Sri Lakshmi Stotram (Indra Krutham) In Sanskrit

 ॥ Sri Lakshmi Stotram Sanskrit Lyrics ॥

॥ श्री लक्ष्मी स्तोत्रम् (इन्द्र कृतम्) ॥
नमः कमलवासिन्यै नारायण्यै नमो नमः ।
कृष्णप्रियायै सततं महालक्ष्मै नमो नमः ॥ १ ॥

पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ २ ॥

सर्वसम्पत्स्वरूपिण्यै सर्वाराध्यै नमो नमः ।
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥ ३ ॥

कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ।
चन्द्रशोभास्वरूपायै रत्नपद्मे च शोभने ॥ ४ ॥

सम्पत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ।
नमो वृद्धिस्वरूपायै वृद्धिदायै नमो नमः ॥ ५ ॥

वैकुण्ठे या महालक्ष्मीः या लक्ष्मीः क्षीरसागरे ।
स्वर्गलक्ष्मीरिन्द्रगेहे राज्यलक्ष्मीः नृपालये ॥ ६ ॥

गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ।
सुरभिस्सागरे जाता दक्षिणा यज्ञकामनी ॥ ७ ॥

अदितिर्देवमाता त्वं कमला कमलालये ।
स्वाहा त्वं च हविर्धाने कव्यदाने स्वधा स्मृता ॥ ८ ॥

त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायाणा ॥ ९ ॥

क्रोधहिंसावर्जिता च वरदा शारदा शुभा ।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ १० ॥

See Also  Sri Lalitha Moola Mantra Kavacham In Sanskrit

यया विना जगत्सर्वं भस्मीभूतमसारकम् ।
जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥ ११ ॥

सर्वेषां च परा माता सर्वबान्धवरूपिणी ।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ १२ ॥

यथा माता स्तनान्धानां शिशूनां शैशवे सदा ।
तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥ १३ ॥

मातृहीनस्स्तनान्धस्तु स च जीवति दैवतः ।
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ १४ ॥

सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके ।
वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ १५ ॥

अहं यावत्त्वया हीनः बन्धुहीनश्च भिक्षुकः ।
सर्वसम्पद्विहीनश्च तावदेव हरिप्रिये ॥ १६ ॥

राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि ।
कीर्ति देहि धनं देहि यशो मह्यं च देहि वै ॥ १७ ॥

कामं देहि मतिं देहि भोगान्देहि हरिप्रिये ।
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ॥ १८ ॥

प्रभावं च प्रतापं च सर्वाधिकारमेव च ।
जयं पराक्रमं युद्धे परमैश्वर्यमैव च ॥ १९ ॥

[* अधिक पाठं –
इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह ।
प्रणमाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ॥ २० ॥

See Also  Sriman Narayana In Sanskrit

ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ।
सर्वेचक्रुः परिहारं सुरार्थे च पुनः पुनः ॥ २१ ॥

देवेभ्यश्च वरं दत्वा पुष्पमालां मनोहराम् ।
केशवाय ददा लक्ष्मीः सन्तुष्टा सुरसंसदि ॥ २२ ॥

ययुदैवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ।
देवी ययौ हरेः क्रोडं दृष्टा क्षीरोदशायिनः ॥ २३ ॥

ययतुश्चैय स्वगृहं ब्रह्मेशानी च नारद ।
दत्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ॥ २४ ॥

इदं स्तोत्रम् महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ।
कुबेरतुल्यः स भवेत् राजराजेश्वरो महान् ॥ २५ ॥

सिद्धस्तोत्रम् यदि पठेत् सोऽपि कल्पतरूर्नरः ।
पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ २६ ॥

सिद्धस्तोत्रम् यदि पठेन्मासमेकं च सम्युतः ।
महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ २७ ॥

इति श्री इन्द्रकृतं लक्ष्मी स्तोत्रम् ।

– Chant Stotra in Other Languages –

Sri Maha Laksmi Stotras » Sri Lakshmi Stotram (Indra Krutham) Lyrics in English » Kanada » Telugu » Tamil