Yogaprada Ganesha Stotram In Sanskrit

॥ Yogaprada Ganesha Stotram Sanskrit Lyrics ॥

॥ योगप्रद गणेश स्तोत्रम् (मुद्गल पुराणे) ॥
कपिल उवाच ।
नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।
अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १ ॥

आकाशाय च भूतानां मनसे चामरेषु ते ।
बुद्ध्यैरिन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ २ ॥

देहानां बिन्दुरूपाय मोहरूपाय देहिनाम् ।
तयोरभेदभावेषु बोधाय ते नमो नमः ॥ ३ ॥

साङ्ख्याय वै विदेहानां सम्योगानां निजात्मने ।
चतुर्णां पञ्च मायैव सर्वत्र ते नमो नमः ॥ ४ ॥

नामरूपात्मकानां वै शक्तिरूपाय ते नमः ।
आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ ५ ॥

आनन्दानां महाविष्णुरूपाय नेति धारिणाम् ।
शङ्कराय च सर्वेषां सम्योगे गणपाय ते ॥ ६ ॥

कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम् ।
समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ ७ ॥

स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः ।
तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ ८ ॥

निर्मायिकस्वरूपाणामयोगाय नमो नमः ।
योगानां योगरूपाय गणेशाय नमो नमः ॥ ९ ॥

शान्तियोगप्रदात्रे ते शान्तियोगमयाय च ।
किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ १० ॥

See Also  1000 Names Of Sri Hanumat In Sanskrit

ततस्तं गणनाथो वै जगाद भक्तमुत्तमम् ।
हर्षेण महता युक्तो हर्षयन्मुनिसत्तम ॥ ११ ॥

श्रीगणेश उवाच ।
त्वया कृतं मदीयं यत् स्तोत्रं योगप्रदं भवेत् ।
धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १२ ॥

इति श्रीमुद्गलपुराणे योगप्रद गणेश स्तोत्रम् समाप्तम् ।

– Chant Stotra in Other Languages –

Sri Ganesha Stotram » Yogaprada Ganesha Stotram in Lyrics in English » Kannada » Telugu » Tamil