Sri Lalitha Moola Mantra Kavacham In Sanskrit

॥ Lalitha Moola Mantra Kavacham Sanskrit Lyrics ॥

॥ श्री ललिता मूलमन्त्र कवचः ॥
अस्य श्रीललिताकवच स्तवरात्न मन्त्रस्य, आनन्दभैरव ऋषिः, अमृतविराट् छन्दः, श्री महात्रिपुरसुन्दरी ललितापरांबा देवता ऐं बीजं ह्रीं शक्तिः श्रीं कीलकं, मम श्री ललिताम्बा प्रसादसिद्ध्यर्थे श्री ललिता कवचस्तवरत्न मन्त्र जपे विनियोगः ।

करन्यासः ।
ऐं अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
श्रीं मध्यमाभ्यां नमः ।
श्रीं अनामिकाभ्यां नमः ।
ह्रीं कनिष्ठिकाभ्यां नमः ।
ऐं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।
ऐं हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
श्रीं शिखायै वषट् ।
श्रीं कवचाय हुम् ।
ह्रीं नेत्रत्रयाय वौषट् ।
ऐं अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् –
श्रीविद्यां परिपूर्ण मेरुशिखरे बिन्दुत्रिकोणेस्थितां
वागीशादिसमस्तभूतजननीं मञ्चे शिवाकारके ।
कामाक्षीं करुणारसार्णवमयीं कामेश्वराङ्कस्थितां
कान्तां चिन्मयकामकोटिनिलयां श्रीब्रह्मविद्यां भजे ॥ १ ॥

लमित्यादि पञ्चपूजां कुर्यात् ।
लं – पृथ्वीतत्त्वात्मिकायै श्रीललितादेव्यै गन्धं समर्पयामि ।
हं – आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं समर्पयामि ।
यं – वायुतत्त्वात्मिकायै श्री ललितादेव्यै धूपं समर्पयामि ।
रं – वह्नितत्त्वात्मिकायै श्री ललितादेव्यै दीपं समर्पयामि ।
वं – अमृततत्त्वात्मिकायै श्री ललितादेव्यै अमृतनैवेद्यं समर्पयामि ।

See Also  Shri Subramanya Ashtottara Shatanamavali In Sanskrit

पञ्चपूजां कृत्वा योनिमुद्रां प्रदर्श्य ।

कवचम् –
ककारः पातु शीर्षं मे एकारः पातु फालकम् ।
ईकारश्चक्षुषी पातु श्रोत्रेरक्षेल्लकारकः ॥ २ ॥

ह्रींकारः पातु नासाग्रं वक्त्रं वाग्भवसंज्ञिकः ।
हकारः पातु कण्ठं मे सकारः स्कन्धदेशकम् ॥ ३ ॥

ककारो हृदयं पातु हकारो जठरं तथा ।
अकारो नाभिदेशं तु ह्रींकारः पातु गुह्यकम् ॥ ४ ॥

कामकूटस्सदा पातु कटिदेशं ममैवतु ।
सकारः पातुचोरू मे ककारः पातु जानुनी ॥ ५ ॥

लकारः पातु जङ्घे मे ह्रींकारः पातु गुल्फकौ ।
शक्तिकूटं सदा पातु पादौ रक्षतु सर्वदा ॥ ६ ॥

मूलमन्त्रकृतं चैतत्कवचं यो जपेन्नरः ।
प्रत्यहं नियतः प्रातस्तस्य लोका वशंवदाः ॥ ७ ॥

करन्यासः ।
ऐं अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
श्रीं मध्यमाभ्यां नमः ।
श्रीं अनामिकाभ्यां नमः ।
ह्रीं कनिष्ठिकाभ्यां नमः ।
ऐं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।
ऐं हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
श्रीं शिखायै वषट् ।
श्रीं कवचाय हुम् ।
ह्रीं नेत्रत्रयाय वौषट् ।
ऐं अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्विमोकः ।

See Also  Bhaavamu Lona In Sanskrit

इति ब्रह्मकृतं श्री ललिता मूलमन्त्र कवचः ।

– Chant Stotra in Other Languages –

Sri Lalitha Moola Mantra Kavacham Lyrics in English » Kannada » Telugu » Tamil