Shodasa Sri Ganapathi Stavam In Sanskrit

॥ Shodasa Sri Ganapathi Stavam Sanskrit Lyrics ॥

॥ षोडश गणपति स्तवम् ॥
प्रथमो बालविघ्नेशो द्वितीयस्तरुणो भवेत् ।
तृतीयो भक्तविघ्नेशश्चतुर्थो वीरविघ्नपः ॥ १ ॥

पञ्चमः शक्तिविघ्नेशः षष्ठो ध्वजगणाधिपः ।
सप्तमः सिद्धिरुद्दिष्टः उच्छिष्टश्चाष्टमः स्मृतः ॥ २ ॥

नवमो विघ्नराजः स्याद्दशमः क्षिप्रनायकः ।
हेरम्बश्चैकादशः स्याद्द्वादशो लक्ष्मिनायकः ॥ ३ ॥

त्रयोदशो महाविघ्नो विजयाख्यश्चतुर्दशः ।
नृत्ताख्यः पञ्चदशः स्यात् षोडशश्चोर्ध्वनायकः ॥ ४ ॥

एतत् षोडशकं नाम स्तोत्रं सर्वार्थसाधकम् ।
त्रिसन्ध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी ॥ ५ ॥

तस्य विघ्नाः पलायन्ते वैनतेयाद्यथोरगाः ।
गणेश्वरप्रसादेन महाज्ञानी भवेद्ध्रुवम् ॥ ६ ॥

इति षोडशगणपति स्तवम् ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Shodasa Ganapathi Stavam in Lyrics in English » Kannada » Telugu » Tamil