Lalita Trishati Namavali 300 Names In Sanskrit

॥ Sri Lalita Trishati Namavali Sanskrit Lyrics ॥

श्रीललितात्रिशतिनामावलिः
॥ न्यासम् ॥
अस्य श्रीललितात्रिशती स्तोत्रनामावलिः महामन्त्रस्य भगवान् हयग्रीव ऋषिः,
अनुष्टुप्छन्दः, श्रीललितामहात्रिपुरसुन्दरी देवता,
ऐं बीजम्, सौः शक्तिः, क्लों कीलकम्,
मम चतुर्विधफलपुरुषार्थ जपे (वा) परायणे विनियोगः ॥

ऐं अङ्गुष्ठाभ्यां नमः ।
क्लीं तर्जनीभ्यां नमः ।
सौः मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
क्लों कनिष्ठिकाभ्यां नमः ।
सौः करतलकरपृष्ठाभ्यां नमः ॥

ऐं हृदयाय नमः ।
क्लों शिरसे स्वाहा ।
सौः शिखायै वषट् ।
ऐं कवचाय हुं ।
क्लों नेत्रत्रयाय वौषट् ।
सौः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

॥ ध्यानम्॥
अतिमधुरचापहस्ताम्परिमितामोदसौभाग्याम् ।
अरुणामतिशयकरुणामभिनवकुलसुन्दरीं वन्दे ॥

॥ लं इत्यादि पञ्चपूजा ॥
लं पृथिव्यात्मिकायै श्रीललिताम्बिकायै गन्धं समर्पयामि ।
हं आकाशात्मिकायै श्रीललिताम्बिकायै पुष्पैः पूजयामि ।
यं वाय्वात्मिकायै श्रीललिताम्बिकायै कुङ्कुमं आवाहयामि ।
रं वह्यात्मिकायै श्रीललिताम्बिकायै दीपं दर्शयामि ।
वं अमृतात्मिकायै श्रीललिताम्बिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मिकायै श्रीललिताम्बिकायै सर्वोपचारपूजां समर्पयामि ॥

॥ अथ श्रीललितात्रिशती नामावलिः ॥
ॐ ऐं ह्रीं श्रीं

ॐ ककाररूपायै नमः ।
ॐ कल्याण्यै नमः ।
ॐ कल्याणगुणशालिन्यै नमः ।
ॐ कल्याणशैलनिलयायै नमः ।
ॐ कमनीयायै नमः ।
ॐ कलावत्यै नमः ।
ॐ कमलाक्ष्यै नमः ।
ॐ कल्मषघ्न्यै नमः ।
ॐ करुणमृतसागरायै नमः ।
ॐ कदम्बकाननावासायै नमः ।
ॐ कदम्बकुसुमप्रियायै नमः ।
ॐ कन्दर्पविद्यायै नमः ।
ॐ कन्दर्पजनकापाङ्गवीक्षणायै नमः ।
ॐ कर्पूरवीटीसौरभ्यकल्लोलितककुप्तटायै नमः ।
ॐ कलिदोषहरायै नमः ।
ॐ कञ्चलोचनायै नमः ।
ॐ कम्रविग्रहायै नमः ।
ॐ कर्मादिसाक्षिण्यै नमः ।
ॐ कारयित्र्यै नमः ।
ॐ कर्मफलप्रदायै नमः । २०

ॐ एकाररूपायै नमः ।
ॐ एकाक्षर्यै नमः ।
ॐ एकानेकाक्षराकृत्यै नमः ।
ॐ एतत्तदित्यनिर्देश्यायै नमः ।
ॐ एकानन्दचिदाकृत्यै नमः ।
ॐ एवमित्यागमाबोध्यायै नमः ।
ॐ एकभक्तिमदर्चितायै नमः ।
ॐ एकाग्रचितनिर्ध्यातायै नमः ।
ॐ एषणारहितादृतायै नमः ।
ॐ एलासुगन्धिचिकुरायै नमः ।
ॐ एनकूटविनाशिन्यै नमः ।
ॐ एकभोगायै नमः ।
ॐ एकरसायै नमः ।
ॐ एकैश्वर्यप्रदायिन्यै नमः ।
ॐ एकातपत्रसाम्राज्यप्रदायै नमः ।
ॐ एकान्तपूजितायै नमः ।
ॐ एधमानप्रभायै नमः ।
ॐ एजदनेकजगदीश्वर्यै नमः ।
ॐ एकवीरादिसंसेव्यायै नमः ।
ॐ एकप्राभवशालिन्यै नमः । ४०

ॐ ईकाररूपायै नमः ।
ॐ ईशित्र्यै नमः ।
ॐ ईप्सितार्थप्रदायिन्यै नमः ।
ॐ ईदृगित्याविनिर्देश्यायै नमः ।
ॐ ईश्वरत्वविधायिन्यै नमः ।
ॐ ईशानादिब्रह्ममय्यै नमः ।
ॐ ईशित्वाद्यष्टसिद्धिदायै नमः ।
ॐ ईक्षित्र्यै नमः ।
ॐ ईक्षणसृष्टाण्डकोट्यै नमः ।
ॐ ईश्वरवल्लभायै नमः ।
ॐ ईडितायै नमः ।
ॐ ईश्वरार्धाङ्गशरीरायै नमः ।
ॐ ईशाधिदेवतायै नमः ।
ॐ ईश्वरप्रेरणकर्यै नमः ।
ॐ ईशताण्डवसाक्षिण्यै नमः ।
ॐ ईश्वरोत्सङ्गनिलयायै नमः ।
ॐ ईतिबाधाविनाशिन्यै नमः ।
ॐ ईहाविरहितायै नमः ।
ॐ ईशशक्त्यै नमः ।
ॐ ईषत्स्मिताननायै नमः । ६०

See Also  108 Names Of Natesha – Ashtottara Shatanamavali In English

ॐ लकाररूपायै नमः ।
ॐ ललितायै नमः ।
ॐ लक्ष्मीवाणीनिषेवितायै नमः ।
ॐ लाकिन्यै नमः ।
ॐ ललनारूपायै नमः ।
ॐ लसद्दाडिमपाटलायै नमः ।
ॐ ललन्तिकालसत्फालायै नमः ।
ॐ ललाटनयनार्चितायै नमः ।
ॐ लक्षणोज्ज्वलदिव्याङ्ग्यै नमः ।
ॐ लक्षकोट्यण्डनायिकायै नमः ।
ॐ लक्ष्यार्थायै नमः ।
ॐ लक्षणागम्यायै नमः ।
ॐ लब्धकामायै नमः ।
ॐ लतातनवे नमः ।
ॐ ललामराजदलिकायै नमः ।
ॐ लम्बिमुक्तालताञ्चितायै नमः ।
ॐ लम्बोदस्प्रसवे नमः ।
ॐ लभ्यायै नमः ।
ॐ लज्जाढ्यायै नमः ।
ॐ लयवर्जितायै नमः । ८०

ॐ ह्रींकाररूपायै नमः ।
ॐ ह्रींकारनिलयायै नमः ।
ॐ ह्रींपदप्रियायै नमः ।
ॐ ह्रींकारबीजायै नमः ।
ॐ ह्रींकारमन्त्रायै नमः ।
ॐ ह्रींकारलक्षणायै नमः ।
ॐ ह्रींकारजपसुप्रीतायै नमः ।
ॐ ह्रींमत्यै नमः ।
ॐ ह्रींविभूषणायै नमः ।
ॐ ह्रींशीलायै नमः ।
ॐ ह्रींपदाराध्यायै नमः ।
ॐ ह्रींगर्भायै नमः ।
ॐ ह्रींपदाभिधायै नमः ।
ॐ ह्रींकारवाच्यायै नमः ।
ॐ ह्रींकारपूज्यायै नमः ।
ॐ ह्रींकारपीठिकायै नमः ।
ॐ ह्रींकारवेद्यायै नमः ।
ॐ ह्रींकारचिन्त्यायै नमः ।
ॐ ह्रीं नमः ।
ॐ ह्रींशरीरिण्यै नमः । १००

ॐ हकाररूपायै नमः ।
ॐ हलधृत्पूजितायै नमः ।
ॐ हरिणेक्षणायै नमः ।
ॐ हरप्रियायै नमः ।
ॐ हराराध्यायै नमः ।
ॐ हरिब्रह्मेन्द्रवन्दितायै नमः ।
ॐ हयारूढासेवितांघ्र्यै नमः ।
ॐ हयमेधसमर्चितायै नमः ।
ॐ हर्यक्षवाहनायै नमः ।
ॐ हंसवाहनायै नमः ।
ॐ हतदानवायै नमः ।
ॐ हत्त्यादिपापशमन्यै नमः ।
ॐ हरिदश्वादिसेवितायै नमः ।
ॐ हस्तिकुम्भोत्तुङ्गकुचायै नमः ।
ॐ हस्तिकृत्तिप्रियाङ्गनायै नमः ।
ॐ हरिद्राकुङ्कुमादिग्धायै नमः ।
ॐ हर्यश्वाद्यमरार्चितायै नमः ।
ॐ हरिकेशसख्यै नमः ।
ॐ हादिविद्यायै नमः ।
ॐ हालामदालसायै नमः । १२०

ॐ सकाररूपायै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सर्वेश्यै नमः ।
ॐ सर्वमङ्गलायै नमः ।
ॐ सर्वकर्त्र्यै नमः ।
ॐ सर्वभर्त्र्यै नमः ।
ॐ सर्वहन्त्र्यै नमः ।
ॐ सनातन्यै नमः ।
ॐ सर्वानवद्यायै नमः ।
ॐ सर्वाङ्गसुन्दर्यै नमः ।
ॐ सर्वसाक्षिन्यै नमः ।
ॐ सर्वात्मिकायै नमः ।
ॐ सर्वसौख्यदात्र्यै नमः ।
ॐ सर्वविमोहिन्यै नमः ।
ॐ सर्वाधारायै नमः ।
ॐ सर्वगतायै नमः ।
ॐ सर्वावगुणवर्जितायै नमः ।
ॐ सर्वारुणायै नमः ।
ॐ सर्वमात्रे नमः ।
ॐ सर्वभूषणभूषितायै नमः । १४०

See Also  108 Names Of Mrityunjaya 4 – Ashtottara Shatanamavali 4 In Gujarati

ॐ ककारार्थायै नमः ।
ॐ कालहन्त्र्यै नमः ।
ॐ कामेश्यै नमः ।
ॐ कामितार्थदायै नमः ।
ॐ कामसञ्जीविन्यै नमः ।
ॐ कल्यायै नमः ।
ॐ कठिनस्तनमण्डलायै नमः ।
ॐ करभोरवे नमः ।
ॐ कलानाथमुख्यै नाम्ः
ॐ कचजिताम्बुदायै नमः ।
ॐ कटाक्षस्यन्दिकरुणायै नमः ।
ॐ कपालिप्राणनायिकायै नमः ।
ॐ कारुण्यविग्रहायै नमः ।
ॐ कान्तायै नमः ।
ॐ कान्तिधूतजपावल्यै नमः ।
ॐ कलालापायै नमः ।
ॐ कण्बुकण्ठ्यै नमः ।
ॐ करनिर्जितपल्लवायै नमः ।
ॐ कल्पवल्लीसमभुजायै नमः ।
ॐ कस्तूरीतिलकाञ्चितायै नमः । १६०

ॐ हकारार्थायै नमः ।
ॐ हंसगत्यै नमः ।
ॐ हाटकाभरणोज्ज्वलायै नमः ।
ॐ हारहारिकुचाभोगायै नमः ।
ॐ हाकिन्यै नमः ।
ॐ हल्यवर्जितायै नमः ।
ॐ हरित्पतिसमाराध्यायै नमः ।
ॐ हठात्कारहतासुरायै नमः ।
ॐ हर्षप्रदायै नमः ।
ॐ हविर्भोक्त्र्यै नमः ।
ॐ हार्दसन्तमसापहायै नमः ।
ॐ हल्लीसलास्यसन्तुष्टायै नमः ।
ॐ हंसमन्त्रार्थरूपिण्यै नमः ।
ॐ हानोपादाननिर्मुक्तायै नमः ।
ॐ हर्षिण्यै नमः ।
ॐ हरिसोदर्यै नमः ।
ॐ हाहाहूहूमुखस्तुत्यायै नमः ।
ॐ हानिवृद्धिविवर्जितायै नमः ।
ॐ हय्यङ्गवीनहृदयायै नमः ।
ॐ हरिकोपारुणांशुकायै नमः । १८०

ॐ लकाराख्यायै नमः ।
ॐ लतापूज्यायै नमः ।
ॐ लयस्थित्युद्भवेश्वर्यै नमः ।
ॐ लास्यदर्शनसन्तुष्टायै नमः ।
ॐ लाभालाभविवर्जितायै नमः ।
ॐ लंघ्येतराज्ञायै नमः ।
ॐ लावण्यशालिन्यै नमः ।
ॐ लघुसिद्धदायै नमः ।
ॐ लाक्षारससवर्णाभायै नमः ।
ॐ लक्ष्म्णाग्रजपूजितायै नमः ।
ॐ लभ्येतरायै नमः ।
ॐ लब्धभक्तिसुलभायै नमः ।
ॐ लांगलायुधायै नमः ।
ॐ लग्नचामरहस्त श्रीशारदा परिवीजितायै नमः ।
ॐ लज्जापदसमाराध्यायै नमः ।
ॐ लम्पटायै नमः ।
ॐ लकुलेश्वर्यै नमः ।
ॐ लब्धमानायै नमः ।
ॐ लब्धरसायै नमः ।
ॐ लब्धसम्पत्समुन्नत्यै नमः । २००

ॐ ह्रींकारिण्यै नमः ।
ॐ ह्रींकाराद्यायै नमः ।
ॐ ह्रींमध्यायै नमः ।
ॐ ह्रींशिखामणये नमः ।
ॐ ह्रींकारकुण्डाग्निशिखायै नमः ।
ॐ ह्रींकारशशिचन्द्रिकायै नमः ।
ॐ ह्रींकारभास्कररुच्यै नमः ।
ॐ ह्रींकाराम्भोदचञ्चलायै नमः ।
ॐ ह्रींकारकन्दाङ्कुरिकायै नमः ।
ॐ ह्रींकारैकपरायणायै नमः ।
ॐ ह्रींकारदीर्धिकाहंस्यै नमः ।
ॐ ह्रींकारोद्यानकेकिन्यै नमः ।
ॐ ह्रींकारारण्यहरिण्यै नमः ।
ॐ ह्रींकारावालवल्लर्यै नमः ।
ॐ ह्रींकारपञ्जरशुक्यै नमः ।
ॐ ह्रींकाराङ्गणदीपिकायै नमः ।
ॐ ह्रींकारकन्दरासिंह्यै नमः ।
ॐ ह्रींकाराम्भोजभृङ्गिकायै नमः ।
ॐ ह्रींकारसुमनोमाध्व्यै नमः ।
ॐ ह्रींकारतरुमञ्जर्यै नमः । २२०

ॐ सकाराख्यायै नमः ।
ॐ समरसायै नमः ।
ॐ सकलागमसंस्तुतायै नमः ।
ॐ सर्ववेदान्त तात्पर्यभूम्यै नमः ।
ॐ सदसदाश्रयायै नमः ।
ॐ सकलायै नमः ।
ॐ सच्चिदानन्दायै नमः ।
ॐ साध्यायै नमः ।
ॐ सद्गतिदायिन्यै नमः ।
ॐ सनकादिमुनिध्येयायै नमः ।
ॐ सदाशिवकुटुम्बिन्यै नमः ।
ॐ सकलाधिष्ठानरूपायै नमः ।
ॐ सत्यरूपायै नमः ।
ॐ समाकृत्यै नमः ।
ॐ सर्वप्रपञ्चनिर्मात्र्यै नमः ।
ॐ समानाधिकवर्जितायै नमः ।
ॐ सर्वोत्तुङ्गायै नमः ।
ॐ सङ्गहीनायै नमः ।
ॐ सगुणायै नमः ।
ॐ सकलेष्टदायै नमः । २४०

See Also  Sri Kamakshi Ashtottara Shatanamavali In Telugu

ॐ ककारिण्यै नमः ।
ॐ काव्यलोलायै नमः ।
ॐ कामेश्वरमनोहरायै नमः ।
ॐ कामेश्वरप्राणनाड्यै नमः ।
ॐ कामेशोत्सङ्गवासिन्यै नमः ।
ॐ कामेश्वरालिङ्गिताङ्ग्यै नमः ।
ॐ कामेश्वरसुखप्रदायै नमः ।
ॐ कामेश्वरप्रणयिन्यै नमः ।
ॐ कामेश्वरविलासिन्यै नमः ।
ॐ कामेश्वरतपस्सिद्ध्यै नमः ।
ॐ कामेश्वरमनःप्रियायै नमः ।
ॐ कामेश्वरप्राणनाथायै नमः ।
ॐ कामेश्वरविमोहिन्यै नमः ।
ॐ कामेश्वरब्रह्मविद्यायै नमः ।
ॐ कामेश्वरगृहेश्वर्यै नमः ।
ॐ कामेश्वराह्लादकर्यै नमः ।
ॐ कामेश्वरमहेश्वर्यै नमः ।
ॐ कामेश्वर्यै नमः ।
ॐ कामकोटिनिलयायै नमः ।
ॐ काङ्क्षितार्थदायै नमः । २६०

ॐ लकारिण्यै नमः ।
ॐ लब्धरूपायै नमः ।
ॐ लब्धधिये नमः ।
ॐ लब्धवाञ्छितायै नमः ।
ॐ लब्धपापमनोदूरायै नमः ।
ॐ लब्धाहङ्कारदुर्गमायै नमः ।
ॐ लब्धशक्त्यै नमः ।
ॐ लब्धदेहायै नमः ।
ॐ लब्धैश्वर्यसमुन्नत्यै नमः ।
ॐ लब्धबुद्धये नमः ।
ॐ लब्धलीलायै नमः ।
ॐ लब्धयौवनशालिन्यै नमः ।
ॐ लब्धातिशयसर्वाङ्गसौन्दर्यायै नमः ।
ॐ लब्धविभ्रमायै नमः ।
ॐ लब्धरागायै नमः ।
ॐ लब्धपत्यै नमः ।
ॐ लब्धनानागमस्थित्यै नमः ।
ॐ लब्धभोगायै नमः ।
ॐ लब्धसुखायै नमः ।
ॐ लब्धहर्षाभिपूरितायै नमः । २८०

ॐ ह्रींकारमूर्तये नमः ।
ॐ ह्रींकारसौधश‍ृङ्गकपोतिकायै नमः ।
ॐ ह्रींकारदुग्धब्धिसुधायै नमः ।
ॐ ह्रींकारकमलेन्दिरायै नमः ।
ॐ ह्रींकरमणिदीपार्चिषे नमः ।
ॐ ह्रींकारतरुशारिकायै नमः ।
ॐ ह्रींकारपेटकमणये नमः ।
ॐ ह्रींकारादर्शबिम्बितायै नमः ।
ॐ ह्रींकारकोशासिलतायै नमः ।
ॐ ह्रींकारास्थाननर्तक्यै नमः ।
ॐ ह्रींकारशुक्तिका मुक्तामणये नमः ।
ॐ ह्रींकारबोधितायै नमः ।
ॐ ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै नमः ।
ॐ ह्रींकारवेदोपनिषदे नमः ।
ॐ ह्रींकाराध्वरदक्षिणायै नमः ।
ॐ ह्रींकारनन्दनारामनवकल्पक वल्लर्यै नमः ।
ॐ ह्रींकारहिमवद्गङ्गायै नमः ।
ॐ ह्रींकारार्णवकौस्तुभायै नमः ।
ॐ ह्रींकारमन्त्रसर्वस्वायै नमः ।
ॐ ह्रींकारपरसौख्यदायै नमः । ३००

इति श्रीललितात्रिशतिनामावलिः समाप्ता ।

ॐ तत् सत् ।

– Chant Stotra in Other Languages -300 Names of Sri Lalita Trishati:

Lalita Trishati Namavali 300 Names in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil