1000 Names Of Srirama – Sahasranama Stotram In Sanskrit

॥ ShriramaSahasranamastotram Sanskrit Lyrics ॥

॥ श्रीरामसहस्रनामस्तोत्रं अनन्तसुतश्रीदिवाकरविरचितम् ॥
अनन्तसुतश्रीदिवाकरघैसासशास्त्रिविरचितं

प्रज्ञागोदावरीतीरे चेतःपर्णकुटीकृते ।
वैदेहीशक्तिसंयुक्तं तपस्यालक्ष्मणद्वयम् ॥

पञ्चेन्द्रियपञ्चवटीनिवासस्थं धनुर्धरम् ।
ध्यायाम्यात्मस्वरूपं तं राघवं भयनाशनम् ॥

वाल्मीकि-भरद्वाज-दिवाकराः ऋषयः, अनुष्टुप् छन्दः,
श्रीरामचन्द्रो देवता ।
प्रातर्ध्येयः सदाभद्रो भयभञ्जनकोविदः इति बीजम् ।
सूक्ष्मबुद्धिर्महातेजा अनासक्तः प्रियाहवः इति शक्तिः ।
वर्धिष्णुर्विजयी प्राज्ञो रहस्यज्ञो विमर्शविदिति कीलकम् ।
श्रीरामसहस्रनामस्तोत्रस्य जपे विनियोगः ।

कदाचित्पूर्णसङ्कल्पो वाल्मीकिकविरात्मवान्।
ध्यायन् राममुपाविष्टः स्वाश्रमे शान्तचेतसा ॥ १ ॥

अभिगम्य भरद्वाजस्तमुवाचादरेण भोः ।
श्रुतं दृष्टं च चरितं रामचन्द्रस्य पावनम् ॥ २ ॥

ललितं विस्तरं सौम्यं कारुण्यमधुरं शुभम् ।
स्मृत्वा स्वानन्दभरितं हृदयं मे भवत्यहो ॥ ३ ॥

तत्तथा प्राकृतैर्लोकैर्यथा साङ्गं न गीयते ।
कलौ स्वल्पात्मधैर्येभ्यो दुरापस्तं विशेषतः ॥ ४ ॥

भवान् प्रातिभविद्यायां प्रवीणः परमार्थतः ।
तद्ब्रवीतु हि रामस्य सङ्क्षेपेण महागुणान् ॥ ५ ॥

किं नित्यं पठनीयं किं स्वल्पसारैर्जनैः श्रुतम् ।
भवेत्कल्याणकृल्लोके प्रेरणादायकं तथा ॥ ६ ॥

तच्छ्रुत्वा सादरं वाक्यं वाल्मीकिकविरब्रवीत् ।
श‍ृणु नामानि रामस्य सहस्रणि यथाक्रमम् ॥ ७ ॥

स्तोत्रमेतत्पठित्वा हि भक्तो ज्ञास्यति सर्वथा ।
राघवस्य गुणान् मुख्यान् ध्यात्वा शान्तिं निगच्छति ॥ ८ ॥

अथ स्तोत्रम् ।
ॐ आर्यश्रेष्ठो धरापालः साकेतपुरपालकः ।
एकबाणो धर्मवेत्ता सत्यसन्धोऽपराजितः ॥ १ ॥

इक्ष्वाकुकुलसम्भूतो रघुनाथः सदाश्रयः ।
अघध्वंसी महापुण्यो मनस्वी मोहनाशनः ॥ २ ॥

अप्रमेयो महाभागः सीतासौन्दर्यवर्धनः ।
अहल्योद्धारकः शास्ता कुलदीपः प्रभाकरः ॥ ३ ॥

आपद्विनाशी गुह्यज्ञः सीताविरहव्याकुलः ।
अन्तर्ज्ञानी महाज्ञानी शुद्धसञ्ज्ञोऽनुजप्रियः ॥ ४ ॥

असाध्यसाधको भीमो मितभाषी विदां वरः ।
अवतीर्णः समुत्तारो दशस्यन्दनमानदः ॥ ५ ॥

आत्मारामो विमानार्हो हर्षामर्षसुसङ्गतः ।
अभिगम्यो विशालात्मा विरामश्चिन्तनात्मकः ॥ ६ ॥

अद्वितीयो महायोगी साधुचेताः प्रसादनः ।
उग्रश्रीरन्तकस्तेजस्तारणो भूरिसङ्ग्रहः ॥ ७ ॥

एकदारः सत्त्वनिधिः सन्निधिः स्मृतिरूपवान् ।
उत्तमालङ्कृतः कर्ता उपमारहितः कृती ॥ ८ ॥

आजानुबाहुरक्षुब्धः क्षुब्धसागरदर्पहा ।
आदित्यकुलसन्तानो वंशोचितपराक्रमः ॥ ९ ॥

अनुकूलः सतां सद्भिर्भावबद्धकरैः स्तुतः ।
उपदेष्टा नृपोत्कृष्टो भूजामाता खगप्रियः ॥ १० ॥

ओजोराशिर्निधिः साक्षात्क्षणदृष्टात्मचेतनः ।
उमापरीक्षितो मूकः सन्धिज्ञो रावणान्तकः ॥ ११ ॥

अलौकिको लोकपालस्त्रैलोक्यव्याप्तवैभवः ।
अनुजाश्वासितः शिष्टो वरिष्ठश्चापधारिषु ॥ १२ ॥

उद्यमी बुद्धिमान् गुप्तो युयुत्सुः सर्वदर्शनः ।
ऐक्ष्वाको लक्ष्यणप्राणो लक्ष्मीवान् भार्गवप्रियः ॥ १३ ॥

इष्टदः सत्यदिदृक्षुर्दिग्जयी दक्षिणायनः ।
अनन्यवृत्तिरुद्योगी चन्द्रशेखरशान्तिदः ॥ १४ ॥

अनुजार्थसमुत्कण्ठः सुरत्राणः सुराकृतिः ।
अश्वमेधी यशोवृद्धस्तरुणस्तारणेक्षणः ॥ १५ ॥

अप्राकृतः प्रतिज्ञाता वरप्राप्तो वरप्रदः ।
अभूतपूर्वोऽद्भुतध्येयो रुद्रप्रेमी सुशीतलः ॥ १६ ॥

अन्तःस्पृक् धनुःस्पृक्चैव भरतापृष्टकौशलः ।
आत्मसंस्थो मनःसंस्थः सत्त्वसंस्थो रणस्थितः ॥ १७ ॥

ईर्ष्याहीनो महाशक्तिः सूर्यवंशी जनस्तुतः ।
आसनस्थो बान्धवस्थः श्रद्धास्थानं गुणस्थितः ॥ १८ ॥

इन्द्रमित्रोऽशुभहरो मायाविमृगघातकः ।
अमोघेषुः स्वभावज्ञो नामोच्चारणसंस्मृतः ॥ १९ ॥

अरण्यरुदनाक्रान्तो बाष्पसङ्कुललोचनः ।
अमोघाशीर्वचोऽमन्दो विद्वद्वन्द्यो वनेचरः ॥ २० ॥

इन्द्रादिदेवतातोषः संयमी व्रतधारकः ।
अन्तर्यामी विनष्टारिर्दम्भहीनो रविद्युतिः ॥ २१ ॥

काकुत्स्थो गिरिगम्भीरस्ताटकाप्राणकर्षणः ।
कन्दमूलान्नसन्तुष्टो दण्डकारण्यशोधनः ॥ २२ ॥

कर्तव्यदक्षः स्नेहार्द्रः स्नेहकृत्कामसुन्दरः ।
कैकेयीलीनप्रवृत्तिर्निवृत्तिर्नामकीर्तितः ॥ २३ ॥

कबन्धघ्नो भयत्राणो भरद्वाजकृतादरः ।
करुणः पुरुषश्रेष्ठः पुरुषः परमार्थवित् ॥ २४ ॥

केवलः सुतसङ्गीताकर्षितो ऋषिसङ्गतः ।
काव्यात्मा नयविन्मान्यो मुक्तात्मा गुरुविक्रमः ॥ २५ ॥

क्रमज्ञः कर्मशास्त्रज्ञः सम्बन्धज्ञः सुलक्षः ।
किष्किन्धेशहिताकाङ्क्षी लघुवाक्यविशारदः ॥ २६ ॥

कपिश्रेष्ठसमायुक्तः प्राचीनो वल्कलावृतः ।
काकप्रेरितब्रह्मास्त्रः सप्ततालविभञ्जनः ॥ २७ ॥

See Also  Sri Lalitha Sahasranama Stotram In Gujarati

कपटज्ञः कपिप्रीतः कविस्फूर्तिप्रदायकः ।
किंवदन्तीद्विधावृत्तिर्निधाराद्रिर्विधिप्रियः ॥ २८ ॥

कालमित्रः कालकर्ता कालदिग्दर्शितान्तवित् ।
क्रान्तदर्शी विनिष्क्रान्तो नीतिशास्त्रपुरःसरः ॥ २९ ॥

कुण्डलालङ्कृतश्रोत्रो भ्रान्तिहा भ्रमनाशकः ।
कमलायताक्षो नीरोगः सुबद्धाङ्गो मृदुस्वनः ॥ ३० ॥

क्रव्यादघ्नो वदान्यात्म संशयापन्नमानसः ।
कौसल्याक्रोडविश्रामः काकपक्षधरः शुभः ॥ ३१ ॥

खलक्षयोऽखिलश्रेष्ठः पृथुख्यातिपुरस्कृतः ।
गुहकप्रेमभाग्देवो मानवेशो महीधरः ॥ ३२ ॥

गूढात्मा जगदाधारः कलत्रविरहातुरः ।
गूढाचारो नरव्याघ्रो बुधो बुद्धिप्रचोदनः ॥ ३३ ॥

गुणभृद्गुणसङ्घातः समाजोन्नतिकारणः ।
गृध्रहृद्गतसङ्कल्पो नलनीलाङ्गदप्रियः ॥ ३४ ॥

गृहस्थो विपिनस्थायी मार्गस्थो मुनिसङ्गतः ।
गूढजत्रुर्वृषस्कङ्घो महोदारः शमास्पदः ॥ ३५ ॥

चारवृत्तान्तसन्दिष्टो दुरवस्थासहः सखा ।
चतुर्दशसहस्रघ्नो नानासुरनिषूदनः ॥ ३६ ॥

चैत्रेयश्चित्रचरितः चमत्कारक्षमोऽलघुः ।
चतुरो बान्धवो भर्ता गुरुरात्मप्रबोधनः ॥ ३७ ॥

जानकीकान्त आनन्दो वात्सल्यबहुलः पिता ।
जटायुसेवितः सौम्यो मुक्तिधाम परन्तपः ॥ ३८ ॥

जनसङ्ग्रहकृत्सूक्ष्मश्चरणाश्रितकोमलः ।
जनकानन्दसङ्कल्पः सीतापीरणयोत्सुकः ॥ ३९ ॥

तपस्वी दण्डनाधारो देवासुरविलक्षणः ।
त्रिबन्धुर्विजयाकाङ्क्षी प्रतिज्ञापारगो महान् ॥ ४० ॥

त्वरितो द्वेषहीनेच्छः स्वस्थः स्वागततत्परः ।
जननीजनसौजन्यः परिवाराग्रणीर्गुरुः ॥ ४१ ॥

तत्त्ववित्तत्त्वसन्देष्टा तत्त्वाचारी विचारवान् ।
तीक्ष्णबाणश्चापपाणिः सीतापाणिग्रही युवा ॥ ४२ ॥

तीक्ष्णाशुगः सरित्तीर्णो लङ्घितोच्चमहीधरः ।
देवतासङ्गतोऽसङ्गो रमणीयो दयामयः ॥ ४३ ॥

दिव्यो देदीप्यमानाभो दारुणारिनिषूदनः ।
दुर्धर्षो दक्षिणो दक्षो दीक्षितोऽमोघवीर्यवान् ॥ ४४ ॥

दाता दूरगताख्यातिर्नियन्ता लोकसंश्रयः ।
दुष्कीर्तिशङ्कितो वीरो निष्पापो दिव्यदर्शनः ॥ ४५ ॥

देहधारी ब्रह्मवेत्ता विजिगीषुर्गुणाकरः ।
दैत्यघाती बाणपाणिर्ब्रह्यास्त्राढ्यो गुणान्वितः ॥ ४६ ॥

दिव्याभरणलिप्ताङ्गो दिव्यमाल्यसुपूजितः ।
दैवज्ञो देवताराध्यो देवकार्यसमुत्सुकः ॥ ४७ ॥

दृढप्रतिज्ञो दीर्घायुर्दुष्टदण्डनपण्डितः ।
दण्डकारण्यसञ्चारी चतुर्दिग्विजयी जयः ॥ ४८ ॥

दिव्यजन्मा इन्द्रियेशः स्वल्पसन्तुष्टमानसः ।
देवसम्पूजितो रम्यो दीनदुर्बलरक्षकः ॥ ४९ ॥

दशास्यहननोऽदूरः स्थाणुसदृशनिश्चयः ।
दोषहा सेवकारामः सीतासन्तापनाशनः ॥ ५० ॥

दूषणघ्नः खरध्वंसी समग्रनृपनायकः ।
दुर्धरो दुर्लभो दीप्तो दुर्दिनाहतवैभवः ॥ ५१ ॥

दीननाथो दिव्यरथः सज्जनात्ममनोरथः ।
दिलीपकुलसन्दीपो रघुवंशसुशोभनः ॥ ५२ ॥

दीर्घबाहुर्दूरदर्शी विचारी विधिपण्डितः ।
धनुर्धरो धनी दान्तस्तापसो नियतात्मवान् ॥ ५३ ॥

धर्मसेतुर्धर्ममार्गः सेतुबन्धनसाधनः ।
धर्मोद्धारो मनोरूपो मनोहारी महाधनः ॥ ५४ ॥

ध्यातृध्येयात्मको मध्यो मोहलोभप्रतिक्रियः ।
धाममुक् पुरमुग्वक्ता देशत्यागी मुनिव्रती ॥ ५५ ॥

ध्यानशक्तिर्ध्यानमूर्तिर्ध्यातृरूपो विधायकः ।
धर्माभिप्रायविज्ञानी दृढो दुःस्वप्ननाशनः ॥ ५६ ॥

धुरन्धरो धराभर्ता प्रशस्तः पुण्यबान्धवः ।
नीलाभो निश्चलो राजा कौसल्येयो रघूत्तमः ॥ ५७ ॥

नीलनीरजसङ्काकाशः कर्कशो विषकर्षणः ।
निरन्तरः समाराध्यः सेनाध्यक्षः सनातनः ॥ ५८ ॥

निशाचरभयावर्तो वर्तमानस्त्रिकालवित् ।
नीतिज्ञो राजनीतिज्ञो धर्मनीतिज्ञ आत्मवान् ॥ ५९ ॥

नायकः सायकोत्सारी विपक्षासुविकर्षणः ।
नौकागामी कुशेशायी तपोधामार्तरक्षणः ॥ ६० ॥

निःस्पृहः स्पृहणीयश्रीर्निजानन्दो वितन्द्रितः ।
नित्योपायो वनोपेतो गुहकः श्रेयसां निधिः ॥ ६१ ॥

निष्ठावान्निपुणो धुर्यो धृतिमानुत्तमस्वरः ।
नानाऋषिमखाहूतो यजमानो यशस्करः ॥ ६२ ॥

मैथिलीदूषितार्तान्तःकरणो विबुधप्रियः ।
नित्यानित्यविवेकी सत्कार्यसज्जः सदुक्तिमान् ॥ ६३ ॥

पुरुषार्थदर्शको वाग्मी हनुमत्सेवितः प्रभुः ।
प्रौढप्रभावो भावज्ञो भक्ताधीनो ऋषिप्रियः ॥ ६४ ॥

पावनो राजकार्यज्ञो वसिष्ठानन्दकारणः ।
पर्णगेही विगूढात्मा कूटज्ञः कमलेक्षणः ॥ ६५ ॥

प्रियार्हः प्रियसङ्कल्पः प्रियामोदनपण्डितः ।
परदुःखार्तचेता दुर्व्यसनेऽचलनिश्चयः ॥ ६६ ॥

प्रमाणः प्रेमसंवेद्यो मुनिमानसचिन्तनः ।
प्रीतिमान् ऋतवान् विद्वान् कीर्तिमान् युगधारणः ॥ ६७ ॥

प्रेरकश्चन्द्रवच्चारुर्जागृतः सज्जकार्मुकः ।
पूज्यः पवित्रः सर्वात्मा पूजनीयः प्रियंवदः ॥ ६८ ॥

प्राप्यः प्राप्तोऽनवद्यः स्वर्निलयो नीलविग्रही ।
परतत्त्वार्थसन्मूर्तिः सत्कृतः कृतविद्वरः ॥ ६९ ॥

See Also  108 Names Of Gayatri In Telugu

प्रसन्नः प्रयतः प्रीतः प्रियप्रायः प्रतीक्षितः ।
पापहा शक्रदत्तास्त्रः शक्रदत्तरथस्थितः ॥ ७० ॥

प्रातर्ध्येयः सदाभद्रो भयभञ्जनकोविदः ।
पुण्यस्मरणः सन्नद्धः पुण्यपुष्टिपरायणः ॥ ७१ ॥

पुत्रयुग्मपरिस्पृष्टो विश्वासः शान्तिवर्धनः ।
परिचर्यापरामर्शी भूमिजापतिरीश्वरः ॥ ७२ ॥

पादुकादोऽनुजप्रेमी ऋजुनामाभयप्रदः ।
पुत्रधर्मविशेषज्ञः समर्थः सङ्गरप्रियः ॥ ७३ ॥

पुष्पवर्षावशुभ्राङ्गो जयवानमरस्तुतः ।
पुण्यश्लोकः प्रशान्तार्चिश्चन्दनाङ्गविलेपनः ॥ ७४ ॥

पौरानुरञ्जनः शुद्धः सुग्रीवकृतसङ्गतिः ।
पार्थिवः स्वार्थसन्यासी सुवृत्तः परचित्तवित् ॥

पुष्पकारूढवैदेहीसंलापस्नेहवर्धनः ।
पितृमोदकरोऽरूक्षो नष्टराक्षसवल्गनः ॥ ७६ ॥

प्रावृण्मेघसमोदारः शिशिरः शत्रुकालनः ।
पौरानुगमनोऽवध्यो वैरिविध्वंसनव्रती ॥ ७७ ॥

पिनाकिमानसाह्लादो वालुकालिङ्गपूजकः ।
पुरस्थो विजनस्थायी हृदयस्थो गिरिस्थितः ॥ ७८ ॥

पुण्यस्पर्शः सुखस्पर्शः पदसंस्पृष्टप्रस्तरः ।
प्रतिपन्नसमग्रश्रीः सत्प्रपन्नः प्रतापवान् ॥ ७९ ॥

प्रणिपातप्रसन्नात्मा चन्दनाद्भुतशीतलः ।
पुण्यनामस्मृतो नित्यो मनुजो दिव्यतां गतः ॥ ८० ॥

बन्धच्छेदी वनच्छन्दः स्वच्छन्दश्छादनो ध्रुवः ।
बन्धुत्रयसमायुक्तो हृन्निधानो मनोमयः ॥ ८१ ॥

विभीषणशरण्यः श्रीयुक्तः श्रीवर्धनः परः ।
बन्धुनिक्षिप्तराज्यस्वः सीतामोचनधोरणी ॥ ८२ ॥

भव्यभालः समुन्नासः किरीटाङ्कितमस्तकः ।
भवाब्धितरणो बोधो धनमानविलक्षणः ॥ ८३ ॥

भूरिभृद्भव्यसङ्कल्पो भूतेशात्मा विबोधनः ।
भक्तचातकमेघार्द्रो मेधावी वर्धितश्रुतिः ॥ ८४ ॥

भयनिष्कासनोऽजेयो निर्जराशाप्रपूरकः ।
भवसारो भावसारो भक्तसर्वस्वरक्षकः ॥ ८५ ॥

भार्गवौजाः समुत्कर्षो रावणस्वसृमोहनः ।
भरतन्यस्तराज्यश्रीर्जानकीसुखसागरः ॥ ८६ ॥

मिथिलेश्वरजामाता जानकीहृदयेश्वरः ।
मातृभक्तो ह्यनन्तश्रीः पितृसन्दिष्टकर्मकृत् ॥ ८७ ॥

मर्यादापुरुषः शान्तः श्यामो नीरजलोचनः ।
मेघवर्णो विशालाक्षः शरवर्षावभीषणः ॥ ८८ ॥

मन्त्रविद्गाधिजादिष्टो गौतमाश्रमपावनः ।
मधुरोऽमन्दगः सत्त्वः सात्त्विको मृदुलो बली ॥ ८९ ॥

मन्दस्मितमुखोऽलुब्धो विश्रामः सुमनोहरः ।
मानवेन्द्रः सभासज्जो घनगम्भीरगर्जनः ॥ ९० ॥

मैथिलीमोहनो मानी गर्वघ्नः पुण्यपोषणः ।
मधुजो मधुराकारो मधुवाङ्मधुराननः ॥ ९१ ॥

महाकर्मा विराधघ्नो विघ्नशान्तिररिन्दमः ।
मर्मस्पर्शी नवोन्मेषः क्षत्रियः पुरुषोत्तमः ॥ ९२ ॥

मारीचवञ्चितो भार्याप्रियकृत्प्रणयोत्कटः ।
महात्यागी रथारूढः पदगामी बहुश्रुतः ॥ ९३ ॥

महावेगो महावीर्यो वीरो मातलिसारथिः ।
मखत्राता सदाचारी हरकार्मुकभञ्जनः ॥ ९४ ॥

महाप्रयासः प्रामाण्यग्राही सर्वस्वदायकः ।
मुनिविघ्नान्तकः शस्त्री शापसम्भ्रान्तलोचनः ॥ ९५ ॥

मलहारी कलाविज्ञो मनोज्ञः परमार्थवित् ।
मिताहारी सहिष्णुर्भूपालकः परवीरहा ॥ ९६ ॥

मातृस्नेही सुतस्नेही स्निग्धाङ्गः स्निग्धदर्शनः ।
मातृपितृपदस्पर्शी अश्मस्पर्शी मनोगतः ॥ ९७ ॥

मृदुस्पर्श इषुस्पर्शी सीतासम्मितविग्रहः ।
मातृप्रमोदनो जप्यो वनप्रस्थः प्रगल्भधीः ॥ ९८ ॥

यज्ञसंरक्षणः साक्षी आधारो वेदविन्नृपः ।
योजनाचतुरः स्वामी दीर्घान्वेषी सुबाहुहा ॥ ९९ ॥

युगेन्द्रो भारतादर्शः सूक्ष्मदर्शी ऋजुस्वनः ।
यदृच्छालाभलघ्वाशी मन्त्ररश्मिप्रभाकरः ॥ १०० ॥

यज्ञाहूतनृपवृन्दो ऋक्षवानरसेवितः ।
यज्ञदत्तो यज्ञकर्ता यज्ञवेत्ता यशोमयः ॥ १०१ ॥

यतेन्द्रियो यती युक्तो राजयोगी हरप्रियः ।
राघवो रविवंशाढ्यो रामचन्द्रोऽरिमर्दनः ॥ १ ० २ ॥

रुचिरश्चिरसन्धेयः सङ्घर्षज्ञो नरेश्वरः ।
रुचिरस्मितशोभाड्यो दृढोरस्को महाभुजः ॥ १०३ ॥

राज्यहीनः पुरत्यागी बाष्पसङ्कुललोचनः ।
ऋषिसम्मानितः सीमापारीणो राजसत्तमः ॥ १०४ ॥

रामो दाशरथिः श्रेयान् परमात्मसमो भुवि ।
लङ्केशक्षोभणो धन्यश्चेतोहारी स्वयन्धनः ॥ १०५ ॥

लावण्यखनिराख्यातः प्रमुखः क्षत्ररक्षणः ।
लङ्कापतिभयोद्रेकः सुपुत्रो विमलान्तरः ॥ १०६ ॥

विवेकी कोमलः कान्तः क्षमावान् दुरितान्तकः ।
वनवासी सुखत्यागी सुखकृत्सुन्दरो वशी ॥ १०७ ॥

विरागी गौरवो धीरः शूरो राक्षसघातकः ।
वर्धिष्णुर्विजयी प्राज्ञो रहस्यज्ञो विमर्शवित् ॥ १०८ ॥

वाल्मीकिप्रतिभास्रोतः साधुकर्मा सतां गतिः ।
विनयी न्यायविज्ञाता प्रजारञ्जनधर्मवित् ॥ १०९ ॥

विमलो मतिमान्नेता नेत्रानन्दप्रदायकः ।
विनीतो वृद्धसौजन्यो वृक्षभित् चेतसा ऋजुः ॥ ११० ॥

See Also  1000 Names Of Sri Veerabhadra – Sahasranamavali Stotram In Bengali

वत्सलो मित्रहृन्मोदः सुग्रीवहितकृद्विभुः ।
वालिनिर्दलनोऽसह्यो ऋक्षसाह्यो महामतिः ॥ १११ ॥

वृक्षालिङ्गनलीलाविन्मुनिमोक्षपटुः सुधीः ।
वरेण्यः परमोद्योगो निग्रही चिरविग्रही ॥ ११२ ॥

वासवोपमसामर्थ्यो ज्यासङ्घातोग्रनिःस्वनः ।
विश्वामित्रपरामृष्टः पूर्णो बलसमायुतः ॥ ११३ ॥

वैदेहीप्राणसन्तोषः शरणागतवत्सलः ।
विनम्रः स्वाभिमानार्हः पर्णशालासमाश्रितः ॥ ११४ ॥

वृत्तगण्डः शुभ्रदन्ती समभ्रूद्वयशोभितः ।
विकसत्पङ्कजाभास्यः प्रेमदृष्टिः सुलोचनः ॥ ११५ ॥

वैष्णवो नरशार्दूलो भगवान् भक्तरक्षणः ।
वसिष्ठप्रियशिष्यश्चित्स्वरूपश्चेतनात्मकः ॥ ११६ ॥

विविधापत्पराक्रान्तो वानरोत्कर्षकारणः ।
वीतरागी शर्मदायी मुनिमन्तव्यसाधनः ॥ ११७ ॥

विरही हरसङ्कल्पो हर्षोत्फुल्लवराननः ।
वृत्तिज्ञो व्यवहारज्ञः क्षेमकारी पृधुप्रभः ॥ ११८ ॥

विप्रप्रेमी वनक्रान्तः फलभुक् फलदायकः ।
विपन्मित्रं महामन्त्रः शक्तियुक्तो जटाधरः ॥ ११९ ॥

व्यायामव्यायताकारो विदां विश्रामसम्भवः ।
वन्यमानवकल्याणः कुलाचारविचक्षणः ॥ १२० ॥

विपक्षोरःप्रहारज्ञश्चापधारिबहूकृतः ।
विपल्लङ्घी घनश्यामो घोरकृद्राक्षसासहः ॥ १२१ ॥

वामाङ्काश्रयिणीसीतामुखदर्शनतत्परः ।
विविधाश्रमसम्पूज्यः शरभङ्गकृतादरः ॥ १२२ ॥

विष्णुचापधरः क्षत्रो धनुर्धरशिरोमणिः ।
वनगामी पदत्यागी पादचारी व्रतस्थितः ॥ १२३ ॥

विजिताशो महावीरो दाक्षिण्यनवनिर्झरः ।
विष्णुतेजोंऽससम्भूतः सत्यप्रेमी दृढव्रतः ॥ १२४ ॥

वानरारामदो नम्रो मृदुभाषी महामनाः ।
शत्रुहा विघ्नहन्ता सल्लोकसम्मानतत्परः ॥ १२५ ॥

शत्रुघ्नाग्रजनिः श्रीमान् सागरादरपूजकः ।
शोककर्ता शोकहर्ता शीलवान् हृदयङ्गमः ॥ १२६ ॥

शुभकृच्छुभसङ्कल्पः कृतान्तो दृढसङ्गरः ।
शोकहन्ता विशेषार्हः शेषसङ्गतजीवनः ॥ १२७ ॥ ।
शत्रुजित्सर्वकल्याणो मोहजित्सर्वमङ्गलः ।
शम्बूकवधकोऽभीष्टो युगधर्माग्रही यमः ॥ १२८ ॥

शक्तिमान् रणमेधावी श्रेष्ठः सामर्थ्यसंयुतः ।
शिवस्वः शिवचैतन्यः शिवात्मा शिवबोधनः ॥ १२९ ॥

शबरीभावनामुग्धः सर्वमार्दवसुन्दरः ।
शमी दमी समासीनः कर्मयोगी सुसाधकः ॥ १३० ॥

शाकभुक् क्षेपणास्त्रज्ञो न्यायरूपो नृणां वरः ।
शून्याश्रमः शून्यमनाः लतापादपपृच्छकः ॥ १३१ ॥

शापोक्तिरहितोद्गारो निर्मलो नामपावनः ।
शुद्धान्तःकरणः प्रेष्ठो निष्कलङ्कोऽविकम्पनः ॥ १३२ ॥

श्रेयस्करः पृधुस्कन्धो बन्धनासिः सुरार्चितः ।
श्रद्धेयः शीलसम्पन्नः सुजनः सज्जनान्तिकः ॥ १३३ ॥

श्रमिकः श्रान्तवैदेहीविश्रामः श्रुतिपारगः ।
श्रद्धालुर्नीतिसिद्धान्ती सभ्यः सामान्यवत्सलः ॥ १३४ ॥

सुमित्रासुतसेवार्थी भरतादिष्टवैभवः ।
साध्यः स्वाध्यायविज्ञेयः शब्दपालः परात्परः ॥ १३५ ॥

सञ्जीवनो जीवसखा धनुर्विद्याविशारदः ।
सूक्ष्मबुद्धिर्महातेजाः अनासक्तः प्रियावहः ॥ १३६ ॥

सिद्धः सर्वाङ्गसम्पूर्णः कारुण्यार्द्रपयोनिधिः ।
सुशीलः शिवचित्तज्ञः शिवध्येयः शिवास्पदः ॥ १३७ ॥

समदर्शी धनुर्भङ्गी संशयोच्छेदनः शुचिः ।
सत्यवादी कार्यवाहश्चैतन्यः सुसमाहितः ॥ १३८ ॥

सन्मित्रो वायुपुत्रेशो विभीषणकृतानतिः ।
सगुणः सर्वथाऽऽरामो निर्द्वन्द्वः सत्यमास्थितः ॥ १३९ ॥

सामकृद्दण्डविद्दण्डी कोदण्डी चण्डविक्रमः ।
साधुक्षेमो रणावेशी रणकर्ता दयार्णवः ॥ १४० ॥

सत्त्वमूर्तिः परञ्ज्योतिः ज्येष्ठपुत्रो निरामयः ।
स्वकीयाभ्यन्तराविष्टोऽविकारी नभसन्दृशः ॥ १४१ ॥

सरलः सारसर्वस्वः सतां सङ्कल्पसौरभः ।
सुरसङ्घसमुद्धर्ता चक्रवर्ती महीपतिः ॥ १४२ ॥

सुज्ञः स्वभावविज्ञानी तितिक्षुः शत्रुतापनः ।
समाधिस्थः शस्त्रसज्जः पित्राज्ञापालनप्रियः ॥ १४३ ॥

समकर्णः सुवाक्यज्ञो गन्धरेखितभालकः ।
स्कन्धस्थापिततूणीरो धनुर्धारणधोरणी ॥ १४४ ॥

सर्वसिद्धिसमावेशो वीरवेषो रिपुक्षयः ।
सङ्कल्पसाधकोऽक्लिष्टो घोरासुरविमर्दनः ॥ १४५ ॥

समुद्रपारगो जेता जितक्रोधो जनप्रियः ।
संस्कृतः सुषमः श्यामः समुत्क्रान्तः सदा शुचिः ॥ १४६ ॥

सद्धर्मप्रेरको धर्मो धर्मसंरक्षणोत्सुकः ।
भयनिष्कासने नः स सम्भवेत्पुनरात्मनि ॥ १४७ ॥

॥ इति श्रीअनन्तसुत श्रीदिवाकरविरचितं
श्रीरामसहस्रनामस्तोत्रं सम्पूर्णम् ॥

– Chant Stotra in Other Languages -1000 Names of Rama:

1000 Names of Srirama – Sahasranama Stotram in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil