108 Names Of Ambika In Sanskrit

॥ 108 Names of Sri Ambika Sanskrit Lyrics ॥

॥ श्रीअम्बिकाष्टोत्तरशतनामावली ॥
ॐ अस्यश्री अम्बिकामहामन्त्रस्य मार्कण्डेय ऋषिः उष्णिक् छन्दः
अम्बिका दुर्गा देवता ॥

[ श्रां – श्रीं इत्यादिना न्यासमाचरेत् ]
ध्यानम्
या सा पद्मासनस्था विपुलकटतटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥

मन्त्रः – ॐ ह्रीं श्रीं अम्बिकायै नमः ॐ ॥

॥ अथ श्री अम्बिकायाः नामावलिः ॥

ॐ अम्बिकायै नमः ।
ॐ सिद्धेश्वर्यै नमः ।
ॐ चतुराश्रमवाण्यै नमः ।
ॐ ब्राह्मण्यै नमः ।
ॐ क्षत्रियायै नमः ।
ॐ वैश्यायै नमः ।
ॐ शूद्रायै नमः ।
ॐ वेदमार्गरतायै नमः ।
ॐ वज्रायै नमः ।
ॐ वेदविश्वविभागिन्यै नमः ॥ १० ॥

ॐ अस्त्रशस्त्रमयायै नमः ।
ॐ वीर्यवत्यै नमः ।
ॐ वरशस्त्रधारिण्यै नमः ।
ॐ सुमेधसे नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ अपराजितायै नमः ।
ॐ गायत्र्यै नमः ।
ॐ संकृत्यै नमः ।
ॐ सन्ध्यायै नमः ।
ॐ सावित्र्यै नमः ॥ २० ॥

ॐ त्रिपदाश्रयायै नमः ।
ॐ त्रिसन्ध्यायै नमः ।
ॐ त्रिपद्यै नमः ।
ॐ धात्र्यै नमः ।
ॐ सुपथायै नमः ।
ॐ सामगायन्यै नमः ।
ॐ पाञ्चाल्यै नमः ।
ॐ कालिकायै नमः ।
ॐ बालायै नमः ।
ॐ बालक्रीडायै नमः ॥ ३० ॥

See Also  108 Names Of Guru In Sanskrit

ॐ सनातन्यै नमः ।
ॐ गर्भाधारायै नमः ।
ॐ आधारशून्यायै नमः ।
ॐ जलाशयनिवासिन्यै नमः ।
ॐ सुरारिघातिन्यै नमः ।
ॐ कृत्यायै नमः ।
ॐ पूतनायै नमः ।
ॐ चरितोत्तमायै नमः ।
ॐ लज्जारसवत्यै नमः ।
ॐ नन्दायै नमः ॥ ४० ॥

ॐ भवायै नमः ।
ॐ पापनाशिन्यै नमः ।
ॐ पीतम्बरधरायै नमः ।
ॐ गीतसङ्गीतायै नमः ।
ॐ गानगोचरायै नमः ।
ॐ सप्तस्वरमयायै नमः ।
ॐ षद्जमध्यमधैवतायै नमः ।
ॐ मुख्यग्रामसंस्थितायै नमः ।
ॐ स्वस्थायै नमः ।
ॐ स्वस्थानवासिन्यै नमः ॥ ५० ॥

ॐ आनन्दनादिन्यै नमः ।
ॐ प्रोतायै नमः ।
ॐ प्रेतालयनिवासिन्यै नमः ।
ॐ गीतनृत्यप्रियायै नमः ।
ॐ कामिन्यै नमः ।
ॐ तुष्टिदायिन्यै नमः ।
ॐ पुष्टिदायै नमः ।
ॐ निष्ठायै नमः ।
ॐ सत्यप्रियायै नमः ।
ॐ प्रज्ञायै नमः ॥ ६० ॥

ॐ लोकेशायै नमः ।
ॐ संशोभनायै नमः ।
ॐ संविषयायै नमः ।
ॐ ज्वालिन्यै नमः ।
ॐ ज्वालायै नमः ।
ॐ विमूर्त्यै नमः ।
ॐ विषनाशिन्यै नमः ।
ॐ विषनागदम्न्यै नमः ।
ॐ कुरुकुल्लायै नमः ।
ॐ अमृतोद्भवायै नमः ॥ ७० ॥

See Also  108 Names Of Gayatri In Bengali

ॐ भूतभीतिहरायै नमः ।
ॐ रक्षायै नमः ।
ॐ राक्षस्यै नमः ।
ॐ रात्र्यै नमः ।
ॐ दीर्घनिद्रायै नमः ।
ॐ दिवागतायै नमः ।
ॐ चन्द्रिकायै नमः ।
ॐ चन्द्रकान्त्यै नमः ।
ॐ सूर्यकान्त्यै नमः ।
ॐ निशाचरायै नमः ॥ ८० ॥

ॐ डाकिन्यै नमः ।
ॐ शाकिन्यै नमः ।
ॐ हाकिन्यै नमः ।
ॐ चक्रवासिन्यै नमः ।
ॐ सीतायै नमः ।
ॐ सीतप्रियायै नमः ।
ॐ शान्तायै नमः ।
ॐ सकलायै नमः ।
ॐ वनदेवतायै नमः ।
ॐ गुरुरूपधारिण्यै नमः ॥ ९० ॥

ॐ गोष्ठ्यै नमः ।
ॐ मृत्युमारणायै नमः ।
ॐ शारदायै नमः ।
ॐ महामायायै नमः ।
ॐ विनिद्रायै नमः ।
ॐ चन्द्रधरायै नमः ।
ॐ मृत्युविनाशिन्यै नमः ।
ॐ चन्द्रमण्डलसङ्काशायै नमः ।
ॐ चन्द्रमण्डलवर्तिन्यै नमः ।
ॐ अणिमाद्यै नमः ॥ १०० ॥

ॐ गुणोपेतायै नमः ।
ॐ कामरूपिण्यै नमः ।
ॐ कान्त्यै नमः ।
ॐ श्रद्धायै नमः ।
ॐ पद्मपत्रायताक्ष्यै नमः ।
ॐ पद्महतयै नमः ।
ॐ पद्मासनस्थायै नमः ।
ॐ श्रीमहालक्ष्म्यै नमः ॥ १०८ ॥
॥ॐ॥

See Also  Mahakala Kakaradi Ashtottara Shatanama Stotram In Sanskrit

– Chant Stotra in Other Languages –

Sri Durga Slokam » Sri Ambika Ashtottara Shatanamavali » 108 Names of Sri Ambika Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil