Sri Lakshmi Ashtaka Stotram In Sanskrit

॥ Sri Lakshmi Stotram Sanskrit Lyrics ॥

॥ श्री लक्ष्म्यष्टक स्तोत्रम् ॥
महालक्ष्मि भद्रे परव्योमवासि-
-न्यनन्ते सुषुम्नाह्वये सूरिजुष्टे ।
जये सूरितुष्टे शरण्ये सुकीर्ते
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ १ ॥

सति स्वस्ति ते देवि गायत्रि गौरि
ध्रुवे कामधेनो सुराधीश वन्द्ये ।
सुनीते सुपूर्णेन्दुशीते कुमारि
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ २ ॥

सदा सिद्धगन्धर्वयक्षेशविद्या-
-धरैः स्तूयमाने रमे रामरामे ।
प्रशस्ते समस्तामरी सेव्यमाने
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ ३ ॥

दुरितौघनिवारणे प्रवीणे
कमले भासुरभागधेय लभ्ये ।
प्रणवप्रतिपाद्यवस्तुरूपे
स्फुरणाख्ये हरिवल्लभे नमस्ते ॥ ४ ॥

सिद्धे साध्ये मन्त्रमूर्ते वरेण्ये
गुप्ते दृप्ते नित्य मुद्गीथविद्ये ।
व्यक्ते विद्वद्भाविते भावनाख्ये
भद्रे भद्रं देहि मे सम्श्रिताय ॥ ५ ॥

सर्वाधारे सद्गतेऽध्यात्मविद्ये
भाविन्यार्ते निर्वृतेऽध्यात्मवल्लि ।
विश्वाध्यक्षे मङ्गलावासभूमे
भद्रे भद्रं देहि मे सम्श्रिताय ॥ ६ ॥

अमोघसेवे निजसद्गुणौघे
विदीपितानुश्रवमूर्थभागे ।
अहेतुमीमांस्य महानुभावे
विलोकने मां विषयी कुरुष्व ॥ ७ ॥

उमाशचीकीर्तिसरस्वती धी
स्वाहादिनानाविधशक्तिभेदे ।
अशेषलोकाभरणस्वरूपे
विलोकने मां विषयी कुरुष्व ॥ ८ ॥

इत्यहिर्बुध्न्यसंहितायां लक्ष्म्यष्टकम् ।

– Chant Stotra in Other Languages –

Sri Lakshmi Ashtaka Stotram in English – Hindi – KannadaTeluguTamil

See Also  Sarvadeva Kruta Sri Lakshmi Stotram In Malayalam And English