Shri Dandapani Pancharatnam In Sanskrit

॥ Shri Dandapani Pancharatnam Sanskrit Lyrics ॥

॥ श्री दण्डपाणि पञ्चरत्नम् ॥
चण्डपापहरपादसेवनं
गण्डशोभिवरकुण्डलद्वयम् ।
दण्डिताखिलसुरारिमण्डलं
दण्डपाणिमनिशं विभावये ॥ १ ॥

कालकालतनुजं कृपालयं
बालचन्द्रविलसज्जटाधरम् ।
चेलधूतशिशुवासरेश्वरं
दण्डपाणिमनिशं विभावये ॥ २ ॥

तारकेशसदृशाननोज्ज्वलं
तारकारिमखिलार्थदं जवात् ।
तारकं निरवधेर्भवाम्बुधे-
-र्दण्डपाणिमनिशं विभावये ॥ ३ ॥

तापहारिनिजपादसंस्तुतिं
कोपकाममुखवैरिवारकम् ।
प्रापकं निजपदस्य सत्वरं
दण्डपाणिमनिशं विभावये ॥ ४ ॥

कामनीयकविनिर्जिताङ्गजं
रामलक्ष्मणकराम्बुजार्चितम् ।
कोमलाङ्गमतिसुन्दराकृतिं
दण्डपाणिमनिशं विभावये ॥ ५ ॥

इति शृङ्गेरिजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्रीदण्डपाणि पञ्चरत्नम् ।

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Stotram » Sri Dandapani Pancharatnam in Lyrics in English » Kannada » Telugu » Tamil

See Also  Sri Lakshmi Prathyangira Devi Maha Mantra In Sanskrit And English