Suta Gita In Sanskrit

॥ Suta Geetaa Sanskrit Lyrics ॥

॥ सूतगीता ॥

श्रीमत्सूतसंहितायां । चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे
सूतगीताप्रारम्भः ।
प्रथमोऽध्यायः । १. सूतगीतिः । १-२८
द्वितीयोऽध्यायः । २. आत्मना सृष्टिकथनम् । १-८०
तृतीयोऽध्यायः । ३. सामान्यसृष्टिकथनम् । १-६५
चतुर्थोऽध्यायः । ४. विशेषसृष्टिकथनम् । १-४९
पञ्चमोऽध्यायः । ५. आत्मस्वरूपकथनम् । १-७४
षष्ठोऽध्यायः । ६. सर्वशास्त्रार्थसङ्ग्रहवर्णनम् । १-३७
सप्तमोऽध्यायः । ७. रहस्यविचारः । १-३४
अष्टमोऽध्यायः । ८. सर्ववेदान्तसङ्ग्रहः ॥ १-९१
Total chapters 8 versess 458

अथ प्रथमोऽध्यायः ।
१. सूतगीतिः ।
ऐश्वरं परमानन्दमनन्तं सत्यचिद्घनम् ।
आत्मत्वेनैव पश्यन्तं निस्तरङ्गसमुद्रवत् ॥ १ ॥

निर्विकल्पं सुसम्पूर्णं सुप्रसन्नं शुचिस्मितम् ।
भासयन्तं जगद्भासा भानुमन्तमिवापरम् ॥ २ ॥

प्रणम्य मुनयः सूतं दण्डवत्पृथिवीतले ।
कृतञ्जलिपुटा भूत्वा तुष्टुवुः परया मुदा ॥ ३ ॥

नमस्ते भगवन् शम्भुप्रसादावाप्तवेदन ।
नमस्ते भगवन् शम्भुचरणाम्भोजवल्लभ ॥ ४ ॥

नमस्ते शम्भुभक्तानामग्रगण्य समाहित ।
नमस्ते शम्भुभक्तानामतीव हितबोधक ॥ ५ ॥

नमस्ते वेदवेदान्तपद्मखण्डदिवाकर ।
व्यासविज्ञानदीपस्य वर्तिभूताय ते नमः ॥ ६ ॥

पुराणमुक्तामालायाः सूत्रभूताय ते नमः ।
अस्माकं भववृक्षस्य कुठाराय नमोऽस्तु ते ॥ ७ ॥

कृपासागर सर्वेषां हितप्रद नमोऽस्तु ते ।
नमोऽविज्ञातदोषाय नमो ज्ञानगुणाय ते ॥ ८ ॥

मातृभूताय मर्त्यानां व्यासशिष्याय ते नमः ।
धर्मिष्ठाय नमस्तुभ्यं ब्रह्मनिष्ठाय ते नमः ॥ ९ ॥

समाय सर्वजन्तूनां सारभूताय ते नमः ।
साक्षात्सत्यपराणां तु सत्यभूताय ते नमः ॥ १० ॥

नमो नमो नमस्तुभ्यं पुनर्भूयो नमो नमः ।
अस्माकं गुरवे साक्षान्नमः स्वात्मप्रदायिने ॥ ११ ॥

एवं गोत्रर्षयः स्तुत्वा सूतं सर्वहितप्रदम् ।
प्रश्नं प्रचक्रिरे सर्वे सर्वलोकहितैषिणः ॥ १२ ॥

सोऽपि सूतः स्वतः सिद्धः स्वरूपानुभवात्परात् ।
उत्थाय स्वगुरुं व्यासं दध्यौ सर्वहिते रतम् ॥ १३ ॥

अस्मिन्नवसरे व्यासः साक्षात्सत्यवतीसुतः ।
भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्राङ्कितमस्तकः ॥ १४ ॥

कृष्णाजिनी सोत्तरीय आषाढेन विराजितः ।
रुद्राक्षमालाभरणस्तत्रैवाविरभूत्स्वयम् ॥ १५ ॥

तं दृष्ट्वा देशिकेन्द्राणां देशिकं करुणाकरम् ।
सूतः सत्यवतीसूनुं स्वशिष्यैः सह सत्तमैः ॥ १६ ॥

प्रणम्य दण्डवद्भूमौ प्रसन्नेन्द्रियमानसः ।
यथार्हं पूजयामास दत्त्वा चाऽऽसनमुत्तमम् ॥ १७ ॥

भद्रमस्तु सुसम्पूर्णं सूत शिष्य ममाऽऽस्तिक ।
तवैषामपि किं कार्यं मया तद्ब्रूहि मेऽनघ ॥ १९ ॥

एवं व्यासवचः श्रुत्वा सूतः पौराणिकोत्तमः ।
उवाच मधुरं वाक्यं लोकानां हितमुत्तमम् ॥ २० ॥

सूत उवाच –
इमे हि मुनयः शुद्धाः सत्यधर्मपरायणाः ।
मद्गीताश्रवणे चैषामस्ति श्रद्धा महत्तरा ॥ २१ ॥

भवत्प्रसादे सत्येव शक्यते सा विभाषितुम् ।
यदि प्रसन्नो भगवन् वदेत्याज्ञापयाद्य माम् ॥ २२ ॥

इति सूतवचः श्रुत्वा भगवान् करुणानिधिः ।
त्वदीयामद्य तां गीतां वदैषामर्थिनां शुभाम् ॥ २३ ॥

इत्युक्त्वा शिष्यमालिङ्ग्य हृदयं तस्य संस्पृशन् ।
साम्बं सर्वेश्वरं ध्यात्वा निरीक्ष्यैनं कृपाबलात् ॥ २४ ॥

स्थापयित्वा महादेवं हृदये तस्य सुस्थिरम् ।
तस्य मूर्धानमाघ्राय भगवानगमद्गुरुः ॥ २५ ॥

सोऽपि सूतः पुनः साम्बं ध्यात्वा देवं त्र्यम्बकम् ।
प्रणम्य दण्डवद्भूमौ स्मृत्वा व्यासं च सद्गुरुम् ॥ २६ ॥

कृताञ्जलिपुटो भूत्वा मन्त्रमाद्यं षडक्षरम् ।
जपित्वा श्रद्धया सार्धं निरीक्ष्य मुनिपुङ्गवन् ॥ २७ ॥

कृतप्रणामो मुनिभिः स्वगीतामतिनिर्मलाम् ।
वक्तुमारभते सूत सर्वलोकहिते रतः ॥ २८ ॥

॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे
सूतगीतायां सूतगीतिर्नाम प्रथमोऽध्यायः ॥ १ ॥

अथ द्वितीयोऽध्यायः ॥

२. आत्मना सृष्टिकथनम् ।
सूत उवाच –
श्रुणुत ब्रह्मविच्छ्रेष्ठा भाग्यवन्तः समाहिताः ।
वक्ष्यामि परमं गुह्यं विज्ञानं वेदसंमतम् ॥ १ ॥

अस्ति कश्चित्स्वत सिद्धः सत्यज्ञानसुखाद्वयः ।
विश्वस्य जगतः कर्ता पशुपाशविलक्षणः ॥ २ ॥

आकाशादीनि भूतानि पञ्च तेषां प्रकीर्तिताः ।
गुणाः शब्दादयः पञ्च पञ्च कर्मेन्द्रियाणि च ॥ ३ ॥

ज्ञानेन्द्रियाणि पञ्चैव प्राणाद्या दश वायवः ।
मनो बुद्धिरहङ्कारश्चित्तं चेति चतुष्टयम् ॥ ४ ॥

तेषां कारणभूतैकाऽविद्या षट्त्रिंशकः पशुः ।
विश्वस्य जगतः कर्ता पशोरन्यः परः शिवः ॥ ५ ॥

आत्मानः पशवः सर्वे प्रोक्ता अज्ञानिनः सदा ।
अज्ञानमात्मनामेषामनाद्येव स्वभावतः ॥ ६ ॥

संसारबीजमज्ञानं संसार्यज्ञः पुमान्यतः ।
ज्ञानात्तस्य निवृत्तिः स्यात्प्रकाशात्तमसो यथा ॥ ७ ॥

अज्ञानाकारभेदेनाविद्याख्येनैव केवलम् ।
पशूनामात्मनां भेदः कल्पितो न स्वभावतः ॥ ८ ॥

अज्ञानाकारभेदेन मायाख्येनैव केवलम् ।
विभागः कल्पितो विप्राः परमातत्वलक्षणः ॥ ९ ॥

घटाकाशमहाकाशविभागः कल्पितो यथा ।
तथैव कल्पितो भेदो जीवात्मपरमात्मनोः ॥ १० ॥

यथा जीवबहुत्वं तु कल्पितं मुनिपुङ्गवाः ।
तथा परबहुत्वं च कल्पितं न स्वभावतः ॥ १० ॥

यथोच्चावचभावस्तु जीवभेदे तु कल्पितः ।
तथोच्चावचभावश्च परभेदे च कल्पितः ॥ १२ ॥

देहेन्द्रियादिसङ्घातवासनाभेदभेदिता ।
अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः ॥ १३ ॥

गुणानां वासनाभेदभेदिता या द्विजर्षभाः ।
माया सा परभेदस्य हेतुर्नान्यः प्रकीर्तितः ॥ १४ ॥

यस्य मायागतं सत्त्वं शरीरं स्यात्तमोगुणः ।
संहाराय त्रिमूर्तीनां स रुद्रः स्यान्न चापरः ॥ १५ ॥

तथा यस्य तमः साक्षाच्छरीरं सात्त्विको गुणः ।
पालनाय त्रिमूर्तीनां स विष्णुः स्यान्न चापरः ॥ १६ ॥

रजो यस्य शरीरं स्यात्तदेवोत्पादनाय च ।
त्रिमूर्तीनां स वै ब्रह्मा भवेद्विप्रा न चापरः ॥ १७ ॥

रुद्रस्य विग्रहं शुक्लं कृष्णं विष्णोश्च विग्रहम् ।
ब्रह्मणो विग्रहं रक्तं चिन्तयेद्भुक्तिमुक्तये ॥ १८ ॥

शौक्ल्यं सत्त्वगुणाज्जातं रागो जातो रजोगुणात् ।
कार्ष्ण्यं तमोगुणाज्जातमिति विद्यात्समासतः ॥ १९ ॥

परतत्त्वैकताबुद्ध्या ब्रह्माणं विष्णुमीश्वरम् ।
परतत्त्वतया वेदा वदन्ति स्मृतयोऽपि च ॥ २० ॥

पुराणानि समस्तानि भारतप्रमुखान्यपि ।
परतत्त्वैकताबुद्ध्या तात्पर्यं प्रवदन्ति च ॥ २१ ॥

ब्रह्मविष्ण्वादिरूपेण केवलं मुनिपुङ्गवाः ।
ब्रह्मविष्ण्वादयस्त्वेव न परं तत्त्वमास्तिकाः ॥ २२ ॥

तथाऽपि रुद्रः सर्वेषामुत्कृष्टः परिकीर्तितः ।
स्वशरीरतया यस्मान्मनुते सत्त्वमुत्तमम् ॥ २३ ॥

रजसस्तमसः सत्त्वमुत्कृष्टं हि द्विजोत्तमाः ।
सत्त्वात्सुखं च ज्ञानं च यत्किञ्चिदपरं परम् ॥ २४ ॥

परतत्त्वप्रकाशस्तु रुद्र्स्यैव महत्तरः ।
ब्रह्मविष्ण्वादिदेवानां न तथा मुनिपुङ्गवाः ॥ २५ ॥

परतत्त्वतया रुद्रः स्वात्मानं मनुते भृशम् ।
परतत्त्वप्रकाशेन न तथा देवतान्तरम् ॥ २६ ॥

हरिब्रह्मादिरूपेण स्वात्मानं मनुते भृशम् ।
हरिब्रह्मादयो देवा न तथा रुद्रमास्तिकाः ॥ २७ ॥

रुद्रः कथंचित्कार्यार्थं मनुते रुद्ररूपतः ।
न तथा देवताः सर्वा ब्रह्मस्फूर्त्यल्पताबलात् ॥ २८ ॥

ब्रह्मविष्ण्वादयो देवाः स्वात्मानं मन्वतेऽञ्जसा ।
न कश्चित्तत्त्वरूपेण न तथा रुद्र आस्तिकाः ॥ २९ ॥

ब्रह्मविष्ण्वादयो देवाः स्वात्मानं मन्वतेऽञ्जसा ।
कथंचित्तत्त्वरूपेण न तथा रुद्र आस्तिकाः ॥ ३० ॥

तत्त्वबुद्धिः स्वतःसिद्धा रुद्रस्यास्य तपोधनाः ।
हरिब्रह्मादिबुद्धिस्तु तेषां स्वाभाविकी मता ॥ ३१ ॥

हरिब्रह्मादिदेवान्ये पूजयन्ति यथाबलम् ।
अचिरान्न परप्राप्तिस्तेषामस्ति क्रमेण हि ॥ ३२ ॥

रुद्रं ये वेदविच्छ्रेष्ठाः पूजयन्ति यथाबलम् ।
तेषामस्ति परप्राप्तिरचिरान्न क्रमेण तु ॥ ३३ ॥

रुद्राकारतया रुद्रो वरिष्ठो देवतान्तरात् ।
इति निश्चयबुद्धिस्तु नराणां मुक्तिदायिनी ॥ ३४ ॥

गुणाभिमानिनो रुद्राद्धरिब्रह्मादिदेवताः ।
वरिष्ठा इति बुद्धिस्तु सत्यं संसारकारणम् ॥ ३५ ॥

परतत्त्वादपि श्रेष्ठो रुद्रो विष्णुः पितामहः ।
इति निश्चयबुद्धिस्तु सत्यं संसारकारणम् ॥ ३६ ॥

रुद्रो विष्णुः प्रजानाथः स्वराट्सम्राट्पुरन्दरः ।
परतत्त्वमिति ज्ञानं नराणां मुक्तिकारणम् ॥ ३७ ॥

अमात्ये राजबुद्धिस्तु न दोषाय फलाय हि ।
तस्माद्ब्रह्ममतिर्मुख्या सर्वत्र न हि संशयः ॥ ३८ ॥

तथाऽपि रुद्रे विप्रेन्द्राः परतत्त्वमतिर्भृशम् ।
वरिष्ठा न तथाऽन्येषु परस्फूर्त्यल्पताबलात् ॥ ३९ ॥

अस्ति रुद्रस्य विप्रेन्द्रा अन्तः सत्त्वं बहिस्तमः ।
विष्णोरन्तस्तमः सत्त्वं बहिरस्ति रजोगुणः ॥ ४० ॥

अन्तर्बहिश्च विप्रेन्द्रा अस्ति तस्य प्रजापतेः ।
अतोऽपेक्ष्य गुणं सत्त्वं मनुष्या विवदन्ति च ॥ ४१ ॥

हरिः श्रेष्ठो हरः श्रेष्ठ इत्यहो मोहवैभवम् ।
सत्त्वाभावात्प्रजानाथं वरिष्ठं नैव मन्वते ॥ ४२ ॥

अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् ।
हरः श्रेष्ठो हरेः साक्षादिति बुद्धिः प्रजायते ॥ ४३ ॥

महापापवतां नॄणां हरिः श्रेष्ठो हरादिति ।
बुद्धिर्विजायते तेषां सदा संसार एव हि ॥ ४४ ॥

निर्विकल्पे परे तत्त्वे श्रद्धा येषां विजायते ।
अयत्नसिद्धा परमा मुक्तिस्तेषां न संशयः ॥ ४५ ॥

निर्विकल्पं परं तत्त्वं नाम साक्षाच्छिवः परः ।
सोऽयं साम्बस्त्रिनेत्रश्च चन्द्रार्धकृतशेखरः ॥ ४६ ॥

स्वात्मतत्त्वसुखस्फूर्तिप्रमोदात्ताण्डवप्रियः ।
रुद्रविष्णुप्रजानाथैरुपास्यो गुणमूर्तिभिः ॥ ४७ ॥

ईदृशी परमा मूर्तिर्यस्यासाधारणी सदा ।
तद्धि साक्षात्परं तत्त्वं नान्यत्सत्यं मयोदितम् ॥ ४८ ॥

विष्णुं ब्रह्माणमन्यं वा स्वमोहान्मन्वते परम् ।
न तेषां मुक्तिरेषाऽस्ति ततस्ते न परं पदम् ॥ ४९ ॥

तस्मादेषा परा मूर्तिर्यस्यासाधारणी भवेत् ।
स शिवः सच्चिदानन्दः साक्षात्तत्त्वं न चापरः ॥ ५० ॥

ब्रह्मा विष्णुश्च रुद्रश्च विभक्ता अपि पण्डिताः ।
परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥ ५१ ॥

अविद्योपाधिको जीवो न मायोपाधिकः खलु ।
मायोपाधिकचैतन्यं परमात्मा हि नापरम् ॥ ५२ ॥

मायाकार्यगुणच्छन्ना ब्रह्मविष्णुमहेश्वराः ।
मायोपाधिपरव्यूहा न जीवव्यूहसंस्थिताः ॥ ५३ ॥

परमात्मविभागत्वं ब्रह्मादीनां द्विजर्षभाः ।
समानमपि रुद्रस्तु वरिष्ठो नात्र संशयः ॥ ५४ ॥

ब्रह्मा विष्णुश्च रुद्रस्य स्वासाधारणरूपतः ।
स्वविभूत्यात्मना चापि कुर्वाते एव सेवनम् ॥ ५५ ॥

रुद्र स्वेनैव रूपेण विष्णोश्च ब्रह्मणस्तथा ।
सेवनं नैव कुरुते विभूतेर्वा द्वयोरपि ॥ ५६ ॥

केवलं कृपया रुद्रो लोकानां हितकाम्यया ।
स्वविभूत्यात्मना विष्णोर्ब्रह्मणश्चापरस्य च ॥ ५७ ॥

करोति सेवां हे विप्राः कदाचित्सत्यमीरितम् ।
न तथा ब्रह्मणा विष्णुर्न ब्रह्मा न पुरन्दरः ॥ ५८ ॥

एतावन्मात्रमालम्ब्य रुद्रं विष्णुं प्रजापतिम् ।
मन्वते हि समं मर्त्या मायया परिमोहिताः ॥ ५९ ॥

केचिदेषां महायासात्साम्यं वाञ्छन्ति मोहिताः ।
हरेरजस्य चोत्कर्षं हराद्वाञ्छन्ति केचन ॥ ६० ॥

रुद्रेण साम्यमन्येषां वाञ्छन्ति च विमोहिताः ।
ते महापातकैर्युक्ता यास्यन्ति नरकार्णवम् ॥ ६१ ॥

रुद्रादुत्कर्षमन्येषां ये वाञ्छन्ति मोहिताः ।
पच्यन्ते नरके तीव्रे सदा ते न हि संशयः ॥ ६२ ॥

केचिदद्वैतमाश्रित्य बैडालव्रतिका नराः ।
साम्यं रुद्रेण सर्वेषां प्रवदन्ति विमोहिताः ॥ ६३ ॥

देहाकारेण चैकत्वे सत्यपि द्विजपुङ्गवाः ।
शिरसा पादयोः साम्यं सर्वथा नास्ति हि द्विजाः ॥ ६४ ॥

यथाऽऽस्यापानयोः साम्यं छिद्रतोऽपि न विद्यते ।
तथैकत्वेऽपि सर्वेषां रुद्रसाम्यं न विद्यते ॥ ६५ ॥

विष्णुप्रजापतीन्द्राणामुत्कर्षं शङ्करादपि ।
प्रवदन्तीव वाक्यानि श्रौतानि प्रतिभान्ति च ॥ ६६ ॥

पौराणिकानि वाक्यानि स्मार्तानि प्रतिभान्ति च ।
तानि तत्त्वात्मना तेषामुत्कर्षं प्रवदन्ति हि ॥ ६७ ॥

विष्णुप्रजापतीन्द्रेभ्यो रुद्रस्योत्कर्षमास्तिकाः ।
वदन्ति यानि वाक्यानि तानि सर्वाणि हे द्विजाः ॥ ६८ ॥

प्रवदन्ति स्वरूपेण तथा तत्त्वात्मनाऽपि च ।
नैवं विष्ण्वादिदेवानामिति तत्त्वव्यवस्थितिः ॥ ६९ ॥

बहुनोक्तेन किं जीवास्त्रिमूर्तीनां विभूतयः ।
वरिष्ठा हि विभूतिभ्यस्ते वरिष्ठा न संशयः ॥ ७० ॥

तेषु रुद्रो वरिष्ठश्च ततो मायी परः शिवः ।
मायाविशिष्टात्सर्वज्ञः साम्बः सत्यादिलक्षणः ॥ ७१ ॥

वरिष्ठो मुनयः साक्षाच्छिवो नात्र विचारणा ।
शिवाद्वरिष्ठो नैवास्ति मया सत्यमुदीरितम् ॥ ७२ ॥

शिवस्वरूपमालोड्य प्रवदामि समासतः ।
शिवादन्यतया भातं शिव एव न संशयः ॥ ७३ ॥

शिवादन्यतया भातं शिवं यो वेद वेदतः ।
स वेद परमं तत्त्वं नास्ति संशयकारणम् ॥ ७४ ॥

यः शिवः सकलं साक्षाद्वेद वेदान्तवाक्यतः ।
स मुक्तो नात्र सन्देहः सत्यमेव मयोदितम् ॥ ७५ ॥

भासमानमिदं सर्वं भानमेवेति वेद यः ।
स भानरूपं देवेशं याति नात्र विचारणा ॥ ७६ ॥

प्रतीतमखिलं शम्भुं तर्कतश्च प्रमाणतः ।
स्वानुभूत्या च यो वेद स एव परमार्थवित् ॥ ७७ ॥

जगद्रूपतया पश्यन्नपि नैव प्रपश्यति ।
प्रतीतमखिलं ब्रह्म सम्पश्यन्न हि संशयः ॥ ७८ ॥

प्रतीतमप्रतीतं च सदसच्च परः शिवः ।
इति वेदान्तवाक्यानां निष्ठाकाष्ठा सुदुर्लभा ॥ ७९ ॥

इति सकलं कृपया मयोदितं वः
श्रुतिवचस कथितं यथा तथैव ।
यदि हृदये निहितं समस्तमेत-
त्परमगतिर्भवतामिहैव सिद्धा ॥ ८० ॥

॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे
सूतगीतायां आत्मना सृष्टिकथनं नाम द्वितीयोऽध्यायः ॥ २ ॥

अथ तृतीयोऽध्यायः ।
३. सामान्यसृष्टिकथनम् ।
सूत उवाच –
शिवात्सत्यपरानन्दप्रकाशैकस्वलक्षणात् ।
आविर्भूतमिदं सर्वं चेतनाचेतनात्मकम् ॥ १ ॥

अद्वितीयोऽविकारी च निर्मलः स शिवः परः ।
तथाऽपि सृजति प्राज्ञाः सर्वमेतच्चराचरम् ॥ २ ॥

मणिमन्रौषधादीनां स्वभावोऽपि न शक्यते ।
किमु वक्तव्यमाश्चर्यं विभोरस्य परात्मनः ॥ ३ ॥

See Also  Ashtavakra Gita In Malayalam

श्रुतिः सनातनी साध्वी सर्वमानोत्तमोत्तमा ।
प्राह चाद्वैतनैर्मल्यं निर्विकारत्वमात्मनः ॥ ४ ॥

सर्गस्थित्यन्तमप्याह चेतनाचेतनस्य च ।
अतीन्द्रियार्थविज्ञाने मानं नः श्रुतिरेव हि ॥ ५ ॥

श्रुत्यैकगम्ये सूक्ष्मार्थे स तर्कः किं करिष्यति ।
मानानुग्राहकस्तर्को न स्वतन्त्रः कदाचन ॥ ६ ॥

श्रुतिः सनातनी शम्भोरभिव्यक्ता न संशयः ।
शङ्करेण प्रणीतेति प्रवदन्त्यपरे जनाः ॥ ७ ॥

यदा साऽनादिभूतैव तदा मानमतीव सा ।
स्वतश्च परतो दोषो नास्ति यस्माद्द्विजर्षभाः ॥ ८ ॥

स्वतो दोषो न वेदस्य विद्यते सूक्ष्मदर्शने ।
अस्ति चेद्व्यवहारस्य लोप एव प्रसज्यते ॥ ९ ॥

परतश्च न दोषोऽस्ति परस्याभावतो द्विजाः ।
स्वतो दुष्टोऽपि शब्दस्तु मानमेवाऽऽप्तसङ्गमात् ॥ १० ॥

इति वार्ताऽपि वार्तैव मुनीन्द्राः सूक्ष्मदर्शने ।
स्वतो दुष्टः कथं मानं भवत्यन्यस्य सङ्गमात् ॥ ११ ॥

यत्सम्बन्धेन यो भावो यस्य प्राज्ञाः प्रसिद्ध्यति ।
स तस्य भ्रान्तिरेव स्यान्न स्वभावः कथंचन ॥ १२ ॥

जपाकुसुमलौहित्यं विभाति स्फटिके भृशम् ।
तथाऽपि तस्य लौहित्यं भ्रान्तिरेव न वास्तवम् ॥ १३ ॥

वह्निपाकजलौहित्यमिष्टकायां न वास्तवम् ।
लौहित्यं तैजसांशस्तु नेष्टकाया निरूपणे ॥ १४ ॥

अन्यत्रान्यस्य धर्मस्तु प्रतीतो विभ्रमो मतः ।
आप्तापेक्षी तु शब्दस्तु प्रामाण्याय न सर्वथा ॥ १५ ॥

अनाप्तयोगाच्छब्दस्य प्रामाण्यं मुनिपुङ्गवाः ।
स्वतःसिद्धं तिरोभूतं स्वनाशाय हि केवलम् ॥ १६ ॥

यदा सा शङ्कएरेणोक्ता तदाऽपि श्रुतिरास्तिकाः ।
प्रमाणं सुतरामाप्ततम एव महेश्वरः ॥ १७ ॥

सर्वदोषविहीनस्य महाकारुणिकस्य च ।
सर्वज्ञस्यैव शुद्धस्य कथं दोषः प्रकल्प्यते ॥ १८ ॥

सर्वदोषविशिष्टस्य निर्घृणस्य दुरात्मनः ।
अल्पज्ञस्य च जीवस्य दृष्टाऽनाप्तिर्हि सत्तमाः ॥ १९ ॥

यस्य स्मरणमात्रेण समलो निर्मलो भवेत् ।
ब्रूत सत्यतपोनिष्ठाः कथं स मलिनो भवेत् ॥ २० ॥

अतः पक्षद्वयेनापि वेदो मानं न संशयः ।
वेदोऽनादिः शिवस्तस्य व्यञ्जकः परमार्थतः ॥ २१ ॥

अभिव्यक्तिमपेक्ष्यैव प्रणेतेत्युच्यते शिवः ।
तस्माद्वेदोपदिष्टार्थो यथार्थो नात्र संशयः ॥ २२ ॥

इह तावन्मया प्रोक्तमद्वितीयः परः शिवः ।
तथाऽपि तेन सकलं निर्मितं तत्स एव हि ॥ २३ ॥

चित्स्वरूपः शिवश्चेत्यं जगत्सर्वं चराचरम् ।
तथा सति विरुद्धं तज्जगच्छम्भुः कथं भवेत् ॥ २४ ॥

इत्येवमादिचोद्यस्य द्विजेन्द्रा नास्ति सम्भवः ।
यत्र वेदविरोधः स्यात्तत्र चोद्यस्य सम्भवः ॥ २५ ॥

चोदनालक्षणे धर्मे न यथा चोद्यसम्भवः ।
तथा न चोदनागम्ये शिवे चोद्यस्य सम्भवः ॥ २६ ॥

बाध्यबाधकभावस्तु व्याधिभेषजयोर्यथा ।
शास्त्रेण गम्यते तद्वदयमर्थोऽपि नान्यतः ॥ २७ ॥

ईश्वरस्य स्वरूपे च जगत्सर्गादिषु द्विजाः ।
अतीन्द्रियार्थेष्वन्येषु मानं नः श्रुतिरेव हि ॥ २८ ॥

अथवा देवदेवस्य सर्वदुर्घटकारिणी ।
शक्तिरस्ति तया सर्वं घटते माययाऽनघाः ॥ २९ ॥

प्रतीतिसिद्धा सा माया तत्त्वतोऽत्र न संशयः ।
तया दुर्घटकारिण्या सर्वं तस्योपपद्यते ॥ ३० ॥

सा तिष्ठतु महामाया सर्वदुर्घटकारिणी ।
वेदमानेन संसिद्धं सर्वं तद्ग्राह्यमेव हि ॥ ३१ ॥

चोद्यानर्हे तु वेदार्थे चोद्यं कुर्वन् पतत्यधः ।
अतः सर्वं परित्यज्य वेदमेकं समाश्रयेत् ॥ ३२ ॥

रूपावलोकने चक्षुर्यथाऽसाधारणं भवेत् ।
तथा धर्मादिविज्ञाने वेदोऽसाधारणः परः ॥ ३३ ॥

रूपावलोकनस्येदं यथा घ्राणं न कारणम् ।
तथा धर्मादिबुद्धेस्तु द्विजास्तर्को न कारणम् ॥ ३४ ॥

तस्माद्वेदोदितेनैव प्रकारेण महेश्वरः ।
अद्वितीयः स्वयं शुद्धस्तथाऽपीदं जगत्ततः ॥ ३५ ॥

आविर्भूतं तिरोभूतं स एव सकलं जगत् ।
वैभवं तस्य विज्ञातुं न शक्यं भाषितुं मया ॥ ३६ ॥

स एव साहसी साक्षात्सर्वरूपतया स्थितः ।
परिज्ञातुं च वक्तुं च समर्थो नापरः पुमान् ॥ ३७ ॥

यथाऽयः पावकेनेद्धं भातीव दहतीव च ।
तथा वेदः शिवेनेद्धः सर्वं वक्तीव भासते ॥ ३८ ॥

अयोऽवयवसङ्क्रान्तो यथा दहति पावकः ।
तथा वेदेषु सङ्क्रान्तः शिवः सर्वार्थसाधकः ॥ ३९ ॥

तथाऽपि वेदरहितः स्वयं धर्मादिवस्तुनि ।
न प्रमाणं विना तेन वेदोऽपि द्विजपुङ्गवाः ॥ ४० ॥

तस्माद्वेदो महेशेद्धः प्रमाणं सर्ववस्तुनि ।
अन्यथा न जडः शब्दोऽतीन्द्रियार्थस्य साधकः ॥ ४१ ॥

मेरुपार्श्वे तपस्तप्त्वा दृष्ट्वा शम्भुं जगद्गुरुम् ।
अयमर्थो मया ज्ञातस्ततस्तस्य प्रसादतः ॥ ४२ ॥

तदाज्ञयैव विप्रेन्द्राः संहितेयं मयोदिता ।
अहं क्षुद्रोऽपि युष्माकं महतामपि देशिकः ॥ ४३ ॥

अभवं सा शिवस्याऽऽज्ञा लङ्घनीया न केनचित् ।
शिवस्याऽऽज्ञाबलाद्विष्णुर्जायते म्रियतेऽपि च ॥ ४४ ॥

ब्रह्मा सर्वजगत्कर्ता विराट्सम्राट्स्वराडपि ।
खरोष्ट्रतरवः क्षुद्रा ब्रह्मविष्ण्वादयोऽभवन् ॥ ४५ ॥

तस्माद् गुरुत्वं मे विप्रा युज्यते न हि संशयः ।
शिष्यत्वं चापि युष्माकं स्वतन्त्रः खलु शङ्करः ॥ ४६ ॥

महादेवस्य भक्ताश्च तद्भक्ता अपि देहिनः ।
स्वतन्त्रा वेदविच्छ्रेष्ठाः किं पुनः स महेश्वरः ॥ ४७ ॥

स्वातन्त्र्याद्धि शिवेनैव विषं भुक्तं विनाऽमृतम् ।
ब्रह्मणश्च शिरश्छिन्नं विष्णोरपि तथैव च ॥ ४८ ॥

स्वातन्त्र्याद्धि कृतं तेन मुनीन्द्रा ब्रह्मवादिनः ।
तत्प्रसादान्मया सर्वं विदितं करबिल्ववत् ॥ ४९ ॥

प्रसादबलतः साक्षात्सत्यार्थः कथितो मया ।
प्रसादेन विना वक्तुं को वा शक्तो मुनीश्वराः ॥ ५० ॥

तस्मात्सर्वं परित्यज्य श्रद्धया परया सह ।
मदुक्तं परमाद्वैतं विद्याद्वेदोदितं बुधः ॥ ५१ ॥

विज्ञानेन विनाऽन्येन नास्ति मुक्तिर्न संशयः ।
अतो यूयमपि प्राज्ञा भवताद्वैतवादिनः ॥ ५२ ॥

परमाद्वैतविज्ञानं सिद्धं स्वानुभवेन च ।
श्रुतिस्मृतिपुराणाद्यैस्तर्कैर्वेदानुसारिभिः ॥ ५३ ॥

परमाद्वैतविज्ञानमेव ग्राह्यं यथास्थितम् ।
नान्यतर्कैश्च हन्तव्यमिदमाम्नायवाक्यजम् ॥ ५४ ॥

विनैव परमाद्वैतं भेदं केचन मोहिताः ।
कल्पयन्ति तदा शम्भुः सद्वितीयो भविष्यति ॥ ५५ ॥

आम्नायार्थं महाद्वैतं नैव जानन्ति ये जनाः ।
वेदसिद्धं महाद्वैतं को वा विज्ञातुमर्हति ॥ ५६ ॥

भिन्नाभिन्नतया देवं परमाद्वैतलक्षणम् ।
कल्पयन्ति महामोहात्केचित्तच्च न सङ्गतम् ॥ ५७ ॥

भेदाभेदेऽपि भेदांशो मिथ्या भवति सत्तमाः ।
भेदानिरूपणादेव धर्म्यादेरनिरूपणात् ॥ ५८ ॥

तस्मान्नास्तीश्वरादन्यत्किञ्चिदप्यास्तिकोत्तमाः ।
द्वितीयाद्वै भयं जन्तोर्भवतीत्याह हि श्रुतिः ॥ ५९ ॥

को मोहस्तत्र कः शोक एकत्वमनुपश्यतः ।
इति चाऽऽह हि सा साध्वी श्रुतिरद्वैतमास्तिकाः ॥ ६० ॥

एकत्वमेव वाक्यार्थो नापरः परमास्तिकाः ।
स्तुतिनिन्दे विरुध्येते भेदो यदि विवक्षितः ॥ ६१ ॥

अतीव शुद्धचित्तानां केवलं करुणाबलात् ।
परमाद्वैतमाम्नायात्प्रभाति श्रद्धया सह ॥ ६२ ॥

शिवभट्टारकस्यैव प्रसादे पुष्कले सति ।
परमाद्वैतमाभाति यथावन्नान्यहेतुना ॥ ६३ ॥

न भाति परमाद्वैतं प्रसादरहितस्य तु ।
दुर्लभः खलु देवस्य प्रसादः परमास्तिकाः ॥ ६४ ॥

अतश्च वेदोदितवर्त्मनैव
विहाय वादान्तरजन्मबुद्धिम् ।
विमुक्तिकामः परमाद्वितीयं
समाश्रयेदेव शिवस्वरूपम् ॥ ६५ ॥

॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे
सूतगीतायां सामान्यसृष्टिकथनं नाम तृतीयोऽध्यायः ॥ ३ ॥

अथ चतुर्थोऽध्यायः ।
४. विशेषसृष्टिकथनम् ।
सूत उवाच –
ईश्वरो जगतः कर्ता मायया स्वीयया पुरा ।
अभेदेन स्थितः पूर्वकल्पवासनयान्वितः ॥ १ ॥

कालकर्मानुगुण्येन स्वाभिन्नस्वीयमायया ।
अभिन्नोऽपि तया स्वस्य भेदं कल्पयति प्रभुः ॥ २ ॥

कल्पितोऽयं द्विजा भेदो नाभेदं बाधते सदा ।
कल्पितानामवस्तुत्वादविरोधश्च सिध्यते ॥ ३ ॥

पुनः पूर्वक्षणोत्पन्नवासनाबलतोऽनघाः ।
ईक्षिता पूर्ववद्भूत्वा स्वशक्त्या परया युतः ॥ ४ ॥

मायाया गुणभेदेन रुद्रं विष्णुं पितामहम् ।
सृष्ट्वानुप्राविशत्तेषामन्तर्यामितया हरः ॥ ५ ॥

तेषां रुद्रः पराभेदात्परतत्त्ववदेव तु ।
करोति सर्गस्थित्यन्तं रुद्ररूपेण सत्तमाः ॥ ६ ॥

संहरत्यविशेषेण जगत्सर्वं चराचरम् ।
विष्णुरप्यास्तिकाः साक्षात्परभेदेन केवलम् ॥ ७ ॥

करोति सर्गस्थित्यन्तं विष्णुरूपेण हे द्विजाः ।
पालयत्यविशेषेण जगत्सर्वं चराचरम् ॥ ८ ॥

ब्रह्माऽपि मुनिशार्दूलाः पराभेदेन केवलम् ।
करोति सर्गस्थित्यन्तं ब्रह्मरूपेण सत्तमाः ।
करोति विविधं सर्वं जगत्पूर्वं यथा तथा ॥ ९ ॥

शब्दादिभूतसृष्टिस्तुपरस्यैव शिवस्य तु ॥ १० ॥

सर्वान्तःकरणानां तु समष्टेः सृष्टिरास्तिकाः ।
त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥ ११ ॥

प्राणानामपि सर्वेषां समष्टेः सृष्टिरास्तिकाः ।
अपि रुद्रस्य तस्यैव प्राधान्येन न संशयः ॥ १२ ॥

सर्वज्ञानेन्द्रियाणां तु समष्टीनां जनिर्द्विजाः ।
त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥ १३ ॥

सर्वकर्मेन्द्रियाणां तु समष्टीनां जनिर्द्विजाः ।
त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥ १४ ॥

तथाऽपि परमं तत्त्वं त्रिमूर्तीनां तु कारणम् ।
ब्रह्मविष्णुमहेशानां सृष्टावुपकरोति च ॥ १५ ॥

उपचारतया तेऽपि स्रष्टार इति शब्दिताः ।
तत्रापि तत्त्वतः स्रष्टृ ब्रह्मैवाद्वयमास्तिकाः ॥ १६ ॥

व्यष्टयस्तु समष्टिभ्यो जायन्ते ब्रह्मणानघाः ।
समष्टिषु विजायन्ते देवताः पूर्वकल्पवत् ॥ १७ ॥

समष्टिव्यष्टिरूपाणां सृष्टानां पालको हरिः ।
रुद्रस्तेषां तु संहर्ता द्विजा रूपान्तरेण च ॥ १८ ॥

या देवताऽन्तःकरणसमष्टौ पूर्वकल्पवत् ।
विजाता स मुनिश्रेष्ठा रुक्मगर्भ इतीरितः ॥ १९ ॥

जाता प्राणसमष्टौ या स सूत्रात्मसमाह्वयः ।
दिग्वाय्वर्कजलाध्यक्षपृथिव्याख्यास्तु देवताः ।
जायन्ते क्रमशः श्रोत्रप्रमुखेषु समष्टिषु ॥ २० ॥

पादपाण्यादिषु प्राज्ञाः कर्मेन्द्रिय समष्टिषु ।
त्रिविक्रमेन्द्रप्रमुखा जायन्ते देवताः क्रमात् ॥ २१ ॥

समष्टिषु विजाता या देवतास्ता यथाक्रमम् ।
व्यष्टिभूतेन्द्रियाणां तु नियन्त्र्यो देवता द्विजाः ॥ २२ ॥

मारुतस्त्वगधिष्ठाता दिग्देवी कर्णदेवता ॥ २३ ॥

नेत्राभिमानी सूर्यः स्याज्जिह्वाया वरुणस्तथा ।
घ्राणाभिमानिनी देवी पृथिवीति प्रकीर्तिता ॥ २४ ॥

पायोर्मित्रोऽभिमान्यात्मा पादस्यापि त्रिविक्रमः ।
इन्द्रो हस्तनियन्ता स्याच्छिवः सर्वनियामकः ॥ २५ ॥

मनो बुद्धिरहङ्कारश्चित्तं चेति चतुर्विधम् ।
स्यादन्तःकरणं प्राज्ञाः क्रमात्तेषां हि देवताः ॥ २६ ॥

चन्द्रो वाचस्पतिर्विप्राः साक्षात्कालाग्निरुद्रकः ।
शिवश्चेति मया प्रोक्ताः साक्षावेदान्तपारगाः ॥ २७ ॥

आकाशादीनि भूतानि स्थूलानि पुनरास्तिकाः ।
जायन्ते सूक्ष्मभूतेभ्यः पूर्वकल्पे यथा तथा ॥ २८ ॥

अण्डभेदस्तथा लोकभेदास्तेषु च चेतनाः ।
अचेतनानि चान्यानि भौतिकानि च पूर्ववत् ॥ २९ ॥

विजायन्ते च भोगार्थं चेतनानां शरीरिणाम् ।
भोक्तारः पशवः सर्वे शिवो भोजयिता परः ॥ ३० ॥

सुखदुःखादिसंसारो भोगः सर्वमिदं सुराः ।
स्वप्नवद्देवदेवस्य माययैव विनिर्मितम् ॥ ३१ ॥

मायया निर्मितं सर्वं मायैव हि निरूपणे ।
कारणव्यतिरेकेण कार्यं नेति हि दर्शितम् ॥ ३२ ॥

मायाऽपि कारणत्वेन कल्पिता मुनिपुङ्गवाः ।
अधिष्ठानातिरेकेण नास्ति तत्त्वनिरूपणे ॥ ३३ ॥

व्यवहारदृशा मायाकल्पना नैव वस्तुतः ।
वस्तुतः परमाद्वैतं ब्रह्मैवास्ति न चेतरत् ॥ ३४ ॥

मायारूपतया साक्षाद्ब्रह्मैव प्रतिभासते ।
जगज्जीवादिरूपेणाप्यहो देवस्य वैभवम् ॥ ३५ ॥

स्वस्वरूपातिरेकेण ब्रह्मणो नास्ति किंचन ।
तथाऽपि स्वातिरेकेण भाति हा दैववैभवम् ॥ ३६ ॥

जगदात्मतया पश्यन्बध्यते न विमुच्यते ॥ ३७ ॥

सर्वमेतत्परं ब्रह्म पश्यन्स्वानुभवेन तु ।
मुच्यते घोरसंसारात्सद्य एव न संशयः ॥ ३८ ॥

सर्वमेतत्परं ब्रह्म विदित्वा सुदृढं बुधाः ।
मानतर्कानुभूत्यैव गुरूक्त्या च प्रसादतः ।
ज्ञानप्राकट्यबाहुल्याज्ज्ञानं च स्वात्मनैव तु ॥ ३९ ॥

स्वात्मना केवलेनैव तिष्ठन्मुच्येत बन्धनात् ।
य एवं वेद वेदार्थं मुच्यते स तु बन्धनात् ॥ ४० ॥

सोपानक्रमतश्चैवं पश्यन्नात्मानमद्वयम् ।
सर्वं जगदिदं विप्राः पश्यन्नपि न पश्यति ॥ ४१ ॥

भासमानमिदं सर्वं भानरूपं परं पदम् ।
पश्यन्वेदान्तमानेन सद्य एव विमुच्यते ॥ ४२ ॥

एवमात्मानमद्वैतमपश्यन्नेव पश्यतः ।
जगदात्मतया भानमपि स्वात्मैव केवलम् ॥ ४३ ॥

विदित्वैवं महायोगी जगद्भानेऽपि निश्चलः ।
यथाभातमिदं सर्वमनुजानाति चाऽऽत्मना ॥ ४४ ॥

निषेधति च तत्सिद्धिरनुज्ञातस्य केवलम् ।
तदसिद्धिर्निषेधोऽस्य सिद्ध्यसिद्धी च तस्य न ॥ ४५ ॥

प्रकाशात्मतया साक्षात्स्थितिरेवास्य केवलम् ।
विद्यते नैव विज्ञानं नाज्ञानं न जगत्सदा ॥ ४६ ॥

प्रकाशात्मतया साक्षात्स्थितिरत्यपि भाषणम् ।
अहं वदामि मोहेन तच्च तस्मिन्न विद्यते ॥ ४७ ॥

तस्य निष्ठा मया वक्तुं विज्ञातुं च न शक्यते ।
श्रद्धामात्रेण यत्किंचिज्जप्यते भ्रान्तचेतसा ॥ ४८ ॥

इति गुह्यमिदं कथितं मया
निखिलोपनिषद्धृदयङ्गमम् ।
हरपङ्कजलोचनपालितं
विदिअतं यदि वेदविदेव सः ॥ ४९ ॥

॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभाभागे
सूतगीतायां विशेषसृष्टिकथनंनाम चतुर्थोऽध्यायः ॥ ४ ॥

अथ पञ्चमोऽध्यायः ।
५. आत्मस्वरूपकथनम् ।
सूत उवाच –
वक्ष्यामि परमं गुह्यं युष्माकं मुनिपुङ्गवाः ।
विज्ञानं वेदसम्भूतं भक्तानामुत्तमोत्तमम् ॥ १ ॥

रुद्र विष्णुप्रजानाथप्रमुखाः सर्वचेतनाः ।
स्वरसेनाहमित्याहुरिदमित्यपि च स्वतः ॥ २ ॥

इदंबुद्धिश्च बाह्यार्थे त्वहंबुद्धिस्तथाऽऽत्मनि ।
प्रसिद्धा सर्वजन्तूनां विवादोऽत्र न कश्चन ॥ ३ ॥

इदमर्थे घटाद्यर्थेऽनात्मत्वं सर्वदेहिनाम् ।
अहमर्थे तथाऽऽत्मत्वमपि सिद्धं स्वभावतः ॥ ४ ॥

एवं समस्तजन्तूनामनुभूतिर्व्यवस्थिता ।
भ्रान्ता अपि न कुर्वन्ति विवादं चात्र सत्तमाः ॥ ५ ॥

एवं व्यवस्थिते ह्यर्थे सति बुद्धिमतां वराः ।
संसारविषवृक्षस्य मूलच्छेदनकाङ्क्षिभिः ॥ ६ ॥

See Also  Sri Lakshmanagita From Sri Ramacharitamanas In English

यत्र यत्रेदमित्येषा बुद्धिर्दृष्टा स्वभावतः ।
तत्र तत्र त्वनात्मत्वं विज्ञातव्यं विचक्षणैः ॥ ७ ॥

यत्र यत्राहमित्येषा बुद्धिर्दृष्टा स्वभावतः ।
तत्र तत्र तथात्मत्वं विज्ञातव्यं मनीषिभिः ॥ ८ ॥

