्यहम् ।
सूक्ष्मो भूत्वा च हृद्देशे यत्तत्सूक्ष्मं प्रकीर्तितः ॥ ३७॥

महातमसि मग्नेभ्यो भक्तेभ्यो यत्प्रकाशये ।
विद्युद्वदतुलं रूपं तस्माद्विद्युतमस्म्यहम् ॥ ३८॥

एक एव यतो लोकान् विसृजामि सृजामि च ।
विवासयामि गृह्णामि तस्मादेकोऽहमीश्वरः ॥ ३९॥

न द्वितीयो यतस्तस्थे तुरीयं ब्रह्म यत्स्वयम् ।
भूतान्यात्मनि संहृत्य चैको रुद्रो वसाम्यहम् ॥ ४०॥

सर्वांल्लोकान्यदीशेहमीशिनीभिश्च शक्तिभिः ।
ईशानमस्य जगतः स्वर्दृशं चक्षुरीश्वरम् ॥ ४१॥

ईशानश्चास्मि जगतां सर्वेषामपि सर्वदा ।
ईशानः सर्वविद्यानां यदीशानस्ततोऽस्म्यहम् ॥ ४२॥

सर्वभावान्निरीक्षेऽहमात्मज्ञानं निरीक्षये ।
योगं च गमये तस्माद्भगवान्महतो मतः ॥ ४३॥

अजस्रं यच्च गृह्णामि विसृजामि सृजामि च ।
सर्वांल्लोकान्वासयामि तेनाहं वै महेश्वरः ॥ ४४॥

महत्यात्मज्ञानयोगैश्वर्ये यस्तु महीयते ।
सर्वान् भावान् परित्यज्य महादेवश्च सोऽस्म्यहम् ॥ ४५॥

एषोऽस्मि देवः प्रदिशो नु सर्वाः
पूर्वो हि जातोस्म्यहमेव गर्भे ।
अहं हि जातश्च जनिष्यमाणः
प्रत्यग्जनस्तिष्ठति सर्वतोमुखः ॥ ४६॥

विश्वतश्चक्षुरुत विश्वतोमुखो
विश्वतोबाहुरुत विश्वतस्पात् ।
संवाहुभ्यां धमति सम्पतत्रै-
र्द्यावाभूमी जनयन्देव एकः ॥ ४७॥

वालाग्रमात्रं हृदयस्य मध्ये
विश्वं देवं जातवेदं वरेण्यम् ।
मामात्मस्थं येऽनुपश्यन्ति धीरा-
स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ४८॥

अहं योनिमधितिष्ठामि चैको
मयेदं पूर्णं पञ्चविधं च सर्वम् ।
मामीशानं पुरुषं देवमीड्यं विदित्वा
निचाय्येमां शान्तिमत्यन्तमेति ॥ ४९॥

प्राणेष्वन्तर्मनसो लिङ्गमाहु-
रस्मिन्क्रोधोउआ च तृष्णा क्षमा च ।
तृष्णां हित्वा हेतुजालस्य मूलं
बुद्ध्या चित्तं स्थापयित्वा मयीह ।
एवं ये मां ध्यायमाना भजंते
तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ५०॥

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥ ५१॥

श्रुत्वेति देवा मद्वाक्यं कैवल्यज्ञानमुत्तमम् ।
जपन्तो मम नामानि मम ध्यानपरायणाः ॥ ५२॥

सर्वे ते स्वस्वदेहान्ते मत्सायुज्यं गताः पुरा ।
ततोऽग्रे परिदृश्यन्ते पदार्था मद्विभूतयः ॥ ५३॥

मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् ॥ ५४॥

अणोरणीयानहमेव तद्व-
न्महानहं विश्वमहं विशुद्धः ।
पुरातनोऽहं पुरुषोऽहमीशो
हिरण्मयोऽहं शिवरूपमस्मि ॥ ५५॥

अपाणिपादोऽहमचिन्त्यशक्तिः
पश्याम्यचक्षुः स श‍ृणोम्यकर्णः ।
अहं विजानामि विविक्तरूपो
न चास्ति वेत्ता मम चित्सदाहम् ॥ ५६॥

वेदैरशेषैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ।
न पुण्यपापे मम नास्ति नाशो
न जन्म देहेन्द्रियबुद्धिरस्ति ॥ ५७॥

न भूमिरापो न च वह्निरस्ति
न चानिलो मेऽस्ति न मे नभश्च ।
एवं विदित्वा एवं मां तत्त्वतो वेत्ति यस्तु राम महाम्ते
परमात्मरूपं
गुहाशयं निष्कलमद्वितीयम्॥ ५८॥

समस्तसाक्षिं सदसद्विहीनः
प्रयाति शुद्धं पर्मात्मरूपम् ॥ ५९॥

एवं मां तत्त्वतो वेत्ति यस्तु राम महामते ।
स एव नान्य लोकेषु कैवल्यफलमश्नुते ॥ ६०॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
विभूतियोगो नाम षष्ठोऽध्यायः ॥ ६ ॥

अथ सप्तमोऽध्यायः ॥

श्रीराम उवाच ॥

भगवन्यन्मया पृष्टं तत्तथैव स्थितं विभो ।
अत्रोत्तरं मया लब्धं त्वत्तो नैव महेश्वर ॥ १॥

परिच्छिन्नपरीमाणे देहे भगवतस्तव ।
उत्पत्तिः पञ्चभूतानां स्थितिर्वा विलयः कथम् ॥ २॥

स्वस्वाधिकारसंबद्धाः कथं नाम स्थिताः सुराः ।
ते सर्वे कथं देव भुवनानि चतुर्दश ॥ ३॥

त्वत्तः श्रुत्वापि देवात्र संशयो मे महानभूत् ।
अप्रत्यायितचित्तस्य संशयं छेत्तुमर्हसि ॥ ४॥

श्रीभगवानुवाच ॥

वटबीजेऽतिसूक्ष्मेऽपि महावटतरुर्यथा ।
सर्वदास्तेऽन्यथा वृक्षः कुत आयाति तद्वद ॥ ५॥

तद्वन्मम तनौ राम भूतानामागतिर्लयः ।
महासैन्धवपिण्डोऽपि जले क्षिप्तो विलीयते ॥ ६॥

न दृश्यते पुनः पाकात्कुत आयाति पूर्ववत् ।
प्रातःप्रातर्यथाऽऽलोको जायते सूर्यमण्डलात् ॥ ७॥

एवं मत्तो जगत्सर्वं जायतेऽस्ति विलीयते ।
मय्येव सकलं राम तद्वज्जानीहि सुव्रत ॥ ८॥

श्रीराम उवाच ॥

कथितेऽपि महाभाग दिग्जडस्य यथा दिशि ।
निवर्तते भ्रमो नैव तद्वन्मम करोमि किम् ॥ ९॥

श्रीभगवानुवाच ॥

मयि सर्वं यथा राम जगदेतच्चराचरम् ।
वर्तते तद्दर्शयामि न द्रष्टुं क्षमते भवान् ॥ १०॥

दिव्यं चक्षुः प्रदास्यामि तुभ्यं दशरथात्मज ।
तेन पश्य भयं त्यक्त्वा मत्तेजोमण्डलं ध्रुवम् ॥ ११॥

न चर्मचक्षुषा द्रष्टुं शक्यते मामकं महः ।
नरेण वा सुरेणापि तन्ममानुग्रहं विना ॥ १२॥

सूत उवाच ॥

इत्युक्त्वा प्रददौ तस्मै दिव्यं चक्षुर्महेश्वरः ।
अथादर्शयदेतस्मै वक्त्रं पातालसंनिभम् ॥ १३॥

विद्युत्कोटिप्रभं दीप्तमतिभीमं भयावहम् ।
तद्दृष्ट्वैव भयाद्रामो जानुभ्यामवनिं गतः ॥ १४॥

प्रणम्य दण्डवद्भूमौ तुष्टाव च पुनः पुनः ।
अथोत्थाय महावीरो यावदेव प्रपश्यति ॥ १५॥

वक्त्रं पुरभिदस्तत्र अन्तर्ब्रह्माण्डकोटयः ।
चटका इव लक्ष्यन्ते ज्वालामालासमाकुलाः ॥ १६॥

मेरुमन्दरविन्ध्याद्या गिरयः सप्तसागराः ।
दृश्यन्ते चन्द्रसूर्याद्याः पञ्च भूतानि ते सुराः ॥ १७॥

अरण्यानि महानागा भुवनानि चतुर्दश ।
प्रतिब्रह्माण्डमेवं तद्दृष्ट्वा दशरथात्मजः ॥ १८॥

सुरासुराणां संग्रामस्तत्र पूर्वापरानपि ।
विष्णोर्दशावतारांश्च तत्तत्कर्माण्यपि द्विजाः ॥ १९॥

पराभवांश्च देवानां पुरदाहं महेशितुः ।
उत्पद्यमानानुत्पन्नान्सर्वानपि विनश्यतः ॥ २०॥

दृष्ट्वा रामो भयाविष्टः प्रणनाम पुनः पुनः ।
उत्पन्नतत्त्वज्ञानोऽपि बभूव रघुनन्दनः ॥ २१॥

अथोपनिषदां सारैरर्थैस्तुष्टाव शंकरम् ॥ २२॥

श्रीराम उवाच ॥

देव प्रपन्नार्तिहर प्रसीद
प्रसीद विश्वेश्वर विश्ववन्द्य ।
प्रसीद गङ्गाधर चन्द्रमौले
मां त्राहि संसारभयादनाथम् ॥ २३॥

त्वत्तो हि जातं जगदेतदीश
त्वय्येव भूतानि वसन्ति नित्यम् ।
त्वय्येव शंभो विलयं प्रयान्ति
भूमौ यथा वृक्षलतादयोऽपि ॥ २४॥

ब्रह्मेन्द्र रुद्राश्च मरुद्गणाश्च
गन्धर्वयक्षाऽसुरसिद्धसङ्घाः ।
गङ्गादि नद्यो वरुणालयाश्च
वसन्ति शूलिंस्तव वक्त्रयंत्रे ॥ २५॥

त्वन्मायया कल्पितमिन्दुमौले
त्वय्येव दृश्यत्वमुपैति विश्वम् ।
भ्रान्त्या जनः पश्यति सर्वमेत-
च्छुक्तौ यथा रौप्यमहिं च रज्जौ ॥ २६॥

तेजोभिरापूर्य जगत्समस्तं
प्रकाशमानः कुरुषे प्रकाशम् ।
विना प्रकाशं तव देवदेव
न दृश्यते विश्वमिदं क्षणेन ॥ १८ ॥

अल्पाश्रयो नैव बृहन्तमर्थं
धत्तेऽणुरेको न हि विन्ध्यशैलम् ।
त्वद्वक्त्रमात्रे जगदेतदस्ति
त्वन्माययैवेति विनिश्चिनोमि ॥ २८॥

रज्जौ भुजङ्गो भयदो यथैव
न जायते नास्ति न चैति नाशम् ।
त्वन्मायया केवलमात्ररूपं
तथैव विश्वं त्वयि नीलकण्ठ ॥ २९॥

विचार्यमाणे तव यच्छरीर-
माधारभावं जगतामुपैति ।
तदप्ययश्यं मदविद्ययैव
पूर्णश्चिदानदमयो यतस्त्वम् ॥ ३०॥

पूजेष्टपूर्तादिवरक्रियाणां
भोक्तुः फलं यच्छसि विश्वमेव ।
मृषैतदेवं वचनं पुरारे
त्वत्तोऽस्ति भिन्नं न च किञ्चिदेव ॥ ३१॥

अज्ञानमूढा मुनयो वदन्ति
पूजोपचारादिबहिःक्रियाभिः ।
तोषं गिरीशो भजतीति मिथ्या
कुतस्त्वमूर्तस्य तु भोगलिप्सा ॥ ३२॥

किञ्चिद्दलं वा चुलकोदकं वा
यस्त्वं महेश प्रतिगृह्य दत्से ।
त्रैलोक्यलक्ष्मीमपि यज्जनेभ्यः
सर्वं त्वविद्याकृतमेव मन्ये ॥ ३३॥

व्याप्नोषि सर्वा विदिशो दिशश्च
त्वं विश्वमेकः पुरुषः पुराणः ।
नष्टेऽपि तस्मिंस्तव नास्ति हानि-
र्घटे विनष्टे नभसो यथैव ॥ ३४॥

यथैकमाकाशगमर्कबिम्बं
क्षुद्रेषु पात्रेषु जलान्वितेषु ।
भजत्यनेकप्रतिबिम्बभावं
तथा त्वमन्तःकरणेषु देव ॥ ३५॥

संसर्जने वाऽप्यवने विनाशे
विश्वस्य किञ्चित्तव नास्ति कार्यम् ।
अनादिभिः प्राणभृतामदृष्टै-
स्तथापि तत्स्वप्नवदातनोषि ॥ ३६॥

स्थूलस्य सूक्ष्मस्य जडस्य भोगो
देहस्य शंभो न चिदं विनास्ति ।
अतस्त्वदारोपणमातनोति
श्रुतिः पुरारे सुखदुःखयोः सदा ॥ ३७॥

नमः सच्चिदाम्भोधिहंसाय तुभ्यं
नमः कालकालाय कालात्मकाय ।
नमस्ते समस्ताघसंहारकर्त्रे
नमस्ते मृषाचित्तवृत्त्यैकभोक्त्रे ॥ ३८॥

सूत उवाच ॥

एवं प्रणम्य विश्वेशं पुरतः प्राञ्जलिः स्थितः ।
विस्मितः परमेशानं जगाद रघुनन्दनः ॥ ३९॥

श्रीराम उवाच ॥

उपसंहर विश्वात्मन्विश्वरूपमिदं तव ।
प्रतीतं जगदैकात्म्यं शंभो भवदनुग्रहात् ॥ ४०॥

श्रीभगवानुवाच ॥

पश्य राम महाबाहो मत्तो नान्योऽस्ति कश्चन ॥ ४१॥

सूत उवाच ॥

उत्युक्त्वैवोपसंजह्रे स्वदेहे देवतादिकान् ।
मीलिताक्षः पुनर्हर्षाद्यावद्रामः प्रपश्यति ॥ ४२॥

तावदेव गिरेः श‍ृङ्गे व्याघ्रचर्मोपरि स्थितम् ।
ददर्श पञ्चवदनं नीलकण्ठं त्रिलोचनम् ॥ ४३॥

व्याघ्रचर्माम्बरधरं भूतिभूषितविग्रहम् ।
फणिकङ्कणभूषाढ्यं नागयज्ञोपवीतिनम् ॥ ४४॥

व्याघ्रचर्मोत्तरीयं च विद्युत्पिङ्गजटाधरम् ।
एकाकिनं चन्द्रमौलिं वरेण्यमभयप्रदम् ॥ ४५॥

चतुर्भुजं खण्डपरशुं मृगहस्तं जगत्पतिम् ।
अथाज्ञया पुरस्तस्य प्रणम्योपविवेश सः ॥ ४६॥

अथाह रामं देवेशो यद्यत्प्रष्टुमभीच्छसि ।
तत्सर्वं पृच्छ राम त्वं मत्तो नान्योऽस्ति ते गुरुः ॥ ४७॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
विश्वरूपदर्शनं नाम सप्तमोऽध्यायः ॥ ७ ॥

अथ अष्टमोऽध्यायः ॥

श्रीराम उवाच ॥

पाञ्चभौतिकदेहस्य चोत्पत्तिर्विलयः स्थितिः ।
स्वरूपं च कथं देव भगवन्वक्तुमर्हसि ॥ १॥

श्रीराम उवाच ॥

पाञ्चभौतिकदेहस्य चोत्पत्तिर्विलयः स्थितिः ।
स्वरूपं च कथं देव भगवन्वक्तुमर्हसि ॥ १॥

श्रीभगवानुवाच ॥

पञ्चभूतैः समारब्धो देहोऽयं पाञ्चभौतिकः ।
तत्र प्रदानं पृथिवी शेषाणां सहकारिता ॥ २॥

जरायुजोऽण्डजश्चैव स्वेदजश्चोद्भिजस्तथा ।
एवं चतुर्विधः प्रोक्तो देहोऽयं पाञ्चभौतिकः ॥ ३॥

मानसस्तु परः प्रोक्तो देवानामेव संस्मृतः ।
तत्र वक्ष्ये प्रथमतः प्रधानत्वाज्जरायुजम् ॥ ४॥

शुक्रशोणितसंभूता वृत्तिरेव जरायुजः ।
स्त्रीणां गर्भाशये शुक्रमृतुकाले विशेद्यदा ॥ ५॥

योषितो रजसा युक्तं तदेव स्याज्जरायुजम् ।
बाहुल्याद्रजसा स्त्री स्याच्छुक्राधिक्ये पुमान्भवेत् ॥ ६॥

शुक्रशोणितयोः साम्ये जायते च नपुंसकः ।
ऋतुस्नाता भवेन्नारी चतुर्थे दिवसे ततः ॥ ७॥

ऋतुकालस्तु निर्दिष्ट आषोडशदिनावधि ।
तत्रायुग्मदिने स्त्री स्यात्पुमान्युग्मदिने भवेत् ॥ ८॥

षोडशे दिवसे गर्भो जायते यदि सुभ्रुवः ।
चक्रवर्ती भवेद्राजा जायते नात्र संशयः ॥ ९॥

ऋतुस्नाता यस्य पुंसः साकाङ्क्षं मुखमीक्षते ।
तदाकृतिर्भवेदर्भस्तत्पश्येत्स्वामिनो मुखम् ॥ १०॥

याऽस्ति चर्मावृतिः सूक्ष्मा जरायुः सा निगद्यते ।
शुक्रशोणितयोर्योगस्तस्मिन्नेव भवेद्यतः ।
तत्र गर्भो भवेद्यस्मात्तेन प्रोक्तो जरायुजः ॥ ११॥

अण्डजाः पक्षिसर्पाद्याः स्वेदजा मशकादयः ।
उद्भिज्जास्तृणगुल्माद्या मानसाश्च सुरर्षयः॥ १२॥

जन्मकर्मवशादेव निषिक्तं स्मरमन्दिरे ।
शुक्रं रजःसमायुक्तं प्रथमे मासि तद्द्रवम् ॥ १३॥

बुद्बुदं कललं तस्मात्ततः पेशी भवेदिदम् ।
पेशीघनं द्वितीये तु मासि पिण्डः प्रजायते ।१४॥

कराङ्घ्रिशीर्षकादीनि तृतीये संभवन्ति हि ।
अभिव्यक्तिश्च जीवस्य चतुर्थे मासि जायते ॥ १५॥

ततश्चलति गर्भोऽपि जनन्या जठरे स्वतः ।
पुत्रश्चेद्दक्षिणे पार्श्वे कन्या वामे च तिष्ठति ॥ १६॥

नपुंसकस्तूदरस्य भागे तिष्ठति मध्यतः ।
अतो दक्षिणपार्श्वे तु शेते माता पुमान्यदि ॥ १७॥

अङ्गप्रत्यङ्गभागाश्च सूक्ष्माः स्युर्युगपत्तदा ।
विहाय श्मश्रुदन्तादीञ्जन्मानन्तरसंभवान् ॥ १८॥

चतुर्थे व्यक्तता तेषां भावानामपि जायते ।
पुंसां स्थैर्यादयो भावा भीरुत्वाद्यास्तु योषिताम् ॥ १९॥

नपुंसके च ते मिश्रा भवन्ति रघुनन्दन ।
मातृजं चास्य हृदयं विषयानभिकाङ्क्षति ॥ २०॥

ततो मातुर्मनोऽभीष्टं कुर्याद्गर्भविवृद्धये ।
तां च द्विहृदयां नारीमाहुर्दौहृदिनीं ततः ॥ २१॥

अदानाद्दौहृदानां स्युर्गर्भस्य व्यङ्गतादयः ।
मातुर्यद्विषये लोभस्तदार्तो जायते सुतः ॥ २२॥

प्रबुद्धं पञ्चमे चित्तं मांसशोणितपुष्टता ।
षष्ठेऽस्थिस्नायुनखरकेशलोमविविक्तता ॥ २३॥

बलवर्णौ चोपचितौ सप्तमे त्वङ्गपूर्णता ।
पादान्तरितहस्ताभ्यां श्रोत्ररन्ध्रे पिधाय सः ॥ २४॥

उद्विग्नो गर्भसंवासादस्ति गर्भलयान्वितः ॥ २५॥

आविर्भूतप्रबोधोऽसौ गर्भदुःखादिसंयुतः ।
हा कष्टमिति निर्विण्णः स्वात्मानं शोशुचीत्यथ ॥ २६॥

अनुभूता महासह्याः पुरा मर्मच्छिदोऽसकृत् ।
करंभवालुकास्तप्ताश्चादह्यन्तासुखाशयाः ॥ १८ ॥

जठरानलसंतप्तपित्ताख्यरसविप्लुषः ।
गर्भाशये निमग्नं तु दहन्त्यतिभृशं तु माम् ॥ २८॥

उदर्यकृमिवक्त्राणि कूटशाल्मलिकण्टकैः ।
तुल्यानि च तुदन्त्यार्तं पार्श्वास्थिक्रकचार्दितम् ॥ २९॥

गर्भे दुर्गन्धभूयिष्ठे जठराग्निप्रदीपिते ।
दुःखं मयाप्तं यत्तस्मात्कनीयः कुम्भपाकजम् ॥ ३०॥

पूयासृक्श्लेष्मपायित्वं वाग्ताशित्वं च यद्भवेत् ।
अशुचौ कृमिभावश्च तत्प्राप्तं गर्भशायिना ॥ ३१॥

गर्भशय्यां समारुह्य दुःखं यादृङ् मयापि तत् ।
नातिशेते महादुःखं निःशेषनरकेषु तत् ॥ ३२॥

एवं स्मरन्पुरा प्राप्ता नानाजातीश्च यातनाः ।
मोक्षोपायमभिध्यायन्वर्ततेऽभ्यासतत्परः ॥ ३३॥

अष्टमे त्वक्सृती स्यातामोजस्तेजश्च हृद्भवम् ।
शुभ्रमापीतरक्तं च निमित्तं जीवितं मतम् ॥ ३४॥

मातरं च पुनर्गर्भं चञ्चलं तत्प्रधावति ।
ततो जातोऽष्टमे गर्भो न जीवत्योजसोज्झितः ॥ ३५॥

किंचित्कालमवस्थानं संस्कारात्पीडिताङ्गवत् ।
समयः प्रसवस्य स्यान्मासेषु नवमादिषु ॥ ३६॥

मातुरस्रवहां नाडीमाश्रित्यान्ववतारिता ।
नाभिस्थनाडी गर्भस्य मात्राहाररसावह ।
तेन जीवति गर्भोऽपि मात्राहारेण पोषितः ॥ ३७॥

अस्थियन्त्रविनिष्पिष्टः पतितः कुक्षिवर्त्मना ।
मेदोऽसृग्दिग्धसर्वाङ्गो जरायुपुटसंवृतः ॥ ३८॥

निष्क्रामन्भृशदुःखार्तो रुदन्नुच्चैरधोमुखः ।
यन्त्रादेव विनिर्मुक्तः पतत्त्युत्तानशाय्युत ॥ ३९॥

अकिंचित्कस्तथा बालो मांसपेशीसमास्थितः ।
श्वमार्जारादिदंष्ट्रिभ्यो रक्ष्यते दण्डपाणिभिः ॥ ४०॥

पितृवद्राक्षसं वेत्ति मातृवड्डाकिनीमपि ।
पूयं पयोवदज्ञानाद्दीर्घकष्टं तु शैशवम् ॥ ४१॥

श्लेष्मणा पिहिता नाडी सुषुम्ना यावदेव हि ।
व्यक्तवर्णं च वचनं तावद्वक्तुं न शक्यते ॥ ४२॥

अत एव च गर्भेऽपि रोदितुं नैव शक्यते ॥ ४३॥

दृप्तोऽथ यौवनं प्राप्य मन्मथज्वरविह्वलः ।
गायत्यकस्मादुच्चैस्तु तथा कस्माच्च वल्गति ॥ ४४॥

आरोहति तरून्वेगाच्छान्तानुद्वेजयत्यपि ।
कामक्रोधमदान्धः सन्न कांश्चिदपि वीक्षते ॥ ४५॥

अस्थिमांसशिरालाया वामाया मन्मथालये ।
उत्तानपूतिमण्डूकपाटितोदरसन्निभे ।
आसक्तः स्मरबाणार्त आत्मना दह्यते भृशम् ॥ ४६॥

अस्थिमांसशिरात्वग्भ्यः किमन्यद्वर्तते वपुः ।
वामानां मायया मूढो न किंचिद्वीक्षते जगत् ॥ ४७॥

निर्गते प्राणपवने देहो हंत मृगीदृशः ।
यथाहि जायते नैव वीक्ष्यते पञ्चषैर्दिनैः ॥ ४८॥

महापरिभवस्थानं जरां प्राप्यातिदुःखितः ।
श्लेष्मणा पिहितोरस्को जग्धमन्नं न जीर्यति ॥ ४९॥

सन्नदन्तो मन्ददृष्टिः कटुतिक्तकषायभुक् ।
वातभुग्नकटिग्रीवकरोरुचरणोऽबलः ॥ ५०॥

गदायुतसमाविष्टः परित्यक्तः स्वबन्धुभिः ।
निःशौचो मलदिग्धाङ्ग आलिङ्गितवरोषितः ॥ ५१॥

ध्यायन्नसुलभान्भोगान्केवलं वर्तते चलः ।
सर्वेन्द्रियक्रियालोपाद्धस्यते बालकैरपि ॥ ५२॥

ततो मृतिजदुःखस्य दृष्टान्तो नोपलभ्यते ।
यस्माद्बिभ्यति भूतानि प्राप्तान्यपि परां रुजम् ॥ ५३॥

नीयते मृत्युना जन्तुः परिष्वक्तोऽपि बन्धुभिः ।
सागरान्तर्जलगतो गरुडेनेव पन्नगः ॥ ५४॥

हा कान्ते हा धनं पुत्राः क्रन्दमानः सुदारुणम् ।
मण्डूक इव सर्पेण मृत्युना नीयते नरः ॥ ५५॥

मर्मसून्मथ्यमानेषु मुच्यमानेषु संधिषु ।
यद्दुःखं म्रियमाणस्य स्मर्यतां तन्मुमुक्षुभिः ॥ ५६॥

दृष्टावाक्षिप्यमाणायां संज्ञया ह्रियमाणया ।
मृत्युपाशेन बद्धस्य त्राता नैवोपलभ्यते ॥ ५७॥

संरुध्यमानस्तमसा मच्चित्तमिवाविशन् ।
उपाहूतस्तदा ज्ञातीनीक्षते दीनचक्षुषा ॥ ५८॥

अयः पाशेन कालेन स्नेहपाशेन बन्धुभिः ।
आत्मानं कृष्यमाणं तं वीक्षते परितस्तथा ॥ ५९॥

हिक्कया बाध्यमानस्य श्वासेन परिशुष्यतः ।
मृत्युनाकृष्यमाणस्य न खल्वस्ति परायणम् ॥ ६०॥

संसारयन्त्रमारूढो यमदूतैरधिष्ठितः ।
क्व यास्यामीति दुःखार्तः कालपाशेन योजितः ॥ ६१॥

किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।
इति कर्तव्यतामूढः कृच्छ्राद्देहात्त्यजत्यसून् ॥ ६२॥

यातनादेहसंबद्धो यमदूतैरधिष्ठिताः ।
इतो गत्वानुभवति या यास्ता यमयातनाः ।
तासु यल्लभते दुःखं तद्वक्तुं क्षमते कुतः ॥ ६३॥

कर्पूरचन्दनाद्यैस्तु लिप्यते सततं हि यत् ।
भूषणैर्भूष्यते चित्रैः सुवस्त्रैः परिवार्यते ॥ ६४॥

अस्पृश्यं जायतेऽप्रेक्ष्यं जीवत्यक्तं सदा वपुः ।
निष्कासयन्ति निलयात्क्षणं न स्थापयन्त्यपि ॥ ६५॥

दह्यते च ततः काष्ठैस्तद्भस्म क्रियते क्षणात् ।
भक्ष्यते वा सृगालैश्च गृध्रकुक्करवायसैः ।
पुनर्न दृश्यते सोऽथ जन्मकोटिशतैरपि ॥ ६६॥

माता पिता गुरुजनः स्वजनो ममेति
मायोपमे जगति कस्य भवेत्प्रतिज्ञा ।
एको यतो व्रजतो कर्मपुरःसरोऽयं
विश्रामवृक्षसदृशः खलु जीवलोकः ॥ ६७॥

सायं सायं वासवृक्षं समेताः
प्रातः प्रातस्तेन तेन प्रयान्ति ।
त्यक्त्वान्योन्यं तं च वृक्षं
विहङ्गा यद्वत्तद्वज्ज्ञातयोऽज्ञातयश्च ॥ ६८॥

मृतिबीजं भवेज्जन्म जन्मबीजं भवेन्मृतिः ।
घटयन्त्रवदश्रान्तो बम्भ्रमीत्यनिशं नरः ॥ ६९॥

गर्भे पुंसः शुक्रपाताद्यदुक्तं मरणावधि ।
तदेतस्य महाव्याधेर्मत्तो नान्योऽस्ति भेषजम् ॥ ७०॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
पिण्डोत्पत्तिकथनं नामाष्टमोऽध्यायः ॥ ८ ॥

अथ नवमोऽध्यायः ॥

श्रीभगवानुवाच ॥

देहस्वरूपं वक्ष्यामि श्रुणुष्वावहितो नृप ।
मत्तो हि जायते विश्वं मयैवैतत्प्रधार्यते ।
मय्येवेदमधिष्ठाने लीयते शुक्तिरौप्यवत् ॥ १॥

अहं तु निर्मलः पूर्णः सच्चिदानन्दविग्रहः ।
असंगो निरहंकारः शुद्धं ब्रह्म सनातनम् ॥ २॥

अनाद्यविद्यायुक्तः सन् जगत्कारणतां व्रजे ॥ ३॥

अनिर्वाच्या महाविद्या त्रिगुणा परिणामिनी ।
रजः सत्त्वं तमश्चेति त्रिगुणाः परिकीर्तिताः ॥ ४॥

See Also  Shrimad Bhagavad Gita In Sanskrit

सत्त्वं शुक्लं समादिष्टं सुखज्ञानास्पदं नृणाम् ।
दुःखास्पदं रक्तवर्णं चञ्चलं च रजो मतम् ॥ ५॥

तमः कृष्णं जडं प्रोक्तमुदासीनं सुखादिषु ॥ ६॥

अतो मम समायोगाच्छक्तिः सा त्रिगुणात्मिका ।
अधिष्ठाने तु मय्येव भजते विश्वरूपताम् ।
शुक्तौ रजतवद्रज्जौ भुजङ्गो यद्वदेव तु ॥ ७॥

आकाशादीनि जायन्ते मत्तो भूतानि मायया ।
तैरारब्धमिदं विश्वं देहोऽयं पाञ्चभौतिकः ॥ ८॥

पितृभ्यामशितादन्नात्षट्कोशं जायते वपुः ।
स्नायवोऽस्थीनि मज्जा च जायन्ते पितृतस्तथा ॥ ९॥

त्वङ्मांशोणितमिति मातृतश्च भवन्ति हि ।
भावाः स्युः षड्विधास्तस्य मातृजाः पितृजास्तथा ।
रसजा आत्मजाः सत्त्वसंभूताः स्वात्मजास्तथा ॥ १०॥

मृदवः शोणितं मेदो मज्जा प्लीहा यकृद्गुदम् ।
हृन्नाभीत्येवमाद्यास्तु भावा मातृभवा मताः ॥ ११॥

श्मश्रुलोमकचस्नायुशिराधमनयो नखाः ।
दशनाः शुक्रमित्याद्याः स्थिराः पितृसमुद्भवाः ॥ १२॥

शरीरोपचितिर्वर्णो वृद्धिस्तृप्तिर्बलं स्थितिः ।
अलोलुपत्वमुत्साह इत्यादि रसजं विदुः ॥ १३॥

इच्छा द्वेषः सुखं दुःखं धर्माधर्मौ च भावना ।
प्रयत्नो ज्ञानमायुश्चेन्द्रियाणीत्येवमात्मजाः ॥ १४॥

ज्ञानेन्द्रियाणि श्रवणं स्पर्शनं दर्शनं तथा ।
रसनं घ्राणमित्याहुः पञ्च तेषां तु गोचराः ॥ १५॥

शब्दः स्पर्शस्तथा रूपं रसो गन्ध इति क्रमात् ।
वाक्कराङ्घ्रिगुदोपस्थान्याहुः कर्मेन्द्रियाणि हि ॥ १६॥

वचनादानगमनविसर्गरतयः क्रमात् ।
कर्मेन्द्रियाणां जानीयान्मनश्चैवोभयात्मकम् ॥ १७॥

क्रियास्तेषां मनोबुद्धिरहंकारस्ततः परम् ।
अन्तःकरणमित्याहुश्चित्तं चेति चतुष्टयम् ॥ १८॥

सुखं दुःखं च विषयौ विज्ञेयौ मनसः क्रियाः ।
स्मृतिभीतिविकल्पाद्या बुद्धिः स्यान्निश्चयात्मिका ।
अहं ममेत्यहंकारश्चित्तं चेतयते यतः ॥ १९॥

सत्त्वाख्यमन्तःकरणं गुणभेदास्त्रिधा मतम् ।
सत्त्वं रजस्तम इति गुणाः सत्त्वात्तु सात्त्विकाः ॥ २०॥

आस्तिक्यशुद्धिधर्मैकमतिप्रभृतयो मताः ।
रजसो राजसा भावाः कामक्रोधमदादयः ॥ २१॥

निद्रालस्यप्रमादादि वञ्चनाद्यास्तु तामसाः ।
प्रसन्नेन्द्रियतारोग्यानालस्याद्यास्तु सत्त्वजाः ॥ २२॥

देहो मात्रात्मकस्तस्मादादत्ते तद्गुणानिमान् ।
शब्दः श्रोत्रं मुखरता वैचित्र्यं सूक्ष्मता धृतिः ॥ २३॥

बलं च गगनाद्वायोः स्पर्शश्च स्पर्शनेन्द्रियम् ।
उत्क्षेपणमपक्षेपाकुञ्चने गमनं तथा ॥ २४॥

प्रसारणमितीमानि पञ्च कर्माणि रूक्षता ।
प्राणापानौ तथा व्यानसमानोदानसंज्ञकान् ॥ २५॥

नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः ।
दशैता वायुविकृतीस्तथा गृह्णाति लाघवम् ॥ २६॥

तेषां मुख्यतरः प्राणो नाभेः कण्ठादवस्थितः ।
चरत्यसौ नासिकयोर्नाभौ हृदयपङ्कजे ॥ १८ ॥

शब्दोच्चारणनिश्वासोच्छ्वासादेरपि कारणम् ॥ २८॥

अपानस्तु गुदे मेढ्रे कटिजङ्घोदरेष्वपि ।
नाभिकण्ठे वंक्षणयोरूरुजानुषु तिष्ठति ।
तस्य मूत्रपुरीषादिविसर्गः कर्म कीर्तितम् ॥ २९॥

व्यानोऽक्षिश्रोत्रगुल्फेषु जिह्वाघ्राणेषु तिष्ठति ।
प्राणायामधृतित्यागग्रहणाद्यस्य कर्म च ॥ ३०॥

समानो व्याप्य निखिलं शरीरं वह्निना सह ।
द्विसप्ततिसहस्रेषु नाडीरन्ध्रेषु संचरन् ॥ ३१॥

भुक्तपीतरसान्सम्यगानयन्देहपुष्टिकृत् ।
उदानः पादयोरास्ते हस्तयोरङ्गसंधिषु ॥ ३२॥

कर्मास्य देहोन्नयनोत्क्रमणादि प्रकीर्तितम् ।
त्वगादिधातूनाश्रित्य पञ्च नागादयः स्थिताः ॥ ३३॥

उद्गारादि निमेषादि क्षुत्पिपासादिकं क्रमात् ।
तन्द्रीप्रभृति शोकादि तेषां कर्म प्रकीर्तितम् ॥ ३४॥

अग्नेस्तु रोचकं रूपं दीप्तं पाकं प्रकाशताम् ।
अमर्षतीक्ष्णसूक्ष्माणामोजस्तेजश्च शूरताम् ॥ ३५॥

मेधावितां तथाऽऽदत्ते जलात्तु रसनं रसम् ।
शैत्यं स्नेहं द्रवं स्वेदं गात्रादिमृदुतामपि ॥ ३६॥

भूमेर्घ्राणेन्द्रियं गन्धं स्थैर्यं धैर्यं च गौरवम् ।
त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ॥ ३७॥

अन्नं पुंसाशितं त्रेधा जायते जठराग्निना ।
मलः स्थविष्ठो भागः स्यान्मध्यमो मांसतां व्रजेत् ।
मनः कनिष्ठो भागः स्यात्तस्मादन्नमयं मनः ॥ ३८॥

अपां स्थविष्ठो मूत्रं स्यान्मध्यमो रुधिरं भवेत् ।
प्राणः कनिष्ठो भागः स्यात्तस्मात्प्राणो जलात्मकः ॥ ३९॥

तेजसोऽस्थि स्थविष्ठः स्यान्मज्जा मध्यम संभवः ।
कनिष्ठा वाङ्मता तस्मात्तेजोऽवन्नात्मकं जगत् ॥ ४०॥

लोहिताज्जायते मांसं मेदो मांससमुद्भवम् ।
मेदसोऽस्थीनि जायन्ते मज्जा चास्थिसमुद्भवा ॥ ४१॥

नाड्योपि मांससंघाताच्छुक्रं मज्जासमुद्भवम् ॥ ४२॥

वातपित्तकफाश्चात्र धातवः परिकीर्तिताः ।
दशाञ्जलि जलं ज्ञेयं रसस्याञ्जलयो नव ॥ ४३॥

रक्तस्याष्टौ पुरीषस्य सप्त स्युः श्लेष्मणश्च षट्।
पित्तस्य पञ्च चत्वारो मूत्रस्याञ्जलयस्त्रयः ॥ ४४॥

वसाया मेदसो द्वौ तु मज्जा त्वञ्जलिसंमिता ।
अर्धाञ्जलि तथा शुक्रं तदेव बलमुच्यते ॥ ४५॥

अस्थ्नां शरीरे संख्या स्यात्षष्टियुक्तं शतत्रयम् ।
जलजानि कपालानि रुचकास्तरणानि च ।
नलकानीति तान्याहुः पञ्चधास्थीनि सूरयः ॥ ४६॥

द्वे शते त्वस्थिसंधीनां स्यातां तत्र दशोत्तरे ।
रौरवाः प्रसराः स्कन्दसेचनाः स्युरुलूखलाः ॥ ४७॥

समुद्गा मण्डलाः शंखावर्ता वामनकुण्डलाः ।
इत्यष्टधा समुद्दिष्टाः शरीरेष्वस्थिसंधयः ॥ ४८॥

सार्धकोटित्रयं रोम्णां श्मश्रुकेशास्त्रिलक्षकाः ।
देहस्वरूपमेवं ते प्रोक्तं दशरथात्मज ॥ ४९॥

यस्मादसारो नास्त्येव पदार्थो भुवनत्रये ।
देहेऽस्मिन्नभिमानेन न महोपायबुद्धयः ॥ ५०॥

अहंकारेण पापेन क्रियन्ते हंत सांप्रतम् ।
तस्मादेतत्स्वरूपं तु विबोद्धव्यं मुमुक्षिभिः ॥ ५१॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
देहस्वरूपनिर्णयो नाम नवमोऽध्यायः ॥ ९ ॥

अथ दशमोऽध्यायः ॥

श्रीराम उवाच ॥

भगवन्नत्र जीवोऽसौ जन्तोर्देहेऽवतिष्ठते ।
जायते वा कुतो जीवः स्वरूपं चास्य किं वद ॥ १॥

देहान्ते कुत्र वा याति गत्वा वा कुत्र तिष्ठति ।
कथमायाति वा देहं पुनर्नायाति वा वद ॥ २॥

श्रीभगवानुवाच ॥

साधु पृष्टं महाभाग गुह्याद्गुह्यतरं हि यत् ।
देवैरपि सुदुर्ज्ञेयमिन्द्राद्यैर्वा महर्षिभिः ॥ ३॥

अन्यस्मै नैव वक्तव्यं मयापि रघुनन्दन ।
त्वद्भक्त्याहं परं प्रीतो वक्ष्याम्यवहितः श्रुणु ॥ ४॥

सत्यज्ञानात्मकोऽनन्तः परमानन्दविग्रहः ।
परमात्मा परंज्योतिरव्यक्तो व्यक्तकारणम् ॥ ५॥

नित्यो विशुद्धः सर्वात्मा निर्लेपोऽहं निरञ्जनः ।
सर्वधर्मविहीनश्च न ग्राह्यो मनसापि च ॥ ६॥

नाहं सर्वेन्द्रियग्राह्यः सर्वेषां ग्राहको ह्यहम् ।
ज्ञाताहं सर्वलोकस्य मम ज्ञाता न विद्यते ॥ ७॥

दूरः सर्वविकाराणां परिणामादिकस्य च ॥ ८॥

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्म मां ज्ञात्वा न बिभेति कुतश्चन ॥ ९॥

यस्तु सर्वाणि भूतानि मय्येवेति प्रपश्यति ।
मां च सर्वेषु भूतेषु ततो न विजुगुप्सते ॥ १०॥

यस्य सर्वाणि भूतानि ह्यात्मैवाभूद्विजानतः ।
को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ॥ ११॥

एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥

अनाद्यविद्यया युक्तस्तथाप्येकोऽहमव्ययः ।
अव्याकृतब्रह्मरूपो जगत्कर्ताहमीश्वरः ॥ १३॥

ज्ञानमात्रे यथा दृश्यमिदं स्वप्ने जगत्त्रयम् ।
तद्वन्मयि जगत्सर्वं दृश्यतेऽस्ति विलीयते ॥ १४॥

नानाविद्यासमायुक्तो जीवत्वेन वसाम्यहम् ।
पञ्च कर्मेन्द्रियाण्येव पञ्च ज्ञानेन्द्रियाणि च ॥ १५॥

मनो बुद्धिरहंकारश्चित्तं चेति चतुष्टयम् ।
वायवः पञ्चमिलिता यान्ति लिङ्गशरीरताम् ॥ १६
तत्राविद्यासमायुक्तं चैतन्यं प्रतिबिम्बितम् ।
व्यावहारिकजीवस्तु क्षेत्रज्ञः पुरुषोऽपि च ॥ १७॥

स एव जगतां भोक्तानाद्ययोः पुण्यपापयोः ।
इहामुत्र गती तस्य जाग्रत्स्वप्नादिभोक्तृता ॥ १८॥

यथा दर्पणकालिम्ना मलिनं दृश्यते मुखम् ।
तद्वदन्तःकरणगैर्दोषैरात्मापि दृश्यते ॥ १९॥

परस्पराध्यासवशात्स्यादन्तःकरणात्मनोः ॥

एकीभावाभिमानेन परात्मा दुःखभागिव॥ २०॥

मरुभूमौ जलत्वेन मध्याह्नार्कमरीचिकाः ।
दृश्यन्ते मूढचित्तस्य न ह्यार्द्रास्तापकारकाः ॥ २१॥

तद्वदात्मापि निर्लेपो दृश्यते मूढचेतसाम् ।
स्वाविद्यात्मात्मदोषेण कर्तृत्वाधिकधर्मवान् ॥ २२॥

तत्र चान्नमये पिण्डे हृदि जीवोऽवतिष्ठते ।
आनखाग्रं व्याप्य देहं तद्ब्रुवेऽवहितः श्रुणु ।
सोऽयं तदभिधानेन मांसपिण्डो विराजते ॥ २३॥

नाभेरूर्ध्वमधः कण्ठाद्व्याप्य तिष्ठति यः सदा ।
तस्य मध्येऽस्ति हृदयं सनालं पद्मकोशवत् ॥ २४॥

अधोमुखं च तत्रास्ति सूक्ष्मं सुषिरमुत्तमम् ।
दहराकाशमित्युक्तं तत्र जीवोऽवतिष्ठते ॥ २५॥

वालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ २६॥

कदम्बकुसुमोद्बद्धकेसरा इव सर्वतः ।
प्रसृता हृदयान्नाड्यो याभिर्व्याप्तं शरीरकम् ॥ १८ ॥

हितं बलं प्रयच्छन्ति तस्मात्तेन हिताः स्मृताः ।
द्वासप्ततिसहस्रैस्ताः संख्याता योगवित्तमैः ॥ २८॥

हृदयात्तास्तु निष्क्रान्ता यथार्काद्रश्मयस्तथा ।
एकोत्तरशतं तासु मुख्या विष्वग्विनिर्गतः ॥ २९॥

प्रतीन्द्रियं दश दश निर्गता विषयोन्मुखाः ।
नाड्यः शर्मादिहेतुत्वात् स्वप्नादिफलभुक्तये ॥ ३०॥

वहन्त्यम्भो यथा नद्यो नाड्यः कर्मफलं तथा ।
अनन्तैकोर्ध्वगा नाडी मूर्धपर्यन्तमञ्जसा ॥ ३१॥

सुषुम्नेति मादिष्टा तया गच्छन्विमुच्यते ।
तयोपचितचैतन्यं जीवात्मानं विदुर्बुधाः ॥ ३२॥

यथा राहुरदृश्योऽपि दृश्यते चन्द्रमण्डले ।
तद्वत्सर्वगतोऽप्यात्मा लिङ्गदेहे हि दृश्यते ॥ ३३॥

दृश्यमाने यथा कुंभे घटाकाशोऽपि दृश्यते ।
तद्वत्सर्वगतोऽप्यात्मा लिङ्गदेहे हि दृश्यते ॥ ३४॥

निश्चलः परिपूर्णोऽपि गच्छतीत्युपचर्यते ।
जाग्रत्काले यथाज्ञेयमभिव्यक्तविशेषधीः ॥ ३५॥

व्याप्नोति निष्क्रियः सर्वान् भानुर्दश दिशो यथा ।
नाडीभिर्वृत्तयो यान्ति लिङ्गदेहसमुद्भवाः ॥ ३६॥

तत्तत्कर्मानुसारेण जाग्रद्भोगोपलब्धये ।
इदं लिङ्गशरीराख्यमामोक्षं न विनश्यति ॥ ३७॥

आत्मज्ञानेन नष्टेऽस्मिन्साविद्ये स्वशरीरके ।
आत्मस्वरूपावस्थानं मुक्तिरित्यभिधीयते ॥ ३८॥

उत्पादिते घटे यद्वद्घटाकाशत्वमृच्छति ।
घटे नष्टे यथाकाशः स्वरूपेणावतिष्ठते ॥ ३९॥

जाग्रत्कर्मक्षयवशात्स्वप्नभोग उपस्थिते ।
बोधावस्थां तिरोधाय देहाद्याश्रयलक्षणाम् ॥ ४०॥

कर्मोद्भावितसंस्कारस्तत्र स्वप्नरिरंसया ।
अवस्थां च प्रयात्यन्यां मायावी चात्ममायया ॥ ४१॥

घटादिविषयान्सर्वान्बुद्ध्यादिकरणानि च ।
भूतानि कर्मवशतो वासनामात्रसंस्थितान् ॥ ४२॥

एतान् पश्यन् स्वयंज्योतिः साक्ष्यात्मा व्यवतिष्ठते ॥ ४३॥

अत्रान्तःकरणादीनां वासनाद्वासनात्मता ।
वासनामात्रसाक्षित्वं तेन तच्च परात्मनः ॥ ४४॥

वासनाभिः प्रपञ्चोऽत्र दृश्यते कर्मचोदितः ।
जाग्रद्भूमौ यथा तद्वत्कर्तृकर्मक्रियात्मकः ॥ ४५॥

निःशेषबुद्धिसाक्ष्यात्मा स्वयमेव प्रकाशते ।
वासनामात्रसाक्षित्वं साक्षिणः स्वाप उच्यते ॥ ४६॥

भूतजन्मनि यद्भूतं कर्म तद्वासनावशात् ।
नेदीयस्त्वाद्वयस्याद्ये स्वप्नं प्रायः प्रपश्यति ॥ ४७॥

मध्ये वयसि कार्कश्यात्करणानामिहार्जितः ।
वीक्षते प्रायशः स्वप्नं वासनाकर्मणोर्वशात् ॥ ४८॥

इयासुः परलोकं तु कर्मविद्यादिसंभृतम् ।
भाविनो जन्मनो रूपं स्वप्न आत्मा प्रपश्यति ॥ ४९॥

यद्वत्प्रपतनाच्छ्येनः श्रान्तो गगनमण्डले ।
आकुञ्च्य पक्षौ यतते नीडे निलयनायनीः ॥ ५०॥

एवं जाग्रत्स्वप्नभूमौ श्रान्त आत्माभिसंचरन् ।
आपीतकरणग्रामः कारणेनैति चैकताम् ॥ ५१॥

नाडीमार्गैरिन्द्रियाणामाकृष्यादाय वासनाः ।
सर्वं ग्रसित्वा कार्यं च विज्ञानात्मा विलीयते ॥ ५२॥

ईश्वाराख्येऽव्याकृतेऽथ यथा सुखमयो भवेत् ।
कृत्स्नप्रपञ्चविलयस्तथा भवति चात्मनः ॥ ५३॥

योषितः काम्यमानायाः संभोगान्ते यथा सुखम् ।
स आनन्दमयोऽबाह्यो नान्तरः केवलस्तथा ॥ ५४॥

प्राज्ञात्मानं समासाद्य विज्ञानात्मा तथैव सः ।
विज्ञानात्मा कारणात्मा तथा तिष्ठंस्तथापि सः ॥ ५५॥

अविद्यासूक्ष्मवृत्त्यानुभवत्येव सुखं यथा ।
तथाहं सुखमस्वाप्सं नैव किञ्चिदवेदिषम्।५६॥

अज्ञानमपि साक्ष्यादि वृत्तिभिश्चानुभूयते ।
इत्येवं प्रत्यभिज्ञापि पश्चात्तस्योपजायते ॥ ५७॥

जाग्रत्स्वप्नसुषुप्त्याख्यमेवेहामुत्र लोकयोः ।
पश्चात्कर्मवशादेव विस्फुलिङ्गा यथानलात् ।
जायन्ते कारणादेव मनोबुद्ध्यादिकानि तु ॥ ५८॥

पयःपूर्णो घटो यद्वन्निमग्नः सलिलाशये ।
तैरेविद्धत आयाति विज्ञानात्मा तथैत्यजात् ॥ ५९॥

विज्ञानात्मा कारणात्मा तथा तिष्ठंस्तथापि सः ।
दृश्यते सत्सु तेष्वेव नष्टेष्वायात्यदृश्यताम् ॥ ६०॥

एकाकारोऽर्यमा तत्तत्कार्येष्विव परः पुमान् ।
कूटस्थो दृश्यते तद्वद्गच्छत्यागच्छतीव सः॥ ६१॥

मोहमात्रान्तरायत्वात्सर्वं तस्योपपद्यते ।
देहाद्यतीत आत्मापि स्वयंज्योतिः स्वभावतः ॥ ६२॥

एवं जीवस्वरूपं ते प्रोक्तं दशरथात्मज ॥ ६३॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
जीवस्वरूपकथनं नाम दशमोऽध्यायः ॥ १० ॥

अथ एकादशोऽध्यायः ॥

श्रीभगवानुवाच ॥

देहान्तरगतिं तस्य परलोकगतिं तथा ।
वक्ष्यामि नृपशार्दूल मत्तः श‍ृणु समाहितः ॥ १॥

भुक्तं पीतं यदस्त्यत्र तद्रसादामबन्धनम् ।
स्थूलदेहस्य लिङ्गस्य तेन जीवनधारणम् ॥ २॥

व्याधिना जरया वापि पीड्यते जाठरोऽनलः ।
श्लेष्मणा तेन भुक्तान्नं पीतं वा न पचत्यलम् ॥ ३॥

भुक्तपीतरसाभावादाशु शुष्यन्ति धातवः ।
भुक्तपीतरसेनैव देहं लिम्पन्ति वायवः ॥ ४॥

समीकरोति यस्मात्तत्समानो वायुरुच्यते ।
तदानीं तद्रसाभावादामबन्धनहानितः ॥ ५॥

परिपक्वरसत्वेन यथा गौरवतः फलम् ।
स्वयमेव पतत्याशु तथा लिङ्गं तनोर्व्रजेत् ॥ ६॥

तत्तत्स्थानादपाकृष्य हृषीकाणां च वासनाः ।
आध्यात्मिकाधिभूतानि हृत्पद्मे चैकतां गतः ॥ ७॥

तदोर्ध्वगः प्राणवायुः संयुक्तो नववायुभिः ।
ऊर्ध्वोच्छ्वासी भवत्येष तथा तेनैकतं गतः ॥ ८॥

चक्षुषो वाथ मूर्ध्नो वा नाडीमार्गं समाश्रितः ।
विद्याकर्मसमायुक्तो वासनाभिश्च संयुतः।
प्राज्ञात्मानं समाश्रित्य विज्ञानात्मोपसर्पति ॥ ९॥

यथा कुम्भो नीयमानो देशाद्देशान्तरं प्रति ।
खपूर्ण एव सर्वत्र स साकाशोऽपि तत्र तु ॥ १०॥

घटाकाशाख्यतां याति तद्वल्लिङ्गं परात्मनः ॥ ११॥

पुनर्देहान्तरं याति यथा कर्मानुसारतः ।
आमोक्षात्संचरेत्येवं मत्स्यः कूलद्वयं यथा ॥ १२॥

पापभोगाय चेद्गच्छेद्यमदूतैरधिष्ठितः ।
यातनादेहमाश्रित्य नरकानेव केवलम् ॥ १३॥

इष्टापूर्तादिकर्माणि योऽनुतिष्ठति सर्वदा ।
पितृलोकं व्रजत्येष धूममाश्रित्य बर्हिषः ॥ १४॥

धूमाद्रात्रिं ततः कृष्णपक्षं तस्माच्च दक्षिणम् ।
अयनं च ततो लोकं पितॄणां च ततः परम् ।
चन्द्रलोके दिव्यदेहं प्राप्य भुङ्क्ते परां श्रियम् ॥ १५॥

तत्र चन्द्रमसा सोऽसौ यावत्कर्मफलं वसेत् ।
तथैव कर्मशेषेण यथेतं पुनराव्रजेत् ॥ १६॥

वपुर्विहाय जीवत्वमासाद्याकाशमेति सः ।
आकाशाद्वायुमागत्य वायोरम्भो व्रजत्यथ ॥ १७॥

अद्भ्यो मेघं समासाद्य ततो वृष्टिर्भवेदसौ ।
ततो धान्यानि भक्ष्याणि जायते कर्मचोदितः ॥ १८॥

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
मुक्तिमन्येऽनुसंयान्ति यथाकर्म यथाश्रुतम् ॥ १९॥

ततोऽन्नत्वं समासाद्य पितृभ्यां भुज्यते परम् ।
ततः शुक्रं रजश्चैव भूत्वा गर्भोऽभिजायते ॥ २०॥

ततः कर्मानुसारेण भवेत्स्त्रीपुंनपुंसकः ।
एवं जीवगतिः प्रोक्ता मुक्तिं तस्य वदामि ते ॥ २१॥

यस्तु शान्त्यादियुक्तः सन्सदा विद्यारतो भवेत् ।
स याति देवयानेन ब्रह्मलोकावधिं नरः ॥ २२॥

अर्चिर्भूत्वा दिनं प्राप्य शुक्लपक्षमथो व्रजेत् ।
उत्तरायणमासाद्य संवत्सरमथो व्रजेत् ॥ २३॥

आदित्यचन्द्रलोकौ तु विद्युल्लोकमतः परम् ।
अथ दिव्यः पुमान्कश्चिद्ब्रह्मलोकादिहैति सः ॥ २४॥

दिव्ये वपुषि संधाय जीवमेवं नयत्यसौ ॥ २५॥

ब्रह्मलोके दिव्यदेहे भुक्त्वा भोगान्यथेप्सितान् ।
तत्रोषित्वा चिरं कालं ब्रह्मणा सह मुच्यते ॥ २६॥

शुद्धब्रह्मरतो यस्तु न स यात्येव कुत्रचित् ।
तस्य प्राणा विलीयन्ते जले सैन्धवखिल्यवत् ॥ १८ ॥

स्वप्नदृष्टा यथा स्ऱिष्टिः प्रबुद्धस्य विलीयते ।
ब्रह्मज्ञानवतस्तद्वद्विलीयन्ते तदैव ते ।
विद्याकर्मविहीनो यस्तृतीयं स्थानमेति सः ॥ २८।
भुक्त्वा च नरकान्घोरान्महारौरवरौरवान् ।
पश्चात्प्राक्तनशेषेण क्षुद्रजन्तुर्भवेदसौ ॥ २९॥

यूकामशकदंशादि जन्मासौ लभते भुवि ।
एवं जीवगतिः प्रोक्ता किमन्यच्छ्रोतुमिच्छसि ॥ ३०॥

श्रीराम उवाच ॥

भगवन्यत्त्वया प्रोक्तं फलं तज्ज्ञानकर्मणोः ।
ब्रह्मलोके चंद्रलोके भुङ्क्ते भोगानिति प्रभो ॥ ३१॥

गन्धर्वादिषु लोकेषु कथं भोगः समीरितः ।
देवत्वं प्राप्नुयात्कश्चित्कश्चिदिन्द्रत्वमेति च ॥ ३२॥

एतत्कर्मफलं वास्तु विद्याफलमथापि वा ।
तद्ब्रूहि गिरिजाकान्त तत्र मे संशयो महान् ॥ ३३॥

श्रीभगवानुवाच ॥

तद्विद्याकर्मणोरेवानुसारेण फलं भवेत् ।
युवा च सुन्दरः शूरो नीरोगो बलवान् भवेत् ॥ ३४॥

सप्तद्वीपां वसुमतीं भुङ्क्ते निष्कण्टकं यदि ।
स प्रोक्तो मानुषानन्दस्तस्माच्छतगुणो मतः ॥ ३५॥

मनुष्यस्तपसा युक्तो गन्धर्वो जायतेऽस्य तु ।
तस्माच्छतगुणो देवगन्धर्वाणां न संशयः ॥ ३६॥

एवं शतगुणानन्द उत्तरोत्तरतो भवेत् ।
पितॄणां चिरलोकानामाजानसुरसम्पदाम् ॥ ३७॥

देवतानामथेन्द्रस्य गुरोस्तद्वत्प्रजापतेः ।
ब्रह्मणश्चैवमानन्दः पुरस्तादुत्तरोत्तरः ॥ ३८॥

ज्ञानाधिक्यात्सुखाधिक्यं नान्यदस्ति सुरालये ।
श्रोत्रियोऽवृजिनोऽकामहतो यश्च द्विजो भवेत् ॥ ३९॥

तस्याप्येवं समाख्याता आनन्दाश्चोत्तरोत्तरम् ।
आत्मज्ञानात्परं नास्ति तस्माद्दशरथात्मज ॥ ४०॥

ब्राह्मणः कर्मभिर्नैव वर्धते नैव हीयते ।
न लिप्यते पातकेन कर्मणा ज्ञानवान्यदि ॥ ४१॥

तस्मात्सर्वाधिको विभो ज्ञानवानेव जायते ।
ज्ञात्वा यः कुरुते कर्म तस्याक्षय्यफलं लभेत् ॥ ४२॥

यत्फलं लभते मर्त्यः कोटिब्राह्मणभोजनैः ।
तत्फलं समवाप्नोति ज्ञानिनं यस्तु भोजयेत् ॥ ४३॥

ज्ञानवन्तं द्विजं यस्तु द्विषते च नराधमः ।
स शुष्यमाणो म्रियते यस्मादीश्वर एव सः ॥ ४४॥

उपासको न यात्येव यस्मात्पुनरधोगतिम् ।
उपासनरतो भूत्वा तस्मादास्स्व सुखी नृप ॥ ४५॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
जीवगत्यादिनिरूपणं नामैकादशोऽध्यायः ॥ ११ ॥

अथ द्वादशोऽध्यायः ॥

श्रीराम उवाच ॥

भगवन्देवदेवेश नमस्तेऽस्तु महेश्वर ।
उपासनविधिं ब्रूहि देशं कालं च तस्य तु ॥ १॥

अङ्गानि नियमांश्चैव मयि तेऽनुग्रहो यदि ॥

ईश्वर उवाच ॥

श‍ृणु राम प्रवक्ष्यामि देशं कालमुपासने ॥ २॥

सर्वाकारोऽहमेवैकः सच्चिदानन्दविग्रहः ।
मदंशेन परिच्छिन्ना देहाः सर्वदिवौकसाम् ॥ ३॥

ये त्वन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव राजेन्द्र यजन्त्यविधिपूर्वकम् ॥ ४॥

यस्मात्सर्वमिदं विश्वं मत्तो न व्यतिरिच्यते ।
सर्वक्रियाणां भोक्ताहं सर्वस्याहं फलप्रदः ॥ ५॥

येनाकारेण ये मर्त्या मामेवैकमुपासते ।
तेनाकारेण तेभ्योऽहं प्रसन्नो वाञ्छितं ददे ॥ ६॥

विधिनाऽविधिना वापि भक्त्या ये मामुपासते ।
तेभ्यः फलं प्रयच्छामि प्रसन्नोऽहं न संशयः ॥ ७॥

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ८॥

स्वजीवत्वेन यो वेत्ति मामेवैकमनन्यधीः ।
तं न स्पृशन्ति पापानि ब्रह्महत्यादिकान्यपि ॥ ९॥

उपासाविधयस्तत्र चत्वारः परिकीर्तिताः ।
सम्पदारोपसंवर्गाध्यासा इति मनीषिभिः ॥ १०॥

अल्पस्य चाधिकत्वेन गुणयोगाद्विचिन्तनम् ।
अनन्तं वै मन इति सम्पद्विधिरुदीरितः ॥ ११॥

विधावारोप्य योपासा सारोपः परिकीर्तितः ।
यद्वदोङ्कारमुद्गीथमुपासीतेत्युदाहृतः ॥ १२॥

आरोपो बुद्धिपूर्वेण य उपासाविधिश्च सः ।
योषित्यग्निमतिर्यत्तदध्यासः स उदाहृतः ॥ १३॥

क्रियायोगेन चोपासाविधिः संवर्ग उच्यते ।
संवर्तवायुः प्रलये भूतान्येकोऽवसीदति ॥ १४॥

उपसंगम्य बुद्ध्या यदासनं देवतात्मना ।
तदुपासनमन्तः स्यात्तद्बहिः सम्पदादयः ॥ १५॥

ज्ञानान्तरानन्तरितसजातिज्ञानसंहतेः ।
सम्पन्नदेवतात्मत्वमुपासनमुदीरितम् ॥ १६॥

सम्पदादिषु बाह्येषु दृढबुद्धिरुपासनम् ।
कर्मकाले तदङ्गेषु दृष्टिमात्रमुपासनम् ।
उपासनमिति प्रोक्तं तदङ्गानि ब्रुवे श‍ृणु ॥ १७॥

तीर्थक्षेत्रादिगमनं श्रद्धां तत्र परित्यजेत् ।
स्वचित्तैकाग्रता यत्र तत्रासीत सुखं द्विजः ॥ १८॥

कम्बले मृदुतल्पे वा व्याघ्रचर्मणि वास्थितः ।
विविक्तदेशे नियतः समग्रीवशिरस्तनुः ॥ १९॥

अत्याश्रमस्थः सकलानीन्द्रियाणि निरुध्य च ।
भक्त्याथ स्वगुरुं नत्वा योगं विद्वान्प्रयोजयेत् ॥ २०॥

यस्त्वविज्ञानवान्भवत्ययुक्तमनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वाइव सारथेः ॥ २१॥

विज्ञानी यस्तु भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ २२॥

यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः ।
न स तत्पदमाप्नोति संसारमधिगच्छति ॥ २३॥

विज्ञानी यस्तु भवति समनस्कः सदा शुचिः ।
स तत्पदमवाप्नोति यस्माद्भूयो न जायते ॥ २४॥

विज्ञानसारथिर्यस्तु मनः प्रग्रह एव च ।
सोऽध्वनः पारमाप्नोति ममैव परमं पदम् ॥ २५॥

हृत्पुण्डरीकं विरजं विशुद्धं विशदं तथा ।
विशोकं च विचिन्त्यात्र ध्यायेन्मां परमेश्वरम् ॥ २६॥

अचिन्त्यरूपमव्यक्तमनन्तममृतं शिवम् ।
आदिमध्यान्तरहितं प्रशान्तं ब्रह्म कारणम् ॥ १८ ॥

एकं विभुं चिदानन्दमरूपमजमद्भुतम् ।
शुद्धस्फटिकसंकाशमुमादेहार्धधारिणम् ॥ २८॥

व्याघ्रचर्माम्बरधरं नीलकण्ठं त्रिलोचनम् ।
जटाधरं चन्द्रमौलिं नागयज्ञोपवीतिनम् ॥ २९॥

व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ।
पराभ्यामूर्ध्वहस्ताभ्यां बिभ्राणं परशुं मृगम् ॥ ३०॥

कोटिमध्याह्नसूर्याभं चन्द्रकोटिसुशीतलम् ।
चन्द्रसूर्याग्निनयनं स्मेरवक्त्रसरोरुहम् ॥ ३१॥

भूतिभूषितसर्वाङ्गं सर्वाभरणभूषितम् ।
एवमात्मारणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासात्साक्षात्पश्यति मां जनः ॥ ३२॥

वेदवाक्यैरलभ्योऽहं न शास्त्रैर्नापि चेतसा ।
ध्यानेन वृणुते यो मां सर्वदाहं वृणोमि तम् ॥ ३३॥

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेन लभेत माम् ॥ ३४॥

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चो यः प्रकाशते ।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ ३५॥

त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तज्ज्योतिर्लक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥ ३६॥

एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
सर्वाध्यक्षः सर्वभूताधिवासः
साक्षी चेता केवलो निर्गुणश्च ॥ ३७
एको वशी सर्वभूतान्तरात्मा-
प्येकं बीजं नित्यदा यः करोति ।
तं मां नित्यं येऽनुपश्यन्ति धीरा-
स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ३८॥

अग्निर्यथैको भुवनं प्रविष्टो
रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा
न लिप्यते लोकदुःखेन बाह्यः ॥ ३९॥

वेदेह यो मां पुरुषं महान्त-
मादित्यवर्णं तमसः परस्तात् ।
स एव विद्वानमृतोऽत्र भूया-
न्नान्यस्तु पन्था अयनाय विद्यते ॥ ४०॥

हिरण्यगर्भं विदधामि पूर्वं
वेदांश्च तस्मै प्रहिणोमि योऽहम् ।
तं देवमीड्यं पुरुषं पुराणं
निश्चित्य मां मृत्युमुखात्प्रमुच्यते ॥ ४१॥

एवं शान्त्यादियुक्तः सन् वेत्ति मां तत्त्वतस्तु यः ।
निर्मुक्तदुःखसंतानः सोऽन्ते मय्येव लीयते ॥ ४२॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
उपासनाज्ञानफलं नाम द्वादशोऽध्यायः ॥ १२ ॥

अथ त्रयोदशोऽध्यायः ।

सूत उवाच ॥

एवं श्रुत्वा कौसलेयस्तुष्टो मतिमतां वरः ।
पप्रच्छ गिरिजाकान्तं सुभगं मुक्तिलक्षणम् ॥ १॥

श्रीराम उवाच ॥

भगवन्करुणाविष्टहृदय त्वं प्रसीद मे ।
स्वरूपलक्षणं मुक्तेः प्रब्रूहि परमेश्वर ॥ २॥

श्रीभगवानुवाच ॥

सालोक्यमपि सारूप्यं सार्ष्ट्यं सायुज्यमेव च ।
कैवल्यं चेति तां विद्धि मुक्तिं राघव पञ्चधा ॥ ३॥

मां पूजयति निष्कामः सर्वदा ज्ञानवर्जितः ।
स मे लोकं समासाद्य भुङ्क्ते भोगान्यथेप्सितान् ॥ ४॥

ज्ञात्वा मां पूजयेद्यस्तु सर्वकामविवर्जितः ।
मया समानरूपः सन्मम लोके महीयते ॥ ५॥

इष्टापूर्तादि कर्माणि मत्प्रीत्यै कुरुते तु यः ।
यत्करोति यदश्नाति यज्जुहोति ददाति यत् ॥ ६॥

यत्तपस्यति तत्सर्वं यः करोति मदर्पणम् ।
मल्लोके स श्रियं भुङ्क्ते मत्तुल्यं प्राभवं भजेत् ॥ ७॥

यस्तु शान्त्यादियुक्तः सन्मामात्मत्वेन पश्यति ।
स जायते परं ज्योतिरद्वैतं ब्रह्म केवलम् ।
आत्मस्वरूपावस्थानं मुक्तिरित्यभिधीयते ॥ ८॥

सत्यं ज्ञानमनन्तं सदानन्दं ब्रह्मकेवलम् ।
सर्वधर्मविहीनं च मनोवाचामगोचरम् ॥ ९॥

सजातीयविजातीयपदार्थानामसंभवात् ।
अतस्तद्व्यतिरिक्तानामद्वैतमिति संज्ञितम् ॥ १०॥

See Also  A List Of Known Gita In Bengali

मत्वा रूपमिदं राम शुद्धं यदभिधीयते ।
मय्येव दृश्यते सर्वं जगत्स्थावरजङ्गमम् ॥ ११॥

व्योम्नि गन्धर्वनगरं यथा दृष्टं न दृश्यते ।
अनाद्यविद्यया विश्वं सर्वं मय्येव कल्प्यते ॥ १२॥

मम स्वरूपज्ञानेन यदाऽविद्या प्रणश्यति ।
तदैक एव वर्त्तेऽहं मनोवाचामगोचरः ॥ १३॥

सदैव परमानन्दः स्वप्रकाशश्चिदात्मकः।
न कालः पञ्चभूतानि न दिशो विदिशश्च न ॥ १४॥

मदन्यन्नास्ति यत्किञ्चित्तदा वर्त्तेऽहमेकलः ॥ १५॥

न संदृशे तिष्ठति मे स्वरूपं
न चक्षुषा पश्यति मां तु कश्चित् ।
हृदा मनीषा मनसाभिक्लृप्तं
ये मां विदुस्ते ह्यमृता भवन्ति ॥ १६॥

श्रीराम उवाच ॥

कथं भगवतो ज्ञानं शुद्धं मर्त्यस्य जायते ।
तत्रोपायं हर ब्रूहि मयि तेऽनुग्रहो यदि ॥ १७॥

श्रीभगवानुवाच ॥

विरज्य सर्वभूयेभ्य आविरिंचिपदादपि ।
घृणां वितत्य सर्वत्र पुत्रमित्रादिकेष्वपि ॥ १८॥

श्रद्धालुर्भक्तिमार्गेषु वेदान्तज्ञानलिप्सया ।
उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत् ॥ १९॥

सेवाभिः परितोष्यैनं चिरकालं समाहितः ।
सर्ववेदान्तवाक्यार्थं श‍ृणुयात्सुसमाहितः ॥ २०॥

सर्ववेदान्तवाक्यानां मयि तात्पर्यनिश्चयम् ।
श्रवणं नाम तत्प्राहुः सर्वे ते ब्रह्मवादिनः ॥ २१॥

लोहमण्यादिदृष्टान्तयुक्तिभिर्यद्विचिन्तनम् ।
तदेव मननं प्राहुर्वाक्यार्थस्योपबृंहणम् ॥ २२॥

निर्ममो निरहंकारः समः संगवर्जितः।
सदा शान्त्यादियुक्तः सन्नात्मन्यात्मानमीक्षते ॥ २३॥

यत्सदा ध्यानयोगेन तन्निदिध्यासनं स्मृतम् ॥ २४॥

सर्वकर्मक्षयवशात्साक्षात्कारोऽपि चात्मनः ।
कस्यचिज्जायते शीघ्रं चिरकालेन कस्यचित् ॥ २५॥

कूटस्थानीह कर्माणि कोटिजन्मार्जितान्यपि ।
ज्ञानेनैव विनश्यन्ति न तु कर्मायुतैरपि ॥ २६॥

ज्ञानादूर्ध्वं तु यत्किञ्चित्पुण्यं वा पापमेव वा ।
क्रियते बहु वाल्पं वा न तेनायं विलिप्यते ॥ १८ ॥

शरीरारम्भकं यत्तु प्रारब्धं कर्म जन्मिनः ।
तद्भोगेनैव नष्टं स्यान्न तु ज्ञानेन नश्यति ॥ २८॥

निर्मोहो निरहंकारो निर्लेपः संगवर्जितः ।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
यः पश्यन्संचरत्येष जीवन्मुक्तोऽभिधीयते ॥ २९॥

अहिनिर्ल्वयनी यद्वद्द्रष्टुः पूर्वं भयप्रदा ।
ततोऽस्य न भयं किंचित्तद्वद्द्रष्टुरयं जनः ॥ ३०॥

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य वशं गताः ।
अथ मर्त्योऽमृतो भवत्येतावदनुशासनम् ॥ ३१॥

मोक्षस्य न हि वासोऽस्ति न ग्रामान्तरमेव वा ।
अज्ञानहृदयग्रन्थिनाशो मोक्ष इति स्मृतः ॥ ३२॥

वृक्षाग्रच्युतपादो यः स तदैव पतत्यधः ।
तद्वज्ज्ञानवतो मुक्तिर्जायते निश्चितापि तु ॥ ३३॥

तीर्थं चाण्डालगेहे वा यदि वा नष्टचेतनः ।
पएरित्यजन्देहमिमं ज्ञानादेव विमुच्यते ॥ ३४॥

संवीतो येन केनाश्नन्भक्ष्यं वाभक्ष्यमेव वा ।
शयानो यत्र कुत्रापि सर्वात्मा मुच्यतेऽत्र सः ॥ ३५॥

क्षीरादुद्धृतमाज्यं तत्क्षिप्तं पयसि तत्पुनः ।
न तेनैवैकतां याति संसारे ज्ञानवांस्तथा ॥ ३६॥

नित्यं पठति योऽध्यायमिमं राम श‍ृणोति वा ।
स मुच्यते देहबन्धादनायासेन राघव ॥ ३७॥

अतः संयतचित्तस्त्वं नित्यं पठ महीपते ।
अनायासेन तेनैव सर्वथा मोक्षमाप्स्यसि ॥ ३८॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
मोक्षयोगो नाम त्रयोदशोऽध्यायः ॥ १३ ॥

अथ चतुर्दशोऽध्यायः ॥

श्रीराम उवाच ॥

भगवन्यदि ते रूपं सच्चिदानन्दविग्रहम् ।
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ॥ १॥

सर्वधर्मविहीनं च मनोवाचामगोचरम् ।
सर्वव्यापितयात्मानमीक्षते सर्वतः स्थितम् ॥ २॥

आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् ।
अमूर्तं सर्वभूतात्माकारं कारणकारणम् ॥ ३॥

यत्तददृश्यमग्राह्यं तद्ग्राह्यं वा कथं भवेत् ।
अत्रोपायमजानानस्तेन खिन्नोऽस्मि शंकर ॥ ४॥

श्रीभगवानुवाच ॥

श‍ृणु राजन्प्रवक्ष्यामि तत्रोपायं महाभुज ।
सगुणोपासनाभिस्तु चित्तैकाग्र्यं विधाय च ॥ ५॥

स्थूलसौरांभिकान्यायात्तत्र चित्तं प्रवर्तयेत् ।
तस्मिन्नन्नमये पिण्डे स्थूलदेहे तनूभृताम् ॥ ६॥

जन्मव्याधिजरामृत्युनिलये वर्तते दृढा ॥ ७॥

आत्मबुद्धिरहंमानात्कदाचिन्नैव हीयते ।
आत्मा न जायते नित्यो म्रियते वा कथंचन ॥ ८॥

संजायतेऽस्ति विपरिणमते वर्धते तथा ।
क्षीयते नश्यतीत्येते षड्भावा वपुषः स्मृताः ॥ ९॥

आत्मनो न विकारित्वं घटस्थनभसो यथा ।
एवमात्मावपुस्तस्मादिति संचिन्तयेद्बुधः ॥ १०॥

मूषानिक्षिप्तहेमाभः कोशः प्राणमयोऽत्र तु ।
वर्ततेऽन्तरतो देहे बद्धः प्राणादिवायुभिः ॥ ११॥

कर्मेन्द्रियैः समायुक्तश्चलनादिक्रियात्मकः ।
क्षुत्पिपासापराभूतो नायमात्मा जडो यतः ॥ १२॥

चिद्रूप आत्मा येनैव स्वदेहमभिपश्यति ।
आत्मैव हि परं ब्रह्म निर्लेपः सुखनीरधिः ॥ १३॥

न तदश्नाति किंचैतत्तदश्नाति न कश्चन ॥ १४॥

ततः प्राणमये कोशे कोशोऽस्त्येव मनोमयः ।
स संकल्पविकल्पात्मा बुद्धीन्द्रियसमायुतः ॥ १५॥

कामः क्रोधस्तथा लोभो मोहो मात्सर्यमेव च ।
मदश्चेत्यरिषड्वर्गो ममतेच्छादयोऽपि च ।
मनोमयस्य कोशस्य धर्मा एतस्य तत्र तु ॥ १६॥

या कर्मविषया बुद्धिर्वेदशास्त्रार्थनिश्चिता ।
सा तु ज्ञानेन्द्रियैः सार्धं विज्ञानमयकोशतः ॥ १७॥

इह कर्तृत्वाभिमानी स एव तु न संशयः ।
इहामुत्र गतिस्तस्य स जीवो व्यावहारिकः ॥ १८॥

व्योमादिसात्त्विकांशेभ्यो जायन्ते धीन्द्रियाणि तु ।
व्योम्नः श्रोत्रं भुवो घ्राणं जलाज्जिह्वाथ तेजसः ॥ १९।
चक्षुर्वायोस्त्वगुत्पन्ना तेषां भौतिकता ततः ॥ २०॥

व्योमादीनां समस्तानां सात्त्विकांशेभ्य एव तु ।
जायन्ते बुद्धिमनसी बुद्धिः स्यान्निश्चयात्मिका ॥ २१॥

वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि तु ।
व्योमादीनां रजोंऽशेभ्यो व्यस्तेभ्यस्तान्यनुक्रमात् ॥ २२॥

समस्तेभ्यो रजोंऽशेभ्यः पञ्च प्राणादिवायवः ।
जायन्ते सप्तदशकमेवं लिङ्गशरीरकम् ॥ २३॥

एतल्लिङ्गशरीरं तु तप्तायःपिण्डवद्यतः ।
परस्पराध्यासयोगात्साक्षिचैतन्यसंयुतम् ॥ २४॥

तदानन्दमयः कोशो भोक्तृत्वं प्रतिपद्यते ।
विद्याकर्मफलादीनां भोक्तेहामुत्र स स्मृतः ॥ २५॥

यदाध्यासं विहायैष स्वस्वरूपेण तिष्ठति ।
अविद्यामात्रसंयुक्तः साक्ष्यात्मा जायते तदा ॥ २६॥

द्रष्टान्तःकरणादीनामनुभूतेः स्मृतेरपि ।
अतोऽन्तःकरणाध्यासादध्यासित्वेन चात्मनः ।
भोक्तृत्वं साक्षिता चेति द्वैधं तस्योपपद्यते ॥ १८ ॥

आतपश्चापि तच्छाया तत्प्रकाशे विराजते ।
एको भोजयिता तत्र भुङ्क्तेऽन्यः कर्मणः फलम् ॥ २८॥

क्षेत्रज्ञं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि प्रग्रहं तु मनस्तथा ॥ २९॥

इन्द्रियाणि हयान्विद्धि विषयांस्तेषु गोचरान् ।
इन्द्रियैर्मनसा युक्तं भोक्तारं विद्धि पूरुषम् ॥ ३०॥

एवं शान्त्यादियुक्तः सन्नुपास्ते यः सदा द्विजः।
उद्घाट्योद्घाट्यैकमेकं यथैव कदलीतरोः ॥ ३१॥

वल्कलानि ततः पश्चाल्लभते सारमुत्तमम् ।
तथैव पञ्चकोशेषु मनः संक्रामयन्क्रमात् ।
तेषां मध्ये ततः सारमात्मानमपि विन्दति ॥ ३२॥

एवं मनः समाधाय संयतो मनसि द्विजः ।
अथ प्रवर्तयेच्चित्तं निराकारे परात्मनि ॥ ३३॥

ततो मनः प्रगृह्णाति परमात्मानमव्ययम् ।
यत्तदद्रेश्यमग्राह्यमस्थूलाद्युक्तिगोचरम् ॥ ३४॥

श्रीराम उवाच ॥

भगवञ्छ्रवणे नैव प्रवर्तन्ते जनाः कथम् ।
वेदशास्त्रार्थसम्पन्ना यज्वानः सत्यवादिनः ॥ ३५॥

श‍ृण्वन्तोऽपि तथात्मानं जानते नैव केचन ।
ज्ञात्वापि मन्वते मिथ्या किमेतत्तव मायया ॥ ३६॥

श्रीभगवानुवाच ॥

एवमेव महाबाहो नात्र कार्या विचारणा ।
दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥ ३७॥

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।
अभक्ता ये महाबाहो मम श्रद्धा विवर्जिताः ॥ ३८॥

फलं कामयमानास्ते चैहिकामुष्मिकादिकम् ।
क्षयिष्ण्वल्पं सातिशयं यतः कर्मफलं मतम् ॥ ३९॥

तदविज्ञाय कर्माणि ये कुर्वन्ति नराधमाः ।
मातुः पतन्ति ते गर्भे मृत्योर्वक्त्रे पुनः पुनः ॥ ४०॥

एवं शान्त्यादियुक्तः सन्नुपास्ते यः सदा द्विजः।
उद्घाट्योद्घाट्यैकमेकं यथैव कदलीतरोः ॥ ३१॥

वल्कलानि ततः पश्चाल्लभते सारमुत्तमम् ।
तथैव पञ्चकोशेषु मनः संक्रामयन्क्रमात् ।
तेषां मध्ये ततः सारमात्मानमपि विन्दति ॥ ३२॥

एवं मनः समाधाय संयतो मनसि द्विजः ।
अथ प्रवर्तयेच्चित्तं निराकारे परात्मनि ॥ ३३॥

ततो मनः प्रगृह्णाति परमात्मानमव्ययम् ।
यत्तदद्रेश्यमग्राह्यमस्थूलाद्युक्तिगोचरम् ॥ ३४॥

श्रीराम उवाच ॥

भगवञ्छ्रवणे नैव प्रवर्तन्ते जनाः कथम् ।
वेदशास्त्रार्थसम्पन्ना यज्वानः सत्यवादिनः ॥ ३५॥

श‍ृण्वन्तोऽपि तथात्मानं जानते नैव केचन ।
ज्ञात्वापि मन्वते मिथ्या किमेतत्तव मायया ॥ ३६॥

श्रीभगवानुवाच ॥

एवमेव महाबाहो नात्र कार्या विचारणा ।
दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥ ३७॥

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।
अभक्ता ये महाबाहो मम श्रद्धा विवर्जिताः ॥ ३८॥

फलं कामयमानास्ते चैहिकामुष्मिकादिकम् ।
क्षयिष्ण्वल्पं सातिशयं यतः कर्मफलं मतम् ॥ ३९॥

तदविज्ञाय कर्माणि ये कुर्वन्ति नराधमाः ।
मातुः पतन्ति ते गर्भे मृत्योर्वक्त्रे पुनः पुनः ॥ ४०॥

नानायोनिषु जातस्य देहिनो यस्यकस्यचित् ।
कोटिजन्मार्जितैः पुण्यैर्मयि भक्तिः प्रजायते ॥ ४१॥

स एव लभते ज्ञानं मद्भक्तः श्रद्धयान्वितः ।
नान्यकर्माणि कुर्वाणो जन्मकोटिशतैरपि ॥ ४२॥

ततः सर्वं परित्यज्य मद्भक्तिं समुदाहर ।
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ॥ ४३॥

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ॥ ४४॥

यत्तपस्यसि राम त्वं तत्कुरुष्व मदर्पणम् ।
ततः परतरा नास्ति भक्तिर्मयि रघूत्तम ॥ ४५॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
पञ्चकोशोपपादनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥

अथ पञ्चदशोऽध्यायः ॥

श्रीराम उवाच ॥

भक्तिस्ते कीदृशी देव जायते वा कथंचन ।
यया निर्वाणरूपं तु लभते मोक्षमुत्तमम् ।
तद् ब्रूहि गिरिजाकान्त मयि तेऽनुग्रहो यदि ॥ १॥

श्रीभगवानुवाच ॥

यो वेदाध्ययनं यज्ञं दानानि विविधानि च ।
मदर्पणधिया कुर्यात्स मे भक्तः स मे प्रियः ॥ २॥

नर्यभस्म समादाय विशुद्धं श्रोत्रियालयात् ।
अग्निरित्यादिभिर्मन्त्रैरभिमन्त्र्य यथाविधि ॥ ३॥

उद्धूलयति गात्राणि तेन चार्चति मामपि ।
तस्मात्परतरा भक्तिर्मम राम न विद्यते ॥ ४॥

सर्वदा शिरसा कण्ठे रुद्राक्षान्धारयेत्तु यः ।
पञ्चाक्षरीजपरतः स मे भक्तः स मे प्रियः ॥ ५॥

भस्मच्छन्नो भस्मशायी सर्वदा विजितेन्द्रियः ।
यस्तु रुद्रं जपेन्नित्यं चिन्तयेन्मामनन्यधीः ॥ ६॥

स तेनैव च देहेन शिवः संजायते स्वयम् ।
जपेद्यो रुद्रसूक्तानि तथाथर्वशिरः परम् ॥ ७॥

कैवल्योपनिषत्सूक्तं श्वेताश्वतरमेव च ।
ततः परतरो भक्तो मम लोके न विद्यते ॥ ८॥

अन्यत्र धर्मादन्यस्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताद्भव्याच्च यत्प्रवक्ष्यामि तच्छृणु ॥ ९॥

वदन्ति यत्पदं वेदाः शास्त्राणि विविधानि च ।
सर्वोपनिषदां सारं दध्नो घृतमिवोद्धृतम् ॥ १०॥

यदिच्छन्तो ब्रह्मचर्यं चरन्ति मुनयः सदा ।
तत्ते पदं संग्रहेण ब्रवीम्योमिति यत्पदम् ॥ ११॥

एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम् ।
एतदेवाक्षरं ज्ञात्वा ब्रह्मलोके महीयते ॥ १२॥

छन्दसां यस्तु धेनूनामृषभत्वेन चोदितः ।
इदमेव पतिः सेतुरमृतस्य च धारणात् ॥ १३॥

मेधसा पिहिते कोशे ब्रह्म यत्परमोमिति ॥ १४॥

चतस्रस्तस्य मात्राः स्युरकारोकारकौ तथा ।
मकारश्चावसानेऽर्धमात्रेति परिकीर्तिता ॥ १५॥

पूर्वत्र भूश्च ऋग्वेदो ब्रह्माष्टवसवस्तथा ।
गार्हपत्यश्च गायत्री गङ्गा प्रातःसवस्तथा ॥ १६॥

द्वितीया च भुवो विष्णू रुद्रोऽनुष्टुब्यजुस्तथा ।
यमुना दक्षिणाग्निश्च माध्यन्दिनसवस्तथा ॥ १७॥

तृतीया च सुवः सामान्यादित्यश्च महेश्वरः ।
अग्निराहवनीयश्च जगती च सरस्वती ॥ १८॥

तृतीयं सवनं प्रोक्तमथर्वत्वेन यन्मतम् ।
चतुर्थी यावसानेऽर्धमात्रा सा सोमलोकगा ॥ १९॥

अथर्वाङ्गिरसः संवर्तकोऽग्निश्च महस्तथा ।
विराट् सभ्यावसथ्यौ च शुतुद्रिर्यज्ञपुच्छकः॥ २०॥

प्रथमा रक्तवर्णा स्याद् द्वितीया भास्वरा मता ।
तृतीया विद्युदाभा स्याच्चतुर्थी शुक्लवर्णिनी ॥ २१॥

सर्वं जातं जायमानं तदोङ्कारे प्रतिष्ठितम् ।
विश्वं भूतं च भुवनं विचित्रं बहुधा तथा ॥ २२॥

जातं च जायमानं यत्तत्सर्वं रुद्र उच्यते ।
तस्मिन्नेव पुनः प्राणाः सर्वमोङ्कार उच्यते ॥ २३॥

प्रविलीनं तदोङ्कारे परं ब्रह्म सनातनम् ।
तस्मादोङ्कारजापी यः स मुक्तो नात्र संशयः ॥ २४॥

त्रेताग्नेः स्मार्तवह्नेर्वा शैवाग्नेर्वा समाहृतम् ।
भस्माभिमन्त्र्य यो मां तु प्रणवेन प्रपूजयेत् ॥ २५॥

तस्मात्परतरो भक्तो मम लोके न विद्यते ॥ २६॥

शालाग्नेर्दाववह्नेर्वा भस्मादायाभिमन्त्रितम् ।
यो विलिम्पति गात्राणि स शूद्रोऽपि विमुच्यते ॥ १८ ॥

कुशपुष्पैर्बिल्वदलैः पुष्पैर्वा गिरिसंभवैः ।
यो मामर्चयते नित्यं प्रणवेन प्रियो हि सः ॥ २८॥

पुष्पं फलं समूलं वा पत्रं सलिलमेव वा ।
यो दद्यात्प्रणवैर्मह्यं तत्कोटिगुणितं भवेत् ॥ २९॥

अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
यस्यास्त्यध्ययनं नित्यं स मे भक्तः स मे प्रियः ॥ ३०॥

प्रदोषे यो मम स्थानं गत्वा पूजयते तु माम् ।
स परं श्रियमाप्नोति पश्चान्मयि विलीयते ॥ ३१॥

अष्टम्यां च चतुर्दश्यां पर्वणोरुभयोरपि ।
भूतिभूषितसर्वांगो यः पूजयति मां निशि ॥ ३२॥

कृष्णपक्षे विशेषेण स मे भक्तः स मे प्रियः ॥ ३३॥

एकादश्यामुपोष्यैव यः पूजयति मां निशि ।
सोमवारे विशेषेण स मे भक्तो न नश्यति ॥ ३४॥

पञ्चामृतैः स्नापयेद्यः पञ्चगव्येन वा पुनः ।
पुष्पोदकैः कुशजलैस्तस्मान्नन्यः प्रियो मम ॥ ३५॥

पयसा सर्पिषा वापि मधुनेक्षुरसेन वा ।
पक्वाम्रफलजेनापि नारिकेरजलेन वा ॥ ३६॥

गन्धोदकेन वा मां यो रुद्रमन्त्रं समुच्चरन् ।
अभिषिञ्चेत्ततो नान्यः कश्चित्प्रियतरो मम ॥ ३७॥

आदित्याभिमुखो भूत्वा ऊर्ध्वबाहुर्जले स्थितः ।
मां ध्यायन् रविबिम्बस्थमथर्वांगिरस जपेत् ॥ ३८॥

प्रविशेन्मे शरीरेऽसौ गृहं गृहपतिर्यथा ।
बृहद्रथन्तरं वामदेव्यं देवव्रतानि च ॥ ३९॥

तद्योगयाज्यदोहांश्च यो गायति ममाग्रतः ।
इह श्रियं परां भुक्त्वा मम सायुज्यमाप्नुयात् ॥ ४०॥

ईशावास्यादि मन्त्रान् यो जपेन्नित्यं ममाग्रतः ।
मत्सायुज्यमवाप्नोति मम लोके महीयते ॥ ४१॥

भक्तियोगो मया प्रोक्त एवं रघुकुलोद्भव ।
सर्वकामप्रदो मत्तः किमन्यच्छ्रोतुमिच्छसि ॥ ४२॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
भक्तियोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥

अथ षोडशोऽध्यायः ॥

श्रीराम उवाच ॥

भगवन्मोक्षमार्गो यस्त्वया सम्यगुदाहृतः ।
तत्राधिकारिणं ब्रूहि तत्र मे संशयो महान् ॥ १॥

श्रीभगवानुवाच ॥

ब्रह्मक्षत्रविशः शूद्राः स्त्रियश्चात्राधिकारिणः ।
ब्रह्मचारी गृहस्थो वा।आनुपनीतोऽथवा द्विजः ॥ २॥

वनस्थो वाऽवनस्थो वा यतिः पाशुपतव्रती ।
बहुनात्र किमुक्तेन यस्य भक्तिः शिवार्चने ॥ ३॥

स एवात्राधिकारी स्यान्नान्यचित्तः कथंचन ।
जडोऽन्धो बधिरो मूको निःशौचः कर्मवर्जितः ॥ ४॥

अज्ञोपहासकाभक्ता भूतिरुद्राक्षधारिणः ।
लिंगिनो यश्च वा द्वेष्टि ते नैवात्राधिकारिणः ॥ ५॥

यो मां गुरुं पाशुपतं व्रतं द्वेष्टि धराधिप ।
विष्णुं वा न स मुच्येत जन्मकोटिशतैरपि ॥ ६॥

अनेककर्मसक्तोऽपि शिवज्ञानविवर्जितः ।
शिवभक्तिविहीनश्च संसारान्नैव मुच्यते ॥ ७॥

आसक्ताः फलरागेण ये त्ववैदिककर्मणि ।
दृष्टमात्रफलास्ते तु न मुक्तावधिकारिणः ॥ ८॥

अविमुक्ते द्वारकायां श्रीशैले पुण्डरीकके ।
देहान्ते तारकं ब्रह्म लभते मदनुग्रहात् ॥ ९॥

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ १०॥

विप्रस्यानुपनीतस्य विधिरेवमुदाहृतः ।
नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ॥ ११॥

स शूद्रेण समस्तावद्यावद्वेदान्न जायते ।
नामसंकीर्तने ध्याने सर्व एवाधिकारिणः ॥ १२॥

संसारान्मुच्यते जन्तुः शिवतादात्म्यभावनात् ।
तथा दानं तपो वेदाध्ययनं चान्यकर्म वा ।
सहस्रांशं तु नार्हन्ति सर्वदा ध्यानकर्मणः ॥ १३॥

जातिमाश्रममङ्गानि देशं कालमथापि वा ।
आसनादीनि कर्माणि ध्यानं नापेक्षते क्वचित् ॥ १४॥

गच्छंस्तिष्ठन् जपन्वापि शयानो वान्यकर्मणि ।
पातकेनापि वा युक्तो ध्यानादेव विमुच्यते ॥ १५॥

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ १६॥

आश्चर्ये वा भये शोके क्षुते वा मम नाम यः ।
व्याजेनापि स्मरेद्यस्तु स याति परमां गतिम् ॥ १७॥

महापापैरपि स्पृष्टो देहान्ते यस्तु मां स्मरेत् ।
पञ्चाक्षरीं वोच्चरति स मुक्तो नात्र संशयः ॥ १८॥

विश्वं शिवमयं यस्तु पश्यत्यात्मानमात्मना ।
तस्य क्षेत्रेषु तीर्थेषु किं कार्यं वान्यकर्मसु ॥ १९॥

सर्वेण सर्वदा कार्यं भूतिरुद्राक्षधारणम् ।
युक्तेनाथाप्ययुक्तेन शिवभक्तिमभीप्सता ॥ २०॥

नर्यभस्मसमायुक्तो रुद्राक्षान्यस्तु धारयेत् ।
महापापैरपि स्पृष्टो मुच्यते नात्र संशयः ॥ २१॥

अन्यानि शैवकर्माणि करोतु न करोतु वा ।
शिवनाम जपेद्यस्तु सर्वदा मुच्यते तु सः ॥ २२॥

अन्तकाले तु रुद्राक्षान्विभूतिं धारयेत्तु यः ।
महापापोपपापोघैरपि स्पृष्टो नराधमः ॥ २३॥

सर्वथा नोपसर्पन्ति तं जनं यमकिंकराः ॥ २४॥

बिल्वमूलमृदा यस्तु शरीरमुपलिम्पति ।
अन्तकालेऽन्तकजनैः स दूरीक्तियते नरः ॥ २५॥

श्रीराम उवाच ॥

भगवन्पूजितः कुत्र कुत्र वा त्वं प्रसीदसि ।
तद्ब्रूहि मम जिज्ञासा वर्तते महती विभो ॥ २६॥

श्रीभगवानुवाच ॥

मृदा वा गोमयेनापि भस्मना चन्दनेन वा ।
सिकताभिर्दारुणा वा पाषाणेनापि निर्मिता ॥ १८ ॥

लोहेन वाथ रङ्गेण कांस्यखर्परपित्तलैः ।
ताम्ररौप्यसुवर्णैर्वा रत्नैर्नानाविधैरपि ॥ २८॥

अथवा पारदेनैव कर्पूरेणाथवा कृता ।
प्रतिमा शिवलिङ्गं वा द्रव्यैरेतैः कृतं तु यत् ॥ २९॥

तत्र मां पूजयेत्तेषु फलं कोटिगुणोत्तरम् ॥ ३०॥

मृद्दारुकांस्यलोहैश्च पाषाणेनापि निर्मिता ।
गृहिणा प्रतिमा कार्या शिवं शश्वदभीप्सता ।
आयुः श्रियं कुलं धर्मं पुत्रानाप्नोति तैः क्रमात् ॥ ३१॥

बिल्ववृक्षे तत्फले वा यो मां पूजयते नरः ।
परां श्रियमिह प्राप्य मम लोके महीयते ॥ ३२॥

बिल्ववृक्षं समाश्रित्य यो मन्त्रान्विधिना जपेत् ।
एकेन दिवसेनैव तत्पुरश्चरणं भवेत् ॥ ३३॥

यस्तु बिल्ववने नित्यं कुटीं कृत्वा वसेन्नरः ।
सर्वे मन्त्राः प्रसिद्ध्यन्ति जपमात्रेण केवलम् ॥ ३४॥

पर्वताग्रे नदीतीरे बिल्वमूले शिवालये ।
अग्निहोत्रे केशवस्य संनिधौ वा जपेत्तु यः ॥ ३५॥

नैवास्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसः ।
तं न स्पृशन्ति पापानि शिवसायुज्यमृच्छति ॥ ३६॥

स्थण्डिले वा जले वह्नौ वायावाकाश एव वा ।
गिरौ स्वात्मनि वा यो मां पूजयेत्प्रयतो नरः ॥ ३७॥

स कृत्स्नं फलमाप्नोति लवमात्रेण राघव ।
आत्मपूजासमा नास्ति पूजा रघुकुलोद्भव ॥ ३८॥

मत्सायुज्यमवाप्नोति चण्डालोऽप्यात्मपूजया ।
सर्वान्कामानवाप्नोति मनुष्यः कम्बलासने ॥ ३९॥

कृष्णाजिने भवेन्मुक्तिर्मोक्षश्रीर्व्याघ्रचर्मणि ।
कुशासने भवेज्ज्ञानमारोग्यं पत्रनिर्मिते ॥ ४०॥

पाषाणे दुःखमाप्नोति काष्ठे नानाविधान् गदान् ।
वस्त्रेण श्रियमाप्नोति भूमौ मन्त्रो न सिद्ध्यति ।
प्राङ्मुखोदङ्मुखो वापि जपं पूजां समाचरेत् ॥ ४१॥

अक्षमालाविधिं वक्ष्ये श‍ृणुष्वावहितो नृप ॥ ४२॥

साम्राज्यं स्फाटिके स्यात्तु पुत्रजीवे परां श्रियम् ।
आत्मज्ञानं कुशग्रन्थौ रुद्राक्षः सर्वकामदः ॥ ४३॥

प्रवालैश्च कृता माला सर्वलोकवशप्रदा ।
मोक्षप्रदा च माला स्यादामलक्याः फलैः कृता ॥ ४४॥

मुक्ताफलैः कृता माला सर्वविद्याप्रदायिनी ।
माणिक्यरचिता माला त्रैलोकस्य वशंकरी ॥ ४५॥

नीलैर्मरकतैर्वापि कृता शत्रुभयप्रदा ।
सुवर्णरचिता माला दद्याद्वै महतीं श्रियम् ॥ ४६॥

तथा रौप्यमयी माला कन्यां यच्छति कामिताम् ।
उक्तानां सर्वकामानां दायिनी पारदैः कृता ॥ ४७॥

अष्टोत्तरशता माला तत्र स्यादुत्तमोत्तमा ।
शतसंख्योत्तमा माला पञ्चाशन्मध्यमा मता ॥ ४८॥

चतुः पञ्चशती यद्वा अधमा सप्तविंशतिः ।
अधमा पञ्चविंशत्या यदि स्याच्छतनिर्मिता ॥ ४९॥

पञ्चाशदक्षराण्यत्रानुलोमप्रतिलोमतः ।
इत्येवं स्थापयेत्स्पष्टं न कस्मैचित्प्रदर्शयेत् ॥ ५०॥

वर्णैर्विन्यस्तया यस्तु क्रियते मालया जपः ।
एकवारेण तस्यैव पुरश्चर्या कृता भवेत्॥ ५१॥

सव्यपार्ष्णिं गुदे स्थाप्य दक्षिणं च ध्वजोपरि ।
योनिमुद्राबन्ध एष भवेदासनमुत्तमम् ॥ ५२॥

योनिमुद्रासने स्थित्वा प्रजपेद्यः समाहितः ।
यं कंचिदपि वा मन्त्रं तस्य स्युः सर्वसिद्धयः ॥ ५३॥

छिन्ना रुद्धाः स्तम्भिताश्च मिलिता मूर्छितास्तथा ।
सुप्ता मत्ता हीनवीर्या दग्धास्त्रस्तारिपक्षगाः ॥ ५४॥

बाला यौवनमत्तश्च वृद्धा मन्त्राश्च ये मताः ।
योनिमुद्रासने स्थित्वा मन्त्रानेवंविधान् जपेत् ॥ ५५॥

तत्र सिद्ध्यन्ति ते मन्त्रा नान्यस्य तु कथंचन ।
ब्राह्मं मुहूर्तमारभ्यामध्याह्नं प्रजपेन्मनुम् ॥ ५६॥

अत ऊर्ध्वं कृते जाप्ये विनाशाय भवेद्ध्रुवम् ।
पुरश्चर्याविधावेवं सर्वकाम्यफलेष्वपि ॥ ५७॥

नित्ये नैमित्तिके वापि तपश्चर्यासु वा पुनः ।
सर्वदैव जपः कार्यो न दोषस्तत्र कश्चन ॥ ५८॥

यस्तु रुद्रं जपेन्नित्यं ध्यायमानो ममाकृतिम् ।
षडक्षरं वा प्रणवं निष्कामो विजितेन्द्रियः ॥ ५९॥

तथाथर्वशिरोमन्त्रं कैवल्यं वा रघूत्तम ।
स तेनैव च देहेन शिवः संजायते स्वयम् ॥ ६०॥

अधीते शिवगीतां यो नित्यमेतां जितेन्द्रियः ।
श‍ृणुयाद्वा स मुक्तः स्यात्संसारान्नात्र संशयः ॥ ६१॥

सूत उवाच ॥

एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ।
रामः कृतार्थमात्मानममन्यत तथैव सः ॥ ६२॥

एवं मया समासेन शिवगीता समीरिता ।
एतां यः प्रजपेन्नित्यं श‍ृणुयाद्वा समाहितः ॥ ६३॥

एकाग्रचित्तोयो मर्त्यस्तस्य मुक्तिः करे स्थिता ।
अतः श‍ृणुध्वं मुनयो नित्यमेतां स्माहिताः ॥ ६४॥

अनायासेन वो मुक्तिर्भविता नात्र संशयः ।
कायक्लेशो मनःक्षोभो धनहानिर्न चात्मनः ॥ ६५॥

पीडास्ति श्रवणादेव यस्मात्कैवल्यमाप्नुयात् ।
शिवगीतामतो नित्यं श‍ृणुध्वमृषिसत्तमाः ॥ ६६॥

ऋषय ऊचुः ॥

अद्यप्रभृति नः सूत त्वमाचार्यः पिता गुरुः ।
अविद्यायाः परं पारं यस्मात्तारयितासि नः ॥ ६७॥

उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।
तस्मात्सूतात्मज त्वत्तः सत्यं नान्योऽस्ति नो गुरुः ॥ ६८॥

व्यास उवाच ॥

इत्युक्त्वा प्रययुः सर्वे सायंसंध्यामुपासितुम् ।
स्तुवन्तः सूतपुत्रं ते संतुष्टा गोमतीतटम् ॥ ६९॥

इति श्रीपद्मपुराणे उपरिभागे शिवगीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे
गीताधिकारिनिरूपणं नाम षोडशोऽध्यायः ॥ १६॥

॥ इति श्रीमच्छिवगीता समाप्ता ॥

– Chant Stotra in Other Languages –

Shiva Gita in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil