॥ Sri Ganesha Geetaa Sanskrit Lyrics ॥
॥ श्रीगणेश गीता ॥
क्रमांक अध्याय नाम श्लोकसंख्या ४१४
१ सांख्यसारार्थयोग ६९
२ कर्मयोग ४३
३ विज्ञानप्रतिपादन ५०
४ वैधसंन्यासयोग ३७
५ योगावृत्तिप्रशंसन २७
६ बुद्धियोग
२१
७ उपासनायोग २५
८ विश्वरूपदर्शन २६
९ क्षेत्रज्ञातृज्ञेयविवेकयोग ४१
१० उपदेशयोग २३
११ त्रिविधवस्तुविवेकनिरूपण ५२
॥ ॐ नमः श्रीगणेशाय ॥
॥ अथ श्रीमद्गणेशगीता प्रारभ्यते ॥
१
॥ प्रथमोऽध्यायः ॥
॥ साङ्ख्यसारार्थ योगः ॥
क उवाच –
एवमेव पुरा पृष्टः शौनकेन महात्मना ।
स सूतः कथयामास गीतां व्यासमुखाच्छ्रुताम् ॥१ ॥
सूत उवाच –
अष्टादशपुराणोक्तममृतं प्राशितं त्वया ।
ततोऽतिरसवत्पातुमिच्छाम्यमृतमुत्तमम् ॥२ ॥
येनामृतमयो भूत्वा पुमान्ब्रह्मामृतं यतः ।
योगामृतं महाभाग तन्मे करुणया वद ॥३ ॥
व्यास उवाच –
अथ गीतां प्रवक्ष्यामि योगमार्गप्रकाशिनीम् ।
नियुक्ता पृच्छते सूत राज्ञे गजमुखेन या ॥४ ॥
वरेण्य उवाच –
विघ्नेश्वर महाबाहो सर्वविद्याविशारद ।
सर्वशास्त्रार्थतत्त्वज्ञ योगं मे वक्तुमर्हसि ॥५ ॥
श्रीगजानन उवाच –
सम्यग्व्यवसिता राजन्मतिस्तेऽनुग्रहान्मम ।
शृणु गीतां प्रवक्ष्यामि योगामृतमयीं नृप ॥६ ॥
न योगं योगमित्याहुर्योगो योगो न च श्रियः ।
न योगो विषयैर्योगो न च मात्रादिभिस्तदा ॥७ ॥
योगो यः पितृमात्रादेर्न स योगो नराधिप ।
यो योगो बन्धुपुत्रादेर्यश्चाष्टभूतिभिः सह ॥८ ॥
न स योगस्त्रिया योगो जगदद्भुतरूपया ।
राज्ययोगश्च नो योगो न योगो गजवाजिभिः ॥९ ॥
योगो नेन्द्रपदस्यापि योगो योगार्थिनः प्रियः ।
योगो यः सत्यलोकस्य न स योगो मतो मम ॥१० ॥
शैवस्य योगो नो योगो वैष्णवस्य पदस्य यः ।
न योगो भूप सूर्यत्वं चन्द्रत्वं न कुबेरता ॥११ ॥
नानिलत्वं नानलत्वं नामरत्वं न कालता ।
न वारुण्यं न नैरृत्यं योगो न सार्वभौमता ॥१२ ॥
योगं नानाविधं भूप युञ्जन्ति ज्ञानिनस्ततम् ।
भवन्ति वितृषा लोके जिताहारा विरेतसः ॥१३ ॥
पावयन्त्यखिलान्लोकान्वशीकृतजगत्त्रयाः ।
करुणापूर्णहृदया बोधयन्त्यपि कांश्चन ॥१४ ॥
जीवन्मुक्ता हृदे मग्नाः परमानन्दरूपिणि ।
निमील्याक्षीणि पश्यन्तः परं ब्रह्म हृदि स्थितम् ॥१५ ॥
ध्यायन्तः परमं ब्रह्म चित्ते योगवशीकृतम् ।
भूतानि स्वात्मना तुल्यं सर्वाणि गणयन्ति ते ॥१६ ॥
येन केनचिदाच्छिन्ना येन केनचिदाहताः ।
येन केनचिदाकृष्टा येन केनचिदाश्रिताः ॥१७ ॥
करुणापूर्णहृदया भ्रमन्ति धरणीतले ।
अनुग्रहाय लोकानां जितक्रोधा जितेन्द्रियाः ॥१८ ॥
देहमात्रभृतो भूप समलोष्टाश्मकाञ्चनाः ।
एतादृशा महाभाग्याः स्युश्चक्षुर्गोचराः प्रिय ॥१९ ॥
तमिदानीमहं वक्ष्ये शृणु योगमनुत्तमम् ।
श्रुत्वा यं मुच्यते जन्तुः पापेभ्यो भवसागरात् ॥२० ॥
शिवे विष्णौ च शक्तौ च सूर्ये मयि नराधिप ।
याऽभेदबुद्धिर्योगः स सम्यग्योगो मतो मम ॥२१ ॥
अहमेव जगद्यस्मात्सृजामि पालयामि च ।
कृत्वा नानाविधं वेषं संहरामि स्वलीलया ॥२२ ॥
अहमेव महाविष्णुरहमेव सदाशिवः ।
अहमेव महाशक्तिरहमेवार्यमा प्रिय ॥२३ ॥
अहमेको नृणां नाथो जातः पञ्चविधः पुरा ।
अज्ञानान्मा न जानन्ति जगत्कारणकारणम् ॥२४ ॥
मत्तोऽग्निरापो धरणी मत्त आकाशमारुतौ ।
ब्रह्मा विष्णुश्च रुद्रश्च लोकपाला दिशो दश ॥२५ ॥
वसवो मनवो गावो मनवः पशवोऽपि च ।
सरितः सागरा यक्षा वृक्षाः पक्षिगणा अपि ॥२६ ॥
तथैकविंशतिः स्वर्गा नागाः सप्त वनानि च ।
मनुष्याः पर्वताः साध्याः सिद्धा रक्षोगणास्तथा ॥२७ ॥
अहं साक्षी जगच्चक्षुरलिप्तः सर्वकर्मभिः ।
अविकारोऽप्रमेयोऽहमव्यक्तो विश्वगोऽव्ययः ॥२८ ॥
अहमेव परं ब्रह्माव्ययानन्दात्मकं नृप ।
मोहयत्यखिलान्माया श्रेष्ठान्मम नरानमून् ॥२९ ॥
सर्वदा षड्विकारेषु तानियं योजयेत् भृशम् ।
हित्वाजापटलं जन्तुरनेकैर्जन्मभिः शनैः ॥३० ॥
विरज्य विन्दति ब्रह्म विषयेषु सुबोधतः ।
अच्छेद्यं शस्त्रसङ्घातैरदाह्यमनलेन च ॥३१ ॥
अक्लेद्यं भूप भुवनैरशोष्यं मारुतेन च ।
अवध्यं वध्यमानेऽपि शरीरेऽस्मिन्नराधिप ॥३२ ॥
यामिमां पुष्पितां वाचं प्रशंसन्ति श्रुतीरिताम् ।
त्रयीवादरता मूढास्ततोऽन्यन्मन्वतेऽपि न ॥३३ ॥
कुर्वन्ति सततं कर्म जन्ममृत्युफलप्रदम् ।
स्वर्गैश्वर्यरता ध्वस्तचेतना भोगबुद्धयः ॥३४ ॥
सम्पादयन्ति ते भूप स्वात्मना निजबन्धनम् ।
संसारचक्रं युञ्जन्ति जडाः कर्मपरा नराः ॥३५ ॥
यस्य यद्विहितं कर्म तत्कर्तव्यं मदर्पणम् ।
ततोऽस्य कर्मबीजानामुच्छिन्नाः स्युर्महाङ्कुराः ॥३६ ॥
चित्तशुद्धिश्च महती विज्ञानसाधिका भवेत् ।
विज्ञानेन हि विज्ञातं परं ब्रह्म मुनीश्वरैः ॥३७ ॥
तस्मात्कर्माणि कुर्वीत बुद्धियुक्तो नराधिप ।
न त्वकर्मा भवेत्कोऽपि स्वधर्मत्यागवांस्तथा ॥३८ ॥
जहाति यदि कर्माणि ततः सिद्धिं न विन्दति ।
आदौ ज्ञाने नाधिकारः कर्मण्येव स युज्यते ॥३९ ॥
कर्मणा शुद्धहृदयोऽभेदबुद्धिमुपैष्यति ।
स च योगः समाख्यातोऽमृतत्वाय कल्पते ॥४० ॥
योगमन्यं प्रवक्ष्यामि शृणु भूप तमुत्तमम् ।
पशौ पुत्रे तथा मित्रे शत्रौ बन्धौ सुहृज्जने ॥४१ ॥
बहिर्दृष्ट्या च समया हृत्स्थयालोकयेत्पुमान् ।
सुखे दुःखे तथाऽमर्षे हर्षे भीतौ समो भवेत् ॥४२ ॥
रोगाप्तौ चैव भोगाप्तौ जये वा विजयेऽपि च ।
श्रियोऽयोगे च योगे च लाभालाभे मृतावपि ॥४३ ॥
समो मां वस्तुजातेषु पश्यन्नन्तर्बहिःस्थितम् ।
सूर्ये सोमे जले वह्नौ शिवे शक्तौ तथानिले ॥४४ ॥
द्विजे हृदि महानद्यां तीर्थे क्षेत्रेऽघनाशिनि ।
विष्णौ च सर्वदेवेषु तथा यक्षोरगेषु च ॥४५ ॥
गन्धर्वेषु मनुष्येषु तथा तिर्यग्भवेषु च ।
सततं मां हि यः पश्येत्सोऽयं योगविदुच्यते ॥४६ ॥
सम्पराहृत्य स्वार्थेभ्य इन्द्रियाणि विवेकतः ।
सर्वत्र समताबुद्धिः स योगो भूप मे मतः ॥४७ ॥
आत्मानात्मविवेकेन या बुद्धिर्दैवयोगतः ।
स्वधर्मासक्तचित्तस्य तद्योगो योग उच्यते ॥४८ ॥
धर्माधरमौ जहातीह तया युक्त उभावपि ।
अतो योगाय युञ्जीत योगो वैधेषु कौशलम् ॥४९ ॥
धर्माधर्मफले त्यक्त्वा मनीषी विजितेन्द्रियः ।
जन्मबन्धविनिर्मुक्तः स्थानं संयात्यनामयम् ॥५० ॥
यदा ह्यज्ञानकालुष्यं जन्तोर्बुद्धिः क्रमिष्यति ।
तदासौ याति वैराग्यं वेदवाक्यादिषु क्रमात् ॥५१ ॥
त्रयीविप्रतिपन्नस्य स्थाणुत्वं यास्यते यदा ।
परात्मन्यचला बुद्धिस्तदासौ योगमाप्नुयात् ॥५२ ॥
मानसानखिलान्कामान्यदा धीमांस्त्यजेत्प्रिय ।
स्वात्मनि स्वेन सन्तुष्टः स्थिरबुद्धिस्तदोच्यते ॥५३ ॥
वितृष्णः सर्वसौख्येषु नोद्विग्नो दुःखसङ्गमे ।
गतसाध्वसरुड्रागः स्थिरबुद्धिस्तदोच्यते ॥५४ ॥
यथाऽयं कमठोऽङ्गानि संकोचयति सर्वतः ।
विषयेभ्यस्तथा खानि संकर्पेद्योगतत्परः ॥५५ ॥
व्यावर्तन्तेऽस्य विषयास्त्यक्ताहारस्य वर्ष्मिणः ।
विना रागं च रागोऽपि दृष्ट्वा ब्रह्म विनश्यति ॥५६ ॥
विपश्चिद्यतते भूप स्थितिमास्थाय योगिनः ।
मन्थयित्वेन्द्रियाण्यस्य हरन्ति बलतो मनः ॥५७ ॥
युक्तस्तानि वशे कृत्वा सर्वदा मत्परो भवेत् ।
संयतानीन्द्रियाणीह यस्यासौ कृतधीर्मतः ॥५८ ॥
चिन्तयानस्य विषयान्संगस्तेषूपजायते ।
कामः संजायते तस्मात्ततः क्रोधोऽभिवर्तते ॥५९ ॥
क्रोधादज्ञानसंभूतिर्विभ्रमस्तु ततः स्मृतेः ।
भ्रंशात्स्मृतेर्मतेर्ध्वंसस्तद्ध्वंसात्सोऽपि नश्यति ॥६० ॥
विना द्वेषं च रागं च गोचरान्यस्तु खैश्चरेत् ।
स्वाधीनहृदयो वश्यैः संतोषं स समृच्छति ॥६१ ॥
त्रिविधस्यापि दुःखस्य संतोषे विलयो भवेत् ।
प्रज्ञया संस्थितश्चायं प्रसन्नहृदयो भवेत् ॥६२ ॥
विना प्रसादं न मतिर्विना मत्या न भावना ।
विना तां न शमो भूप विना तेन कुतः सुखम् ॥६३ ॥
इन्द्रियाश्वान्विचरतो विषयाननु वर्तते ।
यन्मनस्तन्मतिं हन्यादप्सु नावं मरुद्यथा ॥६४ ॥
या रात्रिः सर्वभूतानां तस्यां निद्राति नैव सः ।
न स्वपन्तीह ते यत्र सा रात्रिस्तस्य भूमिप ॥६५ ॥
सरितां पतिमायान्ति वनानि सर्वतो यथा ।
आयान्ति यं तथा कामा न स शान्तिं क्वचिल्लभेत् ॥६६ ॥
अतस्तानीह संरुध्य सर्वतः खानि मानवः ।
स्वस्वार्थेभ्यः प्रधावन्ति बुद्धिरस्य स्थिरा तदा ॥६७ ॥
ममताहंकृती त्यक्त्वा सर्वान्कामांश्च यस्त्यजेत् ।
नित्यं ज्ञानरतो भूत्वा ज्ञानान्मुक्तिं स यास्यति ॥६८ ॥
एवं ब्रह्मधियं भूप यो विजानाति दैवतः ।
तुर्यामवस्थां प्राप्यापि जीवन्मुक्तिं प्रयास्यति ॥६९ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
सांख्यसारार्थयोगो नाम प्रथमोऽध्यायः ॥
२
॥ द्वितीयोऽध्यायः ॥
॥ कर्मयोगः ॥
वरेण्य उवाच –
ज्ञाननिष्ठा कर्मनिष्ठा द्वयं प्रोक्तं त्वया विभो ।
अवधार्य वदैकं मे निःश्रेयसकरं नु किम् ॥१ ॥
गजानन उवाच –
अस्मिंश्चराचरे स्थित्यौ पुरोक्ते द्वे मया प्रिय ।
सांख्यानां बुद्धियोगेन वैधयोगेन कर्मिणाम् ॥२ ॥
अनारम्भेण वैधानां निष्क्रियः पुरुषो भवेत् ।
न सिद्धिं याति संत्यागात्केवलात्कर्मणो नृप ॥३ ॥
कदाचिदक्रियः कोऽपि क्षणं नैवावतिष्ठते ।
अस्वतन्त्रः प्रकृतिजैर्गुणैः कर्म च कार्यते ॥४ ॥
कर्मकारीन्द्रियग्रामं नियम्यास्ते स्मरन्पुमान् ।
तद्गोचरान्मन्दचित्तो धिगाचारः स भाष्यते ॥५ ॥
तद्ग्रामं संनियम्यादौ मनसा कर्म चारभेत् ।
इन्द्रियैः कर्मयोगं यो वितृष्णः स परो नृप ॥६ ॥
अकर्मणः श्रेष्ठतमं कर्मानीहाकृतं तु यत् ।
वर्ष्मणः स्थितिरप्यस्याकर्मणो नैव सेत्स्यति ॥७ ॥
असमर्प्य निबध्यन्ते कर्म तेन जना मयि ।
कुर्वीत सततं कर्मानाशोऽसङ्गो मदर्पणम् ॥८ ॥
मदर्थे यानि कर्माणि तानि बध्नन्ति न क्वचित् ।
सवासनमिदं कर्म बध्नाति देहिनं बलात् ॥९ ॥
वर्णान्सृष्ट्वावदं चाहं सयज्ञांस्तान्पुरा प्रिय ।
यज्ञेन ऋध्यतामेष कामदः कल्पवृक्षवत् ॥१० ॥
सुरांश्चान्नेन प्रीणध्वं सुरास्ते प्रीणयन्तु वः ।
लभध्वं परमं स्थानमन्योन्यप्रीणनात्स्थिरम् ॥११ ॥
इष्टा देवाः प्रदास्यन्ति भोगानिष्टान्सुतर्पिताः ।
तैर्दत्तांस्तान्नरस्तेभ्योऽदत्वा भुङ्क्ते स तस्करः ॥१२ ॥
हुतावशिष्टभोक्तारो मुक्ताः स्युः सर्वपातकैः ।
अदन्त्येनो महापापा आत्महेतोः पचन्ति ये ॥१३ ॥
ऊर्जो भवन्ति भूतानि देवादन्नस्य संभवः ।
यज्ञाच्च देवसंभूतिस्तदुत्पत्तिश्च वैधतः ॥१४ ॥
ब्रह्मणो वैधमुत्पन्नं मत्तो ब्रह्मसमुद्भवः ।
अतो यज्ञे च विश्वस्मिन् स्थितं मां विद्धि भूमिप ॥१५ ॥
संसृतीनां महाचक्रं क्रामितव्यं विचक्षणैः ।
स मुदा प्रीणते भूपेन्द्रियक्रीडोऽधमो जनः ॥१६ ॥
अन्तरात्मनि यः प्रीत आत्मारामोऽखिलप्रियः ।
आत्मतृप्तो नरो यः स्यात्तस्यार्थो नैव विद्यते ॥१७
कार्याकार्यकृतीनां स नैवाप्नोति शुभाशुभे ।
किंचिदस्य न साध्यं स्यात्सर्वजन्तुषु सर्वदा ॥१८ ॥
अतोऽसक्ततया भूप कर्तव्यं कर्म जन्तुभिः ।
सक्तोऽगतिमवाप्नोति मामवाप्नोति तादृशः ॥१९ ॥
परमां सिद्धिमापन्नाः पुरा राजर्षयो द्विजाः ।
संग्रहाय हि लोकानां तादृशं कर्म चारभेत् ॥२० ॥
श्रेयान्यत्कुरुते कर्म तत्करोत्यखिलो जनः ।
मनुते यत्प्रमाणं स तदेवानुसरत्यसौ ॥२१ ॥
विष्टपे मे न साध्योऽस्ति कश्चिदर्थो नराधिप ।
अनालब्धश्च लब्धव्यः कुर्वे कर्म तथाप्यहम् ॥२२ ॥
न कुर्वेऽहं यदा कर्म स्वतन्त्रोऽलसभावितः ।
करिष्यन्ति मम ध्यानं सर्वे वर्णा महामते ॥२३ ॥
भविष्यन्ति ततो लोका उच्छिन्नाः सम्प्रदायिनः ।
हंता स्यामस्य लोकस्य विधाता संकरस्य च ॥२४ ॥
कामिनो हि सदा कामैरज्ञानात्कर्मकारिणः ।
लोकानां संग्रहायैतद्विद्वान् कुर्यादसक्तधीः ॥२५ ॥
विभिन्नत्वमतिं जह्यादज्ञानां कर्मचारिणाम्
।भागाद्गुणकर्म
योगयुक्तः सर्वकर्माण्यर्पयेन्मयि कर्मकृत् ॥२६ ॥
अविद्यागुणसाचिव्यात्कुर्वन्कर्माण्यतन्द्रितः ।
अहंकाराद्भिन्नबुद्धिरहंकर्तेति योऽब्रवीत् ॥२७ ॥
यस्तु वेत्त्यात्मनस्तत्त्वं विभागाद्गुणकर्मणोः ।
करणं विषये वृत्तमिति मत्वा न सज्जते ॥२८ ॥
कुर्वन्ति सफलं कर्म गुणैस्त्रिभिर्विमोहिताः ।
अविश्वस्तः स्वात्मद्रुहो विश्वविन्नैव लंघयेत् ॥२९ ॥
नित्यं नैमित्तिकं तस्मान्मयि कर्मार्पयेद्बुधः ।
त्यक्त्वाहंममताबुद्धिं परां गतिमवाप्नुयात् ॥३० ॥
अनीर्ष्यन्तो भक्तिमन्तो ये मयोक्तमिदं शुभम् ।
अनुतिष्ठन्ति ये सर्वे मुक्तास्तेऽखिलकर्मभिः ॥३१ ॥
ये चैव नानुतिष्ठन्ति त्वशुभा हतचेतसः ।
ईर्ष्यमाणान्महामूढान्नष्टांस्तान्विद्धि मे रिपून् ॥३२ ॥
तुल्यं प्रकृत्या कुरुते कर्म यज्ज्ञानवानपि ।
अनुयाति च तामेवाग्रहस्तत्र मुधा मतः ॥३३ ॥
कामश्चैव तथा क्रोधः खानामर्थेषु जायते ।
नैतयोर्वश्यतां यायादम्यविध्वंसकौ यतः ॥३४ ॥
शस्तोऽगुणो निजो धर्मः सांगादन्यस्य धर्मतः ।
निजे तस्मिन्मृतिः श्रेयोऽपरत्र भयदः परः ॥३५ ॥
वरेण्य उवाच –
पुमान्यत्कुरुते पापं स हि केन नियुज्यते ।
अकाङ्क्षन्नपि हेरम्ब प्रेरितः प्रबलादिव ॥३६ ॥
श्रीगजानन उवाच –
कामक्रोधौ महापापौ गुणद्वयसमुद्भवौ ।
नयन्तौ वश्यतां लोकान् विद्ध्येतौ द्वेषिणौ वरौ ॥३७ ॥
आवृणोति यथा माया जगद्बाष्पो जलं यथा ।
वर्षामेघो यथा भानुं तद्वत्कामोऽखिलांश्च रुट् ॥३८ ॥
प्रतिपत्तिमतो ज्ञानं छादितं सततं द्विषा ।
इच्छात्मकेन तरसा दुष्पोष्येण च शुष्मिणा ॥३९ ॥
आश्रित्य बुद्धिमनसी इन्द्रियाणि स तिष्ठति ।
तैरेवाच्छादितप्रज्ञो ज्ञानिनं मोहयत्यसौ ॥४० ॥
तस्मान्नियम्य तान्यादौ समनांसि नरो जयेत् ।
ज्ञानविज्ञानयोः शान्तिकरं पापं मनोभवम् ॥४१ ॥
यतस्तानि पराण्याहुस्तेभ्यश्च परमं मनः ।
ततोऽपि हि परा बुद्धिरात्मा बुद्धेः परो मतः ॥४२ ॥
बुद्ध्वैवमात्मनात्मानं संस्तभ्यात्मानमात्मना ।
हत्वा शत्रुं कामरूपं परं पदमवाप्नुयात् ॥४३ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
कर्मयोगो नाम द्वितीयोऽध्यायः ॥
३
॥ तृतीयोऽध्यायः ॥
॥ विज्ञानप्रतिपादन ॥
श्रीगजानन उवाच –
पुरा सर्गादिसमये त्रैगुण्यं त्रितनूरुहम् ।
निर्माय चैनमवदं विष्णवे योगमुत्तमम् ॥१ ॥
अर्यम्णे सोऽब्रवीत्सोऽपि मनवे निजसूनवे ।
ततः परम्परायातं विदुरेनं महर्षयः ॥२ ॥
कालेन बहुना चायं नष्टः स्याच्चरमे युगे ।
अश्रद्धेयो ह्यविश्वास्यो विगीतव्यश्च भूमिप ॥३ ॥
एवं पुरातनं योगं श्रुतवानसि मन्मुखात् ।
गुह्याद्गुह्यतरं वेदरहस्यं परमं शुभम् ॥४ ॥
वरेण्य उवाच –
सांप्रतं चावतीर्णोऽसि गर्भतस्त्वं गजानन ।
प्रोक्तवान्कथमेतं त्वं विष्णवे योगमुत्तमम् ॥५ ॥
गणेश उवाच –
अनेकानि च ते जन्मान्यतीतानि ममापि च ।
संस्मरे तानि सर्वाणि न स्मृतिस्तव वर्तते ॥६ ॥
मत्त एव महाबाहो जाता विष्ण्वादयः सुराः ।
मय्येव च लयं यान्ति प्रलयेषु युगे युगे ॥७ ॥
अहमेव परो ब्रह्म महारुद्रोऽहमेव च ।
अहमेव जगत्सर्वं स्थावरं जङ्गमं च यत् ॥८ ॥
अजोऽव्ययोऽहं भूतात्माऽनादिरीश्वर एव च ।
आस्थाय त्रिगुणां मायां भवामि बहुयोनिषु ॥९ ॥
अधर्मोपचयो धर्मापचयो हि यदा भवेत् ।
साधून्संरक्षितुं दुष्टांस्ताडितुं संभवाम्यहम् ॥१० ॥
उच्छिद्याधर्मनिचयं धर्मं संस्थापयामि च ।
हन्मि दुष्टांश्च दैत्यांश्च नानालीलाकरो मुदा ॥११ ॥
वर्णाश्रमान्मुनीन्साधून्पालये बहुरूपधृक् ।
एवं यो वेत्ति संभूतिर्मम दिव्या युगे युगे ॥१२ ॥
तत्तत्कर्म च वीर्यं च मम रूपं समासतः ।
त्यक्ताहंममताबुद्धिं न पुनर्भूः स जायते ॥१३ ॥
निरीहा निर्भियोरोषा मत्परा मद्व्यपाश्रयाः ।
विज्ञानतपसा शुद्धा अनेके मामुपागताः ॥१४ ॥
येन येन हि भावेन संसेवन्ते नरोत्तमाः ।
तथा तथा फलं तेभ्यः प्रयच्छाम्यव्ययः स्फुटम् ॥१५ ॥
जनाः स्युरितरे राजन्मम मार्गानुयायिनः ।
तथैव व्यवहारं ते स्वेषु चान्येषु कुर्वते ॥१६ ॥
कुर्वन्ति देवताप्रीतिं काङ्क्षन्तः कर्मणां फलम् ।
प्राप्नुबंतीह ते लोके शीघ्रं सिद्धिं हि कर्मजाम् ॥१७ ॥
चत्वारो हि मया वर्णा रजःसत्त्वतमोंऽशतः ।
कर्मांशतश्च संसृष्टा मृत्युलोके मयानघ ॥१८ ॥
कर्तारमपि तेषां मामकर्तारं विदुर्बुधाः ।
अनादिमीश्वरं नित्यमलिप्तं कर्मजैर्गुणैः ॥१९ ॥
निरीहं योऽभिजानाति कर्म बध्नाति नैव तम् ।
चक्रुः कर्माणि बुद्ध्यैवं पूर्वं पूर्वं मुमुक्षवः ॥२० ॥
वासनासहितादाद्यात्संसारकारणाद्दृढात् ।
अज्ञानबन्धनाज्जन्तुर्बुद्ध्वायं मुच्यतेऽखिलात् ॥२१ ॥
तदकर्म च कर्मापि कथयाम्यधुना तव ।
यत्र मौनं गता मोहादृषयो बुद्धिशालिनः ॥२२ ॥
तत्त्वं मुमुक्षुणा ज्ञेयं कर्माकर्मविकर्मणाम् ।
त्रिविधानीह कर्माणि सुनिम्नैषां गतिः प्रिय ॥२३ ॥
क्रियायामक्रियाज्ञानमक्रियायां क्रियामतिः ।
यस्य स्यात्स हि मर्त्येऽस्मिँल्लोके मुक्तोऽखिलार्थकृत् ॥२४ ॥
कर्मांकुरवियोगेन यः कर्माण्यारभेन्नरः ।
तत्त्वदर्शननिर्दग्धक्रियमाहुर्बुधा बुधम् ॥२५ ॥
फलतृष्णां विहाय स्यात्सदा तृप्तो विसाधनः ।
उद्युक्तोऽपि क्रियां कर्तुं किंचिन्नैव करोति सः ॥२६ ॥
निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः ।
केवलं वै गृहं कर्माचरन्नायाति पातकम् ॥२७ ॥
अद्वन्द्वोऽमत्सरो भूत्वा सिद्ध्यसिद्ध्योः समश्च यः ।
यथाप्राप्त्येह संतुष्टः कुर्वन्कर्म न बध्यते ॥२८ ॥
अखिलैर्विषयैर्मुक्तो ज्ञानविज्ञानवानपि ।
यज्ञार्थं तस्य सकलं कृतं कर्म विलीयते ॥२९ ॥
अहमग्निर्हविर्होता हुतं यन्मयि चार्पितम् ।
ब्रह्माप्तव्यं च तेनाथ ब्रह्मण्येव यतो रतः ॥३० ॥
योगिनः केचिदपरे दिष्टं यज्ञं वदन्ति च ।
ब्रह्माग्निरेव यज्ञो वै इति केचन मेनिरे ॥३१ ॥
संयमाग्नौ परे भूप इन्द्रियाण्युपजुह्वति ।
खाग्निष्वन्ये तद्विषयांश्छब्दादीनुपजुह्वति ॥३२ ॥
प्राणानामिन्द्रियाणां च परे कर्माणि कृत्स्नशः ।
निजात्मरतिरूपेऽग्नौ ज्ञानदीप्ते प्रजुह्वति ॥३३ ॥
द्रव्येण तपसा वापि स्वाध्यायेनापि केचन ।
तीव्रव्रतेन यतिनो ज्ञानेनापि यजन्ति माम् ॥३४ ॥
प्राणेऽपानं तथा प्राणमपाने प्रक्षिपन्ति ये ।
रुद्ध्वा गतीश्चोभयस्ते प्राणायामपरायणाः ॥३५ ॥
जित्वा प्राणान्प्राणगतीरुपजुह्वति तेषु च ।
एवं नानायज्ञरता यज्ञध्वंसितपातकाः ॥३६ ॥
नित्यं ब्रह्म प्रयान्त्येते यज्ञशिष्टामृताशिनः ।
अयज्ञकारिणो लोको नायमन्यः कुतो भवेत् ॥३७ ॥
कायिकादित्रिधाभूतान्यज्ञान्वेदे प्रतिष्ठितान् ।
ज्ञात्वा तानखिलान्भूप मोक्ष्यसेऽखिलबन्धनात् ॥३८ ॥
सर्वेषां भूप यज्ञानां ज्ञानयज्ञः परो मतः ।
अखिलं लीयते कर्म ज्ञाने मोक्षस्य साधने ॥३९ ॥
तज्ज्ञेयं पुरुषव्याघ्र प्रश्नेन नतितः सताम् ।
शुश्रूषया वदिष्यन्ति संतस्तत्त्वविशारदाः ॥४० ॥
नानासंगाञ्जनः कुर्वन्नैकं साधुसमागमम् ।
करोति तेन संसारे बन्धनं समुपैति सः ॥४१ ॥
सत्संगाद्गुणसंभूतिरापदां लय एव च ।
स्वहितं प्राप्यते सर्वैरिह लोके परत्र च ॥४२ ॥
इतरत्सुलभं राजन्सत्संगोऽतीव दुर्लभः ।
यज्ज्ञात्वा पुनर्वेधमेति ज्ञेयं ततस्ततः ॥४३ ॥
ततः सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।
अतिपापरतो जंतुस्ततस्तस्मात्प्रमुच्यते ॥४४ ॥
द्विविधान्यपि कर्माणि ज्ञानाग्निर्दहति क्षणात् ।
प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात् ॥४५ ॥
न ज्ञानसमतामेति पवित्रमितरन्नृप ।
आत्मन्येवावगच्छन्ति योगात्कालेन योगिनः ॥४६ ॥
भक्तिमानिन्द्रियजयी तत्परो ज्ञानमाप्नुयात् ।
लब्ध्वा तत्परमं मोक्षं स्वल्पकालेन यात्यसौ ॥४७ ॥
भक्तिहीनोऽश्रद्दधानः सर्वत्र संशयी तु यः ।
तस्य शं नापि विज्ञानमिह लोकोऽथ वा परः ॥४८ ॥
आत्मज्ञानरतं ज्ञाननाशिताखिलसंशयम् ।
योगास्ताखिलकर्माणं बध्नन्ति भूप तानि न ॥४९ ॥
ज्ञानखड्गप्रहारेण संभूतामज्ञतां बलात् ।
छित्वान्तःसंशयं तस्माद्योगयुक्तो भवेन्नरः ॥५० ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
विज्ञानप्रतिपादनो नाम तृतीयोऽध्यायः ॥
४
॥ चतुर्थोऽध्यायः ॥
॥ वैधसंन्यासयोगः ॥
वरेण्य उवाच –
संन्यस्तिश्चैव योगश्च कर्मणां वर्ण्यते त्वया ।
उभयोर्निश्चितं त्वेकं श्रेयो यद्वद मे प्रभो ॥१ ॥
श्रीगजानन उवाच –
क्रियायोगो वियोगश्चाप्युभौ मोक्षस्य साधने ।
तयोर्मध्ये क्रियायोगस्त्यागात्तस्य विशिष्यते ॥२ ॥
द्वन्द्वदुःखसहोऽद्वेष्टा यो न काङ्क्षति किंचन ।
मुच्यते बन्धनात्सद्यो नित्यं संन्यासवान्सुखम् ॥३ ॥
वदन्ति भिन्नफलकौ कर्मणस्त्यागसंग्रहौ ।
मूढाल्पज्ञास्तयोरेकं संयुञ्जीत विचक्षणः ॥४ ॥
यदेव प्राप्यते त्यागात्तदेव योगतः फलम् ।
संग्रहं कर्मणो योगं यो विन्दति स विन्दति ॥५ ॥
केवलं कर्मणां न्यासं संन्यासं न विदुर्बुधाः ।
कुर्वन्ननिच्छया कर्म योगी ब्रह्मैव जायते ॥६ ॥
निर्मलो यतचित्तात्मा जितखो योगतत्परः ।
आत्मानं सर्वभूतस्थं पश्यन्कुर्वन्न लिप्यते ॥७ ॥
तत्त्वविद्योगयुक्तात्मा करोमीति न मन्यते ।
एकादशानीन्द्रियाणि कुर्वन्ति कर्मसंख्यया ॥८ ॥
तत्सर्वमर्पयेद्ब्रह्मण्यपि कर्म करोति यः ।
न लिप्यते पुण्यपापैर्भानुर्जलगतो यथा ॥९ ॥
कायिकं वाचिकं बौद्धमैन्द्रियं मानसं तथा ।
त्यक्त्वाशां कर्म कुर्वन्ति योगज्ञाश्चित्तशुद्धये ॥१० ॥
योगहीनो नरः कर्म फलेहया करोत्यलम् ।
बध्यते कर्मबीजैः स ततो दुःखं समश्नुते ॥११ ॥
मनसा सकलं कर्म त्यक्त्वा योगी सुखं वसेत् ।
न कुर्वन्कारयन्वापि नन्दन्श्वभ्रे सुपत्तने ॥१२ ॥
न क्रिया न च कर्तृत्वं कस्य चित्सृज्यते मया ।
न क्रियाबीजसम्पर्कः शक्त्या तत्क्रियतेऽखिलम् ॥१३ ॥
कस्यचित्पुण्यपापानि न स्पृशामि विभुर्नृप ।
ज्ञानमूढा विमुह्यन्ते मोहेनावृतबुद्धयः ॥१४ ॥
विवेकेनात्मनोऽज्ञानं येषां नाशितमात्मना ।
तेषां विकाशमायाति ज्ञानमादित्यवत्परम् ॥१५ ॥
मन्निष्ठा मद्धियोऽत्यन्तं मच्चित्ता मयि तत्पराः ।
अपुनर्भवमायान्ति विज्ञानान्नाशितैनसः ॥१६ ॥
ज्ञानविज्ञानसंयुक्ते द्विजे गवि गजादिषु ।
समेक्षणा महात्मानः पण्डिताः श्वपचे शुनि ॥१७ ॥
वश्यः स्वर्गो जगत्तेषां जीवन्मुक्ताः समेक्षणाः ।
यतोऽदोषं ब्रह्म समं तस्मात्तैर्विषयीकृतम् ॥१८ ॥
प्रियाप्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न ।
ब्रह्माश्रिता असंमूढा ब्रह्मज्ञाः समबुद्धयः ॥१९ ॥
वरेण्य उवाच –
किं सुखं त्रिषु लोकेषु देवगन्धर्वयोनिषु ।
भगवन्कृपया तन्मे वद विद्याविशारद ॥२० ॥
श्रीगजानन उवाच –
आनन्दमश्नुतेऽसक्तः स्वात्मारामो निजात्मनि ।
अविनाशि सुखं तद्धि न सुखं विषयादिषु ॥२१ ॥
विषयोत्थानि सौख्यानि दुःखानां तानि हेतवः ।
उत्पत्तिनाशयुक्तानि तत्रासक्तो न तत्त्ववित् ॥२२ ॥
कारणे सति कामस्य क्रोधस्य सहते च यः ।
तौ जेतुं वर्ष्मविरहात्स सुखं चिरमश्नुते ॥२३ ॥
अन्तर्निष्ठोऽन्तःप्रकाशोऽन्तःसुखोऽन्तारतिर्लभेत् ।
असंदिग्धोऽक्षयं ब्रह्म सर्वभूतहितार्थकृत् ॥२४ ॥
जेतारः षड्रिपूणां ये शमिनो दमिनस्तथा ।
तेषां समन्ततो ब्रह्म स्वात्मज्ञानां विभात्यहो ॥२५ ॥
आसनेषु समासीनस्त्यक्त्वेमान्विषयान्बहिः ।
संस्तभ्य भृकुटीमास्ते प्राणायामपरायणः ॥२६ ॥
प्राणायामं तु संरोधं प्राणापानसमुद्भवम् ।
वदन्ति मुनयस्तं च त्रिधाभूतं विपश्चितः ॥२७ ॥
प्रमाणं भेदतो विद्धि लघुमध्यममुत्तमम् ।
दशभिर्द्व्यधिकैर्वर्णैः प्राणायामो लघुः स्मृतः ॥२८ ॥
चतुर्विंशत्यक्षरो यो मध्यमः स उदाहृतः ।
षट्त्रिंशल्लघुवर्णो य उत्तमः सोऽभिधीयते ॥२९ ॥
सिंहं शार्दूलकं वापि मत्तेभं मृदुतां यथा ।
नयन्ति प्राणिनस्तद्वत्प्राणापानौ सुसाधयेत् ॥३० ॥
पीडयन्ति मृगास्ते न लोकान्वश्यं गता नृप ।
दहत्येनस्तथा वायुः संस्तब्धो न च तत्तनुम् ॥३१ ॥
यथा यथा नरः कश्चित्सोपानावलिमाक्रमेत् ।
तथा तथा वशीकुर्यात्प्राणापानौ हि योगवित् ॥३२ ॥
पूरकं कुम्भकं चैव रेचकं च ततोऽभ्यसेत् ।
अतीतानागतज्ञानी ततः स्याज्जगतीतले ॥३३ ॥
प्राणायामैर्द्वादशभिरुत्तमैर्धारणा मता ।
योगस्तु धारणे द्वे स्याद्योगीशस्ते सदाभ्यसेत् ॥३४ ॥
एवं यः कुरुते राजंस्त्रिकालज्ञः स जायते ।
अनायासेन तस्य स्याद्वश्यं लोकत्रयं नृप ॥३५ ॥
ब्रह्मरूपं जगत्सर्वं पश्यति स्वान्तरात्मनि ।
एवं योगश्च संन्यासः समानफलदायिनौ ॥३६ ॥
जन्तूनां हितकर्तारं कर्मणां फलदायिनम् ।
मां ज्ञात्वा मुक्तिमाप्नोति त्रैलोक्यस्येश्वरं विभुम् ॥३७ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
वैधसंन्यासयोगो नाम चतुर्थोऽध्यायः ॥
५
॥ पञ्चमोऽध्यायः ॥
॥ योगावृत्तिप्रशंसनः ॥
श्रीगजानन उवाच –
श्रौतस्मार्तानि कर्माणि फलं नेच्छन्समाचरेत् ।
शस्तः स योगी राजेन्द्र अक्रियाद्योगमाश्रितात् ॥१ ॥
योगप्राप्त्यै महाबाहो हेतुः कर्मैव मे मतम् ।
सिद्धियोगस्य संसिद्ध्यै हेतू शमदमौ मतौ ॥२ ॥
इन्द्रियार्थांश्च संकल्प्य कुर्वन्स्वस्य रिपुर्भवेत् ।
एताननिच्छन्यः कुर्वन्सिद्धिं योगी स सिद्ध्यति ॥३ ॥
सुहृत्वे च रिपुत्वे च उद्धारे चैव बन्धने ।
आत्मनैवात्मनि ह्यात्मा नात्मा भवति कश्चन ॥४ ॥
मानेऽपमाने दुःखे च सुखेऽसुहृदि साधुषु ।
मित्रेऽमित्रेऽप्युदासीने द्वेष्ये लोष्ठे च काञ्चने ॥५ ॥
समो जितात्मा विज्ञानी ज्ञानीन्द्रियजयावहः ।
अभ्यसेत्सततं योगं यदा युक्ततमो हि सः ॥६ ॥
तप्तः श्रान्तो व्याकुलो वा क्षुधितो व्यग्रचित्तकः ।
कालेऽतिशीतेऽत्युष्णे वानिलाग्न्यम्बुसमाकुले ॥७ ॥
सध्वनावतिजीर्णे गोःस्थाने साग्नौ जलान्तिके ।
कूपकूले श्मशाने च नद्यां भित्तौ च मर्मरे ॥८ ॥
चैत्ये सवल्मिके देशे पिशाचादिसमावृते ।
नाभ्यसेद्योगविद्योगं योगध्यानपरायणः ॥९ ॥
स्मृतिलोपश्च मूकत्वं बाधिर्यं मन्दता ज्वरः ।
जडता जायते सद्यो दोषाज्ञानाद्धि योगिनः ॥१० ॥
एते दोषाः परित्याज्या योगाभ्यसनशालिना ।
अनादरे हि चैतेषां स्मृतिलोपादयो ध्रुवम् ॥११ ॥
नातिभुञ्जन्सदा योगी नाभुञ्जन्नातिनिद्रितः ।
नातिजाग्रत्सिद्धिमेति भूप योगं सदाभ्यसन् ॥१२ ॥
संकल्पजांस्त्यजेत्कामान्नियताहारजागरः ।
नियम्य खगणं बुद्ध्या विरमेत शनैः शनैः ॥१३ ॥
ततस्ततः कृषेदेतद्यत्र यत्रानुगच्छति ।
धृत्यात्मवशगं कुर्याच्चित्तं चञ्चलमादृतः ॥१४ ॥
एवं कुर्वन्सदा योगी परां निर्वृतिमृच्छति ।
विश्वस्मिन्निजमात्मानं विश्वं च स्वात्मनीक्षते ॥१५ ॥
योगेन यो मामुपैति तमुपैम्यहमादरात् ।
मोचयामि न मुञ्चामि तमहं मां स न त्यजेत् ॥१६ ॥
सुखे सुखेतरे द्वेषे क्षुधि तोषे समस्तृषि ।
आत्मसाम्येन भूतानि सर्वगं मां च वेत्ति यः ॥१७ ॥
जीवन्मुक्तः स योगीन्द्रः केवलं मयि संगतः ।
ब्रह्मादीनां च देवानां स वन्द्यः स्याज्जगत्रये ॥१८ ॥
वरेण्य उवाच –
द्विविधोऽपि हि योगोऽयमसंभाव्यो हि मे मतः ।
यतोऽन्तःकरणं दुष्टं चञ्चलं दुर्ग्रहं विभो ॥१९ ॥
श्रीगजानन उवाच –
यो निग्रहं दुर्ग्रहस्य मनसः सम्प्रकल्पयेत् ।
घटीयन्त्रसमादस्मान्मुक्तः संसृतिचक्रकात् ॥२० ॥
विषयैः क्रकचैरेतत्संसृष्टं चक्रकं दृढम् ।
जनश्छेत्तुं न शक्नोति कर्मकीलः सुसंवृतम् ॥२१ ॥
अतिदुःखं च वैराग्यं भोगाद्वैतृष्ण्यमेव च ।
गुरुप्रसादः सत्सङ्ग उपायास्तज्जये अमी ॥२२ ॥
अभ्यासाद्वा वशीकुर्यान्मनो योगस्य सिद्धये ।
वरेण्य दुर्लभो योगो विनास्य मनसो जयात् ॥२३ ॥
वरेण्य उवाच –
योगभ्रष्टस्य को लोकः का गतिः किं फलं भवेत् ।
विभो सर्वज्ञ मे छिन्धि संशयं बुद्धिचक्रभृत् ॥२४ ॥
श्रीगजानन उवाच –
दिव्यदेहधरो योगाद्भ्रष्टः स्वर्भोगमुत्तमम् ।
भुक्त्वा योगिकुले जन्म लभेच्छुद्धिमतां कुले ॥२५ ॥
पुनर्योगी भवत्येष संस्कारात्पूर्वकर्मजात् ।
न हि पुण्यकृतां कश्चिन्नरकं प्रतिपद्यते ॥२६ ॥
ज्ञाननिष्ठात्तपोनिष्ठात्कर्मनिष्ठान्नराधिप ।
श्रेष्ठो योगी श्रेष्ठतमो भक्तिमान्मयि तेषु यः ॥२७ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
योगावृत्तिप्रशंसनो नाम पञ्चमोऽध्यायः ॥
६
॥ षष्ठोऽध्यायः ॥
॥ बुद्धियोगः ॥
श्रीगजानन उवाच –
ईदृशं विद्धि मे तत्त्वं मद्गतेनान्तरात्मना ।
यज्ज्ञात्वा मामसन्दिग्धं वेत्सि मोक्ष्यसि सर्वगम् ॥१ ॥
तत्तेऽहं शृणु वक्ष्यामि लोकानां हितकाम्यया ।
अस्ति ज्ञेयं यतो नान्यन्मुक्तेश्च साधनं नृप ॥२ ॥
ज्ञेया मत्प्रकृतिः पूर्वं ततः स्यां ज्ञानगोचरः ।
ततो विज्ञानसम्पत्तिर्मयि ज्ञाते नृणां भवेत् ॥३ ॥
क्वनलौ खमहङ्कारः कं चित्तं धीसमीरणौ ।
रवीन्दू यागकृच्चैकादशधा प्रकृतिर्मम ॥४ ॥
अन्यां मत्प्रकृतिं वृद्धा मुनयः संगिरन्ति च ।
तथा त्रिविष्टपं व्याप्तं जीवत्वं गतयानया ॥५ ॥
आभ्यामुत्पाद्यते सर्वं चराचरमयं जगत् ।
संगाद्विश्वस्य संभूतिः परित्राणं लयोऽप्यहम् ॥६ ॥
तत्त्वमेतन्निबोद्धुं मे यतते कश्चिदेव हि ।
वर्णाश्रमवतां पुंसां पुरा चीर्णेन कर्मणा ॥७ ॥
साक्षात्करोति मां कश्चिद्यत्नवत्स्वपि तेषु च ।
मत्तोऽन्यन्नेक्षते किंचिन्मयि सर्वं च वीक्षते ॥८ ॥
क्षितौ सुगन्धरूपेण तेजोरूपेण चाग्निषु ।
प्रभारूपेण पूष्ण्यब्जे रसरूपेण चाप्सु च ॥९ ॥
धीतपोबलिनां चाहं धीस्तपोबलमेव च ।
त्रिविधेषु विकारेषु मदुत्पन्नेष्वहं स्थितः ॥१० ॥
न मां विन्दति पापीयान्मायामोहितचेतनः ।
त्रिविकारा मोहयति प्रकृतिर्मे जगत्त्रयम् ॥११ ॥
यो मे तत्त्वं विजानाति मोहं त्यजति सोऽखिलम् ।
अनेकैर्जन्मभिश्चैवं ज्ञात्वा मां मुच्यते ततः ॥१२ ॥
अन्ये नानाविधान्देवान्भजन्ते तान्व्रजन्ति ते ।
यथा यथा मतिं कृत्वा भजते मां जनोऽखिलः ॥१३ ॥
तथा तथास्य तं भावं पूरयाम्यहमेव तम् ।
अहं सर्वं विजानामि मां न कश्चिद्विबुध्यते ॥१४ ॥
अव्यक्तं व्यक्तिमापन्नं न विदुः काममोहिताः ।
नाहं प्रकाशतां यामि अज्ञानां पापकर्मणाम् ॥१५ ॥
यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयान्वितः ।
स यात्यपुनरावृत्तिं प्रसादान्मम भूभुज ॥१६ ॥
यं यं देवं स्मरन्भक्त्या त्यजति स्वं कलेवरम् ।
तत्तत्सालोक्यमायाति तत्तद्भक्त्या नराधिप ॥१७ ॥
अतश्चाहर्निशं भूप स्मर्तव्योऽनेकरूपवान् ।
सर्वेषामप्यहं गम्यः स्रोतसामर्णवो यथा ॥१८ ॥
ब्रह्मविष्णुशिवेन्द्राद्याँल्लोकान्प्राप्य पुनः पतेत् ।
यो मामुपैत्यसंदिग्धः पतनं तस्य न क्वचित् ॥१९ ॥
अनन्यशरणो यो मां भक्त्या भजति भूमिप ।
योगक्षेमौ च तस्याहं सर्वदा प्रतिपादये ॥२० ॥
द्विविधा गतिरुद्दिष्टा शुक्ला कृष्णा नृणां नृप ।
एकया परमं ब्रह्म परया याति संसृतिम् ॥२१ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
बुद्धियोगो नाम षष्ठोऽध्यायः ॥
७
॥ सप्तमोऽध्यायः ॥
॥ उपासना योगः ॥
वरेण्य उवाच –
का शुक्ला गतिरुद्दिष्टा का च कृष्णा गजानन ।
किं ब्रह्म संसृतिः का मे वक्तुमर्हस्यनुग्रहात् ॥१ ॥
श्रीगजानन उवाच –
अग्निर्ज्योतिरहः शुक्ला कर्मार्हमयनं गतिः ।
चान्द्रं ज्योतिस्तथा धूमो रात्रिश्च दक्षिणायनम् ॥२ ॥
कृष्णैते ब्रह्मसंसृत्योरवाप्तेः कारणं गती ।
दृश्यादृश्यमिदं सर्वं ब्रह्मैवेत्यवधारय ॥३ ॥
क्षरं पञ्चात्मकं विद्धि तदन्तरक्षरं स्मृतम् ।
उभाभ्यां यदतिक्रान्तं शुद्धं विद्धि सनातनम् ॥४ ॥
अनेकजन्मसंभूतिः संसृतिः परिकीर्तिता ।
संसृतिं प्राप्नुवन्त्येते ये तु मां गणयन्ति न ॥५ ॥
ये मां सम्यगुपासन्ते परं ब्रह्म प्रयान्ति ते ।
ध्यानाद्यैरुपचारैर्मां तथा पञ्चामृतादिभिः ॥६ ॥
स्नानवस्त्राद्यलंकारसुगन्धधूपदीपकैः ।
नैवेद्यैः फलतांबूलैर्दक्षिणाभिश्च योऽर्चयेत् ॥७ ॥
भक्त्यैकचेतसा चैव तस्येष्टं पूरयाम्यहम् ।
एवं प्रतिदिनं भक्त्या मद्भक्तो मां समर्चयेत् ॥८ ॥
अथवा मानसीं पूजां कुर्वीत स्थिरचेतसा ।
अथवा फलपत्राद्यैः पुष्पमूलजलादिभिः ॥९ ॥
पूजयेन्मां प्रयत्नेन तत्तदिष्टं फलं लभेत् ।
त्रिविधास्वपि पूजासु श्रेयसी मानसी मता ॥१० ॥
साप्युत्तमा मता पूजानिच्छया या कृता मम ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिश्च यः ॥११ ॥
एकां पूजां प्रकुर्वाणोऽप्यन्यो वा सिद्धिमृच्छति ।
मदन्यदेवं यो भक्त्या द्विषन्मामन्यदेवताम् ॥१२ ॥
सोऽपि मामेव यजते परं त्वविधितो नृप ।
यो ह्यन्यदेवतां मां च द्विषन्नन्यां समर्चयेत् ॥१३ ॥
याति कल्पसहस्रं स निरयान्दुःखभाक् सदा ।
भूतशुद्धिं विधायादौ प्राणानां स्थापनं ततः ॥१४ ॥
आकृष्य चेतसो वृत्तिं ततो न्यासं उपक्रमेत् ।
कृत्वान्तर्मातृकान्यासं बहिश्चाथ षडङ्गकम् ॥१५ ॥
न्यासं च मूलमन्त्रस्य ततो ध्यात्वा जपेन्मनुम् ।
स्थिरचित्तो जपेन्मन्त्रं यथा गुरुमुखागतम् ॥१६ ॥
जपं निवेद्य देवाय स्तुत्वा स्तोत्रैरनेकधा ।
एवं मां य उपासीत स लभेन्मोक्षमव्ययम् ॥१७ ॥
य उपासनया हीनो धिङ्नरो व्यर्थजन्मभाक् ।
यज्ञोऽहमौषधं मन्रोऽग्निराज्यं च हविर्हुतम् ॥१८ ॥
ध्यानं ध्येयं स्तुतिं स्तोत्रं नतिर्भक्तिरुपासना ।
त्रयीज्ञेयं पवित्रं च पितामहपितामहः ॥१९ ॥
ॐकारः पावनः साक्षी प्रभुर्मित्रं गतिर्लयः ।
उत्पत्तिः पोषको बीजं शरणं वास एव च ॥२० ॥
असन्मृत्युः सदमृतमात्मा ब्रह्माहमेव च ।
दानं होमस्तपो भक्तिर्जपः स्वाध्याय एव च ॥२१ ॥
यद्यत्करोति तत्सर्वं स मे मयि निवेदयेत् ।
योषितोऽथ दुराचाराः पापास्त्रैवर्णिकास्तथा ॥२२ ॥
मदाश्रया विमुच्यन्ते किं मद्भक्त्या द्विजादयः ।
न विनश्यति मद्भक्तो ज्ञात्वेमा मद्विभूतयः ॥२३ ॥
प्रभवं मे विभूतिश्च न देवा ऋषयो विदुः ।
नानाविभूतिभिरहं व्याप्य विश्वं प्रतिष्ठितः ॥२४ ॥
यद्यच्छ्रेष्ठतमं लोके स विभूतिर्निबोध मे ॥२५ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
उपासनायोगो नाम सप्तमोऽध्यायः ॥
८
॥ अष्टमोऽध्यायः ॥
॥ विश्वरूपदर्शन ॥
वरेण्य उवाच –
भगवन्नारदो मह्यं तव नाना विभूतयः ।
उक्तवांस्ता अहं वेद न सर्वाः सोऽपि वेत्ति ताः ॥१ ॥
त्वमेव तत्त्वतः सर्वा वेत्सि ता द्विरदानन ।
निजं रूपमिदानीं मे व्यापकं चारु दर्शय ॥२ ॥
श्रीगजानन उवाच –
एकस्मिन्मयि पश्य त्वं विश्वमेतच्चराचरम् ।
नानाश्चर्याणि दिव्यानि पुराऽदृष्टानि केनचित् ॥३ ॥
ज्ञानचक्षुरहं तेऽद्य सृजामि स्वप्रभावतः ।
चर्मचक्षुः कथं पश्येन्मां विभुं ह्यजमव्ययम् ॥४ ॥
क उवाच –
ततो राजा वरेण्यः स दिव्यचक्षुरवैक्षत ।
ईशितुः परमं रूपं गजास्यस्य महाद्भुतम् ॥५ ॥
असंख्यवक्त्रं ललितमसंख्यांघ्रिकरं महत् ।
अनुलिप्तं सुगन्धेन दिव्यभूषाम्बरस्रजम् ॥६ ॥
असंख्यनयनं कोटिसूर्यरश्मिधृतायुधम् ।
तद्वर्ष्मणि त्रयो लोका दृष्टास्तेन पृथग्विधाः ॥७ ॥
दृष्ट्वैश्वरं परं रूपं प्रणम्य स नृपोऽब्रवीत् ।
वरेण्य उवाच –
वीक्षेऽहं तव देहेऽस्मिन्देवानृषिगणान्पितॄन् ॥८ ॥
पातालानां समुद्राणां द्वीपानां चैव भूभृताम् ।
महर्षीणां सप्तकं च नानार्थैः संकुलं विभो ॥९ ॥
भुवोऽन्तरिक्षस्वर्गांश्च मनुष्योरगराक्षसान् ।
ब्रह्माविष्णुमहेशेन्द्रान्देवान्जन्तूननेकधा ॥१० ॥
अनाद्यनन्तं लोकादिमनन्तभुजशीर्षकम् ।
प्रदीप्तानलसंकाशमप्रमेयं पुरातनम् ॥११ ॥
किरीटकुण्डलधरं दुर्निरीक्ष्यं मुदावहम् ।
एतादृशं च वीक्षे त्वां विशालवक्षसं प्रभुम् ॥१२ ॥
सुरविद्याधरैर्यक्षैः किन्नरैर्मुनिमानुषैः ।
नृत्यद्भिरप्सरोभिश्च गन्धर्वैर्गानतत्परैः ॥१३ ॥
वसुरुद्रादित्यगणैः सिद्धैः साध्यैर्मुदा युतैः ।
सेव्यमानं महाभक्त्या वीक्ष्यमाणं सुविस्मितैः ॥१४ ॥
वेत्तारमक्षरं वेद्यं धर्मगोप्तारमीश्वरम् ।
पातालानि दिशः स्वर्गान्भुवं व्याप्याऽखिलं स्थितम् ॥१५ ॥
भीता लोकास्तथा चाहमेवं त्वां वीक्ष्य रूपिणम् ।
नानादंष्ट्राकरालं च नानाविद्याविशारदम् ॥१६ ॥
प्रलयानलदीप्तास्यं जटिलं च नभःस्पृशम् ।
दृष्ट्वा गणेश ते रूपमहं भ्रान्त इवाभवम् ॥१७ ॥
देवा मनुष्यनागाद्याः खलास्त्वदुदरेशयाः ।
नानायोनिभुजश्चान्ते त्वय्येव प्रविशन्ति च ॥१८ ॥
अब्धेरुत्पद्यमानास्ते यथाजीमूतबिन्दवः ।
त्वमिन्द्रोऽग्निर्यमश्चैव निरृतिर्वरुणो मरुत् ॥१९ ॥
गुह्यकेशस्तथेशानः सोमः सूर्योऽखिलं जगत् ।
नमामि त्वामतः स्वामिन्प्रसादं कुरु मेऽधुना ॥२० ॥
दर्शयस्व निजं रूपं सौम्यं यत्पूर्वमीक्षितम् ।
को वेद लीलास्ते भूमन् क्रियमाणा निजेच्छया ॥२१ ॥
अनुग्रहान्मया दृष्टमैश्वरं रूपमीदृशम् ।
ज्ञानचक्षुर्यतो दत्तं प्रसन्नेन त्वया मम ॥२२ ॥
श्रीगजानन उवाच –
नेदं रूपं महाबाहो मम पश्यन्त्ययोगिनः ।
सनकाद्या नारदाद्याः पश्यन्ति मदनुग्रहात् ॥ २३ ॥
चतुर्वेदार्थतत्त्वज्ञाः सर्वशास्त्रविशारदाः ।
यज्ञदानतपोनिष्ठा न मे रूपं विदन्ति ते ॥२४ ॥
शक्योऽहं वीक्षितुं ज्ञातुं प्रवेष्टुं भक्तिभावतः ।
त्यज भीतिं च मोहं च पश्य मां सौम्यरूपिणम् ॥२५ ॥
मद्भक्तो मत्परः सर्वसंगहीनो मदर्थकृत् ।
निष्क्रोधः सर्वभूतेषु समो मामेति भूभुज ॥२६ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
विश्वरूपदर्शनो नामाष्टमोऽध्यायः ॥
९
॥ नवमोऽध्यायः ॥
॥ क्षेत्रज्ञातृज्ञेयविवेकयोगः ॥
वरेण्य उवाच –
अनन्यभावस्त्वां सम्यङ्मूर्तिमन्तमुपासते ।
योऽक्षरं परमव्यक्तं तयोः कस्ते मतोऽधिकः ॥१ ॥
असि त्वं सर्ववित्साक्षी भूतभावन ईश्वरः ।
अतस्त्वां परिपृच्छामि वद मे कृपया विभो ॥२ ॥
श्रीगजानन उवाच –
यो मां मूर्तिधरं भक्त्या मद्भक्तः परिसेवते ।
स मे मान्योऽनन्यभक्तिर्नियुज्य हृदयं मयि ॥३ ॥
खगणं स्ववशं कृत्वाखिलभूतहितार्थकृत् ।
ध्येयमक्षरमव्यक्तं सर्वगं कूटगं स्थिरम् ॥४ ॥
सोऽपि मामेत्यनिर्देश्यं मत्परो य उपासते ।
संसारसागरादस्मादुद्धरामि तमप्यहम् ॥५ ॥
अव्यक्तोपासनाद्दुःखमधिकं तेन लभ्यते ।
व्यक्तस्योपासनात्साध्यं तदेवाव्यक्तभक्तितः ॥६ ॥
भक्तिश्चैवादरश्चात्र कारणं परमं मतम् ।
सर्वेषां विदुषां श्रेष्ठो ह्यकिंचिज्ज्ञोऽपि भक्तिमान् ॥७ ॥
भजन्भक्त्या विहीनो यः स चाण्डालोऽभिधीयते ।
चाण्डालोऽपि भजन्भक्त्या ब्राह्मणेभ्योऽधिको मतः ॥८ ॥
शुकाद्याः सनकाद्याश्च पुरा मुक्ता हि भक्तितः ।
भक्त्यैव मामनुप्राप्ता नारदाद्याश्चिरायुषः ॥९ ॥
अतो भक्त्या मयि मनो विधेहि बुद्धिमेव च ।
भक्त्या यजस्व मां राजंस्ततो मामेव यास्यसि ॥१० ॥
असमर्थोऽर्पितुं स्वान्तं एवं मयि नराधिप ।
अभ्यासेन चे योगेन ततो गन्तुं यतस्व माम् ॥११ ॥
तत्रापि त्वमशक्तश्चेत्कुरु कर्म मदर्पणम् ।
मामनुग्रहतश्चैवं परां निर्वृतिमेष्यसि ॥१२ ॥
अथैतदप्यनुष्ठातुं न शक्तोऽसि तदा कुरु ।
प्रयत्नतः फलत्यागं त्रिविधानां हि कर्मणाम् ॥१३ ॥
श्रेयसी बुद्धिरावृत्तेस्ततो ध्यानं परं मतम् ।
ततोऽखिलपरित्यागस्ततः शान्तिर्गरीयसी ॥१४ ॥
निरहंममताबुद्धिरद्वेषः शरणः समः ।
लाभालाभे सुखे दुःखे मानामाने स मे प्रियः ॥१५ ॥
यं वीक्ष्य न भयं याति जनस्तस्मान्न च स्वयम् ।
उद्वेगभीः कोपमुद्भीरहितो यः स मे प्रियः ॥१६ ॥
रिपौ मित्रेऽथ गर्हायां स्तुतौ शोके समः समुत् ।
मौनी निश्चलधीभक्तिरसंगः स च मे प्रियः ॥१७ ॥
संशीलयति यश्चैनमुपदेशं मया कृतम् ।
स वन्द्यः सर्वलोकेषु मुक्तात्मा मे प्रियः सदा ॥१८ ॥
अनिष्टाप्तौ च न द्वेष्टीष्टप्राप्तौ च न तुष्यति ।
क्षेत्रतज्ज्ञौ च यो वेत्ति समे प्रियतमो भवेत् ॥१९ ॥
वरेण्य उवाच –
किं क्षेत्रं कश्च तद्वेत्ति किं तज्ज्ञानं गजानन ।
एतदाचक्ष्व मह्यं त्वं पृच्छते करुणाम्बुधे ॥२० ॥
श्रीगजानन उवाच –
पञ्च भूतानि तन्मात्राः पञ्च कर्मेन्द्रियाणि च ।
अहंकारो मनो बुद्धिः पञ्च ज्ञानेन्द्रियाणि च ॥२१ ॥
इच्छाव्यक्तं धृतिद्वेषौ सुखदुःखे तथैव च ।
चेतनासहितश्चायं समूहः क्षेत्रमुच्यते ॥२२ ॥
तज्ज्ञं त्वं विद्धि मां भूप सर्वान्तर्यामिणं विभुम् ।
अयं समूहोऽहं चापि यज्ज्ञानविषयौ नृप ॥२३ ॥
आर्जवं गुरुशुश्रूषा विरक्तिश्चेन्द्रियार्थतः ।
शौचं क्षान्तिरदम्भश्च जन्मादिदोषवीक्षणम् ॥२४ ॥
समदृष्टिर्दृढा भक्तिरेकान्तित्वं शमो दमः ।
एतैर्यच्च युतं ज्ञानं तज्ज्ञानं विद्धि बाहुज ॥२५ ॥
तज्ज्ञानविषयं राजन्ब्रवीमि त्वं शृणुष्व मे ।
यज्ज्ञात्वैति च निर्वाणं मुक्त्वा संसृतिसागरम् ॥२६ ॥
यदनादीन्द्रियैर्हीनं गुणभुग्गुणवर्जितम् ।
अव्यक्तं सदसद्भिन्नमिन्द्रियार्थावभासकम् ॥ २७ ॥
विश्वभृच्चाखिलव्यापि त्वेकं नानेव भासते ।
बाह्याभ्यन्तरतः पूर्णमसंगं तमसः परम् ॥२८ ॥
दुर्ज्ञेयं चातिसूक्ष्मत्वाद्दीप्तानामपि भासकम् ।
ज्ञेयमेतादृशं विद्धि ज्ञानगम्यं पुरातनम् ॥२९ ॥
एतदेव परं ब्रह्म ज्ञेयमात्मा परोऽव्ययः ।
गुणान्प्रकृतिजान्भुङ्क्ते पुरुषः प्रकृतेः परः ॥३० ॥
गुणैस्त्रिभिरियं देहे बध्नाति पुरुषं दृढम् ।
यदा प्रकाशः शान्तिश्च वृद्धे सत्त्वं तदाधिकम् ॥३१ ॥
लोभोऽशमः स्पृहारम्भः कर्मणां रजसो गुणः ।
मोहोऽप्रवृत्तिश्चाज्ञानं प्रमादस्तमसो गुणः ॥३२ ॥
सत्त्वाधिकः सुखं ज्ञानं कर्मसंगं रजोऽधिकः ।
तमोऽधिकश्च लभते निद्रालस्यं सुखेतरत् ॥३३ ॥
एषु त्रिषु प्रवृद्धेषु मुक्तिसंसृतिदुर्गतीः ।
प्रयान्ति मानवा राजंस्तस्मात्सत्त्वयुतो भव ॥३४ ॥
ततश्च सर्वभावेन भज त्वं मां नरेश्वर ।
भक्त्या चाव्यभिचारिण्या सर्वत्रैव च संस्थितम् ॥३५ ॥
अग्नौ सूर्ये तथा सोमे यच्च तारासु संस्थितम् ।
विदुषि ब्राह्मणे तेजो विद्धि तन्मामकं नृप ॥३६ ॥
अहमेवाखिलं विश्वं सृजामि विसृजामि च ।
औषधीस्तेजसा सर्वा विश्वं चाप्याययाम्यहम् ॥३७ ॥
सर्वेन्द्रियाण्यधिष्ठाय जाठरं च धनंजयम् ।
भुनज्मि चाखिलान्भोगान्पुण्यपापविवर्जितः ॥३८ ॥
अहं विष्णुश्च रुद्रश्च ब्रह्मा गौरी गणेश्वरः ।
इन्द्राद्या लोकपालाश्च ममैवांशसमुद्भवाः ॥३९ ॥
येन येन हि रूपेण जनो मां पर्युपासते ।
तथा तथा दर्शयामि तस्मै रूपं सुभक्तितः ॥४० ॥
इति क्षेत्रं तथा ज्ञाता ज्ञानं ज्ञेयं मयेरितम् ।
अखिलं भूपते सम्यगुपपन्नाय पृच्छते ॥४१ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
क्षेत्रज्ञातृज्ञेयविवेकयोगो नाम नवमोऽध्यायः ॥
१०
॥ दशमोऽध्यायः ॥
॥ उपदेशयोगः ॥
श्रीगजानन उवाच –
दैव्यासुरी राक्षसी च प्रकृतिस्त्रिविधा नृणाम् ।
तासां फलानि चिन्हानि संक्षेपात्तेऽधुना ब्रुवे ॥१ ॥
आद्या संसाधयेन्मुक्तिं द्वे परे बन्धनं नृप ।
चिन्हं ब्रवीमि चाद्यायास्तन्मे निगदतः शृणु ॥२ ॥
अपैशून्यं दयाऽक्रोधश्चापल्यं धृतिरार्जवम् ।
तेजोऽभयमहिंसा च क्षमा शौचममानिता ॥३ ॥
इत्यादि चिन्हमाद्याया आसुर्याः शृणु सांप्रतम् ।
अतिवादोऽभिमानश्च दर्पो ज्ञानं सकोपता ॥४ ॥
आसुर्या एवमाद्यानि चिन्हानि प्रकृतेर्नृप ।
निष्ठुरत्वं मदो मोहोऽहंकारो गर्व एव च ॥५ ॥
द्वेषो हिंसाऽदया क्रोध औद्धत्यं दुर्विनीतता ।
आभिचारिककर्तृत्वं क्रूरकर्मरतिस्तथा ॥६ ॥
अविश्वासः सतां वाक्येऽशुचित्वं कर्महीनता ।
निन्दकत्वं च वेदानां भक्तानामसुरद्विषाम् ॥७ ॥
मुनिश्रोत्रियविप्राणां तथा स्मृतिपुराणयोः ।
पाखण्डवाक्ये विश्वासः संगतिर्मलिनान्मनाम् ॥८ ॥
सदम्भकर्मकर्तृत्वं स्पृहा च परवस्तुषु ।
अनेककामनावत्त्वं सर्वदाऽनृतभाषणम् ॥९ ॥
परोत्कर्षासहिष्णुत्वं परकृत्यपराहतिः ।
इत्याद्या बहवश्चान्ये राक्षस्याः प्रकृतेर्गुणाः ॥१० ॥
पृथिव्यां स्वर्गलोके च परिवृत्य वसन्ति ते ।
मद्भक्तिरहिता लोका राक्षसीं प्रकृतिं श्रिताः ॥११ ॥
तामसीं ये श्रिता राजन्यान्ति ते रौरवं ध्रुवम् ।
अनिर्वाच्यं च ते दुःखं भुञ्जते तत्र संस्थिताः ॥१२ ।
दैवान्निःसृत्य नरकाज्जायन्ते भुवि कुब्जकाः ।
जात्यन्धाः पङ्गवो दीना हीनजातिषु ते नृप ॥१३ ॥
पुनः पापसमाचारा मय्यभक्ताः पतन्ति ते ।
उत्पतन्ति हि मद्भक्ता यां कांचिद्योनिमाश्रिताः ॥१४ ॥
लभन्ते स्वर्गतिं यज्ञैरन्यैर्धर्मश्च भूमिप ।
सुलभास्ताः सकामानां मयि भक्तिः सुदुर्लभा ॥१५ ॥
विमूढा मोहजालेन बद्धाः स्वेन च कर्मणा ।
अहं हन्ता अहं कर्ता अहं भोक्तेति वादिनः ॥१६ ॥
अहमेवेश्वरः शास्ता अहं वेत्ता अहं सुखी ।
एतादृशी मतिर्नॄणामधः पातयतीह तान् ॥१७ ॥
तस्मादेतत्समुत्सृज्य दैवीं प्रकृतिमाश्रय ।
भक्तिं कुरु मदीयां त्वमनिशं दृढचेतसा ॥१८ ॥
सापि भक्तिस्त्रिधा राजन्सात्त्विकी राजसीतरा ।
यद्देवान्भजते भक्त्या सात्त्विकी सा मता शुभा ॥१९ ॥
राजसी सा तु विज्ञेया भक्तिर्जन्ममृतिप्रदा ।
यद्यक्षांश्चैव रक्षांसि यजन्ते सर्वभावतः ॥२० ॥
वेदेनाविहितं क्रूरं साहंकारं सदम्भकम् ।
भजन्ते प्रेतभूतादीन्कर्म कुर्वन्ति कामुकम् ॥२१ ॥
शोषयन्तो निजं देहमन्तःस्थं मां दृढाग्रहाः ।
तामस्येतादृशी भक्तिर्नृणां सा निरयप्रदा ॥२२ ॥
कामो लोभस्तथा क्रोधो दम्भश्चत्वार इत्यमी ।
महाद्वाराणि वीचीनां तस्मादेतांस्तु वर्जयेत् ॥२३ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
उपदेशयोगो नाम दशमोऽध्यायः ॥
११
॥ एकादशोऽध्यायः ॥
॥ त्रिविधवस्तुविवेकनिरूपणम् ॥
श्रीगजानन उवाच –
तपोऽपि त्रिविधं राजन्कायिकादिप्रभेदतः ।
ऋजुतार्जवशौचानि ब्रह्मचर्यमहिंसनम् ॥१ ॥
गुरुविज्ञद्विजातीनां पूजनं चासुरद्विषाम् ।
स्वधर्मपालनं नित्यं कायिकं तप ईदृशम् ॥२ ॥
मर्मास्पृक्च प्रियं वाक्यमनुद्वेगं हितं ऋतम् ।
अधीतिर्वेदशास्त्राणां वाचिकं तप ईदृशम् ॥३ ॥
अन्तःप्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः ।
निर्मलाशयता नित्यं मानसं तप ईदृशम् ॥४ ॥
अकामतः श्रद्धया च यत्तपः सात्त्विकं च तत् ।
ऋध्यै सत्कारपूजार्थं सदम्भं राजसं तपः ॥५ ॥
तदस्थिरं जन्ममृती प्रयच्छति न संशयः ।
परात्मपीडकं यच्च तपस्तामसमुच्यते ॥६ ॥
विधिवाक्यप्रमाणार्थं सत्पात्रे देशकालतः ।
श्रद्धया दीयमानं यद्दानं तत्सात्त्विकं मतम् ॥७ ॥
उपकारं फलं वापि काङ्क्षद्भिर्दीयते नरैः ।
क्लेशतो दीयमानं वा भक्त्या राजसमुच्यते ॥८ ॥
अकालदेशतोऽपात्रेऽवज्ञया दीयते तु यत् ।
असत्काराच्च यद्दत्तं तद्दानं तामसं स्मृतम् ॥९ ॥
ज्ञानं च त्रिविधं राजन् शृणुष्व स्थिरचेतसा ।
त्रिधा कर्म च कर्तारं ब्रवीमि ते प्रसंगतः ॥१० ॥
नानाविधेषु भूतेषु मामेकं वीक्षते तु यः ।
नाशवत्सु च नित्यं मां तज्ज्ञानं सात्विकं नृप ॥११ ॥
तेषु वेत्ति पृथग्भूतं विविधं भावमाश्रितः ।
मामव्ययं च तज्ज्ञानं राजसं परिकीर्तितम् ॥१२ ॥
हेतुहीनमसत्यं च देहात्मविषयं च यत् ।
असदल्पार्थविषयं तामसं ज्ञानमुच्यते ॥१३ ॥
भेदतस्त्रिविधं कर्म विद्धि राजन्मयेरितम् ।
कामनाद्वेषदम्भैर्यद्रहितं नित्यकर्म यत् ॥१४ ॥
कृतं विना फलेच्छां यत्कर्म सात्त्विकमुच्यते ।
यद्बहुक्लेशतः कर्म कृतं यच्च फलेच्छया ॥१५ ॥
क्रियमाणं नृभिर्दम्भात्कर्म राजसमुच्यते ।
अनपेक्ष्य स्वशक्तिं यदर्थक्षयकरं च यत् ॥१६ ॥
अज्ञानात्क्रियमाणं यत्कर्म तामसमीरितम् ।
कर्तारं त्रिविधं विद्धि कथ्यमानं मया नृप ॥१७ ॥
धैर्योत्साही समोऽसिद्धौ सिद्धौ चाविक्रियस्तु यः ।
अहंकारविमुक्तो यः स कर्ता सात्त्विको नृप ॥१८ ॥
कुर्वन्हर्षं च शोकं च हिंसां फलस्पृहां च यः ।
अशुचिर्लुब्धको यश्च राजसोऽसौ निगद्यते ॥१९ ॥
प्रमादाज्ञानसहितः परोच्छेदपरः शठः ।
अलसस्तर्कवान्यस्तु कर्तासौ तामसो मतः ॥२० ॥
सुखं च त्रिविधं राजन्दुःखं च क्रमतः शृणु ।
सात्त्विकं राजसं चैव तामसं च मयोच्यते ॥२१ ॥
विषवद्भासते पूर्वं दुःखस्यान्तकरं च यत् ।
इष्यमानं तथाऽऽवृत्त्या यदन्तेऽमृतवद्भवेत् ॥२२ ॥
प्रसादात्स्वस्य बुद्धेर्यत्सात्त्विकं सुखमीरितम् ।
विषयाणां तु यो भोगो भासतेऽमृतवत्पुरा ॥२३ ॥
हालाहलमिवान्ते यद्राजसं सुखमीरितम् ।
तन्द्रिप्रमादसंभूतमालस्यप्रभवं च यत् ॥२४ ॥
सर्वदा मोहकं स्वस्य सुखं तामसमीदृशम् ।
न तदस्ति यदेतैर्यन्मुक्तं स्यात्त्रिविधैर्गुणैः ॥२५ ॥
राजन्ब्रह्मापि त्रिविधमोंतत्सदिति भेदतः ।
त्रिलोकेषु त्रिधा भूतमखिलं भूप वर्तते ॥२६ ॥
ब्रह्मक्षत्रियविट्शूद्राः स्वभावाद्भिन्नकर्मिणः ।
तानि तेषां तु कर्माणि संक्षेपात्तेऽधुना वदे ॥२७ ॥
अन्तर्बाह्येन्द्रियाणां च वश्यत्वमार्जवं क्षमा ।
नानातपांसि शौचं च द्विविधं ज्ञानमात्मनः ॥२८ ॥
वेदशास्त्रपुराणानां स्मृतीनां ज्ञानमेव च ।
अनुष्ठानं तदर्थानां कर्म ब्राह्ममुदाहृतम् ॥२९ ॥
दार्ढ्यं शौर्यं च दाक्ष्यं च युद्धे पृष्ठाप्रदर्शनम् ।
शरण्यपालनं दानं धृतिस्तेजः स्वभावजम् ॥३० ॥
प्रभुता मन औनत्यं सुनीतिर्लोकपालनम् ।
पञ्चकर्माधिकारित्वं क्षात्रं कर्म समीरितम् ॥३१ ॥
नानावस्तुक्रयो भूमेः कर्षणं रक्षणं गवाम् ।
त्रिधा कर्माधिकारित्वं वैश्यकर्म समीरितम् ॥३२ ॥
दानं द्विजानां शुश्रूषा सर्वदा शिवसेवनम् ।
एतादृशं नरव्याघ्र कर्म शौद्रमुदीरितम् ॥३३ ॥
स्वस्वकर्मरता एते मय्यर्प्याखिलकारिणः ।
मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप ॥ ३४॥
इति ते कथितो राजन्प्रसादाद्योगौत्तमः ।
सांगोपांगः सविस्तारोऽनादिसिद्धो मया प्रिय ॥ ३५ ॥
युङ्क्ष्व योगं मयाख्यातं नाख्यातं कस्यचिन्नृप ।
गोपयैनं ततः सिद्धिं परां यास्यस्यनुत्तमाम् ॥३६ ॥
व्यास उवाच –
इति तस्य वचः श्रुत्वा प्रसन्नस्य महात्मनः ।
गणेशस्य वरेण्यः स चकार च यथोदितम् ॥३७ ॥
त्यक्त्वा राज्यं कुटुम्बं च कान्तारं प्रययौ रयात् ।
उपदिष्टं यथा योगमास्थाय मुक्तिमाप्नवान् ॥३८ ॥
इमं गोप्यतमं योगं शृणोति श्रद्धया तु यः ।
सोऽपि कैवल्यमाप्नोति यथा योगी तथैव सः ॥३९ ॥
य इमं श्रावयेद्योगं कृत्वा स्वार्थं सुबुद्धिमान् ।
यथा योगी तथा सोऽपि परं निर्वाणमृच्छति ॥४० ॥
यो गीतां सम्यगभ्यस्य ज्ञात्वा चार्थं गुरोर्मुखात् ।
कृत्वा पूजां गणेशस्य प्रत्यहं पठते तु यः ॥४१ ॥
एककालं द्विकालं वा त्रिकालं वापि यः पठेत् ।
ब्रह्मीभूतस्य तस्यापि दर्शनान्मुच्यते नरः ॥४२ ॥
न यज्ञैर्न व्रतैर्दानैर्नाग्निहोत्रैर्महाधनैः ।
न वेदैः सम्यगभ्यस्तैः सहाङ्गकैः ॥४३ ॥
पुराणश्रवणैर्नैव न शास्त्रैः साधुचिन्तितैः ।
प्राप्यते ब्रह्म परममनया प्राप्यते नरैः ॥४४ ॥
ब्रह्मघ्नो मद्यपः स्तेयी गुरुतल्पगमोऽपि यः ।
चतुर्णां यस्तु संसर्गी महापातककारिणाम् ॥४५ ॥
स्त्रीहिंसागोवधादीनां कर्तारो ये च पापिनः ।
ते सर्वे प्रतिमुच्यन्ते गीतामेतां पठन्ति चेत् ॥४६ ॥
यः पठेत्प्रयतो नित्यं स गणेशो न संशयः ।
चतुर्थ्यां यः पठेद्भक्त्या सोऽपि मोक्षाय कल्पते ॥४७ ॥
तत्तत्क्षेत्रं समासाद्य स्नात्वाभ्यर्च्य गजाननम् ।
सकृद्गीतां पठन्भक्त्या ब्रह्मभूयाय कल्पते ॥४८ ॥
भाद्रे मासे सिते पक्षे चतुर्थ्यां भक्तिमान्नरः ।
कृत्वा महीमयीं मूर्तिं गणेशस्य चतुर्भुजाम् ॥४९ ॥
सवाहनां सायुधां च समभ्यर्च्य यथाविधि ।
यः पठेत्सप्तकृत्वस्तु गीतामेतां प्रयत्नतः ॥५० ॥
ददाति तस्य सन्तुष्टो गणेशो भोगमुत्तमम् ।
पुत्रान्पौत्रान्धनं धान्यं पशुरत्नादिसम्पदः ॥५१ ॥
विद्यार्थिनो भवेद्विद्या सुखार्थी सुखमाप्नुयात् ।
कामानन्याँल्लभेत्कामी मुक्तिमन्ते प्रयान्ति ते ॥५२ ॥
इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु
योगामृतार्थशास्त्रे
श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे
त्रिविधवस्तुविवेकनिरूपणं नाम एकादशोऽध्यायः ॥
॥ इति गणेश गीता समाप्ता ॥
– Chant Stotra in Other Languages –
Ganesha Gita in Sanskrit – English – Bengali – Gujarati – Kannada – Malayalam – Odia – Telugu – Tamil