शरीरे दृश्यते सर्वैरिदंबुद्धिस्तथैव च ।
अहंबुद्धिश्च विप्रेन्द्रास्ततस्ते भिन्नगोचरे ॥ ९ ॥

शरीरालम्बना बुद्धिरिदमित्यास्तिकोत्तमाः ।
चिदात्मलम्बना साक्षादहंबुद्धिर्न संशयः ॥ १० ॥

इदमर्थे शरीरे तु याऽहमित्युदिता मतिः ।
सा महाभ्रान्तिरेव स्यादतस्मिंस्तद्ग्रहत्वतः ॥ ११ ॥

अचिद्रूपमहंबुद्धीः पिण्डं नाऽलम्बनं भवेत् ।
मृत्पिण्डादिष्वदृष्टत्वात्ततोऽनात्मैव विग्रहः ॥ १२ ॥

अचित्त्वादिन्द्रियाणां च प्राणस्य मनसस्तथा ।
आलम्बनत्वं नास्त्येव बुद्धेश्चाहंमतिं प्रति ॥ १३ ॥

बुद्धेरचित्त्वं सङ्ग्राह्यं दृष्टत्वाज्जन्मनाशयोः ।
अचिद्रूपस्य कुड्यादेः खलु जन्मावनाशनम् ॥ १४ ॥

अहङ्कारस्य चाचित्त्वाच्चित्तस्य च तथैव च ।
आलम्बनत्वं नास्त्येव सदाऽहंप्रत्ययं प्रति ॥ १५ ॥

सर्वप्रत्ययरूपेण सदाऽहङ्कार एव हि ।
निवर्ततेऽतोहङ्कारस्त्वनात्मैव शरीरवत् ॥ १६ ॥

परिणामस्वभावस्य क्षीरादेर्द्विजपुङ्गवाः ।
अचेतनत्वं लोकेऽस्मिन्प्रसिद्धं खलु सन्ततम् ॥ १७ ॥

तस्माच्चिद्रूप एवाऽऽत्माऽहंबुद्धेरर्थ आस्तिकाः ।
अचिद्रूपमिदंबुद्धेरनात्मैवार्तह् ईरुतः ॥ १८ ॥

सत्यपि प्रत्ययार्थत्वे प्रत्यगात्मा स्वयंप्रभः ।
वृत्त्यधीनतया नैव विभाति घटकुड्यवत् ॥ १९ ॥

स्वच्छवृत्तिमनुप्राप्य वृत्तेः साक्षितया स्थितः ।
वृत्त्या निवर्त्यमज्ञानं ग्रसते तेन तेजसा ॥ २० ॥

अनुप्रविष्टचैतन्यसम्बन्धात् वृत्तिरास्तिकाः ।
जडरूपं घटाद्यर्थं भासयत्यात्मरूपवत् ॥ २१ ॥

अतोऽहंप्रत्ययार्थेऽपि नानात्मा स्याद्घटादिवत् ।
स्वयंप्रकाशरूपेण साक्षादात्मैव केवलम् ॥ २२ ॥

यत्सम्बन्धादहंवृत्तिः प्रत्ययत्वेन भासते ।
स कथं प्रत्ययाधीनप्रकाशः स्यात्स्वयंप्रभः ॥ २३ ॥

अहंवृत्तिः स्वतःसिद्धचैतन्येद्भाऽवभासते ।
तत्सम्बन्धादहङ्कारः प्रत्ययीव प्रकाशते ॥ २४ ॥

आत्माऽहंप्रत्ययाकारसम्बन्धभ्रान्तिमात्रतः ।
कर्ता भोक्ता सुखी दुःखी ज्ञातेति प्रतिभासते ॥ २५ ॥

वस्तुतस्तस्य नास्त्येव चिन्मात्रादपरं वपुः ।
चिद्रूपमेव स्वाज्ञानादन्यथा प्रतिभासते ॥ २६ ॥

सर्वदेहेष्वहंरूपः प्रत्ययो यः प्रकाशते ।
तस्य चिद्रूप एवाऽऽत्मा साक्षादर्थो न चापरः ॥ २७ ॥

गौरिति प्रत्ययस्यार्थो यथा गोत्वं तु केवलम् ।
तथाऽहंप्रत्ययस्यार्थश्चिद्रूपात्मैव केवलम् ॥ २८ ॥

व्यक्तिसम्बन्धरूपेण गोत्वं भिन्नं प्रतीयते ।
चिदहङ्कारसम्बन्धाद्भेदेन प्रतिभाति च ॥ २९ ॥

यथैवैकोऽपि गोशब्दो भिन्नार्थो व्यक्तिभेदतः ।
तथैवैकोऽप्यहंशब्दो भिन्नार्थो व्यक्तिभेदतः ॥ ३० ॥

यथा प्रतीत्या गोव्यक्तिर्गोशब्दार्थो न तत्त्वतः ।
तत्त्वतो गोत्वमेवार्थः साक्षाद्वेदविदां वराः ॥ ३१ ॥

तथा प्रतीत्याऽहंकारोऽहंशब्दार्थो न तत्त्वतः ।
तत्त्वतः प्रत्यगात्मैव स एवाखिलसाधकः ॥ ३२ ॥

एकत्वेऽपि पृथक्त्वेन व्यपदेशोऽपि युज्यते ।
अन्तःकरणभेदेन साक्षिणः प्रत्यगात्मनः ॥ ३३ ॥

रुद्रविष्णुप्रजानाथप्रमुखाः सर्वचेतनाः ।
चिन्मात्रात्मन्यहंशब्दं प्रयुञ्जन्ते हि तत्त्वतः ॥ ३४ ॥

सुषुप्तोऽस्मीति सर्वोऽयं सुषुप्तादुत्थितो जनः ।
सुषुप्तिकालीनस्वात्मन्यहंशब्दं द्विजोत्तमाः ॥ ३५ ॥

प्रयुङ्क्ते तत्र देहादिविशेषाकारभासनम् ।
न हि केवलचैतन्यं सुषुप्तेः साधकं स्वतः ॥ ३६ ॥

प्रतिभाति ततस्तस्मिंश्चिन्मात्रे प्रत्यगात्मनि ।
अहंशब्दप्रवृत्तिः स्यान्न तु सोपाधिकात्मनि ॥ ३७ ॥

यथाऽयो दहतीत्युक्ते वह्निर्दहति केवलम् ।
नायस्तद्वदहंशब्दश्चैतन्यस्यैव वाचकः ॥ ३८ ॥

प्रतीत्या वह्निसम्बन्धाद्यथाऽयो दाहकं तथा ।
चित्सम्बन्धादहङ्कारोऽहंशब्दार्थः प्रकीर्तितः ॥ ३९ ॥

चैतन्येद्धाहम स्पर्शाद्देहादौ भ्रान्तचेतसाम् ।
अहंशब्दप्रयोगः स्यात्तथाऽहंप्रत्ययोऽपि च ॥ ४० ॥

इत्थं विवेकतः साक्ष्यं देहादिप्राणपूर्वकम् ।
अन्तःकरणमात्मानं विभज्य स्वात्मनः पृथक् ॥ ४१ ॥

सर्वसाक्षिणमात्मानं स्वयंज्योतिःस्वलक्षणम् ।
सत्यमानन्दमद्वैतमहमर्थं विचिन्तयेत् ॥ ४२ ॥

रुद्रविष्णुप्रजानाथप्रमुखाः सर्वचेतनाः ।
अहमेव परं ब्रह्मेत्याहुरात्मानमेव हि ॥ ४३ ॥

ते तु चिन्मात्रमद्वैतमहमर्थतया भृशम् ।
अङ्गीकृत्याहमद्वैतं ब्रह्मेत्याहुर्न देहतः ॥ ४४ ॥

चिन्मात्रं सर्वगं सत्यं सम्पूर्णसुखमद्वयम् ।
साक्षाद्ब्रह्मैव नैवान्यदिति तत्त्वविदां स्थितिः ॥ ४५ ॥

शास्त्रं सत्यचिदानन्दमनन्तं वस्तु केवलम् ।
शुद्धं ब्रह्मेति सश्रद्धं प्राह वेदविदां वराः ॥ ४६ ॥

प्रत्यगात्माऽयमद्वन्द्वः साक्षी सर्वस्य सर्वदा ।
सत्यज्ञानसुखानन्तलक्षणः सर्वदाऽनघाः ॥ ४७ ॥

अतोऽयं प्रत्यगात्मैव स्वानुभूत्येकगोचरः ।
शास्त्रसिद्धं परं ब्रह्म नापरं परमार्थतः ॥ ४८ ॥

एवं तर्कप्रमाणाभ्यामाचार्योक्त्या च मानवः ।
अविज्ञाय शिवात्मैक्यं संसारे पतति भ्रमात् ॥ ४९ ॥

शास्त्राचार्योपदेशेन तर्कैः शास्त्रानुसारिभिः ।
सर्वसाक्षितयाऽऽत्मानं सम्यङ् निश्चित्य सुस्थिरः ॥ ५० ॥

स्वात्मनोऽन्यतया भातं समस्तमविशेषतः ।
स्वात्ममात्रतया बुद्ध्वा पुनः स्वात्मानमद्वयम् ॥ ५१ ॥

शुद्धं ब्रह्मेति निश्चित्य स्वयं स्वानुभवेन च ।
निश्चयं च स्वचिन्मात्रे विलाप्याविक्रियेऽद्वये ॥ ५२ ॥

विलापनं च चिद्रूपं बुद्ध्वा केवलरूपतः ।
स्वयं तिष्ठेदयं साक्षाद्ब्रह्मवित्प्रवरो मुनिः ॥ ५३ ॥

ईदृशी परमा निष्ठा श्रौती स्वानुभवात्मिका ।
देशिकालोकनेनैव केवलेन हि सिध्यति ॥ ५४ ॥

देशिकालोकनं चापि प्रसादात्पारमेश्वरात् ।
सिध्यत्ययत्नतः प्राज्ञाः सत्यमेव मयोदितम् ॥ ५५ ॥

सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ।
प्रसादादेव सर्वेषां सर्वसिद्धिर्महेशितुः ॥ ५६ ॥

प्रसादे शाम्भवे सिद्धे सर्वं शम्भुतया स्वतः ।
विभाति नान्यथा विप्राः सत्यमेव मयोदितम् ॥ ५७ ॥

यदा शम्भुतया सर्वं विभाति स्वत एव तु ।
तदा हि शाम्भवः साक्षात्प्रसादः सत्यमीरितम् ॥ ५८ ॥

शिवादन्यतया किंचिदपि भाति यदा द्विजाः ।
तदा न शाङ्करो बोधः संजात इति मे मतिः ॥ ५९ ॥

शिवादन्यतया सर्वं प्रतीतमपि पण्डितः ।
तत्त्वदृष्ट्या शिवं सर्वं सुस्थिरं परिपश्यति ॥ ६० ॥

शिवाकारेण वा नित्यं प्रपञ्चाकारतोऽपि वा ।
जीवाकारेण वा भातं यत्तद्ब्रह्म विचिन्तयेत् ॥ ६१ ॥

शम्भुरेव सदा भाति सर्वाकारेण नापरः ।
इति विज्ञानसम्पन्नः शाङ्करज्ञानिनां वरः ॥ ६२ ॥

शम्भुरूपतया सर्वं यस्य भाति स्वभावतः ।
न तस्य वैदिकं किंचित्तान्त्रिकं चास्ति लौकिकम् ॥ ६३ ॥

यथाभातस्वरूपेण शिवं सर्वं विचिन्तयन् ।
योगी चरति लोकानामुपकाराय नान्यथा ॥ ६४ ॥

स्वस्वरूपातिरेकेण निषिद्धं विहितं तु वा ।
न पश्यति महायोगी भाति स्वात्मतयाऽखिलम् ॥ ६५ ॥

चण्डालगेहे विप्राणां गृहे वा परमार्थवित् ।
भक्ष्यभोज्यादिवैषम्यं न किंचिदपि पश्यति ॥ ६६ ॥

यथेष्टं वर्तते योगी शिवं सर्वं विचिन्तयन् ।
तादृशो हि महायोगी को वा तस्य निवारकः ॥ ६७ ॥

बहुनोक्तेन किं साक्षाद्देशिकस्य निरीक्षणात् ।
प्रसादादेव रुद्रस्य परशक्तेस्तथैव च ॥ ६८ ॥

श्रुतिभक्तिबलात्पुण्यपरिपाकबलादपि ।
शिवरूपतया सर्वं स्वभावादेव पश्यति ॥ ६९ ॥

शिवः सर्वमिति ज्ञानं शाङ्करं शोकमोहनुत् ।
अयमेव हि वेदार्थो नापरः सत्यमीरितम् ॥ ७० ॥

श्रुतौ भक्तिर्गुरौ भक्तिः शिवे भक्तिश्च देहिनाम् ।
साधनं सत्यविद्यायाः सत्यमेव मयोदितम् ॥ ७१ ॥

सोपानक्रमतो लब्धं विज्ञानं यस्य सुस्थिरम् ।
तस्य मुक्तिः परा सिद्धा सत्यमेव मयोदितम् ॥ ७२ ॥

नित्यमुक्तस्य संसारो भ्रान्तिसिद्धः सदा खलु ।
तस्माज्ज्ञानेन नाशः स्यात्संसारस्य न कर्मणा ॥ ७३ ॥

ज्ञानलाभाय वेदोक्तप्रकारेण समाहितः ।
महाकारुणिकं साक्षाद्गुरुमेव समाश्रयेत् ॥ ७४ ॥

॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे
सूतगीतायां आत्मस्वरूपकथनं नाम पञ्चमोऽध्यायः ॥ ५ ॥

अथ षष्ठोऽध्यायः ।
६. सर्वशास्त्रार्थसंग्रहवर्णनम् ।
सूत उवाच –
वक्ष्यामि परमं गुह्यं सर्वशास्त्रार्थसङ्ग्रहम् ।
यं विदित्वा द्विजा मर्त्यो न पुनर्जायते भुवि ॥ १ ॥

साक्षात्परतरं तत्त्वं सच्चिदानन्दलक्षणम् ।
सर्वेषां नः सदा साक्षादात्मभूतमपि स्वतः ॥ २ ॥

दुर्दर्शमेव सूक्ष्मत्वाद्देवानां महतामपि ।
रुद्रः स्वात्मतया भातं तत्सदा परिपश्यति ॥ ३ ॥

विष्णुः कदाचित्तत्त्वं कथंचित्परिपश्यति ।
तथा कथंचिद्ब्रह्माऽपि कदाचित्परिपश्यति ॥ ४ ॥

त्रिमूर्तीनां तु यज्ज्ञानं ब्रह्मैकविषयं परम् ।
तस्यापि साधकं तत्त्वं साक्षित्वान्नैव गोचरम् ॥ ५ ॥

प्रसादादेव तस्यैव परतत्त्वस्य केवलम् ।
देवादयोऽपि पश्यन्ति तत्रापि ब्रह्म साधकम् ॥ ६ ॥

अतः प्रसादसिद्ध्यर्थं परया श्रद्धया सह ।
ध्येयमेव परं तत्त्वं हृदयाम्भोजमध्यगम् ॥ ७ ॥

त्रिमूर्तीनां तु रुद्रोऽपि शिवं परमकारणम् ।
सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ ८ ॥

त्रिमूर्तीनां तु विष्णुश्च शिवं परमकारणम् ।
सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ ९ ॥

त्रिमूर्तीनां विरिञ्चोऽपि शिवं परमकारणम् ।
सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ १० ॥

ब्रह्मविष्णुमहेशानां त्रिमूर्तीनां विचक्षणाः ।
विभूतिरूपा देवाश्च ध्यायन्ति प्रीतिसंयुताः ॥ ११ ॥

घृतकाठिन्यवन्मूर्तिः सच्चिदानन्दलक्षणा ।
शिवाद्भेदेन नैवास्ति शिव एव हि सा सदा ॥ १२ ॥

ब्रह्मविष्णुमहेशाद्याः शिवध्यानपरा अपि ।
परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥ १३ ॥

ब्रह्मविष्णुमहेशानामाविर्भावा अपि द्विजाः ।
परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥ १४ ॥

परतत्त्व परं ब्रह्म जीवात्मपरमात्मनोः ।
औपाधिकेन भेदेन द्विधाभूतमिव स्थितम् ॥ १५ ॥

पुण्यपापावृता जीवा रागद्वेषमलावृताः ।
जन्मनाशाभिभूताश्च सदा संसारिणोऽवशाः ॥ १६ ॥

ब्रह्मविष्णुमहेशानां तथा तेषां द्विजर्षभाः ।
आविर्भावविशेषाणां पुण्यपापादयो न हि ॥ १७ ॥

आज्ञया परतत्त्वस्य जीवानां हितकाम्यया ।
आविर्भावतिरोभावौ तेषां केवलमास्तिकाः ॥ १८ ॥

हरिब्रह्महरास्तेषामाविर्भावाश्च सुव्रताः ।
सदा संसारिभिर्जीवैरुपास्या भुक्तिमुक्तये ॥ १९ ॥

उपास्यत्वे समानेऽपि हरः श्रेष्ठो हरेरजात् ।
न समो न विहीनश्च नास्ति सन्देहकारणम् ॥ २० ॥

विहीनं वा समं वाऽपि हरिणा ब्रह्मणा हरम् ।
ये पश्यन्ति सदा ते तु पच्यन्ते नरकानले ॥ २१ ॥

हरिब्रह्मादिदेवेभ्यः श्रेष्ठं पश्यन्ति ये हरम् ।
ते महाघोरसंसारान्मुच्यन्ते नात्र संशयः ॥ २२ ॥

प्राधान्येन परं तत्त्वं मूर्तिद्वारेण योगिभिः ।
ध्येयं मुमुक्षिभिर्नित्यं हृदयाम्भोजमध्यमे ॥ २३ ॥

कार्यभूता हरिब्रह्मप्रमुखाः सर्वदेवताः ।
अप्रधानतया ध्येया न प्रधानतया सदा ॥ २४ ॥

सर्वैश्वर्येण सम्पन्नः सर्वेशः सर्वकारणम् ।
शम्भुरेव सदा साम्बो न विष्णुर्न प्रजापतिः ॥ २५ ॥

तस्मात्तत्कारणं ध्येयं प्राधान्येन मुमुक्षुभिः ।
न कार्यकोटिनिक्षिप्ता ब्रह्मविष्णुमहेश्वराः ॥ २६ ॥

शिवंकरत्वं सर्वेषां देवानां वेदवित्तमाः ।
स्वविभूतिमपेक्ष्यैव न परब्रह्मवत्सदा ॥ २७ ॥

शिवंकरत्वं सम्पूर्णं शिवस्यैव परात्मनः ।
साम्बमूर्तिधरस्यास्य जगतः कारणस्य हि ॥ २८ ॥

अतोऽपि स शिवो ध्येयः प्राधान्येन शिवंकरः ।
सर्वमन्यत्परित्यज्य दैवतं परमेश्वरात् ॥ २९ ॥

साक्षात्परशिवस्यैव शेषत्वेनाम्बिकापतेः ।
देवताः सकला ध्येया न प्राधान्येन सर्वदा ॥ ३० ॥

शिखाऽप्याथर्वणी साध्वी सर्ववेदोत्तमोत्तमा ।
अस्मिन्नर्थे समाप्ता सा श्रुतयश्चापरा अपि ॥ ३१ ॥

यथा साक्षात्परं ब्रह्म प्रतिष्ठा सकलस्य च ।
तथैवाथर्वणो वेदः प्रतिष्ठैवाखिलश्रुतेः ॥ ३२ ॥

कन्दस्तारस्तथा बिन्दुः शक्तिस्तारो महाद्रुमः ।
स्कन्धशाखा अकाराद्या वर्णा यद्वत्तथैव तु ॥ ३३ ॥

तारस्कन्दः श्रुतेर्जातिः शक्तिराथर्वणो द्रुमः ।
स्कन्धशाखास्त्रयो वेदाः पर्णाः स्मृतिपुराणकाः ॥ ३४ ॥

अङ्गानि शाखावरणं तर्कास्तस्यैवरक्षकाः ।
पुष्पं शिवपरिज्ञानं फलं मुक्तिः परा मता ॥ ३५ ॥

बहुनोक्तेन किं विप्राः शिवो ध्येयः शिवंकरः ।
सर्वमन्यत्परित्यज्य दैवतं भुक्तिमुक्तये ॥ ३६ ॥

सर्वमुक्तं समासेन सारात्सारतरं बुधाः ।
शिवध्यानं सदा यूयं कुरुध्वं यत्नतः सदा ॥ ३७ ॥

॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे
सूतगीतायां सर्वशास्त्रार्थसङ्ग्रहो नाम षष्ठोऽध्यायः ॥ ६ ॥

अथ सप्तमोऽध्यायः ।
७. रहस्यविचारः ।
सूत उवाच –
रहस्यं सम्प्रवक्ष्यामि समासेन न विस्तरात् ।
श्रुणुत श्रद्धया विप्राः सर्वसिद्ध्यर्थमुत्तमम् ॥ १ ॥

देवताः सर्वदेहेषु स्थिताः सत्यतपोधनाः ।
सर्वेषां कारणं साक्षात्परतत्त्वमपि स्थितम् ॥ २ ॥

पञ्चभूतात्मके देहे स्थूले षाट्कौशिके सदा ।
पृथिव्यादिक्रमेणैव वर्तन्ते पञ्च देवताः ॥ ३ ॥

कार्यं ब्रह्मा महीभागे कार्यं विष्णुर्जलांशके ।
कार्यं रुद्रोऽग्निभागे च वाय्वंशे चेश्वरः परः ।
आकाशांशे शरीरस्य स्थितः साक्षात्सदाशिवः ॥ ४ ॥

शरीरस्य बहिर्भागे विराडात्मा स्थितः सदा ॥ ५ ॥

अन्तर्भागे स्वराडात्मा सम्राड्देहस्य मध्यमे ।
ज्ञानेन्द्रियसमाख्येषु श्रोत्रादिषु यथाक्रमात् ॥ ६ ॥

दिग्वाय्वर्कजलाध्यक्षभूमिसंज्ञाश्च देवताः ।
कर्मेन्द्रियसमाख्येषु पादपाण्यादिषु क्रमात् ॥ ७ ॥

त्रिविक्रमेन्द्रवह्न्याख्या देवताश्च प्रजापतिः ।
मित्रसंज्ञश्च वर्तन्ते प्राणे सूत्रात्मसंज्ञितः ॥ ८ ॥

हिरण्यगर्भो भगवानन्तःकरणसंज्ञिते ।
तदवस्थाप्रभेदेषु चन्द्रमा मनसि स्थितः ॥ ९ ॥

बुद्धौ बृहस्पतिर्विप्राः स्थितः कालाग्निरुद्रकः ।
अहङ्कारे शिवश्चित्ते रोमसु क्षुद्रदेवताः ॥ १० ॥

भूतप्रेतादयः सर्वे देहस्यास्थिषु संस्थिताः ।
पिशाचा राक्षसाः सर्वे स्थिताः स्नायुषु सर्वशः ॥ ११ ॥

मज्जाख्ये पितृगन्धर्वास्त्वङ्मांसरुधिरेषु च ।
वर्तन्ते तत्र संसिद्धा देवताः सकला द्विजाः ॥ १२ ॥

त्रिमूर्तीनां तु यो ब्रह्मा तस्य घोरा तनुर्द्विजाः ।
दक्षिणाक्षिणि जन्तूनामन्तर्भागे रविर्बहिः ॥ १३ ॥

त्रिमूर्तीनां तु यो ब्रह्मा तस्य शान्ता तनुर्द्विजाः ।
वर्तते वामनेत्रान्तर्भागे बाह्ये निशाकरः ॥ १४ ॥

त्रिमूर्तीनां तु यो विष्णुः स कण्ठे वर्तते सदा ।
अन्तः शान्ततनुर्घोरा तनुर्बाह्ये द्विजर्षभाः ॥ १५ ॥

त्रिमूर्तीनां तु यो रुद्रो हृदये वर्तते सदा ।
अन्तः शान्ततनुर्घोरा तनुर्बाह्ये द्विजर्षभाः ॥ १६ ॥

सर्वेषां कारणं यत्तद्ब्रह्म सत्यादिलक्षणम् ।
ब्रह्मरन्ध्रे महास्थाने वर्तते सततं द्विजाः ॥ १७ ॥

See Also  Sri Shankaracharya’S Gitarahasyam In Sanskrit

चिच्छक्तिः परमा देहमध्यमे सुप्रतिष्ठिता ।
मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजादधः ॥ १८ ॥

नादरूपा परा शक्तिर्ललाटस्य तु मध्यमे ।
भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके ॥ १९ ॥

बिन्दुमध्ये तु जीवात्मा सूक्ष्मरूपेण वर्तते ।
हृदये स्थूलरूपेण मध्यमेन तु मध्यमे ॥ २० ॥

देवी सरस्वती साक्षाद्ब्रह्मपत्नी सनातनी ।
जिह्वाग्रे वर्तते नित्यं सर्वविद्याप्रदायिनी ॥ २१ ॥

विष्णुपत्नी महालक्ष्मीर्वर्ततेऽनाहते सदा ।
रुद्रपत्नी तु रुद्रेण पार्वती सह वर्तते ॥ २२ ॥

सर्वत्र वर्तते साक्षाच्छिवः साम्बः सनातनः ।
सत्यादिलक्षणः शुद्धः सर्वदेवनमस्कृतः ॥ २३ ॥

सम्यग्ज्ञानवतां देहे देवताः सकला अमूः ।
प्रत्यगात्मतया भान्ति देवतारूपतोऽपि च ॥ २४ ॥

वेद मार्गैकनिष्ठानां विशुद्धानां तु विग्रहे ।
देवतारूपतो भान्ति द्विजा न प्रत्यगात्मना ॥ २५ ॥

तान्त्रिकाणां शरीरे तु देवताः सकला अमूः ।
वर्तन्ते न प्रकाशन्ते द्विजेन्द्राः शुद्ध्यभावतः ॥ २६ ॥

यथाजातजनानां तु शरीरे सर्वदेवताः ।
तिरोभूततया नित्यं वर्तन्ते मुनिसत्तमाः ॥ २७ ॥

अतश्च भोगमोक्षार्थी शरीरं देवतामयम् ।
स्वकीयं परकीयं च पूजयेत्तु विशेषतः ॥ २८ ॥

नावमानं सदा कुर्यान्मोहतो वाऽपि मानवः ।
यदि कुर्यात्प्रमादेन पतत्येव भवोदधौ ॥ २९ ॥

दुर्वृत्तमपि मूर्खं च पूजयेद्देवतात्मना ।
देवतारूपतः पश्यन्मुच्यते भवबन्धनात् ॥ ३० ॥

मोहेनापि सदा नैव कुर्यादप्रियभाषणम् ।
यदि कुर्यात्प्रमादेन हन्ति तं देवता परा ॥ ३१ ॥

न क्षतं विग्रहे कुर्यादस्त्रशस्त्रनखादिभिः ।
तथा न लोहितं कुर्याद्यदि कुर्यात्पतत्यधः ॥ ३२ ॥

स्वदेहे परदेहे वा न कुर्यादङ्कनं नरः ।
यदि कुर्याच्च चक्राद्यैः पतत्येव न संशयः ॥ ३३ ॥

रहस्यं सर्वशास्त्राणां मया प्रोक्तं समासतः ।
शरीरं देवतारूपं भजध्वं यूयमास्तिकः ॥ ३४ ॥

॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे
सूतगीतायां रहस्यविचारो नाम सप्तमोऽध्यायः ॥ ७ ॥

अथ अष्टमोऽध्यायः ।
८. सर्ववेदान्तसङ्ग्रहः ।
सूत उवाच –
अथ वक्ष्ये समासेन सर्ववेदान्तसङ्ग्रहम् ।
यं विदित्वा नरः साक्षान्निर्वाणमधिगच्छति ॥ १ ॥

परात्परतरं तत्त्वं शिवः सत्यादिलक्षणः ।
तस्यासाधारणी मूर्तिरम्बिकासहिता सदा ॥ २ ॥

स्वस्वरूपमहानन्दप्रमोदात्ताण्डवप्रिया ।
शिवादिनामान्येवास्य नामानि मुनिपुङ्गवाः ॥ ३ ॥

ब्रह्मा विष्णुश्च रुद्रश्च परतत्त्वविभूतयः ।
त्रिमूर्तीनां तु रुद्रस्तु वरिष्ठो ब्रह्मणो हरेः ॥ ४ ॥

संसारकारणं माया सा सदा सद्विलक्षणा ।
प्रतीत्यैव तु सद्भावस्तस्या नैव प्रमाणतः ॥ ५ ॥

साऽपि ब्रह्मातिरेकेण वस्तुतो नैव विद्यते ।
तत्त्वज्ञानेन मायाया बाधो नान्येन कर्मणा ॥ ६ ॥

ज्ञानं वेदान्तवाक्योत्थं ब्रह्मात्मैकत्वगोचरम् ।
तच्च देवप्रसादेन गुरोः साक्षान्निरीक्षणात् ।
जायते शक्तिपातेन वाक्यादेवाधिकारिणाम् ॥ ७ ॥

ज्ञानेच्छाकारणं दानं यज्ञाश्च विविधा अपि ।
तपांसि सर्ववेदानां वेदान्तानां तथैव च ॥ ८ ॥

पुराणानां समस्तानां स्मृतीनां भारतस्य च ।
वेदाङ्गानां च सर्वेषामपि वेदार्थपारगाः ॥ ९ ॥

अध्यापनं चाध्ययनं वेदार्थे त्वरमाणता ।
उपेक्षा वेदबाह्यार्थे लौकिकेष्वखिलेष्वपि ॥ १० ॥

शान्तिदान्त्यादयो धर्मा ज्ञानस्याङ्गानि सुव्रताः ॥ ११ ॥

ज्ञानाङ्गेषु समस्तेषु भक्त्या लिङ्गे शिवार्चनम् ।
प्रतिष्ठा देवदेवस्य शिवस्थाननिरीक्षणम् ॥ १२ ॥

शिवभक्तस्य पूजा च शिवभक्तिस्तथैव च ।
रुद्राक्षधारणं भक्त्या कर्णे कण्ठे तथा करे ॥ १३ ॥

अग्निरित्यादिभिर्मन्त्रैर्भस्मनैवावगुण्ठनम् ।
त्रिपुण्ड्रधारणं चापि ललाटादिस्थलेषु च ॥ १४ ॥

वेदवेदान्तनिष्ठस्य महाकारुणिकस्य च ।
गुरोः शुश्रूषणं नित्यं वरिष्ठं परिकीर्तितम् ॥ १५ ॥

चिन्मन्त्रस्य पदाख्यस्य हंसाख्यस्य मनोर्जपः ।
षडक्षरस्य तारस्य वरिष्ठः परिकीर्तितः ॥ १६ ॥

अविमुख्यसमाख्यं च स्थानं व्याघ्रपुराभिधम् ।
श्रीमद्दक्षिणकैलाससमाख्यं च सुशोभनम् ॥ १७ ॥

मार्गान्तरोदिताचारात्स्मार्तो धर्मः सुशोभनः ।
स्मार्ताच्छ्रौतः परो धर्मः श्रौताच्छ्रेष्ठो न विद्यते ॥ १८ ॥

अतीन्द्रियार्थे धर्मादौ शिवे परमकारणे ।
श्रुतिरेव सदा मानं स्मृतिस्तदनुसारिणी ॥ १९ ॥

आस्तिक्यं सर्वधर्मस्य कन्दभूतं प्रकीर्तितम् ।
प्रतिषिद्धक्रियात्यागः कन्दस्यापि च कारणम् ॥ २० ॥

शिवः सर्वमिति ज्ञानं सर्वज्ञानोत्तमोत्तमम् ।
तत्तुल्यं तत्परं चापि न किंचिदपि विद्यते ॥ २१ ॥

वक्तव्यं सकलं प्रोक्तं मयाऽतिश्रद्धया सह ।
अतः परं तु वक्तव्यं न पश्यामि मुनीश्वराः ॥ २२ ॥

इत्युक्त्वा भगवान्सूतो मुनीनां भावितात्मनाम् ।
साम्बं सर्वेश्वरं ध्यात्वा भक्त्या परवशोऽभवत् ॥ २३ ॥

अथ परशिवभक्त्या सच्चिदानन्दपूर्णं
परशिवमनुभूय त्वात्मरूपेण सूतः ।
मुनिगणमवलोक्य प्राह साक्षाद्घृणाब्धि-
र्जनपदहितरूपं वेदितव्यं तु किंचित् ॥ २४ ॥

श्रुतिपथगलितानां मानुषाणां तु तन्त्रं
गुरुगुरुरखिलेशः सर्ववित्प्राह शम्भुः ।
श्रुतिपथनिरतानां तत्र नैवास्ति किंचि-
द्धितकरमिह सर्वं पुष्कलं सत्यमुक्तम् ॥ २५ ॥

श्रुतिरपि मनुजानां वर्णधर्मं बभाषे
परगुरुरखिलेशः प्राह तन्त्रेषु तद्वत् ।
श्रुतिपथगलितानां वर्णधर्मं घृणाब्धिः
श्रुतिपथनिरतानां नैव तत्सेवनीयम् ॥ २६ ॥

श्रुतिपथनिरतानामाश्रमा यद्वदुक्ताः
परगुरुरखिलेशस्तद्वदाहाऽऽश्रमांश्च ।
श्रुतिपथगलितानां मानुषाणां तु तन्त्रं
हरिरपि मुनिमुख्याः प्राह तन्त्रे स्वकीये ॥ २७ ॥

विधिरपि मनुजानामाह वर्णाश्रमांश्च
श्रुतिपथगलितानामेव तन्त्रे स्वकीये ।
श्रुतिपथनिरतानां ते न संसेवनीयाः ।
श्रुतिपथसममार्गौ नैव सत्यं मयोतम् ॥ २८ ॥

हरहरिविधिपूजा कीर्तिता सर्वतन्त्र
श्रुतिपथनिरतानं यद्वदुक्तातु पूजा ।
श्रुतिपथगलितानांयद्वदुक्ता तु पूजा ।
श्रुतिपथगलितानामेव तन्त्रोक्तपूजा
श्रुतिपथनिरतानां सर्ववेदोदितैव ॥ २९ ॥

श्रुतिपथगलितानां सर्वतन्त्रेषु लिङ्गं
कथितमखिलदुःखध्वंसध्वंसकं तत्र तत्र ।
श्रुतिपथनिरतानां तत्सदा नैव धार्यं
श्रुतिरपिमनुजानामाह लिङ्गं विशुद्धम् ॥ ३० ॥

शिवागमोक्ताश्रमनिष्ठमानव-
स्त्रिपुण्ड्रलिङ्गं तु सदैव धारयेत् ।
तदुक्ततन्त्रेण ललाटमध्यमे
महादरेणैव सितेन भस्मना ॥ ३१ ॥

विष्ण्वागमोक्ताश्रमनिष्ठमानव-
स्तथैव पुण्ड्रान्तरमूर्ध्वरूपकम् ।
त्रिशूलरूपं चतुरश्रमेव वा
मृदा ललाटे तु सदैव धारयेत् ॥ ३२ ॥

ब्रह्मागमोक्ताश्रमनिष्ठमानवो
ललाटमध्येऽपि च वर्तुलाकृतिम् ।
तदुक्तमन्त्रेण सितेन भस्मना
मृदाऽथवा चन्दनस्तु धारयेत् ॥ ३३ ॥

अश्वत्थपत्रसदृशं हरिचन्दनेन
मध्येललाटमतिशोभनमादरेण ।
बुद्धागमे मुनिवरा यदि संस्कृतश्चे-
न्मृद्वारिणा सततमेव तु धारयेच्च ॥ ३४ ॥

ऊर्ध्वपुण्ड्रत्रयं नित्यं धारयेद्भस्मना मृदा ।
ललाटे हृदये बाह्वोश्चन्दनेनाथवा नरः ॥ ३५ ॥

सितेन भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम् ।
सर्वागमेषु निष्ठानां तत्तन्मन्त्रेण शोभनम् ॥ ३६ ॥

शिवागमेषु निष्ठानां धार्यं तिर्यक्त्रिपुण्ड्रकम् ।
एकमेव सदा भूत्या नैव पुण्ड्रान्तरं बुधाः ॥ ३७ ॥

वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना ।
ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि ॥ ३८ ॥

ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य तु धारणम् ।
विना पुण्ड्रान्तरं मोहाद्धारयन्पतति द्विजः ॥ ३९ ॥

विष्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते ।
शङ्खचक्रगदापूर्वैरङ्कनं नान्यदेहिनाम् ॥ ४० ॥

दीक्षितानां तु तन्त्रेषु नराणामङ्कन द्विजाः ।
उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः ॥ ४१ ॥

पुण्ड्रान्तरस्य तन्त्रेषु धारणं दीक्षितस्य तु ।
उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः ॥ ४२ ॥

वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि ।
पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि ॥ ४३ ॥

नाङ्कनं विग्रहे कुर्याद्वेदपन्थानमाश्रितः ।
पुण्ड्रान्तरं भ्रमाद्वापि ललाटे न धारयेत् ॥ ४४ ॥

तन्त्रोक्तेन प्रकारेण देवता या प्रतिष्ठिता ।
साऽपि वन्द्या सुसेव्या च पूजनीया च वैदिकैः ॥ ४५ ॥

शुद्धमेव हि सर्वत्र देवतारूपमास्तिकाः ।
तत्तत्तन्त्रोक्तपूजा तु तन्त्रनिष्ठस्य केवलम् ॥ ४६ ॥

तन्त्रेषु दीक्षितो मर्त्यो वैदिकं न स्पृशेत्सदा ।
वैदिकश्चापि तन्त्रेषु दीक्षितं न स्पृशेत्सदा ॥ ४७ ॥

राजा तु वैदिकान्सर्वांस्तान्त्रिकानखिलानपि ।
असंकीर्णतया नित्यं स्थापयेन्मतिमत्तमाः ॥ ४८ ॥

अन्नपानादिभिर्वस्त्रैः सर्वान् राजाऽभिरक्षयेत् ।
वैदिकांस्तु विशेषेण ज्ञानिनं तु विशेषतः ॥ ४९ ॥

महादेवसमो देवो यथा नास्ति श्रुतौ स्मृतौ ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५० ॥

शिवज्ञानसमं ज्ञानं यथा नास्ति श्रुतौ स्मृतौ ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५१ ॥

यथा वाराणसी तुल्या पुरी नास्ति श्रुतौ स्मृतौ ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५२ ॥

षडक्षरोसमो मन्त्रो यथा नास्ति श्रुतौ स्मृतौ ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५३ ॥

यथा भागीरथीतुल्या नदी नास्ति श्रुतौ स्मृतौ ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५४ ॥

ओदनेन समं भोज्यं यथा लोके न विद्यते ।
तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ ५५ ॥

देवदेवो महादेवो यथा सर्वैः प्रपूज्यते ।
तथैव वैदिको मर्त्यः पूज्यः सर्वजनैरपि ॥ ५६ ॥

आदित्येन विहीनं तु जगदन्धं यथा भवेत् ।
तथा वैदिकहीनं तु जगदन्धं न संशयः ॥ ५७ ॥

प्राणेन्द्रियादिहीनं तु शरीरं कुणपं यथा ।
तथा वैदिकहीनं तु जगद्व्यर्थं न संशयः ॥ ५८ ॥

अहो वैदिकमाहात्म्यं मया वक्तुं न शक्यते ।
वेद एव तु माहात्म्यं वैदिकस्याब्रवीन्मुदा ॥ ५९ ॥

स्मृतयश्च पुराणानि भारतादीनि सुव्रताः ।
वैदिकस्य तु माहात्म्यं प्रवदन्ति सदा मुदा ॥ ६० ॥

वेदोक्तं तान्त्रिकाः सर्वे स्वीकुर्वन्ति द्विजर्षभाः ।
नोपजीवन्ति तन्त्रोक्तं वेद साक्षात्सनातनः ॥ ६१ ॥

इत्युक्त्वा भगवान्सूतः स्वगुरुं व्याससंज्ञितम् ।
स्मृत्वा भक्त्या वशो भूत्वा पपात भुवि दण्डवत् ॥ ६२ ॥

अस्मिन्नवसरे श्रीमान्मुनिः सत्यवतीसुतः ।
शिष्यस्मृत्यङ्कुशाकृष्टस्तत्रैवाऽऽविरभूत्स्वयम् ॥ ६३ ॥

तं दृष्ट्वा मुनयः सर्वे सन्तोषाद्गद्गदस्वराः ।
निश्चेष्टा नितरां भूमौ प्रणम्य करुणानिधिम् ॥ ६४ ॥

स्तोत्रैः स्तुत्वा महात्मानं व्यासं सत्यवतीसुतम् ।
पूजयामासुरत्यर्थं वन्यपुष्पफलादिभिः ॥ ६५ ॥

भगवानपि सर्वज्ञः करुणासागरः प्रभुः ।
उवाच मधुरं वाक्यं मुनीनालोक्य सुव्रतान् ॥ ६६ ॥

व्यास उवाच –
शिवमस्तु मुनीन्द्राणां नाशिवं तु कदाचन ।
अहो भाग्यमहो भाग्यं मया वक्तुं न शक्यते ॥ ६७ ॥

श्रूयतां मुनयः सर्वे भाग्यवन्तः समाहिताः ।
प्रसादादेव रुद्रस्य प्रभोः कारुणिकस्य च ॥ ६८ ॥

पुराणानां समस्तानामहं कर्ता पुराऽभवम् ।
मत्प्रसादादयं सूतस्त्वभवद्रुद्रवल्लभः ॥ ६९ ॥

रुद्रस्याऽऽज्ञाबलादेव प्रभोः कारुणिकस्य च ।
पुराणसंहितकर्ता देशिकश्चाभवद्भृशम् ॥ ७० ॥

पुरा कृतेन पुण्येन भवन्तोऽपीश्वराज्ञया ।
सूतादस्माच्छ्रुतेरर्थं श्रुतवन्तो यथातथम् ॥ ७१ ॥

कृतार्थाश्च प्रसादश्च रौद्रः किं न करिष्यति ।
आज्ञया केवलं शम्भोरहं वेदार्थवेदने ॥ ७२ ॥

सम्पूर्णः सर्ववेदान्तवाक्यानामर्थनिश्चये ।
समर्थश्च नियुक्तश्च सूत्रारम्भकृतेऽपि च ॥ ७३ ॥

आज्ञया देवदेवस्य भवतामपि योगिनाम् ।
ज्ञाने गुरुगुरुश्चाहमभवं मुनिपुङ्गवाः ॥ ७४ ॥

भवन्तोऽपि शिवज्ञाने वेदसिद्धे विशेषतः ।
भक्त्या परमया युक्ता निष्ठा भवत सर्वदा ॥ ७५ ॥

इत्युक्त्वा भगवान् व्यासः स्वशिष्यं सूतमुत्तमम् ।
उत्थाप्याऽऽलिङ्ग्य देवेशं स्मृत्वा नत्वाऽगमद्गुरुः ॥ ७६ ॥

पुनश्च सूतः सर्वज्ञः स्वशिष्यानवलोक्य च ।
प्राह गम्भीरया वाचा भवतां शिवमस्त्विति ॥ ७७ ॥

मयोक्ता परमा गीता पठिता येन तस्य तु ।
आयुरारोग्यमैश्वर्यं विज्ञानं च भविष्यति ॥ ७८ ॥

शिवप्रसादः सुलभो भविष्यति न संशयः ।
गुरुत्वं च मनुष्याणां भविष्यति न संशयः ॥ ७९ ॥

विद्यारूपा या शिवा वेदवेद्या
सत्यानन्दानन्तसंवित्स्वरूपा ।
तस्या वाचः सर्वलोकैक मातु-
र्भक्त्या नित्यं चम्बिकायाः प्रसादात् ॥ ८० ॥

गुरुप्रसादादपि सुव्रता मया
शिवप्रसादादपि चोत्तमोत्तमात् ।
विनायकस्यापि महाप्रसादात्
षडाननस्यापि महाप्रसादात् ॥ ८१ ॥

यज्ञवैभवसमाह्वयः कृतः
सर्ववेदमथनेन सत्तमाः ।
अत्र मुक्तिरपि शोभना परा
सुस्थितैव न हि तत्र संशयः ॥ ८२ ॥

यज्ञवैभवसमाह्वयं परं
खण्डमत्र विमलं पठेन्नरः ।
सत्यबोधसुखलक्षणं
सत्यमेव झटिति प्रयाति हि ॥ ८३ ॥

मदुक्तसंहिता परा समस्तदुःखहारिणी
नरस्य मुक्तिदायिनी शिवप्रसादकारिणी ।
समस्तवेदसारतः सुनिर्मिताऽतिशोभना
महत्तरानुभूतिमद्भिरादृता न चापरैः ॥ ८४ ॥

मदुक्तसंहिता तु या तया विरुद्धमस्ति चे-
दनर्थकं हि तद्बुधा वचः प्रयोजनाय न ।
श्रुतिप्रमाणरूपिणी सुसंहिता मयोदिता
श्रुतिप्रमाणमेव सा महाजनस्य सन्ततम् ॥ ८५ ॥

मदुक्तसंहितामिमामतिप्रियेण मानवः
पठन्न याति संसृतिं प्रयाति शङ्करं परम् ।
अतश्च शोभनामिमामहर्निशं समाहितः
श्रुतिप्रमाणवत्पठेदतन्द्रितः स्वमुक्तये ॥ ८६ ॥

पुराणसंहितामिमामतिप्रियेण यः पुमान्
श्रुणोति संसृतिं पुनर्न याति याति शङ्करम् ।
परानुभूतिरद्वया विजायते च तस्य सा
शिवा च वाचि नृत्यति प्रियेण शङ्करोऽपि च ॥ ८७ ॥

सत्यपूर्णसुखबोधलक्षणं
तत्त्वमर्थविभवं सनातनम् ।
सत्स्वरूपमशुभापहं शिवं
भक्तिगम्यममलं सदा नुमः ॥ ८८ ॥

याऽनुभूतिरमला सदोदिता
वेदमाननिरता शुभावहा ।
तामतीव सुखदामहं शिवां
केशवादिजनसेवितां नुमः ॥ ८९ ॥

वेदपद्मनिकरस्य भास्करं
देवदेवसदृशं घृणानिधिम् ।
व्यासमिष्टफलदं गुरुं नुमः
शोकमोहविषरोगभेषजम् ॥ ९० ॥

ये वेदवेदान्तधना महाजनाः
शिवाभिमानैकनिरस्तकिल्बिषाः ।
नमामि वाचा शिरसा हृदा च तान्
भवाहिवेगस्य निवारकानहम् ॥ ९१ ॥

॥ इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थस्य
यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां
सर्ववेदान्तसङ्ग्रहो नामाष्टमोऽध्यायः ॥ ८ ॥

सूतगीता समाप्ता ।
ॐ तत्सत्

– Chant Stotra in Other Languages –

Suta Gita in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil