108 Names Of Sri Hanuman 3 In Sanskrit

॥ Hanumada Ashtottarashata Namavali 3 Sanskrit ॥

॥ हनुमदष्टोत्तरशतनामावलिः ३ ॥

पारिजातप्रियाय नमः । योगिने । हनुमते । नृहरिप्रियाय ।
प्लवगेन्द्राय । पिङ्गलाक्षाय । शीघ्रगामिने । दृढव्रताय ।
शङ्खचक्रवराभीतिपाणये । आनन्ददायकाय । स्थायिने ।
विक्रमसम्पन्नाय । रामदूताय । महायशसे । सौमित्रिजीवनकराय ।
लङ्काविक्षोभकारकाय । उदधिक्रमणाय । सीताशोकहेतुहराय ।
हरये । बलिने नमः ॥ २० ॥

राक्षससंहर्त्रे नमः । दशकण्ठमदापहाय । बुद्धिमते ।
नैरृतवधूकण्ठसूत्रविदारकाय । सुग्रीव सचिवाय । भीमाय ।
भीमसेनसहोदराय । सावित्रविद्यासंसेविने । चरितार्थाय । महोदयाय ।
वासवाभीष्टदाय । भव्याय । हेमशैलनिवासवते । किंशुकाभाय ।
अग्रयतनवे । ऋजुरोम्णे । महामतये । महाक्रमाय । वनचराय ।
स्थिरबुद्धये नमः ॥ ४० ॥

अभीशुमते नमः । सिंहिकागर्भनिर्भेत्त्रे । लङ्कानिवासिनां भेत्त्रे ।
अक्षशत्रुविनिघ्नाय । रक्षोऽमात्यभयावहाय । वीरघ्ने ।
मृदुहस्ताय । पद्मपाणये । जटाधराय । सर्वप्रियाय । सर्वकामप्रदाय ।
प्रांशुमुखाय । शुचये । विशुद्धात्मने ।
विज्वराय । सटावते । पाटलाधराय ।
भरतप्रेमजनकाय । चीरवाससे । महोक्षधृशे नमः ॥ ६० ॥

महास्त्रबन्धनसहाय नमः । ब्रह्मचारिणे । यतीश्वराय ।
महौषधोपहर्त्रे । वृषपर्वणे । वृषोदराय । सूर्योपलालिताय ।
स्वामिने ।
पारिजातावतंसकाय । सर्वप्राणधराय । अनन्ताय । सर्वभूतादिगाय ।
मनवे । रौद्राकृतये । भीमकर्मणे । भीमाक्षाय । भीमदर्शनाय ।
सुदर्शनकराय । अव्यक्ताय । व्यक्तास्याय नमः ॥ ८० ॥

See Also  108 Names Of Maa Durga 3 – Durga Devi Ashtottara Shatanamavali 3 In English

दुन्दुभिस्वनाय नमः । सुवेलचारिणे । नाकहर्षदाय । हर्षणप्रियाय ।
सुलभाय । सुव्रताय । योगिने । योगिसेव्याय । भयापहाय । वालाग्नि-
मथितानेकलङ्कावासिगृहोच्चयाय । वर्धनाय । वर्धमानाय ।
रोचिष्णवे । रोमशाय । महते । महादंष्ट्राय । महाशूराय । सद्गतये ।
सत्परायणाय । सौम्यदशिर्ने नमः ॥ १०० ॥

सौम्यवेषाय नमः । हेमयज्ञोपवीतिमते । मौञ्जीकृष्णाजिनधराय ।
मन्त्रज्ञाय । मन्त्रसारथये । जितारातये । षडूर्मये ।
सर्वप्रियहितेरताय नमः ॥ १०८ ॥

– Chant Stotra in Other Languages –

108 Names of Sri Anjaneya 3 » Ashtottara Shatanamavali 3 in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil