॥ Sri Ganesha Pancharatna Stotra Lyrics ॥
मुदाकरात्त मॊदकं सदा विमुक्ति साधकम् ।
कलाधरावतंसकं विलासिलॊक रक्षकम् ।
अनायकैक नायकं विनाशितॆभ दैत्यकम् ।
नताशुभाशु नाशकं नमामि तं विनायकम् ॥ १ ॥
नतॆतराति भीकरं नवॊदितार्क भास्वरम् ।
नमत्सुरारि निर्जरं नताधिकापदुद्धरम् ।
सुरॆश्वरं निधीश्वरं गजॆश्वरं गणॆश्वरम् ।
महॆश्वरं तमाश्रये परात्परं निरंतरम् ॥ २ ॥
समस्त लॊक शंकरं निरस्त दैत्य कुंजरम् ।
दरॆतरॊदरं वरं वरॆभ वक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करम् ।
मनस्करं नमस्कृतां नमस्करॊमि भास्वरम् ॥ ३ ॥
अकिंचनार्ति मार्जनं चिरंतनॊक्ति भाजनम् ।
पुरारि पूर्व नंदनं सुरारि गर्व चर्वणम् ।
प्रपंचनाश भीषणं धनंजयादि भूषणम् ।
कपॊल दानवारणं भजॆ पुराण वारणम् ॥ ४ ॥
नितांतकांत दंतकांतिमंतकांतकात्मजम् ।
अचिंत्य रूपमंतहीन मंतराय कृंतनम् ।
हृदंतरे निरंतरं वसंतमॆव यॊगिनाम् ।
तमॆकदंतमॆव तं विचिंतयामि संततम् ॥ ५ ॥
महागणॆश पंचरत्नमादरॆण यॊन्वहम् ।
प्रजल्पति प्रभातके हृदि स्मरन् गणॆश्वरम् ।
अरॊगतामदॊषतां सुसाहितीं सुपुत्रताम् ।
समाहितायु रष्टभूतिमभ्युपैति सॊचिरात् ॥