108 Names Of Kakaradi Kurma – Ashtottara Shatanamavali In Sanskrit

॥ Kakaradi Sri Kurma Ashtottarashata Namavali Sanskrit Lyrics ॥

॥ ककारादि श्रीकूर्माष्टोत्तरशतनामावलिः ॥
श्री हयग्रीवाय नमः ।
हरिः ॐ

ॐ कमठाय नमः ।
ॐ कन्धिमध्यस्थाय नमः ।
ॐ करुणावरुणालयाय नमः ।
ॐ कुलाचलसमुद्धर्त्रे नमः ।
ॐ कुण्डलीन्द्रसमाश्रयाय नमः ।
ॐ कठोरपृष्टाय नमः ।
ॐ कुधराय नमः ।
ॐ कलुषीकृतसागराय नमः ।
ॐ कल्याणमूर्तये नमः ।
ॐ क्रतुभुक्प्रार्थनाधृत विग्रहाय नमः ॥ १० ॥

ॐ कुलाचलसमुद्भ्रान्तिघृष्टकण्डूतिसौख्यवते नमः ।
ॐ करालश्वाससङ्क्षुब्धसिन्धूर्मिप्रहताम्बराय नमः ।
ॐ कन्धिकर्दमकस्तूरीलिप्तवक्षस्थलाय नमः ।
ॐ कृतिने नमः ।
ॐ कुलीरादिपयस्सत्त्वनिष्पेषणचतुष्पदाय नमः ।
ॐ कराग्रादत्तसम्भुक्ततिमिङ्गिलगिलोत्कराय नमः ।
ॐ कन्धिपुष्पद्विरेफाभाय नमः ।
ॐ कपर्द्यादिसमीडिताय नमः ।
ॐ कल्याणाचलतुङ्गात्मगाधीकृतपयोनिधये नमः ।
ॐ कुलिशत्पृष्ठसङ्घर्षक्षीणमूलकुलाचलाय नमः ॥ २० ॥

ॐ काश्यपीसत्कुचप्रायमन्दराहतपृष्ठकाय नमः ।
ॐ कायैकदेशापर्याप्तशेषदिग्गजमण्डलाय नमः ।
ॐ कठोरचरणाघातद्वैधीकृतपयोनिधये नमः ।
ॐ कालकूटकृतत्रासाय नमः ।
ॐ काण्डदुर्मितवैभवाय नमः ।
ॐ कमनीयाय नमः ।
ॐ कविस्तुत्याय नमः ।
ॐ कनिधये नमः ।
ॐ कमलापतये नमः ।
ॐ कमलासनकल्याणसन्धात्रे नमः ॥ ३० ॥

ॐ कलिनाशनाय नमः ।
ॐ कटाक्षक्षतदेवार्तये नमः ।
ॐ केन्द्रादिविधृतांजलये नमः ।
ॐ कालीपतिप्रीतिपात्राय नमः ।
ॐ कामितार्धप्रदाय नमः ।
ॐ कवये नमः ।
ॐ कूटस्थाय नमः ।
ॐ कूटकमठाय नमः ।
ॐ कूटयोगिसुदुर्लभाय नमः ।
ॐ कामहीनाय नमः ॥ ४० ॥

See Also  1000 Names Of Sri Gayatri Devi – Sahasranama Stotram In Odia

ॐ कामहेतवे नमः ।
ॐ कामभृते नमः ।
ॐ कंजलोचनाय नमः ।
ॐ क्रतुभुग्दैन्यविध्वंसिने नमः ।
ॐ क्रतुभुक्पालकाय नमः ।
ॐ क्रतवे नमः ।
ॐ क्रतुपूज्याय नमः ।
ॐ क्रतुनिधये नमः ।
ॐ क्रतुत्रात्रे नमः ।
ॐ क्रतूद्भवाय नमः ॥ ५० ॥

ॐ कैवल्यसौख्यदकथाय नमः ।
ॐ कैशोरोत्क्षिप्तमन्दराय नमः ।
ॐ कैवल्यनिर्वाणमयाय नमः ।
ॐ कैटभप्रतिसूदनाय नमः ।
ॐ क्रान्तसर्वाम्बुधये नमः ।
ॐ क्रान्तपातालाय नमः ।
ॐ कोमलोदराय नमः ।
ॐ कन्धिसोर्मिजलक्षौमाय नमः ।
ॐ कुलाचलकचोत्कराय नमः ।
ॐ कटुनिश्श्वासनिर्धूतरक्षस्तूलाय नमः ॥ ६० ॥

ॐ कृताद्भुताय नमः ।
ॐ कौमोदकीहतामित्राय नमः ।
ॐ कौतुकाकलिताहवाय नमः ।
ॐ कराशिकंटकोद्धर्त्रे नमः ।
ॐ कविताब्धिमणीसुमाय नमः ।
ॐ कैवल्यवल्लरीकन्दाय नमः ।
ॐ कन्दुकीकृतचन्दिराय नमः ।
ॐ करपीतसमस्ताब्धये नमः ।
ॐ कायान्तर्गतवाश्चराय नमः ।
ॐ कर्पराब्जद्विरेफाभमन्दराय नमः ॥ ७० ॥

ॐ कन्दलत्स्मिताय नमः ।
ॐ काश्यपीव्रततीकन्दाय नमः ।
ॐ कश्यपादिसमानताय नमः ।
ॐ कल्याणजालनिलयाय नमः ।
ॐ क्रतुभुङ्नेत्रनन्दनाय नमः ।
ॐ कबन्धचरहर्यक्षाय नमः ।
ॐ क्रान्तदर्शिमनोहराय नमः ।
ॐ कर्मठाविषयाय नमः ।
ॐ कर्मकर्तृभावादिवर्जिताय नमः ।
ॐ कर्मानधीनाय नमः ॥ ८० ॥

See Also  1000 Names Of Sri Hayagriva – Sahasranamavali Stotram In Malayalam

ॐ कर्मज्ञाय नमः ।
ॐ कर्मपाय नमः ।
ॐ कर्मचोदनाय नमः ।
ॐ कर्मसाक्षिणे नमः ।
ॐ कर्महेतने नमः ।
ॐ कर्मज्ञानविभागकृते नमः ।
ॐ कर्त्रे नमः ।
ॐ कारयित्रे नमः ।
ॐ कार्याय नमः ।
ॐ कारणाय नमः ।
ॐ करणाय नमः ।
ॐ कृतये नमः ।
ॐ कृत्स्नाय नमः ।
ॐ कृत्स्नातिगाय नमः ।
ॐ कृत्स्नचेतनाय नमः ।
ॐ कृत्स्नमोहनाय नमः ।
ॐ करणागोचराय नमः ।
ॐ कालाय नमः ।
ॐ कार्यकारणतातिगाय नमः ।
ॐ कालावशाय नमः ॥ १०० ॥

ॐ कालपाशबद्धभक्तावनाभिधाय नमः ।
ॐ कृतकृत्याय नमः ।
ॐ केलिफलाय नमः ।
ॐ कीर्तनीयाय नमः ।
ॐ कृतोत्सवाय नमः ।
ॐ कृतेतरमहानन्दाय नमः ।
ॐ कृतज्ञाय नमः ।
ॐ कृतसत्सुखाय नमः ॥ १०८ ॥

॥ इति ककारादि श्री कमठावताराष्टोत्तरशतम् पराभव
वैशाख बहुलद्वादश्यां लिखितं रामेण समर्पितं च
श्री हयग्रीवदेवाय ॥

– Chant Stotra in Other Languages -108 Names of Kakaradi Sri Kurma:

108 Names of Kakaradi Kurma – Ashtottara Shatanamavali Lyrics  in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil

See Also  108 Names Of Sita 2 – Ashtottara Shatanamavali In Sanskrit