Sri Bhadra Lakshmi Stotram In Sanskrit

॥ Bhadra Lakshmi Stotram Sanskrit Lyrics ॥

॥ श्री भद्रलक्ष्मी स्तोत्रम् ॥
श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा ।
तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी ॥ १ ॥

पञ्चमं विष्णुपत्नीति षष्ठं श्रीवैष्णवीति च ।
सप्तमं तु वरारोहा अष्टमं हरिवल्लभा ॥ २ ॥

नवमं शार्‍ङ्गिणी प्रोक्ता दशमं देवदेविका ।
एकादशं महालक्ष्मिः द्वादशं लोकसुन्दरी ॥ ३ ॥

श्रीः पद्म कमला मुकुन्दमहिषी लक्ष्मीस्त्रिलोकेश्वरी ।
मा क्षीराब्धि सुताऽरविन्दजननी विद्या सरोजात्मिका ॥ ४ ॥

सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादशा ।
प्रातः शुद्धतराः पठन्ति सततं सर्वान् लभन्ते शुभान् ॥ ५ ॥

भद्रलक्ष्मी स्तवं नित्यं पुण्यमेतच्छुभावहं ।
काले स्नात्वापि कावेर्यां जप श्रीवृक्षसन्निधौ ॥ ६ ॥

इति श्री भद्रलक्ष्मी स्तोत्रम् ॥

– Chant Stotra in Other Languages –

Sri Bhadra Lakshmi Stotram Lyrics in English » Kannada » Telugu » Tamil

See Also  Shiva Ashtottarashatanama Stotram In Sanskrit