॥ Shruti Geetaa 2 Sanskrit Lyrics ॥
॥ श्रुतिगीता २ ॥
प्राकृताः श्रुतयः सर्वा भगवन्तमधोक्षजम् ।
स्तुवन्ति दोषनाशाय तत्राविष्टो भवेद्यथा ॥ १ ॥
सत्यो हरिः समस्तेषु भ्रमभातेष्वपि स्थिरः ।
अतः सन्तः समस्तार्थे कृष्णमेव विजानते ॥ २ ॥
कथानन्त्योक्तिहृदयाः साधनानि न कुर्वते ।
साक्षात्ते पादसंश्लिष्टास्ते किं वाच्या महाशयाः ॥ ३ ॥
कृष्ण एव सदा सेव्यो निर्णीतः पञ्चधा बुधैः ।
शरीरदः प्रेरकश्च सुखदः शेषसत्पदः ॥ ४ ॥
कर्मरूपं हरिं केचित्सेवन्ते योगरूपिणम् ।
तेभ्योऽप्यक्षररूपस्य सेवकाः सम्मताः सताम् ॥ ५ ॥
सर्वत्र भगवांस्तुत्यः सर्वदोषविवर्जितः ।
क्रीडार्थमनुकुर्वन्हि सर्वत्रैव विराजते ॥ ६ ॥
गुप्तानन्दा यतो जीवा निरानन्दं जगद्यतः ।
पूर्णानन्दो हरिस्तस्माञ्जीवैः सेव्यः सुखार्थिभिः ॥ ७ ॥
कृष्णे हरौ भगवति परमानन्दसागरः ।
वर्तते नात्र सन्देहः कथा तत्र नियामिका ॥ ८ ॥
असत्सङ्गो न कर्तव्यो भक्तिमार्गस्य बाधकः ।
देहे ह्यनुगुणे कृष्णे नेन्द्रियाणां प्रियं चरेत् ॥ ९ ॥
सर्व एव हरेर्भक्तास्तुल्या यान्मन्यते हरिः ।
अतः कृष्णो यथात्मीयान्मन्यते भजनं तथा ॥ १० ॥
ज्ञानमार्गो भ्रान्तिमूलमतः कृष्णं भजेद्बुधः ।
प्रवर्तकं ज्ञानकाण्डं चित्तशुद्ध्यै यतो भवेत् ॥ ११ ॥
भ्रान्तिमूलतया सर्वसमयानामयुक्तितः ।
न तद्विरोधात्कृष्णाख्यं परं ब्रह्म त्यजेद्बुधः ॥ १२ ॥
जीवानां ब्रह्मरूपत्वाद्दोषा अपि च मानसाः ।
जगच्च सकलं ब्रह्य ततो दोषः कथं हरौ ॥ १३ ॥
सर्वथा सर्वतः शुद्धा भक्ता एव न चापरे ।
अतः शुद्धिमभीप्सद्भिस्सेव्या भक्ता न चापरे ॥ १४ ॥
सुवर्णप्रतिमावासौ सर्वानन्दमयोऽधिराट् ।
सर्वसेव्यो नियन्ता च निर्दुष्टः सर्वथैव हि ॥ १५ ॥
सर्वभावविनिर्मुक्तः पूर्णः क्रोडार्थमुद्गतः ।
निमित्तं तं समाश्रित्य जायन्ते जीवराशयः ॥ १६ ॥
नियन्ता जीवसङ्घस्य हरिस्तेनाणवो मताः ।
जीवा न व्यापकाः क्वापि चिन्मया ज्ञानिनो मताः ॥ १७ ॥
नामरूपप्रपञ्चं हि देवतिर्यङ्नरात्मकम् ।
कृष्णादेव समुद्भूतं लीनं तत्रैव तन्मयम् ॥ १८ ॥
नॄणां दुर्गतिमालोक्य ये सेवन्ते दृढव्रताः ।
कृष्णं तद्भ्रुकुटिः कालो न तान्हन्ति कदाचन ॥ १९ ॥
अदान्ते मनसि ज्ञानयोगार्थं न यतेद्बुधः ।
गुरुसेवापरो भूत्वा भक्तिमेव सदाभ्यसेत् ॥ २० ॥
सर्वलोकोपकारार्थं कृष्णेन सहितास्तु ते ।
परिभ्रमन्ति लोकानां निस्ताराय महाशयाः ॥ २१ ॥
पुत्रादीन्सम्परित्यज्य कृष्णः सेव्यो न तैः सह ।
तत्सुखं भगवान्दाता ते तु क्लिष्टेऽतिदुःखदाः ॥ २२ ॥
परिभ्रमंस्तीर्थनिष्ठो गुरुलब्धहरिस्मृतिः ।
न सेवेत गृहान् दुष्टान् सद्धर्मात्यन्तनाशकान् ॥ २३ ॥
सद्बुद्ध्या सर्वथा सद्भिर्न सेव्यमखिलं जगत् ।
भ्रान्त्या सद्बुद्धिरत्रेति सन्तं कृष्णं भजेद्बुधः ॥ २४ ॥
खपुष्पादिसमत्वाद्धि मिथ्याभूतं जगद्यतः ।
अधिष्ठानाच्च सद्भानं तं कृष्णं नियतं भजेत् ॥ २५ ॥
कालादितृणपर्यन्ता न सेव्या मुक्तिमिच्छता ।
दोषत्याजनशक्तो हि सेव्यो दाता गणस्य च ॥ २६ ॥
जीवेषु भगवानात्मा सञ्च्छन्नस्तेन तत्र न ।
भजनं सर्वथा कार्यं ततोऽन्यत्रैव पूजयेत् ॥ २७ ॥
सुखसेवापरो यस्तु सदानन्दं हरिं भजेत् ।
अन्यथा सुखमप्रेप्सुः सर्वथा दुःखमाप्नुयात् ॥ २८ ॥
कृष्णानन्दः परानन्दो नान्यानन्दस्तथाविधः ।
वेदा अपि न तच्छक्ताः प्रतिपादयितुं स्वतः ॥ २९ ॥
इत्येव श्रुतिगीतायाः सङ्क्षेपेण निरूपितः ।
अर्थराशिसमुद्रो हि यथाङ्गुल्या निरूप्यते ॥ ३० ॥
इति श्रीवल्लभाचार्यविरचिता श्रुतिगीता सम्पूर्णा ।
– Chant Stotra in Other Languages –
Shruti Gita 2 in Sanskrit – English – Bengali – Gujarati – Kannada – Malayalam – Odia – Telugu – Tamil