Surya Gita In Sanskrit

॥ Surya Geetaa Sanskrit Lyrics ॥

॥ सूर्य गीता ॥
॥ श्री गणेशाय नमः ॥

॥ अथ सूर्यगीता प्रारभ्यते ॥

ब्रह्मा उवाच –
प्रपञ्चसृष्टिकर्मेदं मम श्रीगुरुनायक ।
अहार्यं द्विपरार्धान्तमाधिकारिकतावशात् ॥ १ ॥

इति त्वद्वदनाम्भोजात्सम्यग्विदितवानहम् ।
तथाप्यत्र न मे चिन्ता जायते त्वत्कृपाबलात् ॥ २ ॥

त्वयि प्रसन्ने मय्येवं बोधानन्दः स्वरूपतः ।
पुनर्जन्मभयाभावाद्धीर एवास्मि वृत्तिषु ॥ ३ ॥

तथाऽपि कर्मभागेषु श्रोतव्यमवशिष्यते ।
तत्सर्वं च विदित्वैव सर्वज्ञः स्यामहं प्रभो ॥ ४ ॥

जगज्जीवेश्वरादीनां प्रागुत्पत्तेर्निरंजनम् ।
निर्विशेषमकर्मैकं ब्रह्मैवासीत्तदद्वयम् ॥ ५ ॥

तस्य जीवेश स्रष्टृत्वं प्रोच्यते वेदवादिभिः ।
अकर्मणः कथं सृष्टिकर्मकर्तृत्वमुच्यते ॥ ६ ॥

सकर्मा सेन्द्रियो लोके दृश्यते न निरिन्द्रियः ।
ब्रह्मणोऽतीन्द्रियत्वं च सर्वशास्त्रेषु घुष्यते ॥ ७ ॥

नश्यमानतयोत्पत्तिमत्वादाद्यस्य कर्मणः ।
न मुख्यमवकल्पेताप्यनादित्वोपवर्णनम् ॥ ८ ॥

ब्रह्म चेत्कर्मकुर्वीत यनेकेनापि हेतुना ।
तथा च संसृतिस्तस्य प्रसज्येत तु नात्मनः ॥ ९ ॥

तस्मादाद्यस्य पुण्यस्य पापस्य च दयानिधे ।
कर्मणो ब्रूहि मे स्पष्टमुपपत्तिं गुरूत्तम ॥ १० ॥

इत्युक्तो विधिना देवो दक्षिणामूर्तिरीश्वरः ।
विचित्रप्रश्नसन्तुष्ट इदं वचनमब्रवीत् ॥ ११ ॥

श्रीगुरुमूर्तिरुवाच –
ब्रह्मन्साधुरयं प्रश्नस्तव प्रश्नविदां वर ।
श‍ृणुष्व सावधानेन चेतसाऽस्योत्तरं मम ॥ १२ ॥

प्रागुत्पत्तेरकर्मैकमकर्तृ च निरिन्द्रियम् ।
निर्विशेषं परं ब्रह्मैवासीन्नात्रास्ति संशयः ॥ १३ ॥

तथाऽपि तस्य चिच्छक्तिसंयुतत्वेन हेतुना ।
प्रतिच्छायात्मिके शक्ती मायाविद्ये बभूवतुः ॥ १४ ॥

अद्वितीयमपि ब्रह्म तयोर्यत्प्रतिबिम्बितम् ।
तेन द्वैविध्यमासाद्य जीव ईश्वर इत्यपि ॥ १५ ॥

पुण्यपापादिकर्तृत्वं जगत्सृष्ट्यादिकर्तृताम् ।
अभजत्सेन्द्रियत्वं च सकर्मत्वं विशेषतः ॥ १६ ॥

यः स्वशक्त्या समुल्लास उदभूत्परमात्मनः ।
स्वबन्धजनकं सूक्ष्मं तदाद्यं कर्म कथ्यते ॥ १७ ॥

न तेन निर्विशेषत्वं हीयते तस्य किंचन ।
न च संसारबन्धश्च कश्चिद्ब्रह्मन्प्रसज्यते ॥ १८ ॥

पारमार्थिकसंसारी जीवः पुण्यादिकर्मवान् ।
प्रातिभासिकसंसारी त्वीशः सृष्ट्यादिकर्मवान् ॥ १९ ॥

असंसारि परं ब्रह्म जीवेशोभयकारणम् ।
ततोऽप्यतीतं नीरूपं अवाङ्मनसगोचरम् ॥ २० ॥

कर्मवन्तौ परित्यज्य जीवेशौ ये महाधियः ।
अकर्मवत्परं ब्रह्म प्रयान्त्यत्र समाधिभिः ॥ २१ ॥

ते विदेहविमुक्ता वा जीवन्मुक्ता नरोत्तमाः ।
कर्माकर्मोभयातीतास्तद्ब्रह्मारूपमाप्नुयुः ॥ २२ ॥

कर्मणा संसृतौ बद्धा मुच्यन्ते ते ह्यकर्मणा ।
बन्धमोक्षोभयातीताः कर्मिणो नाप्यकर्मिणः ॥ २३ ॥

जीवस्य कर्मणा बन्धस्तस्य मोक्षश्च कर्मणा ।
तस्माद्धेयं च कर्म स्यादुपादेयं च कर्म हि ॥ २४ ॥

त्यक्ते कर्मणि जीवत्वमात्मनो गच्छति स्वयम् ।
गृहीते कर्मणि क्षिप्रं ब्रह्मत्वं च प्रसिध्यति ॥ २५ ॥

आविद्यकमशुद्धं यत्कर्म दुःखाय तन्नृणाम् ।
विद्यासम्बन्धि शुद्धं यत् तत्सुखाय च कथ्यते ॥ २६ ॥

विद्याकर्मक्षुरात्तीक्ष्णात् छिनत्ति पुरुषोत्तमः ।
अविद्याकर्मपाशांश्चेत्स मुक्तो नात्र संशयः ॥ २७ ॥

सर्वस्य व्यवहारस्य विधे कर्मैव कारणम् ।
इति निश्चयसिद्ध्यै ते सूर्यगीतां वदाम्यहम् ॥ २८ ॥

कर्मसाक्षिणमादित्यं सहस्रकिरणं प्रभुम् ।
सप्ताश्वं सर्वधर्मज्ञमपृच्छदरुणः पुरा ॥ २९ ॥

अरुण उवाच –
भगवन् केन संसारे प्राणिनः संभ्रमन्त्यमी ।
केनैतेषां निवृत्तिश्च संसाराद्वद सद्गुरो ॥ ३० ॥

इति पृष्टः स सर्वज्ञः सहस्रकिरणोज्वलः ।
सूर्योऽब्रवीदिदं शिष्यमरुणं निजसारथिम् ॥ ३१ ॥

सूर्य उवाच –
अरुण त्वं भवस्यद्य मम प्रियतमः खलु ।
यतः पृच्छसि संसारभ्रमकारणमादरात् ॥ ३२ ॥

भ्रमन्ति केवलं सर्वे संसारे प्राणिनोऽनिशम् ।
न तु तत्कारणं केनाप्यहो किंचिद्विचार्यते ॥ ३३ ।
तज्जिज्ञासुतया त्वं तु श्लाघ्योऽसि विबुधोत्तमैः ।
श‍ृणुश्वारुण वक्ष्यामि तव संसारकारणम् ॥ ३४ ॥

पुण्यपापात्मकं कर्म यत्सर्वप्राणिसंचितम् ।
अनादिसुखदुःखानां जनकं चाभिधीयते ॥ ३५ ॥

शास्त्रैः सर्वैश्च विहितं प्रतिषिद्धं च सादरम् ।
कामादिजनितं तत्त्वं विद्धि संसारकारणम् ॥ ३६ ॥

पश्वादीनामभावेऽपि तयोर्विधिनिषेधयोः ।
संसारस्य न लोपोऽस्ति पूर्वकर्मानुसारतः ॥ ३७ ॥

पूर्वं मनुष्यभूतानां पापकर्मावशादिह ।
श्वखरोष्ट्रादिजन्मानि निकृष्टानि भवन्त्यहो ॥ ३८ ॥

पापकर्मसु भोगेन प्रक्षीणेषु पुनश्च ते ।
प्राप्नुवन्ति मनुष्यत्वं पुनश्च श्वादिजन्मिताम् ॥ ३९ ॥

जननैर्मरणैरेवं पौनःपुन्येन संसृतौ ।
भ्रमन्त्यब्धितरंगस्थदारुवद्धीमतां वर ॥ ४० ॥

अरुण उवाच –
प्रक्षीणपापकर्माणः प्राप्तवन्तो मनुष्यताम् ।
पुनश्च श्वादिजन्मानि केन गच्छन्ति हेतुना ॥ ४१ ॥

न हि दुर्जन्महेतुत्वं पुण्यानां युक्तमीरितुम् ।
न च पुण्यवतां भूयः पापकर्मोपपद्यते ॥ ४२ ॥

पुण्यैर्विशुद्धचित्तानां ज्ञानयोगादिसाधनैः ।
संसारमोक्षसंसिद्ध्या पापकर्माप्रसक्तितः ॥ ४३ ॥

जीवेषु पौनःपुन्यं चेदुत्तमाधमजन्मनाम् ।
नियमेनाभिधीयेत येन केनापि हेतुना ॥ ४४ ॥

मोक्षशास्त्रस्य वैयर्थ्यमापतत्येव सर्वथा ।
तस्मादपापिनां जन्म पुनश्चेति न युज्यते ॥ ४५ ॥

इत्युक्तो भगवानाह सर्वज्ञः करुणानिधिः ।
रविः संशयविच्छेदनिपुणोऽरुणमादरात् ॥ ४६ ॥

रविरुवाच –
प्रक्षीणेष्वपि भोगेन पापकर्मसु देहिनः ।
पुनश्च पापकर्माणि कुर्वन्तो यान्ति दुर्गतिम् ॥ ४७ ॥

तानि दुर्जन्मबीजानि कामात्पापानि देहिनाम् ।
पुनरप्युपपद्यन्ते पूर्वपुण्यवतामपि ॥ ४८ ॥

सकामानां च पुण्यानां भोगहेतुतया नृणाम् ।
न चित्तशुद्धिहेतुत्वं क्वचिद्भवितुमर्हति ॥ ४९ ॥

कुतश्चाशुद्धचित्तानां ज्ञानयोगादिसंभवः ।
ज्ञानयोगादिहीनानां कुतो मोक्षश्च संसृतेः ॥ ५० ॥

कामेन हेतुना सत्स्वप्युत्तमाधमजन्मसु ।
मोक्षशास्त्रस्य सार्थक्यं नैष्काम्योदयहेतुकम् ॥ ५१ ॥

सुखदुःखोपभोगेन यदा निर्वेदमागतः ।
निष्कामत्वमवाप्नोति स्वविवेकपुरस्सरम् ॥ ५२ ॥

ततःप्रभृति कैश्चित्स्याज्जन्मभिर्ज्ञानयोगवान् ।
श्रवणादिप्रयत्नैर्हि मुक्तिः स्वात्मन्यवस्थितिः ॥ ५३ ॥

कर्माध्यक्षं परात्मानं सर्वकर्मैकसाक्षिणम् ।
सर्वकर्मविदूरन्तं कर्मवान्कथमाप्नुयात् ॥ ५४ ॥

पुण्येष्वपि च पापेषु पौर्विकेषु तु भोगतः ।
क्षपितेषु परात्मा स स्वयमाविर्भविष्यति ॥ ५५ ॥

कर्तृभिर्भुज्यते जीवैः सर्वकर्मफलं न तु ।
साक्षिणा निर्विकल्पेन निर्लेपेन परात्मना ॥ ५६ ॥

जीवानां तदनन्यत्वत्भोगस्यावसरः कुतः ।
इति केचन शंकन्ते वेदान्तापातदर्शिनः ॥ ५७ ॥

परमार्थदशायां हि तदनन्यत्वमिष्यते ।
व्यवहारदशायां नानुपपत्तिश्च काचन ॥ ५८ ॥

परमार्थदशारूढे जीवन्मुक्तेऽपि कर्मणाम् ।
भोगोऽङ्गीक्रियते सम्यक् दृश्यते च तथा सति ॥ ५९ ॥

अज्ञानां व्यवहारैकनिष्ठानां तदनन्यता ।
अभोक्तृता च केनैव वक्तुं शक्या मनीषिणा ॥ ६० ॥

ज्ञानिनः कर्मकर्तृत्वं दृश्यमानमपि स्फुटम् ।
उत्पादयेत्फलं नेति मन्यन्ते स्वप्नकर्मवत् ॥ ६१ ॥

तदयुक्तं न हि स्वप्ने पापकर्तुः स्वतन्त्रता ।
जाग्रति प्राणिनः कर्म स्वातन्त्र्यं वर्तते खलु ॥ ६२ ॥

तिरश्चां जागरावस्था यथा भोगैककारणम् ।
तथा स्वप्नदशा नॄणां फलभोगैककारणम् ॥ ६३ ॥

नृणां च जागरावस्था बालानां स्यात्तथा न तु ।
यूनां वृद्धतमानां वा किमुत स्वात्मवेदिनाम् ॥ ६४ ॥

भाविभोगार्थकं कर्म जाग्रत्येव नृणां भवेत् ।
फलं तु कर्मणः स्वप्ने जाग्रत्यपि च युज्यते ॥ ६५ ॥

कर्मण्यध्यस्य भोगं ये भोगेऽध्यस्याथ कर्म च ।
कर्म तद्भोगयोर्भेदमज्ञात्वाहुर्यथेप्सितम् ॥ ६६ ॥

तेषां मन्दधियां ज्ञानवादिनां पापकारिणाम् ।
कथं कृतार्थतां ब्रूयामध्यासक्षयसंभवाम् ॥ ६७ ॥

कर्मण्यकर्मधीर्येषामकर्मणि च कर्मधीः ।
ते चाध्यासवशा मन्दा ज्ञानिनः स्वैरचारिणः ॥ ६८ ॥

वर्णाश्रमादिधर्माणामद्वैतं कर्मणैव ये ।
अनुतिष्ठन्ति ते मूढाः कर्माकर्मोभयच्युताः ॥ ६९ ॥

स्वानुभूतिं वरिष्ठां तां सर्वानुष्ठानवर्जिताम् ।
सर्वानुष्ठानवन्तोऽपि सिद्धामाहुर्बतात्मनाम् ॥ ७० ॥

अभेदध्यानसाध्यां तां स्वानुभूतिं महत्तमाम् ।
विचारसाध्यां मन्यन्ते ते महापापकर्मिणः ॥ ७१ ॥

निदिध्यासनमप्यात्मा भेदाभिध्यानलक्षणम् ।
उपेक्षन्ते वृथाद्वैतज्ञानवादैकमोहतः ॥ ७२ ॥

आश्रित्यैव विचारं ये वाक्यार्थमननात्मकम् ।
मन्यन्ते कृतकृत्यत्वमात्मनां ते हि मोहिताः ॥ ७३ ॥

आद्यज्ञानोदये काम्यकर्मत्याग उदीर्यते ।
द्वितीयसम्यग्ज्ञाने तु नैमित्तिकनिराकृतिः ॥ ७४ ॥

तृतीयपूर्णज्ञाने च नित्यकर्मनिराकृतिः ।
चतुर्थाद्वैतबोधे तु सोऽतिवर्णाश्रमी भवेत् ॥ ७५ ॥

नित्यनैमित्तिकोपेतज्ञानान्मुक्तिः क्रमाद्भवेत् ।
सम्यग्ज्ञानात्तु सा जीवन्मुक्तिर्नित्यैकसंयुतात् ॥ ७६ ॥

पूर्णज्ञानाद्विदेहाख्या शाश्वती मुक्तिरिष्यते ।
यथा नैष्कर्म्यसंसिद्धिर्जीवन्मुक्ते निरंकुशा ॥ ७७ ॥

अत्रैवं सति नैष्कर्म्यं ज्ञानकर्मसमुच्चयात् ।
सिध्येत्क्रमेण सद्यो वा नान्यथा कल्पकोटिभिः ॥ ७८ ॥

यावद्विदेहमुक्तिः सा न सिध्यति शरीरिणः ।
तावत्समुच्चयः सिद्धो ज्ञानोपासनकर्मणाम् ॥ ७९ ॥

तस्माद् ज्ञात्वा परात्मानं ध्याननिष्ठो महामतिः ।
भूयान्निजाश्रमाचारनिरतः श्रेयसे सदा ॥ ८० ॥

ज्ञानोपास्ती कर्मसापेक्षके ते
कर्मोपास्ती ज्ञानसापेक्षके च ।
कर्मज्ञाने चान्यसापेक्षके तन्-
मुक्त्यै प्रोक्तं साहचर्यं त्रयाणाम् ॥ ८१ ॥

ज्ञानोपास्ती स्वीयकर्मस्वपास्यापेकं
मुक्तिर्नैव कस्यापि सिध्येत् ।
तस्माद्धीमानाश्रयेदप्रमत्तस्त्री-
ण्युक्तानि श्रद्धयाऽऽदेहपातात् ॥ ८२ ॥

॥ इति सूर्यगीतायां प्रथमोऽध्यायः ॥

॥ अथ द्वितीयोऽध्यायः ॥

सूर्य उवाच –
अथातः सम्प्रवक्ष्यामि कर्मणां पंचभूमिकाः ।
उत्तरोत्तरमुत्कर्षाद्विद्धि सोपानपंक्तिवत् ॥ १ ॥

प्रथामा तांत्रिकी प्रोक्ता परा पौराणिकी मता ।
स्मार्ता तृतीया तुर्या तु श्रौता संकीर्तिता बुधैः ॥ २ ॥

पंचमी त्वौपनिषदा विबुधोत्तमसंमता ।
यस्याः परं न किंचित्स्याद्वाच्यं ज्ञेयं च सत्तम ॥ ३ ॥

स्वेच्छं कर्माणि कुर्वन्यः प्रमाणाश्रयणं विना ।
तन्त्रोक्तानि करोत्येष कर्मी प्राथमिको मतः ॥ ४ ॥

तानि तन्त्रोक्तकर्माणि त्यक्त्वा पौराणिकानि यः ।
करोति तन्त्रसम्बन्धीन्ययं कर्मी द्वितीयकः ॥ ५ ॥

त्यक्त्वा तान्यपि यः स्मार्तान्यनुतिष्ठति सर्वदा ।
श्रुतिसम्बन्धवन्त्येष तृतीयः कर्म्युदीर्यते ॥ ६ ॥

यश्च तान्यपि सन्त्यज्य श्रौतान्येवाचरत्ययम् ।
कर्मी धर्मार्थकामानां स्थानं तुर्योऽभिधीयते ॥ ७ ॥

श्रौतान्यपि च यस्त्यक्त्वा सदौपनिषदानि वै ।
करोति श्रद्धया कर्माण्ययं मोक्षी तु पंचमः ॥ ८ ॥

यान्यौपनिषदानां स्युरविरोधीनि कर्मणाम् ।
श्रौतादीनि सुसंग्राह्यान्यमलानि मुमुक्षुभिः ॥ ९ ॥

कर्माण्युपनिषत्सु स्युर्ब्रह्मैकार्थासु वै कथम् ।
इति शंक्यन्नकुर्वन् हि विधिरस्ति जिजीविषेत् ॥ १० ॥

ईशावास्यादिवेदान्तप्रोक्तान्यामरणादपि ।
कुर्वन्नेव विमुच्येत ब्रह्मवित्प्रवरोऽस्तु वा ॥ ११ ॥

यतयस्त्यक्तगार्हस्थ्या अपि स्वोचितकर्मभिः ।
आश्रमं पालयन्तः स्वं कैवल्यं प्राप्नुयुः परम् ॥ १२ ॥

कर्म प्रजाधनानां यस्त्यागः समभिधीयते ।
कामैकविषयत्वेन स यतेर्न विरुध्यते ॥ १३ ॥

संन्यासिनो हि कर्माणि नित्यानि विमलानि च ।
श्रेयोर्थानि विधीयन्ते परिव्राजेब्जजन्मना ॥ १४ ॥

अपेतकाम्यकर्माणो यतयोऽन्येऽपि वा जनाः ।
सद्यः क्रमेण वा मुक्तिमाप्नुयुर्नात्र संशयः ॥ १५ ॥

पंचमीं भूमिमारूढः ज्ञानोपासनकर्मभिः ।
शोकमोहादिनिर्मुक्तः सर्वदैव विराजते ॥ १६ ॥

See Also  Vritra Gita In Odia

न ज्ञानेन विनोपास्तिर्नोपास्त्या न विनेतरत् ।
कर्मापि तेन हेतुत्वं पूर्वपूर्वस्य कथ्यते ॥ १७ ॥

यद्वा यावन्न हि ज्ञानं तावन्नोपासनं मतम् ।
यावन्नोपासनं तावन्न ज्ञानं च कथंचन ॥ १८ ॥

ज्ञानं यावन्न कर्मापि न तावन्मुख्यमीर्यते ।
यावन्न कर्म तावच्च न ज्ञानं साधुसंमतम् ॥ १९ ॥

यावन्नोपासनं तावन्न कर्मापि प्रशस्यते ।
यावन्न कर्मोपास्तिश्च न तावत्सात्त्विकी मता ॥ २० ॥

ज्ञानोपासनकर्माणि सापेक्षाणि परस्परम् ।
प्रयच्छन्ति परां मुक्तिं नान्यथेत्युक्तमेव ते ॥ २१ ॥

एतेषु साधनेष्वेकं त्रिषु यत्किंचिदत्र यः ।
त्यजेदसद्गुरूक्त्या स नाश्नुवीत परामृतम् ॥ २२ ॥

नानाविधानि ज्ञानानि नानारूपा उपास्तयः ।
नानाविधानि कर्माणि श्रुत्यन्तादिषु संविदुः ॥ २३ ॥

सम्बन्धस्तु त्रयाणां स्यादुचितः शिष्टवर्त्मना ।
निपुणैश्च सुविज्ञेयमनुबन्धचतुष्टयम् ॥ २४ ॥

अनुबन्धविरोधेन त्रयाणां चेत्समुच्चयः ।
कृतः स सद्यः प्राप्नोति तृप्तिं मानवपुंगवः ॥ २५ ॥

अनुबन्धपरिज्ञानं विना मुक्त्यै प्रयत्नवान् ।
न मुक्तिं विन्दते कोऽपि साधकादिविपर्ययात् ॥ २६ ॥

भोगाधिकारी मोक्षं चेत्फलमिच्छेत्कदाचन ।
अनुबन्धस्य विज्ञानं कथं नु स्यात्समंजसम् ॥ २७ ॥

अधिकारानुगुण्येन सम्बन्धः परिकीर्तितः ।
तत्सम्बन्धानुगुण्येन विषयश्च प्रकीर्तितः ॥ २८ ॥

विषयानुगुणं प्रोक्तं प्रयोजनमतो बुधैः ।
अनुबन्धाः सुविज्ञेया ज्ञानोपासनकर्मसु ॥ २९ ॥

वर्णाश्रमाणां सर्वेषामनुष्ठेयेषु कर्मसु ।
अविद्वान् संशयात्मा चेदनुवर्तेत पूर्वकान् ॥ ३० ॥

विद्वान् चेत्संशयात्माभूच्छास्त्रे स्वमतिनिश्चितम् ।
आचरेत्तु न शिष्टस्यप्यबुधस्य पितुर्मतम् ॥ ३१ ॥

स्वकूटस्थबुधाचारः साधुसंविदितो यदि ।
विद्वानपि त्यजेत्स्वीयं तद्विरुद्धमसंमतम् ॥ ३२ ॥

पूर्वाचारानुसरणं कर्ममात्रे नियम्यते ।
ज्ञानोपास्त्योस्त्वबाह्यत्वादन्यथाऽपि च युज्यते ॥ ३३ ॥

पूर्वकेष्वपि सांख्येषु स्वस्य युज्येत योगिता ।
अन्यथाऽपि च नैतेन प्रत्यवायः कियानपि ॥ ३४ ॥

यदि पूर्वविरोधेन कुर्यात्कर्माणि मानवः ।
स मूर्खो भवति क्षिप्रं प्रत्यवायी न संशयः ॥ ३५ ॥

नैमित्तिकानामकृतौ काम्यानां च न कश्चन ।
प्रत्यवायोऽत्र वाऽमुत्र लोके भवितुमर्हति ॥ ३६ ॥

नित्यानां त्वकृतावत्रामुत्र वा प्रत्यवायभाक् ।
भवेदवश्यकार्यत्वादाश्रमच्युतिहेतवे ॥ ३७ ॥

न स्यादकरणं हेतुरभावात्मतया ततः ।
नित्याकरणहेतुः प्राक्कर्म चेत्प्रत्यवायकृत् ॥ ३८ ॥

अकृतौ प्रत्यवायस्य श्रवणं व्यर्थमेव तत् ।
पूर्वकर्मफलादन्यफलस्यानवधारणात् ॥ ३९ ॥

अतो नाभावता युक्ता नित्यकर्माकृतेर्यथा ।
निषिद्धाचरणं भावस्तथैवाकरणं मतम् ॥ ४० ॥

विहिताकरणस्यापि भावात्मत्वोररीकृतेः ।
आस्तिकत्वमिह प्राहुरन्यथा नास्तिकत्वतः ॥ ४१ ॥

पूर्वकर्मफलस्यापि नित्याकरणकर्मणः ।
पापस्य दुःखहेतुत्वं पृथगेवाववधार्यते ॥ ४२ ॥

अज्ञानाद्विहिते लुप्ते ज्ञानाद्वा कर्मणि स्वके ।
प्रायश्चित्ती भवेन्मर्त्यो लभेद्दुर्जन्म वा पुनः ॥ ४३ ॥

बुद्धिपूर्वं त्यजन्नित्यमनुतापविवर्जितः ।
अनाश्रमी नरो घोरं रौरवं नरकं व्रजेत् ॥ ४४ ॥

जीवन्मुक्तस्य नित्येषु यदि लुप्तानि कानिचित् ।
न तेन प्रत्यवायोऽस्ति कैश्चित्स्वाश्रमसिद्धितः ॥ ४५ ॥

प्रायश्चित्तनिवर्त्यानि निषिद्धाचरणानि च ।
प्रायश्चित्तमकुर्वन्तमपि लिम्पन्ति नैव तम् ॥ ४६ ॥

कर्म शुद्धमशुद्धं च द्विविधं प्रोच्यते श्रुतौ ।
तत्राशुद्धेन बन्धः स्यान्मोक्षः शुद्धेन देहिनाम् ॥ ४७ ॥

अशुद्धं च तथा प्रोक्तं पुण्यं पापमिति द्विधा ।
परस्परं न बाधोऽस्ति तयोरत्राविरोधतः ॥ ४८ ॥

सुखदुःखे समस्तस्य जन्तोर्याभ्यां प्रसिध्यतः ।
तयोर्न वशमागच्छेच्छुद्धमात्रेण संस्थितः ॥ ४९ ॥

शुद्धं नित्यमनन्तं यत्सत्यं कर्म निगद्यते ।
नित्यशुद्धविमुक्तात्मसाक्षात्कारार्थकं विदुः ॥ ५० ॥

विशुद्धैः कर्मभिः शुद्धानीन्द्रियाणि भवन्त्यलम् ।
इन्द्रियेषु विशुद्धेषु मनः शुद्धं स्वतो भवेत् ॥ ५१ ॥

शुद्धे मनसि जीवोऽपि विशुद्धो ब्रह्मणैकताम् ।
उपेत्य केवलानन्दं निष्कलं परमश्नुते ॥ ५२ ॥

बाह्यमाभ्यन्तरं चेति शुद्धं कर्म द्विधोच्यते ।
बाह्यं स्नानादि नित्यं स्याद्ध्यानाद्याभ्यन्तरं परम् ॥ ५३ ॥

अतः शुद्धेरशुद्धानां नाशो भवितुमर्हति ।
न शुद्धव्यतिरेकेण प्रयत्नान्तरमिष्यते ॥ ५४ ॥

विशुद्धकर्मनिष्ठास्ते यतयोऽन्येऽपि वा जनाः ।
अत्रैव परिमुच्यन्ते स्वातन्त्र्येण परामृतात् ॥ ५५ ॥

आरूढः पंचमीं भूमिं शुद्धेनैवावतिष्ठते ।
अतोऽत्र मतिमान्नित्यं पंचम्यभ्यासमाचरेत् ॥ ५६ ॥

इन्द्रियाणि विशुद्धान्यप्यशुद्धानां विवर्जनात् ।
शुद्धानामप्यनुष्ठानाद्धीमांस्तानि न विश्वसेत् ॥ ५७ ॥

अशुद्धेषु प्रवर्तेरन् पूर्ववासनया स्वतः ।
तेभ्यो नियम्य शुद्धेषु नित्यं तानि प्रवर्तयेत् ॥ ५८ ॥

इन्द्रियाणां च मनसः प्रसादं शुद्धकर्मभिः ।
उपलभ्यापि दुर्बुद्धिरशुद्धेह प्रवर्तते ॥ ५९ ॥

प्रसन्नमनसः स्वास्थ्यात्सुखं किंचित्प्रजायते ।
तावन्मात्रेण तृप्तस्तु क्रमेणाधः पतेन्नरः ॥ ६० ॥

तृप्तिरल्पसुखप्राप्तौ महानर्थैककारणम् ।
अतस्तृप्तिमनाप्यैव शुद्धं नित्यं समाचरेत् ॥ ६१ ॥

यथा विषयभोगेषु विना तृप्तिं पुनः पुनः ।
प्रवर्तते तथा नित्यं यः शुद्धेषु स बुद्धिमान् ॥ ६२ ॥

शुद्धं शुद्धेन वर्धेत शुद्धः शुद्धं ततो व्रजेत् ।
अशुद्धमप्यशुद्धेनाशुद्धोऽशुद्धं तथा नरः ॥ ६३ ॥

यदेन्द्रियमनःप्राणाः शान्ताः सुप्ताविवाभवन् ।
शुद्धाशुद्धोभयातीतस्तदा तृप्तिं परां व्रजेत् ॥ ६४ ॥

यावन्नेन्द्रियसंशान्तिर्यावन्न मनसोऽप्ययः ।
यावन्न प्राणशान्तिश्च तावच्छुद्धं समाचरेत् ॥ ६५ ॥

परस्परोपयोगित्वाद्बाह्याभ्यन्तरशुद्धयोः ।
वियोगो नैव कार्योऽत्र बुधैरादेहमोचनात् ॥ ६६ ॥

यः शुद्धपक्षो हंसः स ऊर्ध्वं गच्छति चाम्बरे ।
अशुद्धपक्षः श्येनस्तु व्योमगोऽपि पतत्यधः ॥ ६७ ॥

छिन्नैकपक्षो हंसोऽपि नोर्ध्वं गन्तुमितोऽर्हति ।
अतः शुद्धद्वयं मुख्यं साधनं मुक्तये विदुः ॥ ६८ ॥

यद्यप्याभ्यन्तरं शुद्धं बाह्यशुद्धनिवर्तकम् ।
भवत्येतेन साम्यं न तयोरिति च केचन ॥ ६९ ॥

तथाऽपि बाह्यविलयसमकाललयात्परम् ।
आभ्यन्तरं समं तेन बाह्येन स्यात्स्वकर्मणा ॥ ७० ॥

आभ्यन्तरं च तच्छुद्धं कर्म द्विविधमुच्यते ।
सम्प्रज्ञातसमाध्याख्यमसम्प्रज्ञातनाम च ॥ ७१ ॥

जीवन्मुक्तेः पुरावृत्तमाद्यं कर्म स्वमानसम् ।
पुरा विदेहमुक्तेस्तु वृतमन्यत्स्वमानसम् ॥ ७२ ॥

मानसत्वात्समाधेश्च कर्मत्वोक्तिर्न दूष्यते ।
अनन्यविषयत्वाच्च तत्फलं नैव नश्वरम् ॥ ७३ ॥

अन्तःशुद्धिर्बहिःशुद्धिं यथा नॄणामपेक्षते ।
बहिःशुद्धिस्तथैवान्तःशुद्धिं च नियमेन हि ॥ ७४ ॥

यस्य कर्मसु शुद्धेष्वप्यौदासीन्यं विजायते ।
तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥ ७५ ॥

विरोधो जायते यस्य ज्ञानकर्मसमुच्चये ।
तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥ ७६ ॥

यः श्रौतं कर्म हित्वान्यत्तान्त्रिकं समुपाश्रयेत् ।
तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥ ७७ ॥

यश्चान्तरं च तत्कर्म मन्यते मन्दगोचरम् ।
तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥ ७८ ॥

अशुद्धकर्मनिष्ठः सन् शुद्धं निन्दति यः सदा ।
तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥ ७९ ॥

शुद्धं पश्यति यः शान्तमक्षिरोगीव भास्करम् ।
तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता ॥ ८० ॥

विशुद्धवंशप्रभवं महामतिं
विशुद्धबाह्यान्तरकर्मभास्वरम् ।
विशुद्धवेदान्तरहस्यवेदिनं
विद्वेष्टि यः संकर एव नेतरः ॥ ८१ ॥

अशुद्धवंशप्रभवं सुदुर्मतिं
स्वशुद्धकर्मद्वयनष्टतेजसम् ।
अशुद्धतन्त्रार्थविदं नराधमं
यः श्लाघते संकर एव नेतरः ॥ ८२ ॥

इति सूर्यगीतायां द्वितीयोऽध्यायः ॥

॥ अथ तृतीयोऽध्यायः ॥

अथातः सम्प्रवक्ष्यामि ममान्तर्यामिणं शिवम् ।
यः सर्वकर्मणां साक्षी निर्लेपः प्रभुरीश्वरः ॥ १ ॥

त्रिनेत्रं नीलकण्ठं यं साम्बं मृत्युंजयं हरम् ।
ध्यात्वा संसृतिमोक्षः स्यात्तं नमामि महेश्वरम् ॥ २ ॥

सर्वेषां कर्मणामेकः फलदाता य उच्यते ।
स एव मृड ईशानः सर्वज्ञः सर्वशक्तिमान् ॥ ३ ॥

यस्य स्मरणमात्रेण निवर्तन्तेऽखिलापदः ।
सम्पदश्चेह लभ्यन्ते सोऽन्तर्यामी शिवो हरः ॥ ४ ॥

येनैव सृष्टमखिलं जगदेतच्चराचरम् ।
यस्मिंस्तिष्ठति नश्यत्यप्येष एको महेश्वरः ॥ ५ ॥

यं नमन्ति सुराः सर्वे स्वस्वाभीष्टप्रसिद्धये ।
स्वातन्त्र्यं यस्य सर्वत्र सोऽन्तर्यामि महेश्वरः ॥ ६ ॥

उमार्धविग्रहः शम्भुः त्रिनेत्रः शशिशेखरः ।
गंगाधरो महादेवः सोऽन्तर्यामि दयानिधिः ॥ ७ ॥

श्रुतिस्मृतिपुराणेषु यस्यैवाधिक्यमिष्यते ।
यस्याधिक्यस्मृतेर्मुक्तिः सोऽन्तर्यामी पुरातनः ॥ ८ ॥

यन्नामजपमात्रेण पुरुषः पूज्यते सुरैः ।
यमाहुः सर्वदेवेशं सोऽन्तर्यामी गुरूत्तमः ॥ ९ ॥

यदाख्यामृतपानेन संतृप्ता मुनयोऽखिलाः ।
न वाञ्छन्ति महाभोगान् सोऽन्तर्यामी जगत्पतिः ॥ १० ॥

अरुण उवाच –
सद्गुरो भास्कर श्रीमन् सर्वतत्त्वार्थकोविद ।
श्रुतिस्मृतिपुराणेषु ह्यन्तर्याम्यन्यथा श्रुतः ॥ ११ ॥

सत्यं ज्ञानमनन्तं यत्प्रसिद्धं ब्रह्म निष्कलम् ।
निर्गुणं निष्क्रियं शान्तं केवलं सर्वगं परम् ॥ १२ ॥

तदेव सर्वान्तर्यामी श्रुतं सर्वान्तरत्वतः ।
वरेण्यं सवितुस्ते च गायत्र्यां तद्धि कथ्यते ॥ १३ ॥

अशरीरस्य तस्यैव ह्यादिमध्यान्तवर्जनात् ।
आकाशवद्विभूतेन सर्वान्तर्यामितोचिता ॥ १४ ॥

शिवस्य सशरीरस्य साम्बस्य सगुणस्य तु ।
अविभुत्वेन सा नैव युज्यते भास्कर प्रभो ॥ १५ ॥

सगुणैकप्रधानैश्च विशिष्टाद्वैतवादिभिः ।
कैश्चिद्ब्रह्महरीशानामन्तर्यामित्वमुच्यते ॥ १६ ॥

सर्वज्ञत्वादिधर्माणां समत्वं च त्रिमूर्तिषु ।
मत्वैवोपासते विप्राः ते गायत्रीपरायणाः ॥ १७ ॥

केचिद् द्रुहिण एव स्यादन्तर्यामी वाक्पतिः ।
नान्यौ हरिहरौ कर्मप्रसिद्धेरिति वै विदुः ॥ १८ ॥

केचित्तु विष्णुरेव स्यादन्तर्यामी रमापतिः ।
न विधीशौ परोपास्तिप्रसिद्धेरिति वै विदुः ॥ १९ ॥

केचिच्च शिव एकः स्यादन्तर्यामी ह्युमापतिः ।
नान्यौ ब्रह्महरी ज्ञानप्रसिद्धेरिति संविदुः ॥ २० ॥

त्वदुक्तरीत्या त्वाधिक्यं ज्ञानोपासनकर्मसु ।
कर्मणोऽवगतं तेन विधेरेव प्रसिध्यति ॥ २१ ॥

एष पक्षः समीचीनस्तव नैव भविष्यति ।
तस्मादनिश्चितार्थं मां कुरुष्वासंशयं प्रभो ॥ २२ ॥

सूर्य उवाच –
सम्यक्पृष्टं त्वया धीमन्नरुण श‍ृणु सादरम् ।
वक्ष्यामि निश्चितार्थं ते श्रुतिस्मृत्यादिभिः स्फुटम् ॥ २३ ॥

अन्तर्यामी द्विधा प्रोक्तः सगुणो निर्गुणोऽपि च ।
चरस्य केवलं त्वाद्यश्चरस्यान्योऽचरस्य च ॥ २४ ॥

अहं हि चर एवास्मि मदन्तर्यामिणावुभौ ।
गायत्र्यां चावगन्तव्यौ देवौ सगुणनिर्गुणौ ॥ २५ ॥

निर्गुणश्चावगन्तव्यः सगुणद्वारतोऽखिलैः ।
अतोऽब्रुवं शिवं साक्षान्मदन्तर्यामिणं तव ॥ २६ ॥

कारणत्वं यथा सिद्धं ब्रह्मणः परमात्मनः ।
यथा शिवस्य साम्बस्य कार्यत्वं च सतां मतम् ॥ २७ ॥

तथा शिवस्य हेतुत्वं विष्णोः कार्यत्वमप्यथ ।
विष्णोश्च हेतुतां तद्वद्विधेर्विद्धि च कार्यताम् ॥ २८ ॥

ब्रह्मा विष्णुः शिवो ब्रह्म ह्युत्तरोत्तरहेतवः ।
इति जानन्ति विद्वांसो नेतरे मायया वृताः ॥ २९ ॥

विशिष्टाद्वैतिनो वाऽन्ये सगुणैकाभिमानिनः ।
अशरीरानभिज्ञत्वान्मायापरवशा ध्रुवम् ॥ ३० ॥

सर्वज्ञत्वादिधर्माणां कथं साम्यं त्रिमूर्तिषु ।
त्रयाणां च गुणानां हि वैषम्यं सर्वसंमतम् ॥ ३१ ॥

गुणत्रयवशात्तेषां वैषम्यं विद्धि सुस्थितम् ।
ब्रह्मा हि राजसः प्रोक्तो विष्णुस्तामस उच्यते ॥ ३२ ॥

See Also  Essence Of Bhagavad Gita By Sri Yamunacharya In Tamil

रुद्रः स सात्त्विकः प्रोक्तः मूर्तिवर्णैश्च तादृशाः ।
चित्स्वरूपानुभूत्या च तारतम्यं निगद्यते ॥ ३३ ॥

निर्विशेषपरब्रह्मानन्यत्वेन तु ते समाः ।
तथाऽपि शिवशब्दस्य परब्रह्मात्मकत्वतः ॥ ३४ ॥

साक्षिणा निर्विकारेण चिन्मात्रेण महात्मना ।
सदाशिवेन नित्येन केवलेन समो न हि ॥ ३५ ॥

साम्बस्य चन्द्रचूडस्य नीलकण्ठस्य शूलिनः ।
उत्कर्षोऽस्ति स्वतःसिद्धः किं मया प्रतिपाद्यते ॥ ३६ ॥

आदौ मां जनयामास ब्रह्मा साक्षाच्चतुर्मुखः ।
यथा तथा विरिंचिं तं श्रीमान्नारायणो हरिः ॥ ३७ ॥

यतोऽभवन्महाविष्णुर्ममारुण पितामहः ।
ततो मे सुप्रसिद्धभूत्सूर्यनारायण अभ्धा ॥ ३८ ॥

नैतेन सकलेशस्य प्रपितामहतावशात् ।
सर्वोत्कृष्टत्वसंसिद्ध्या लुप्यते ह्यान्तरात्मना ॥ ३९
अथ वा योगवृत्या स्याच्छिवो नारायणाभिधः ।
तद्दृष्टिर्मयि कर्तव्योपासकरिति सन्मतम् ॥ ४० ॥

कर्मोपासनबोधेषु ब्रह्मविष्णुशिवाः क्रमात् ।
प्रसिद्धा इति संत्यज्य धियं श‍ृणु वचो मम ॥ ४१ ॥

त्रिषु त्रयः प्रसिद्धाः स्युस्तारतम्येन चारुण ।
काम्यकर्मप्रधानोऽस्ति स्वयंभूश्चतुराननः ॥ ४२ ॥

नैमित्तिकप्रधानस्तु विष्णुः कमललोचनः ।
नित्यकर्मप्रधानः स शिवः साक्षात्त्रिलोचनः ॥ ४३ ॥

मूर्त्युपास्तौ विधिमुख्यस्त्वंशोपास्तौ हरिर्मतः ।
निरंशोपासने मुख्यो नीलकण्ठो हरो मतः ॥ ४४ ॥

ज्ञाने श्रवणजे ब्रह्मा विज्ञाने मननोदिते ।
विष्णुः स सम्यग्ज्ञाने तु निदिध्यासनजे शिवः ॥ ४५ ॥

अत्रैवं सति कस्याभूदाधिक्यमरुणाधुना ।
त्वमेव सम्यगालोच्य विनिश्चिनु महामते ॥ ४६ ॥

पुरा कश्चिन्महाधीरः शिवभक्ताग्रणीर्द्विजः ।
शिवाख्याजपसंसक्तश्चचार भुवि निस्पृहः ॥ ४७ ॥

स्वाश्रमाचारनिरतो भस्मरुद्राक्षभूषणः ।
सर्वशास्त्रार्थतत्त्वज्ञः कामक्रोधादिवर्जितः ॥ ४८ ॥

शमादिषट्कसम्पन्नः शिवभक्तजनादरः ।
शिवस्य वैभवं स्मृत्वा श्रुतिस्मृतिपुराणगम् ॥ ४९ ॥

सर्वेश्वरस्य साम्बस्य त्रिनेत्रस्य दयानिधेः ।
सदाशिवस्य माहात्म्यं स्वत एवेदमब्रवीत् ॥ ५० ॥

पश्वादिभ्यो वरिष्ठाः क्षितिगतमनुजास्तेभ्य एवेन्द्रमुख्यः
देवास्तेभ्यो विधाता हरिरपि च ततः शङ्करो यस्त्रिनेत्रः ।
नान्योऽस्माच्छंकरात्तु श्रुतिषु निगदितो वा वरिष्ठः समो वा
सर्वान्विष्ण्वादिकांस्तं न हि वयमधुना नूनमेवाश्रयामः ॥ ५१ ॥

मूलाधारे गणेशस्तदुपरि तु विधिर्विष्णुरस्मात्ततोऽयं
रुद्रस्थाने चतुर्थे श्रुतिरपि च तथा प्राह शान्तं चतुर्थम् ।
अस्मादन्यः शिवोऽस्ति त्रिपुरहर इतो वा सदाद्यः शिवोऽस्ति
स्वस्थोऽयं द्वादशान्तप्रबलनटनकृच्चापि साक्षात्सभेशः ॥ ५२ ॥

रौद्री शक्तिस्तथा स्यादयमपि च हरिः शाक्त एवं विरिंचो
मन्तव्यो वैष्णवोऽमी सनकमुखमहाब्राह्मणा ब्राह्मणाश्च ।
तस्मादेवं विभक्ते न हि भवति हरेरंशितांशांशिभावे
साक्षादप्यत्र नित्यं परमशिवमहं चांशिनं तं नमामि ॥ ५३ ॥

शम्भोरन्यन्न पश्याम्यहमिह परमे व्योम्नि सोमाच्छ्रुतौ वा
यस्यैवैतेन भासा जगदखिलमिदं भासते चैत्यरूपम् ।
यच्छीर्षाङ्घ्री दिदृक्षु द्रुहिणमुररिपु सर्वशक्त्याप्य दृष्ट्वा
खेदन्तौ जग्मतुस्तं परमशिवममुं त्वां विना कं नु वन्दे ॥ ५४ ॥

यं विष्णुर्नावपश्यत्यखिलजनभयध्वंसकं काशिकायां
लिंगं चोपास्त इत्यप्यधिकभसितरुद्राक्षसंभूषितः सन् ।
जाबालेये बृहत्यप्यथ हरिजनिता श्रूयते सोम एकः
पायाच्छ्रुत्यन्तसिद्धो जनिमृतिभयभृत्संसृतेस्तारको माम् ॥ ५५ ॥

मध्ये को वाऽधिकः स्याद्द्रुहिण हरिहराणामिति प्रश्नपूर्वं
ब्रह्मादौ पैप्पलादं खलु वदति महान्रुद्र एवाधिकः स्यात् ।
इत्युक्त्वा शारभाख्ये श्रुतिशिरसि नमश्चास्तु रुद्राय तस्मै
स्तुत्वैवं ध्येयमाह त्रिपुरहरमुमाकांतमेकं भजेऽहम् ॥ ५६ ॥

ध्याता रुद्रो रमेशो हरिरपि तु तथा ध्यानमेकः शिवस्तु
ध्येयोऽथर्वश्रुतेः सा निखिलरसवती या समाप्ता शिखाभूत् ।
ध्येयश्चिन्मात्र एकः परमशिव इतो वा चिदंदशत्व-
मस्य ध्यातुः स्यान्न त्वमुष्य प्रकृतिभवमनोवृत्तिरूपस्य विष्णोः ॥ ५७ ॥

एको रुद्रो महेशः शिव इति च महादेव एवैष सर्व
व्यापी यः श्रूयतेऽस्मिंच्छ्रुतिशिरसि तथाथर्वशीर्षाभिधे च ।
देवाः सर्वे यदन्तस्थितिजुष इह ते विष्णुपूर्वास्ततोन्यः
को वाऽस्याद्व्यापकोऽस्मान्निरतिशयचिदाकाशरूपान्महेशात् ॥ ५८ ॥

नाभौ ब्रह्माणमुक्त्वा हरिमपि हृदये रुद्रमेनं भ्रुवोस्त-
न्मध्ये श्रुत्यन्त एवं प्रणवविवरणे नारसिंहाभिधे च ।
विज्ञेयः सोऽयमात्मा शिव इति च चतुर्थोऽद्वितीयः
प्रशान्तश्चेत्याहान्ते प्रजेशस्त्रिदशपरिपदस्तत्स ईशः प्रपूज्यः ॥ ५९ ॥

कैवल्यं प्राप्नुयात्कः पुरुष इह शिवं केवलं त्वां विहाय
स्वामिन्नीशं तथान्यं जगति सदसतोरत्र विष्णोर्विधेर्वा ।
चिन्मात्रः प्रत्यगात्मा त्वमसि खलु सदा पूर्व एकः शिवोऽत-
स्त्वामेवैकं भजेऽहं सततमपि जगत्साक्षिणं निर्विशेषम् ॥ ६० ॥

सूर्य उवाच –
एवं शिवस्य माहात्म्ये सर्वश्रुत्यन्तनिश्चिते ।
उद्भवेत्संशयः कस्य को मुच्येत संशयात् ॥ ६१ ॥

अतोरुण महाप्राज्ञ मुख्यान्तर्यामिणं मम ।
त्रिनेत्रं भज कैवल्यसंसिध्यै परमेश्वरम् ॥ ६२ ॥

॥ इति सूर्यगीतायां तृतीयोऽध्यायः ॥

॥ अथ चतुर्थोऽध्यायः ॥

सूर्य उवाच –
अथातः सम्प्रवक्ष्यामि तस्यान्तर्यामिणो गुरोः ।
जगत्सृष्ट्यादिकर्माणि लीलारूपाणि सुव्रत ॥ १ ॥

आदौ जगत्ससर्जेदं पंचीकरणकर्मणा ।
यः स ईशो महामायः सर्वज्ञः सर्वशक्तिमान् ॥ २ ॥

चतुर्विधेषु भूतेषु निजमायावशीकृतान् ।
जीवान् प्रवेशयित्वाननुप्रविवेश स्वयं वशी ॥ ३ ॥

लीलारूपमपीदं च कर्म तस्य महेशितुः ।
प्रारब्धकर्मजं ज्ञेयमाधिकारिकतावशात् ॥ ४ ॥

स ह्यादिकारिकः श्रेष्ठः पूर्वं जीवत्वमागतः ।
समुच्चयादभूदीशो ज्ञानोपासनकर्मणाम् ॥ ५ ॥

प्राक्कल्पाधिकृतो देवः स्वारब्धक्षपणात्स्वयम् ।
अपहाय निजां मायां प्राप्तवान् परमं पदम् ॥ ६ ॥

अथ तामाश्रितो जीवः कल्पादौ पूर्ववत्क्रमात् ।
सृष्ट्वा सर्वाधिकारी सन् जगत्पाति च हन्ति च ॥ ७ ॥

क्रियमाणतया तेन नियमेनैव कर्मणाम् ।
त्रयाणां तस्य कर्मित्वमीशस्याप्युपपद्यते ॥ ८ ॥

जीवन्मुक्तसमानत्वं यतस्तस्यावगम्यते ।
अतः प्रारब्धकर्मित्वं अवश्यं तस्य सिध्यति ॥ ९ ॥

ब्रह्मवित्त्वं हि तस्य स्यान्न तु ब्रह्मत्वमीशितुः ।
सृष्ट्यादिकर्मकर्तृत्वदर्शनान्माययाऽपि वा ॥ १० ॥

जीवसृष्ट्यादिकर्तृत्वं ब्रह्मणोऽपि वर्तते ।
तथापि पूर्वकर्मित्वं तस्य न श्रूयते क्वचित् ॥ ११ ॥

कर्मणः प्रागभावत्वाद्भावत्वाद्ब्रह्मणो विभोः ।
पूर्वकर्मवतो हि स्यात्कर्म प्रारब्धसंज्ञितम् ॥ १२ ॥

सृष्ट्यादिकर्मबद्धत्वे तस्य मायावशत्वतः ।
वश्यमायत्ववचनं व्यर्थमेवेति चेन्न च ॥ १३ ॥

स्वाधिकारावसने हि कैवल्यं नोपरुध्यते ।
अतस्तस्य प्रसिद्धं तद्वश्यमायत्वमर्थवत् ॥ १४ ॥

स्थितौ तु तस्य मायित्वं कामित्वादिवदिष्यते ।
न धनित्वादिवत्कर्म पारवश्यान्निरन्तरम् ॥ १५ ॥

जाग्रद्वत्सृष्टिकर्म स्यात्स्वप्नवत्स्थितिकर्म च ।
जगत्प्रलयकर्म स्यात् सुप्तिवत्तस्य मायिनः ॥ १६ ॥

अवस्थात्रयवत्त्वेन कर्मत्रितयवत्तया ।
शरीरत्रयवत्त्वेन जीवः सोऽपीति केचन ॥ १७ ॥

तदयुक्तं पुरा जीवोऽप्यद्य ब्रह्मात्मवित्तया ।
सर्वज्ञत्वादिसम्पत्त्या स हि जीवविलक्षणः ॥ १८ ॥

जीवन्मुक्तसमानत्वान्न कर्मत्रयमीशितुः ।
प्रारब्धमात्रबद्धत्वादधिकारवशादिह ॥ १९ ॥

अधिकारावसाने तद्ब्रह्मत्वं सम्भविष्यति ।
इति वेदान्तसिद्धेऽर्थे व्यभिचारः कुतो भवेत् ॥ २० ॥

ब्रह्मैवैकमकर्मोक्तं श्रुतिभिः स्मृतिभिश्च तत् ।
ईशस्य कर्मतोक्तिस्तु श्रूयते ह्यौपचारिकी ॥ २१ ॥

स कर्मत्वेऽपि तस्य स्यात्कर्ममोचकतेशितुः ।
संचितागामिहीनत्वात्सर्वज्ञत्वाच्च सत्तम ॥ २२ ॥

ईश्वरब्रह्मणोर्भेदं सकर्माऽकर्मतादिभिः ।
सुप्रसिद्धमपह्नोतुं कः समर्थोऽस्ति मानतः ॥ २३ ॥

ईश्वरस्याप्यकर्मत्वं यदि ब्रूयान्निरंकुशम् ।
स द्वैती न कदाप्यस्मात्संसारान्मुक्तिमाप्नुयात् ॥ २४ ॥

यतस्तत्पदवाच्योऽर्थः स हेय इति कथ्यते ।
अतस्तस्य न नित्यत्वं नाकर्मत्वं च युज्यते ॥ २५ ॥

अनध्यस्तात्मभावेन न देहेनैव कश्चन ।
व्याप्रीयेत ततश्च स्याद्देहीशो ध्यानसंयुतः ॥ २६ ॥

स्वदेहेऽपीश्वरस्यास्ति नाध्यासः पारमार्थिकः ।
प्रातिभासिकमाश्रित्य स्रष्टृत्वादि निगद्यते ॥ २७ ॥

देहाध्यासस्य सत्यस्य न कदाप्यस्ति संगतिः ।
प्रागीशदेहाभावेन देहाभावेन चाऽप्यये ॥ २८ ॥

जगत्प्रलयकाले स निर्व्यापारोऽपि सुप्तवत् ।
अध्यासबीजवत्त्वेन पुनः सृष्टौ प्रवर्तते ॥ २९ ॥

चतुर्युगसहस्रान्ते विधातुर्हि निशोच्यते ।
तदा सुप्तस्य तस्यापि जीवस्येव सबीजता ॥ ३० ॥

तथा विष्णोर्युगाः प्रोक्तास्तस्माच्छतगुणाधिकाः ।
तथा शिवस्य तस्माच्च विष्णोः शतगुणाधिकाः ॥ ३१ ॥

एवं कालैरवच्छिन्नांस्तारतम्येन जीववत् ।
ईश्वरांस्तान् कथं ब्रूयां देहकर्मादिवर्जितान् ॥ ३२ ॥

व्यष्टिदेहत्रयं स्वीयं मत्वा जीवत्रयं यथा ।
पारमार्थिकसंसारनिबद्धं कर्मितामगात् ॥ ३३ ॥

समष्टिदेहत्रितयं तथा मत्वेश्वरत्रयम् ।
प्रातिभासिकसंसारनिबद्धं कर्मितामगात् ॥ ३४ ॥

शुद्धसत्त्वप्रधानायां मायायां प्रतिबिम्बितः ।
ईश इत्युच्यते तस्य निरुपाधिकता कथम् ॥ ३५ ॥

औपाधिकस्य नित्यत्वं कथं वाच्यं मनीषिभिः ।
अनित्यस्य च नैष्कर्म्यं कथं भवितुमर्हति ॥ ३६ ॥

ब्रह्मण्यारोपितो भ्रान्तैरीशाख्यः सर्वसृष्टिकृत् ।
आत्मयोगिभिरभ्रान्तैः स भवत्यवरोपितः ॥ ३७ ॥

अविद्यातिमिरान्धस्य स्थाणौ चोरवदीश्वरः ।
प्रतिभाति परब्रह्मण्यमले स्वात्मरूपिणि ॥ ३८ ॥

सद्यो मुमुक्षुदृष्ट्या हि नेश्वरस्यास्ति सत्यता ।
अतो विवर्तवादोऽयं सुतरामुपयुज्यते ॥ ३९ ॥

परिणामेऽप्यनित्यत्वसंसिद्धेरीश्वरस्य च ।
अद्वैतब्रह्मनिष्ठत्वं श्रोतुर्जीवस्य सम्भवेत् ॥ ४० ॥

अधिकारिविभेदेन वादास्ते मतात्रयः ।
तत्रोत्तमाधिकारी स्याच्छृण्वन्नीशे विवर्तताम् ॥ ४१ ॥

जीवे तु परिणामित्वं श‍ृण्वन्नेवोत्तमोत्तमः ।
कीटवद्भृङ्गरूपेण परिणामे विमोक्षतः ॥ ४२ ॥

जीवस्येश्वरताऽवाप्तौ क्रममुक्तिर्हि सिध्यति ।
अतोऽस्य सद्यो मुक्त्यर्थं ब्रह्मतावाप्तिरीर्यते ॥ ४३ ॥

तुरीयः पंचमो वाऽऽस्तामीश्वरः षष्ठ एव वा ।
तस्मादतीतं ब्रह्मेति सिद्धान्ते कोऽनुसंशयः ॥ ४४ ॥

ईश्वरे तिष्ठति ब्रह्म ब्रह्मणीशश्च तिष्ठति ।
अत एकत्वमेव स्याद्द्वयोरिति न तर्क्यताम् ॥ ४५ ॥

ब्रह्मण्येवेश्वरः प्रोक्तो न तु ब्रह्मेश्वरे क्वचित् ।
विभोरविभुसंस्थत्वासंभवात्परमात्मनः ॥ ४६ ॥

ब्रह्मक्षत्रमुभे यस्य श्रुत्या भवत ओदनः ।
यस्योपसेचनं मृत्युः स यत्र ब्रह्मणीर्यते ॥ ४७ ॥

तदेतादृशमित्यत्र को वेदेदन्तयाव्ययम् ।
अखण्डं निर्गुणं ब्रह्म निराधारं परं महत् ॥ ४८ ॥

परब्रह्मांशभूतोऽपि परमः पुरुषोत्तमः ।
ईश्वरादधिकः प्रोक्तः किं पुनर्ब्रह्म केवलम् ॥ ४९ ॥

कारणं जगतामीशो जीवानां ब्रह्म कारणम् ।
एवं सतीशब्रह्मैक्यं व्यवहारे कथं भवेत् ॥ ५० ॥

ईशस्य कर्मितायां हि पुण्यं पापं च संभवेत् ।
सुखं दुःखं च तेनैव जीवत्वमिति चेच्छृणु ॥ ५१ ॥

ईशः प्रवर्तते पुण्यपापयोर्लोकसंग्रहात् ।
तथाऽपि सुखदुःखे स्तो नैवात्मज्ञानवत्तया ॥ ५२ ॥

भ्रूणहत्यादिपापानि ह्यकरोद्विष्णुरीदृशः ।
न तैर्दुःखमभूत्तस्य सम्प्राप्तं पारमार्थिकम् ॥ ५३ ॥

लोकक्षेमार्थकत्वेन तत्कृताघस्य निन्द्यता ।
न वाच्या न च तेनास्ति जीवत्वं तस्य सर्वथा ॥ ५४ ॥

ऋगादिवेदकर्ताऽपि स यथोक्तं समाचरेत् ।
अन्यथा सम्प्रसज्येत ह्यप्रामाणिकतेशितुः ॥ ५५ ॥

संसिद्धे शास्त्रकर्तृत्वे न कारयितृता वचः ।
व्यर्थमेवेति चेन्नैष दोष एव विचारणे ॥ ५६ ॥

जीवस्य कर्तृतायां हि स्यात्कारयितृतेशितुः ।
शास्त्रस्य कर्मतायां तु महेशस्यास्ति कर्तृता ॥ ५७ ॥

नैतेन शास्त्रयोनित्वं निर्गुणस्यैव हीयते ।
निर्गुणोद्भूतशास्त्रस्य सगुणाद्व्यक्तिदर्शनात् ॥ ५८ ॥

उपचर्यत ईशस्य गुणिनः शास्त्रयोनिता ।
यद्वाऽस्तामुभयोर्वेदवेदान्ताभ्यां च बीजता ॥ ५९ ॥

न चैतेनास्ति कर्मित्वसाम्यं ब्रह्मेशयोस्तयोः ।
कर्तुश्च कृतकर्तुश्च भेदोऽस्ति स्पष्ट एव हि ॥ ६० ॥

See Also  Vibhishana Gita From Adhyatma Ramayana In Kannada

कर्तृत्वं यस्य संसिद्धं कर्मित्वं तस्य सिद्ध्यति ।
इत्यत्र संशयः को वा तद्ब्रह्मेशौ च कर्मिणौ ॥ ६१ ॥

इति चेत्कर्मितेशस्य कामित्वादिवदिष्यते ।
ब्रह्मणोऽपि तु कर्मित्वं धनित्वादिवदित्यतः ॥ ६२ ॥

परतन्त्रो महेशः स्यात्स्वतन्त्रं ब्रह्म निर्गुणम् ।
आधाराधेयभावेन कार्यकारणतया द्वयोः ॥ ६३ ॥

कर्मित्वे ब्रह्मणः सिद्धे कथं नैर्गुण्यमीर्यते ।
इति चेन्नैष दोषोऽस्ति मायागुणविवर्जनात् ॥ ६४ ॥

अदृश्यादिभिर्विद्यागुणैरानन्दतादिभिः ।
सगुणव्यपदेशः स्याद्ब्रह्मणस्त्विष्ट एव सः ॥ ६५ ॥

जगत्संसारकर्तृत्वं यथा जीवेशयोर्मतम् ।
तथा जीवेशकर्तृत्वं परस्य ब्रह्मणो मतम् ॥ ६६ ॥

ब्रह्मणोऽन्यो न कर्ताऽस्ति प्राक्कर्मादिविवर्जनात् ।
अनाद्यनन्तं ब्रह्मैकमकर्माकर्तृ हीर्यते ॥ ६७ ॥

कालत्रयेऽप्यकर्तृत्वं ब्रह्मणः सम्मतं यदि ।
जीवेशरचना न स्यात् जगत्संसारयोरपि ॥ ६८ ॥

प्रत्यक्षसिद्धा रचना कर्तारं समपेक्षते ।
अतोऽद्य कर्मकर्तृत्वाद्ब्रह्मणः कर्मितोचिता ॥ ६९ ॥

कर्मित्वे ब्रह्मणोऽप्येवं किं वाच्यं ब्रह्मवेदिनः ।
ब्रह्मीभूतो न कर्मी स्यादित्येतच्च न सिद्ध्यति ॥ ७० ॥

यादृशं ब्रह्म निर्णीतं तद्भूतोऽपि च तादृशः ।
इति निर्णय एव स्याद्युक्तेरपि समंजसः ॥ ७१ ॥

कालत्रयेऽप्यकर्मित्वमकर्तृत्वमकालता ।
कस्य चिद्ब्रह्मणोऽन्यस्य नीरूपस्यास्ति वस्तुनः ॥ ७२ ॥

तत्र कालत्रयातीतं नेह ज्ञेयं विवक्षितम् ।
प्रमेयत्वप्रमाणत्वप्रमातृत्वादिवर्जनात् ॥ ७३ ॥

ये तु ब्रह्मेशजीवाः सम्प्रोक्ताः कर्तृत्वसंयुताः ।
विद्यया मायया ते हि कर्मिणोऽविद्ययापि च ॥ ७४ ॥

कर्मिषु त्रिषु चोक्तेषु ब्रह्मणः श्रैष्ठ्यदर्शनात् ।
अकर्मत्वं श्रुतिस्मृत्योः प्रोच्यते युक्तमेव तत् ॥ ७५ ॥

एतेन कर्मिणः श्रैष्ठ्यं संसिद्धमिति ये विदुः ।
औदासीन्यं न तेषां स्याच्छ्रुतिस्मृत्युक्तकर्मसु ॥ ७६ ॥

ज्ञानादुपास्तिरुत्कृष्टा कर्मोत्कृष्टमुपासनात् ।
इति यो वेद वेदान्तैः स एव पुरुषोत्तमः ॥ ७७ ॥

इति सूर्यगीतायां चतुर्थोऽध्यायः ॥ ४ ॥

अथ पञ्चमोऽध्यायः ॥

सूर्य उवाच –
अथातः सम्प्रवक्ष्यामि कर्मिश्रेष्ठस्य लक्षणम् ।
यच्छ्रुत्वा नैव भूयोऽन्यच्छ्रोतव्यं तेऽवशिष्यते ॥ १ ॥

यस्य देहः स्वकीयोऽपि सर्वथा न प्रतीयते ।
नेन्द्रियाणि च सर्वाणि स कर्मिश्रेष्ठ उच्यते ॥ २ ॥

यस्य प्राणाः प्रशान्ताः स्युर्मन आदीनि च स्वयम् ।
अव्यक्तान्तानि सर्वाणि स कर्मिश्रेष्ठ उच्यते ॥ ३ ॥

बालोन्मत्तपिशाचादि चेष्टितान्यपि यत्र नो ।
निष्ठाऽजगरवद्यस्य स कर्मिश्रेष्ठ उच्यते ॥ ४ ॥

नाहंभावश्च यस्यास्ति नेदंभावश्च कुत्रचित् ।
सर्वद्वन्द्वविहीनात्मा स कर्मिश्रेष्ठ उच्यते ॥ ५ ॥

प्राग्बद्धोऽहं विमुक्तोऽद्येत्येवं यस्य स्मृतिर्न च ।
नित्यमुक्तस्वरूपः सन् स कर्मिश्रेष्ठ उच्यते ॥ ६ ॥

विदेहमुक्तो यः प्रोक्तो वरिष्ठो ब्रह्मवेदिनाम् ।
अरूपनष्टचित्तासुः स कर्मिश्रेष्ठ उच्यते ॥ ७ ॥

कर्माणि यस्य सर्वाणि वासनात्रयजानि च ।
अभवन्नपशान्तानि स कर्मिश्रेष्ठ उच्यते ॥ ८ ॥

कर्माणि कर्मभिः शुद्धैरशुद्धान्युपमृद्य यः ।
स कर्मब्रह्ममात्रोऽभूत् स कर्मिश्रेष्ठ उच्यते ॥ ९ ॥

ज्ञानिनामपि यः श्रेष्ठः सप्तमीं भूमिकां गतः ।
उपासकानां यश्चैकः स कर्मिश्रेष्ठ उच्यते ॥ १० ॥

यः सर्वैः पीडितोऽपि स्यान्निर्विकारोऽपि पूजितः ।
सुखदुःखे न यस्य स्तः स कर्मिश्रेष्ठ उच्यते ॥ ११ ॥

यः सर्वैर्मनुजैः पूज्यो यः सर्वैश्च सुरासुरैः ।
ब्रह्मविष्णुशिवैर्यश्च स कर्मिश्रेष्ठ उच्यते ॥ १२ ॥

त्यक्त्वा कर्माणि सर्वाणि स्वात्ममात्रेण तिष्ठतः ।
कथं कर्मित्वमित्येवं मा शंकिष्ठा महामते ॥ १३ ॥

कर्मणां फलमेषा हि स्वात्ममात्रेण संस्थितिः ।
अतः सफलकर्मैष कर्मिश्रेष्ठो भवेद्ध्रुवम् ॥ १४ ॥

ज्ञानेन ज्ञायते यद्वा उपास्त्या चोपलभ्यते ।
तत्स्थिरं प्राप्यतेऽनेन कर्मणा।आतोऽस्य कर्मिता ॥ १५ ॥

देहेऽस्मिन् वर्तमानेऽपि देहस्मृतिविवर्जनात् ।
विदेहमुक्त इत्युक्तः कथं कर्मीति चेच्छृणु ॥ १६ ॥

देहविस्मृतिमत्त्वेऽपि कर्मदेहे स्थितत्वतः ।
अन्यदृष्ट्याऽस्य देहित्वात्कर्मित्वमुपपद्यते ॥ १७ ॥

देहस्थत्वादपूर्णः स्यादिति शक्यं न किंचन ।
तटाकमप्रकुंभस्थं जलं पूर्णं हि दृश्यते ॥ १८ ॥

प्रारब्धकर्ममुक्तोऽपि भोगान्मुक्तोऽपि चाखिलात् ।
कर्माकार्ये स्थितः कर्मी देहे स्याद्भोगसाधने ॥ १९ ॥

साधने सति देहेऽपि साध्यो भोगो न सिध्यति ।
देहविस्मृतिमत्त्वेन देहहीनसमत्वतः ॥ २० ॥

आहिताग्नित्वसंसिद्ध्यै ज्योतिष्टोमे कृतेऽपि च ।
यथा न स्वर्गमाप्नोति निष्कामः पुरुषर्षभः ॥ २१ ॥

जाग्रस्वप्नसुषुप्त्यात्मसन्धित्रयकृतामृतः ।
सर्वसन्ध्यादिरहितः सन्धिभिर्वन्द्यते सदा ॥ २२ ॥

यः सर्वकर्मभिर्वन्द्यो नित्यं सर्वैरकर्मिभिः ।
स कर्मिप्रवरोऽकर्मिप्रवरश्चेति कथ्यते ॥ २३ ॥

सर्वसाम्यमुपेत्यस्य स्वात्मारामस्य योगिनः ।
सहस्रशः कृतैः किं वा वन्दनैरकृतेश्च वा ॥ २४ ॥

देहादिषु विकारेषु स्वीयत्वं स्वत्वपूर्वकम् ।
विहाय नित्यनिष्ठाभिः स्वमात्रः स विराजते ॥ २५ ॥

इन्द्रियार्थैर्विमूढानां दुष्कर्मत्वं निगद्यते ।
तैरपेतः सुकर्म्येष विदेह इति कथ्यते ॥ २६ ॥

यः सर्वद्वन्द्वनिर्मुक्तः सर्वत्रिपुटिवर्जितः ।
सर्वावस्थाविहीनः स विदेह इति कथ्यते ॥ २७ ॥

लौकिकं वैदिकं कर्म सर्वं यस्मिन्क्षयं गतम् ।
यस्मान्नैवाणुमात्रं च विदेह इति कथ्यते ॥ २८ ॥

यस्येन्द्रियाणि सर्वाणि न चलन्ति कदाचन ।
भित्तिस्थचित्रांगानीव विदेह इति कथ्यते ॥ २९ ॥

आत्मानं सत्यमद्वैतं केवलं निर्गुणामृतम् ।
सम्पश्यतः सदा स्वान्यविकारस्फुरणं कुतः ॥ ३० ॥

आत्मेतरदसत्यं च द्वैतं नानागुणान्वितम् ।
अपश्यतः सदानन्दस्वरूपास्फुरणं कुतः ॥ ३१ ॥

आदिमध्यान्तरहितचिदानन्दस्वरूपिणः ।
स्थितप्रज्ञस्य को बाधः शरीरेण स्वयोगिनः ॥ ३२ ॥

कर्माणि कर्मणा त्यक्त्वा ब्रह्मणा ब्रह्मणि स्थितः ।
कर्मणा शर्म सततं सम्प्राप्तः स विराजते ॥ ३३ ॥

बुद्धेस्तैक्ष्ण्यं च मौढ्यं च यस्य नैवास्ति किंचन ।
बुद्धेः पारंगतः सोऽयं प्रबुद्धः शोभतेतराम् ॥ ३४ ॥

मनस्तथैव संलीनं चितीव लवणं जले ।
यथा निरन्तरात्मीयनिष्ठया सोऽद्वयोऽभवत् ॥ ३५ ॥

समनस्त्वान्महद्दुःखममनस्कस्य तत्कुतः ।
समनस्को हि संकल्पान् करुते दुःखकारिणः ॥ ३६ ॥

प्रारब्धकर्मजं दुःखं जीवन्मुक्तस्य कथ्यते ।
कर्मत्रयविहीनस्य विदेहस्य कथं नु तत् ॥ ३७ ॥

कर्म कर्तव्यमिति वा न कर्तव्यमितीह वा ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ३८ ॥

समाधिर्वाऽथ कर्तव्यो न कर्तव्य इतीह वा ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ३९ ॥

पूर्वं बद्धोऽधुना मुक्तोऽस्म्यहमित्येव बन्धनात् ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४० ॥

पूर्वमप्यभवन्मुक्तो मध्ये भ्रान्तिस्तु बन्धवत् ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४१ ॥

वन्ध्यापुत्रादिवत्सर्वं मय्यभूदसदित्यपि ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४२ ॥

आविद्यकं तमो ध्वस्तं स्वप्रकाशेन वा इति ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४३ ॥

स्वप्नेऽपि नाहंभावोऽस्ति मम देहेन्द्रियादिषु ।
यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः ॥ ४४ ॥

अरूपनष्टमनसो विदेहत्वं प्रकीर्त्यते ।
तत्कथं मन्यमानस्य यत्किंचित्स्यादनात्मनः ॥ ४५ ॥

मनो नश्यति निःशेषं मननस्य विसर्जनात् ।
अमनस्कस्वभावं तत्पदं तस्यावशिष्यते ॥ ४६ ॥

मननेन विनिश्चित्य वैदेहीं मुक्तिमात्मनः ।
नैष्कर्म्यसिद्धिं वदतां का तृप्तिरविवेकिनाम् ॥ ४७ ॥

श्रुत्वा वेदान्तवाक्यानि मोदन्तेऽनुभवं विना ।
लीढेन ताडपत्रेण गुडाक्षरयुतेन किम् ॥ ४८ ॥

स्वानुभूतिं विना शास्त्रैः पण्डिताः समलंकृताः ।
कचहीनेव विधवा भूषणैर्भूषितोत्तमैः ॥ ४९ ॥

स्वानुभूतिं विना कर्माण्याचरन्त्यखिलान्यपि ।
स्वर्णयःकुम्भकारादितुल्या एवोपवीतिनः ॥ ५० ॥

स्वानुभूतिं विना वेदान् पठन्ति विविधा द्विजाः ।
प्रावृण्णिशायां परितो मण्डूका इव दुस्स्वराः ॥ ५१ ॥

स्वानुभूतिं विना देहं बिभ्रत्यध्यासदार्ढ्यतः ।
शाकल्यस्य मृतं देहं धनबुद्ध्येव तस्कराः ॥ ५२ ॥

स्वानुभूतिं विना ध्यानं कुर्वन्त्यासनसंयुताः ।
बका इवांभसस्तीरे मत्स्यवंचनतत्पराः ॥ ५३ ॥

स्वानुभूतिं विना श्वासान्निरुन्धन्ति हठात्सदा ।
अयस्कारोऽनिलं बाह्यं द्रुतिकायामिवाधिकम् ॥ ५४ ॥

स्वानुभूतिं विना योगदण्डपट्टादिधारिणः ।
जीर्णकन्धाभरं भग्नदण्डभाण्डादि पित्तवत् ॥ ५५ ॥

स्वानुभूतिं विना यद्यत्कुर्वन्ति भुवि मानवाः ।
तत्तत्सर्वं वृथैव स्यान्मरुभूमौ कृषिर्यथा ॥ ५६ ॥

स्वानुभूत्यर्थकं कर्म निकृष्टमपि सर्वथा ।
उत्तमं विबुधैः श्लाघ्यं श्वेव चोरनिवर्तकः ॥ ५७ ॥

स्वानुभूत्युपयुक्तेभ्य इतराणि बहून्यपि ।
कर्मादीन्याचरन्मर्त्यो भ्रान्तवद्व्यर्थचेष्टितः ॥ ५८ ॥

श्रुतिस्मृतिपुराणेषु काम्यकर्माण्यनेकधा ।
प्रोच्यन्ते तेषु संसक्तस्त्याज्यः शिष्टैर्विटो यथा ॥ ५९ ॥

काम्यकर्मसमासक्तः स्वनिष्ठां स्वस्य मन्यते ।
जात्यन्धः स्वस्य रत्नादिपरीक्षादक्षतामिव ॥ ६० ॥

अवशेन्द्रियमात्मार्थगुरुबुद्ध्यैव सेवते ।
बालातन्तुसुतं लोकेऽगणितं भुक्तये यथा ॥ ६१ ॥

यस्तु वश्येन्द्रियं शान्तं निष्कामं सद्गुरुं सदा ।
स्वात्मैकरसिकं मुक्त्यै स धीमानुपगच्छति ॥ ६२ ॥

काम्यकर्माणि चोत्सृज्य निष्कामो यो मुमुक्षया ।
शान्त्यादिगुणसंयुक्तं गुरुं प्राप्तः स मुच्यते ॥ ६३ ॥

इति श्रुत्वाऽरुणः सूर्यात्संतुष्टः स्वात्मनिष्ठया ।
कृतकृत्य इदं प्राह भास्करं विनयान्वितः ॥ ६४ ॥

अरुण उवाच –
श्रीमन्गुरुवर स्वामिंस्त्वन्मुखात्पारमार्थिकम् ।
निष्कामकर्ममाहात्म्यं श्रुत्वा धन्योऽस्म्यसंशयम् ॥ ६५ ॥

सकर्मत्वमकर्मत्वं विदेहस्य च लक्षणम् ।
श्रुतं रहस्यं नातोऽन्यत्किंचिदप्यवशिष्यते ॥ ६६ ॥

तथाऽपि मम साक्षात्त्वं कर्तव्यं ब्रूहि निश्चितम् ।
मच्चित्तपरिपाकं हि षेत्सि सर्वज्ञ सद्गुरो ॥ ६७ ॥

इति पृष्ट उवाचेदं भगवान्भास्करोऽरुणम् ।
स्वसारथिं निजग्रस्थं बद्धबाहुं नताननम् ॥ ६८ ॥

सूर्य उवाच –
अरुण त्वं परं ब्रह्म साक्षाद्दृष्ट्वाऽधुना कृती ।
तथाऽप्यादेहपतनाद्ब्रह्माभिध्यानमादरात् ॥ ६९ ॥

स्वाधिकारोचितं शुद्धं कर्माप्याचर सत्तम ।
प्रमादो माऽस्तु ते स्वप्नेऽप्युक्तयोर्ब्रह्मकर्मणोः ॥ ७० ॥

संवादमावयोरेतं सर्वपापहरं शुभम् ।
यः श‍ृणोति सकृद्वा स कृतार्थो नात्र संशयः ॥ ७१ ॥

श्रीगुरुमूर्तिरुवाच –
इति दिनकरवक्त्राद्ब्रह्मकर्मैनिष्ठां
स्फुटतरमवगम्य प्राज्ञ एकोऽरुणः सः ।
अभवदखिललोकैः पूजनीयः कृतार्थ-
स्त्वमपि भव तथैव क्षिप्रमंभोजजन्मन् ॥ ७२ ॥

विमलविगुणयोगाभ्यासदार्ढ्येन युक्तः
सकलगतचिदात्मन्यद्वितीये बुधोऽपि ।
सततमपि कुरुष्वारब्धदुःखोपशान्त्यै
रहसि निजसमाधीन्स्वोक्तकर्मापि धातः ॥ ७३ ॥

इति तत्त्वसारायणकर्मकाण्डोक्तश्रीसूर्यगीतायां पंचमोऽध्यायः ॥

॥ इति सूर्यगीता समाप्ता ॥

– Chant Stotra in Other Languages –

Surya Gita in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil