Sri Rahu Ashtottara Shatanama Stotram In Sanskrit

॥ Sri Rahu Ashtottara Shatanama Stotram Stotram Sanskrit Lyrics ॥

॥ श्री राहु अष्टोत्तरशतनाम स्तोत्रम् ॥
श्री राहु अष्टोत्तरशतनाम स्तोत्र

शृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः
सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥ १ ॥

सुरागुर्नीलजीमूतसङ्काशश्च चतुर्भुजः
खड्गखेटकधारी च वरदायकहस्तकः ॥ २ ॥

शूलायुधो मेघवर्णः कृष्णध्वजपताकावान्
दक्षिणाशामुखरतः तीक्ष्णदम्ष्ट्रधराय च ॥ ३ ॥

शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः
माषप्रियः कश्यपर्षिनन्दनो भुजगेश्वरः ॥ ४ ॥

उल्कापातजनिः शूली निधिपः कृष्णसर्पराट्
विषज्वलावृतास्योऽर्धशरीरो जाद्यसम्प्रदः ॥ ५ ॥

रवीन्दुभीकरश्छायास्वरूपी कठिनाङ्गकः
द्विषच्चक्रच्छेदकोऽथ करालास्यो भयङ्करः ॥ ६ ॥

क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः
किरीटी नीलवसनः शनिसामन्तवर्त्मगः ॥ ७ ॥

चाण्डालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा
शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥ ८ ॥

उपरागकरस्सूर्यहिमाम्शुच्छविहारकः
नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥ ९ ॥

कबन्धमात्रदेहश्च यातुधानकुलोद्भवः
गोविन्दवरपात्रं च देवजातिप्रविष्टकः ॥ १० ॥

क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः
मानेगङ्गास्नानदाता स्वगृहेप्रबलाढ्यकः ॥ ११ ॥

सद्गृहेऽन्यबलधृच्चतुर्थेमातृनाशकः
चन्द्रयुक्तेतु चण्डालजन्मसूचक एवतु ॥ १२ ॥

जन्मसिंहे राज्यदाता महाकायस्तथैव च
जन्मकर्ता विधुरिपु मत्तकोज्ञानदश्च सः ॥ १३ ॥

जन्मकन्याराज्यदाता जन्महानिद एव च
नवमे पितृहन्ता च पञ्चमे शोकदायकः ॥ १४ ॥

द्यूने कलत्रहन्त्रे च सप्तमे कलहप्रदः
षष्ठे वित्तदाता च चतुर्थे वैरदायकः ॥ १५ ॥

See Also  Svarupanusandhana Ashtakam In Sanskrit

नवमे पापदाता च दशमे शोकदायकः
आदौ यशः प्रदाता च अन्ते वैरप्रदायकः ॥ १६ ॥

कालात्मा गोचराचारो धने चास्य ककुत्प्रदः
पञ्चमे धृषणाशृङ्गदः स्वर्भानुर्बली तथा ॥ १७ ॥

महासौख्यप्रदायी च चन्द्रवैरी च शाश्वतः
सुरशत्रुः पापग्रहः शाम्भवः पूज्यकस्तथा ॥ १८ ॥

पाठीनपूरणश्चाथ पैठीनसकुलोद्भवः
दीर्घः कृष्णोऽशिरसः विष्णुनेत्रारिर्देवदानवौ ॥ १९ ॥

भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः
एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २० ॥

श्रद्धया यो जपेन्नित्यं मुच्यते सर्व सङ्कटात्
सर्वसम्पत्करस्तस्य राहुरिष्टप्रदायकः ॥ २१ ॥

– Chant Stotra in Other Languages –

Navagraha Slokam » Rahu Ashtottara Shatanama Stotram Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil