300 Names Of Prachanda Chandi Trishati In Sanskrit

॥ Prachandachandi Trishati Sanskrit Lyrics ॥

॥ प्रचण्डचण्डीत्रिशती ॥

प्रथमं शतकम्
प्रथमो मुकुलस्तबकः
वज्रं जम्भभिदः सर्वस्वं नभसः ।
वन्दे वैरिसहं विद्युज्ज्योतिरहम् ॥ १ ॥

सा शक्तिर्मरुतामीशानस्य तता ।
व्योमागाररमा सा देवी परमा ॥ २ ॥

सूक्ष्मं व्यापिमहो दृश्यं वारिधरे ।
तत्त्वं ते मरुतां राज्ञः पत्निपरे ॥ ३ ॥

द्वाभ्यां त्वं वनितारूपाभ्यां लससि ।
एका तत्र शची चण्डाचण्ड्यपरा ॥ ४ ॥

एका कान्तिमती भर्तृस्तल्पसखी ।
अन्या वीर्यवती प्रायो युद्धसखी ॥ ५ ॥

एका मोहयते शक्रं चन्द्रमुखी ।
अन्या भीषयते शत्रूनर्कमुखी ॥ ६ ॥

एकस्यां तटितो रम्या दीप्तिकला ।
अन्यस्यां सुतरामुग्रा शक्तिकला ॥ ७ ॥

एकस्याः सदृशी सौन्दर्ये न परा ।
अन्यस्यास्तु समा वीर्ये नास्त्यपरा ॥ ८ ॥

एका सञ्चरति स्वर्गे भोगवती ।
अन्या भाति नभोरङ्गे योगवती ॥ ९ ॥

एका वा दशयोः भेदेन द्विविधा ।
इन्द्राणी विबुधैः गीता पुण्यकथा ॥ १० ॥

चण्डि त्वं वरदे पिण्डे कुण्डलिनी ।
गीता च्छिन्नशिराः प्राज्ञैर्वैभविनी ॥ ११ ॥

आहुः कुण्डलिनीं यन्मूध्र्ना वियुताम् ।
चित्रा सा वचसो भङ्गी बुद्धिमताम् ॥ १२ ॥

पुत्राच्छिन्नशिराः पुण्यायाऽब्जमुखी ।
आविक्षत् किल तां शक्तिः शक्रसखी ॥ १३ ॥

तस्माद्वायमवच्चित्ताम्भोजरमा ।
उक्ता कृत्तशिराः सा शक्तिः परमा ॥ १४ ॥

ओजीयस्यबला तुल्या कापि नते ।
राजारेर्जननि स्वर्नारीविनुते ॥ १५ ॥

यावन्तोऽवतराः शक्तेर्भूमितला ।
वीर्येणास्यधिका तेषु त्वं विमले ॥ १६ ॥

प्रागेव त्वयि सत्यैन्द्रीशक्तिकला ।
व्यक्ताऽभूच्छिरसि च्छिन्ने भूरिबला ॥ १७ ॥

त्वं छिन्ने महसां राशिः शक्तिरसि ।
हुङ्कारेण रिपुव्रातं निर्दहसि ॥ १८ ॥

भोगासक्तरतिग्राहाङ्कासनगा ।
बालार्कद्युतिभृत्पादाम्भोजयुवा ॥ १९ ॥

छिन्नं पाणितले मूर्धानं दधती ।
प्राणानात्मवशे संस्थाप्यानहती ॥ २० ॥

स्फारास्येन पिबन्त्युल्लोलानसृजः ।
ध्वस्तानादधती दृप्तान् भूमिभुजः ॥ २१ ॥

डाकिन्याऽनघया वर्णिन्या च युता ।
रामाम्बाऽवतु मां दिव्यं भावमिता ॥ २२ ॥

कार्यं साधयितुं वीर्यं वर्धय मे ।
चित्तं स्वात्मनि च च्छिन्ने स्थापय मे ॥ २३ ॥

योगं मे विषयारात्यब्धिं तरितुम् ।
चित्तं देवि कुरु त्वं साक्षाद्दितुम् ॥ २४ ॥

मान्दारैरिव मे गायत्रैर्विमलैः ।
छिन्ने सिध्यतु ते पादार्चा मुकुलैः ॥ २५ ॥

द्वितीयो बृहतीस्तबकः
निखिलामयतापहरी निजसेवकभव्यकरी ।
गगनामृतदीप्तिझरी जयतीश्वरचिल्लहरी ॥ २६ ॥

विपिने विपिने विनुता नगरे नगरे नमिता ।
जयति स्थिरचित्तहिता जगतां नृपतेर्दयिता ॥ २७ ॥

मतिकैरविणीन्दुकला मुनिहृत्कमले कमला ।
जयति स्तुतिदूरबला जगदीशवधूर्विमला ॥ २८ ॥

कलिपक्षजुषां दमनी कलुषप्रततेः शमनी ।
जयति स्तुवतामवनी सदया जगतो जननी ॥ २९ ॥

अतिचण्डिसुपर्वनुते बलपौरुषयोरमिते ।
जननं सुजनावनिते जगतामुपकारकृते ॥ ३० ॥

सकलामयनाशचणे सततं स्मरतः सुगुणे ।
मम कार्यगतेः प्रथमं मरणं न भवत्वधमम् ॥ ३१ ॥

मरणस्य भयं तरितुं करुणारसवाहिनि ते ।
स्मरणाद्रसयामि गलच्चरणाम्बुरुहादमृतम् ॥ ३२ ॥

वनितावपुषध्रणं जगदम्ब न वेद्मि तव ।
वियदग्नितनोध्रणं शिरसेह वहामि सदा ॥ ३३ ॥

शतशः प्रसृतैध्रणैः मुनिमस्तकवीथिषु सा ।
विपुले गगने वितता चरति त्रिदशेशसखी ॥ ३४ ॥

विशति प्रविधाय पथश्चरणस्य विभाम्बगुहाम् ।
विहितस्य ममेहशिरस्यजरे जगदीश्वरि ते ॥ ३५ ॥

चरणस्य विभा किमु ते तव काचन वीचिरुत ।
विविधा विदधाति कथाः प्रविशन्त्ययि भक्त्गुहाम् ॥ ३६ ॥

निजवीचिविलासपदं मम कायमिदं जगति ।
करणं सुरकार्यकृते तव निस्तुलभे भवतु ॥ ३७ ॥

मम वर्ष्मणि हीनबले यदि कश्चन लोप इव ।
तमपोह्यपटिष्ठतमं कुरु विष्टपमातरिदम् ॥ ३८ ॥

सहतामिदमम्बवपुस्तव नाट्यमपारजवम् ।
बहिरन्तरशत्रुसहं भजतां बहुलं च बलम् ॥ ३९ ॥

पृथिवी च सहेत न ते तटिदीश्वरि नाट्यजवम् ।
करुणा यदि देवि न ते वपुषामिह का नु कथा ॥ ४० ॥

तव शक्तिझरीपतनं बहिरद्भुतवृष्टिरिव ।
इदमन्तरनन्तबले मदिरारसपानमिव ॥ ४१ ॥

परमिक्षुरसो मधुरो मदिरामदकृत्परमा ।
मधुरा मदकृच्च भृशं तव शक्तिकलालहरी ॥ ४२ ॥

रसनेन्द्रियमात्रामुदं वर इक्षुरसः कुरुते ।
बहिरन्तरपि प्रमदं तव शक्तिकलालहरी ॥ ४३ ॥

वपुषो मनसश्चधियो बलमद्भुतमादधती ।
प्रमदं च जयत्यजरे तव शक्तिकलालहरी ॥ ४४ ॥

तव शक्तिकलालहरी परिशोधयते भुवि यम् ।
विदुरागमसारविदः सनिमेषममर्त्यमिमम् ॥ ४५ ॥

लहरीमखिलाम्ब विना तव योऽनुभवं वदति ।
अयि वञ्चित एष मृषा विषयेण महाविभवे ॥ ४६ ॥

सततालहरी यदि ते बहिरन्तरपि प्रगुणा ।
भवबन्धचयः शिथिलो भुवि जीवत एव भवेत् ॥ ४७ ॥

इह तावदपारबले सकला अपि योगकथाः ।
तव यावदनन्तजुषो न पवित्रझरीपतनम् ॥ ४८ ॥

विषयारिविनाशविधौ रमणीयमुपायमजे ।
कथयेश्वरि मे विशदं तव नाम्ब न साध्यमिदम् ॥ ४९ ॥

गणनाथकवेः कृतिभिः बृहतीभिरिमाभिरजा ।
परितृप्यतु चण्डवधूः कपटागगनाग्निकला ॥ ५० ॥

तृतीयः सुप्रतिष्ठास्तबकः
चण्डचण्डिकां बालभानुभाम् ।
नौमि देवताराजवल्लभाम् ॥ ५१ ॥

नाभिमण्डलश्वेतपद्मगे ।
चण्डदीधितेर्मण्डले स्थिताम् ॥ ५२ ॥

सूक्ष्मनाडिकादेहधारिणीम् ।
घोरपातकव्रातहारिणीम् ॥ ५३ ॥

उग्रविक्रमच्छिन्नमस्तकाम् ।
दग्धवासनाघासजालकाम् ॥ ५४ ॥

नौमि सद्धियं सिद्धसंस्तुताम् ।
वज्रधारिणः शक्तिमद्भुताम् ॥ ५५ ॥

प्राणिनां तनौ तन्तुसन्निभाम् ।
अम्बरस्थले व्यापकप्रभाम् ॥ ५६ ॥

चारुवर्णिनीप्रीतिलालिताम् ।
भीमडाकिनीवीर्यनन्दिताम् ॥ ५७ ॥

दीप्यदक्षिभाभीषितासुराम् ।
नौमि वज्रिणः शक्तिमक्षराम् ॥ ५८ ॥

या विशत्तपोध्वस्तपातकाम् ।
रेणुकां सुतच्छिन्नमस्तकाम् ॥ ५९ ॥

नौमि तामरिव्रातमर्दिनीम् ।
नाकमेदिनीपालभामिनीम् ॥ ६० ॥

देवसुन्दरीमस्तलालितम् ।
अम्बिकापदं भातु मे हितम् ॥ ६१ ॥

शोध्यतामयं सर्वधीपुषा ।
लोकधात्रि ते पादरोचिषा ॥ ६२ ॥

कोटिशस्तव प्राज्यशक्त्यः ।
विद्युदम्बिके पादपङ्क्तयः ॥ ६३ ॥

तासु विक्रमाधायिचेष्टितम् ।
तासु विष्टपज्ञानमद्भुतम् ॥ ६४ ॥

सर्वतोऽम्ब ते पादचेष्टितम् ।
वेत्ति तत्कृती नो जडः कृतम् ॥ ६५ ॥

वेत्ति यः कृती तत्रा तद्बलम् ।
वेद यो नना तत्र नो फलम् ॥ ६६ ॥

अर्पयेत्तनुं यः सवित्रि ते ।
शक्तिवैभवं तत्र पण्डिते ॥ ६७ ॥

पूरुषो भवन्नूर्मिरच्युते ।
मत्तनुं स्त्रैयं सम्भुनक्तु ते ॥ ६८ ॥

सर्वतो गतिर्भामदम्ब ते ।
मद्गुहान्तरे भातु विश्रुते ॥ ६९ ॥

उग्रवैभवाशक्तिरन्तरे ।
भातु ते पदप्रेयसःपरे ॥ ७० ॥

चण्डि ते पुनश्चेत्प्रचण्डता ।
कीदृगम्बिके सा महोग्रता ॥ ७१ ॥

मर्त्यहस्तिनं मस्तभेदिनी ।
शक्तिरम्ब ते पातु पावनी ॥ ७२ ॥

उत्तमोत्तमा चित्तचिन्त्यताम् ।
कृत्तमस्तका मत्तकाशिनी ॥ ७३ ॥

आत्मवैरिणां नाशने विधिम् ।
ब्रूहि मे जनन्यन्तरावधिम् ॥ ७४ ॥

चेतसोऽम्ब ते जायतां हितम् ।
सौप्रतिष्ठसद्गीतमद्भुतम् ॥ ७५ ॥

चतुर्थो नरमनोरमास्तबकः
अमरपालिनी दितिजनाशिनी ।
भुवनभूपतेर्जयति भामिनी ॥ ७६ ॥

अतिशुभा नभस्तलविसारि भा ।
जगदधीशितुर्जयति वल्लभा ॥ ७७ ॥

सुरमहीपतेर्हृदयमोहिनी ।
कपटकामिनी जयति मायिनी ॥ ७८ ॥

जयति कुण्डलीपुरनिकेतना ।
तटिदधीश्वरी तरललोचना ॥ ७९ ॥

विमलमस्तकैर्हृदि विधारिता ।
दलितमस्तका जयति देवता ॥ ८० ॥

जयति विद्युतो युवतिभूमिका ।
इह खलान्तकृज्जयति रेणुका ॥ ८१ ॥

अमितविक्रमे जयजयाम्बिके ।
परशुधारिणो जननि रेणुके ॥ ८२ ॥

विनतपालिके धरणिकालिके ।
जनपतिद्विषो जननि पाहि माम् ॥ ८३ ॥

मम क्तदम्बुजं तव पदाम्बुजे ।
भजतु लीनतां कपटनार्यजे ॥ ८४ ॥

१०८
करुणया क्रियाद्भगवती शुभा ।
मम मुदावहं मदमुदारभा ॥ ८५ ॥

तव मदे वृषा जयति दानवान् ।
तव मदे हरो नटति मोदवान् ॥ ८६ ॥

See Also  Sri Subramanya Mantra Sammelana Trishati In Sanskrit

तव मदे रविस्तपति तेजसा ।
तव मदे स्वभूरवति चौजसा ॥ ८७ ॥

तव मदे शशी रमयतेऽखिलम् ।
तव मदेऽनिलः प्रथयते बलम् ॥ ८८ ॥

तव मदेऽनलो जगति राजते ।
तव मदे मुनिर्निगममीक्षते ॥ ८९ ॥

तव मदे धरा भ्रमति मेदिनी ।
तव मदे तनुर्मम च मोदिनी ॥ ९० ॥

दहनकीलवन्निरुपमोग्रता ।
शशिमयूखवत्परमसौम्यता ॥ ९१ ॥

गगनदेशवत्स्थितिरचञ्चला ।
तपनरश्मिवद्गतिरपङ्किला ॥ ९२ ॥

अमृतवन्मदः पवनवद्बलम् ।
तव तरङ्गके किमिव नो फलम् ॥ ९३ ॥

तव नवामहामदविधायिका ।
अघहरीसुरा जयति वीचिका ॥ ९४ ॥

तव सुचित्तिका जननि वीचिका ।
अमृतवर्षिणी जयति हर्षिणी ॥ ९५ ॥

अमरराज्ञिदेव्यसुरविघ्नहा ।
असुरुपासकानवति ते कला ॥ ९६ ॥

अनुगृहीतवाक्तव गभस्तिना ।
सकलसिद्धिराड् भवति देविना ॥ ९७ ॥

सततचिन्तनात्तव गुहान्तरे ।
नियतचेतसो जगदिदं करे ॥ ९८ ॥

जननि मे विधिं कथय भीषणे ।
विषयशात्रावव्रजविदारणे ॥ ९९ ॥

तव मनोरमे सुरपतेरिमाः ।
विदधतां मुदं नरमनोरमाः ॥ १०० ॥

द्वितीयं शतकम्
पञ्चमो रथोद्धतास्तबकः
कृत्तमस्तमपिशातकर्तरीं पाणिपद्मयुगलेन बिभ्रतीम् ।
संस्मरामि तरुणार्करोचिषं योषितं मनसि चण्डचण्डिकाम् ॥ १०१ ॥

चण्डचण्डि तव पाणिपङ्कजे यन्निजं लसति कृत्तमस्तकम् ।
देवि सूचयति चित्तनाशनं तत्तवेन्द्रहृदयाधिनायिके ॥ १०२ ॥

दीप्तिविग्रहलतां महाबलां वह्निकीलनिभरक्तकुन्तलाम् ।
संस्मरामि रतिमन्मथासनां देवतां तरुणभास्कराननाम् ॥ १०३ ॥

रश्मिभिस्तव तनूलताकृता रश्मिभिस्तव कृताश्च कुन्तलाः ।
रश्मिभिस्तव कृतं ज्वलन्मुखं रश्मिभिस्तव कृते च लोचने ॥ १०४ ॥

देवि रश्मिकृतसर्वविग्रहे दृष्टिपातकृतसाध्वनुग्रहे ।
अम्बरोदवसिते शरीरिणामम्ब पाहि रविबिम्बचालिके ॥ १०५ ॥

यत्तवासनमशेषमोहनौ विद्युदक्षिरतिसूनसायकौ ।
एतदिन्द्रसखि भाषते त्वया तावुभावपि बलादधः कृतौ ॥ १०६ ॥

दृष्टिरेव तव शस्त्रमाहवे शात्रवस्तु तव न क्षमः पुरः ।
वस्त्रमम्ब दिश एव निर्मलाः प्रेक्षितुं भवति न प्रभुः परः ॥ १०७ ॥

चक्षुषां दशशतानि ते रुचिं पातुमेव परमस्य वज्रिणः ।
भास्वतः करसहस्रमम्बिके लालनाय तव पादपद्मयोः ॥ १०८ ॥

शूलमग्नितिलकस्य धूर्जटेः चक्रमच्छजलजातचक्षुषः ।
वज्रमम्ब मरुतां च भूपतेः तेजसस्तव कृतानि भागकैः ॥ १०९ ॥

भैरवीचरणभक्त्बान्धवी तारिणी च सुरपक्षधारिणी ।
कालिका च नतपालिकाऽपराश्चण्डचण्डि तव भीमभूमिकाः ॥ ११० ॥

रक्ष मे कुलमतीन्द्रिये तते राक्षसादिनि सुरैः समर्चिते ।
पुत्राशिष्यसहितोऽहमम्ब ते पावनं पदसरोरुहं श्रये ॥ १११ ॥

ऐन्द्रिदेवि भवती महाबला छिन्नमस्तयुवतिस्तु ते कला ।
सर्वलोकबलवित्तशेवधेः पेरक्षिताऽस्ति तव को बलावधेः ॥ ११२ ॥

येयमम्ब रुचिरुज्ज्वलानने या च काचन विभा विभावसौ ।
तद्द्वयं तव सवित्रि तेजसो भूमिनाकनिलयस्य वैभवम् ॥ ११३ ॥

प्राणदा तव रुचिर्जगत्त्राये प्राणहृच्च बत कार्यभेदतः ।
वैभवं भुवनचक्रपालिके को नु वर्णयितुमीश्वरस्तव ॥ ११४ ॥

उद्भवस्तवविपाकवैभवे नाशनं च जगदम्ब देहिनाम् ।
यौवनं नयनहारिनिर्मलं वार्धकं च विततातुलप्रभे ॥ ११५ ॥

निर्बलो भवति भूतले युवा यच्च देवि जरठो भवेद्बली ।
तद्वयं तव विचित्रपाकतः पाकशासनसखि क्षरेतरे ॥ ११६ ॥

वार्धकेन बलकान्तिहारिणा दारुणेन कटुकार्यकारिणा ।
ग्रस्तमेतमधुना पुनः कुरु त्राणदे युवकवत्पदाश्रितम् ॥ ११७ ॥

भोगलालसतया न नूतनं देवि विक्रममपारमर्थये ।
अत्र मे वपुषि लास्यमम्ब ते सोढुमेव मम सेयमर्थना ॥ ११८ ॥

शक्तिरम्ब मम काचिदन्तरे या त्वयैव निहितालमल्पका ।
वृद्धिमेत्य सहतामियं परां बाह्यशक्तिमिह निर्गलज्झराम् ॥ ११९ ॥

अम्ब ते नरसुरासुरस्तुते दिव्यशक्तिलहरीविशोधितम् ।
पातकानि जहतीव मामिमं कामयन्त इव सर्वसिद्धयः ॥ १२० ॥

शक्तिरिन्द्रसखि चेन्न ते मृषा भक्तिरीश्वरि न मे मृषा यदि ।
उल्लसन्तु रतिकन्तुपीठिके शीध्रमेव मयि योगसिद्धयः ॥ १२१ ॥

अस्तु भक्तिरखिलाम्ब मे न वा शक्तिरेव तव सम्प्रशोध्य माम् ।
देवकार्यकरणक्षमं बलादादधातु विदधातु चामृतम् ॥ १२२ ॥

आस्यमम्ब तव यद्यपीक्षितं लास्यमेतदनुभूयते मया ।
पादघातततिचूर्णितान्यजे यत्र यान्ति दुरितानि सङ्क्षयम् ॥ १२३ ॥

स्वीयशक्तिलहरीविलासिने किङ्कराय पदपद्मलम्बिने ।
भाषतां विषयवैरिदारणे भङ्गवर्जितमुपायमम्बिका ॥ १२४ ॥

निर्मले करुणया प्रपूरिते सन्ततं विकसिते महामहे ।
अम्बिकाहृदि वितन्वतामिमाः सम्प्रसादमतुलं रथोद्धताः ॥ १२५ ॥

षष्ठः स्वागतास्तबकः
योगिने बलमलं विदधाना सेवकाय कुशलानि ददाना ।
अस्तु मे सुरधरापतिशक्तिश्चेतसश्च वपुषश्च सुखाय ॥ १२६ ॥

कार्यमस्ति मम किञ्चन सत्यं तज्जयाय विलपामि च सत्यम् ।
एवमप्यकपटैव रतिर्मे वज्रपाणिसखि ते पदपद्मे ॥ १२७ ॥

श्रद्धया तव नुतिं विदधामि श्रद्धया तव मनुं प्रजपामि ।
श्रद्धया तव विजृभितमीक्षे श्रद्धया तव कृपां च निरीक्षे ॥ १२८ ॥

विद्युदेव भवती च मरुत्वान् विद्युदेव गिरिशो गिरिजा च ।
विद्युदेव गणपः सह सिद्धञ्या षट्कभेद इह कार्यविशेषैः ॥ १२९ ॥

पूरुषश्च वनितेति विभेदः शक्तशक्तिभिदया वचनेषु ।
तेज एव खलु विद्युति शक्तं वीर्य एव जगदीश्वरि शक्तिः ॥ १३० ॥

विद्युदम्बरभुवि ज्वलतीशे शब्दमम्ब कुरु ते च सुसूक्ष्मम् ।
इन्द्ररुद्रयुगलव्यवहारे कर्मयुग्ममिदमीश्वरि बीजम् ॥ १३१ ॥

वैद्युतस्य भवसि ज्वलतोऽग्नेरम्ब शक्तिरसतां दमनि त्वम् ।
तस्य नादवत आगमगीता कालिका भवति शक्तिरभीता ॥ १३२ ॥

तेजसो रुचिरभीमकलाभ्यां यद्वदीश्वरि शची भवती च ।
एवमाश्रितजनावनि गौरी कालिका च निनदस्य कलाभ्याम् ॥ १३३ ॥

वैद्युतोऽग्निरखिलेश्वरि पिण्डे मूलतामरसपीठनिषण्णः ।
इन्द्रियं भवति वागिति देवं यं विदो गणपतिं कथयन्ति ॥ १३४ ॥

ग्रन्थिभेदविकचे सरसीजे जृम्भमाणमिह वैद्युतवह्निः ।
यां रुचिं प्रकटयत्यतिवीर्यां सैव सिद्धिरिति काचन लक्ष्मीः ॥ १३५ ॥

विद्युदेव भवती ननु भान्ती विद्युदेव नगजा निनदन्ती ।
विद्युदेव तपसो विलसन्ती विग्रहेषु परमेश्वरि सिद्धिः ॥ १३६ ॥

नैव केवलमुदारचरित्रे विद्युदद्भुततमा त्रिविभूतिः ।
वैभवं बहु सहस्रविभेदं को नु वर्णयतु पावनि तस्याः ॥ १३७ ॥

वैद्युतं ज्वलनमीश्वरि हित्वा नैव दैवतमभीष्टतमं नः ।
तद्विभूतिगुणगानविलोला भारती जयतु मे बहुलीला ॥ १३८ ॥

तेजसश्च सहसश्च विभेदाद्या तनुस्तव भवत्युभयात्मा ।
तद्वयं च मयि चित्रचरित्रे जृम्भतां नरजगत्कुशलाय ॥ १३९ ॥

प्रायशो निगमवाचि पुमाख्या तन्त्रावाचि वरदे वनिताख्या ।
प्राणिनां जननि ते विबुधानां तत्र हेतुरजरे रुचिभेदः ॥ १४० ॥

अत्र सिद्धिरुदिता मम देहे भूमिका भुवनधात्रि तवान्या ।
आह्वयत्यधिकशक्तिकृते त्वां त्वं च सम्प्रविश देहगुहां नः ॥ १४१ ॥

जृम्भतामियमितः कुलकुण्डादन्तरिक्षतलतोऽवतर त्वम् ।
उल्लसन्त्ववलसन्तु च देहे वीचयोऽत्र भगिनीद्वितयस्य ॥ १४२ ॥

केवलं न सहसा महनीये तेजसा च वरदेऽवतर त्वम् ।
अत्र सिद्धिमपि केवलवीर्योल्लासिनीं जननि योजय भासा ॥ १४३ ॥

छिन्नमुज्ज्वलतटित्प्रभनेत्रं कण्ठरक्त्जलसींग्रहपात्रम् ।
मस्तकं तव सहेश्वरि धन्यं मस्तकं मम करोतु विशून्यम् ॥ १४४ ॥

मोचिताश्रितगुहान्तरबन्धः प्राणवांस्तव सवित्रि कबन्धः ।
वासनाकुसुमतल्पकसुप्तां सम्प्रबोधयतु मे मतिमाप्ताम् ॥ १४५ ॥

देवपूज्यचरणा तव चेटी निर्विबन्धकरुणापरिपाटी ।
वज्रपाणिसखि शोकदरिद्रं वर्णिनी भणतु मे बहुभद्रम् ॥ १४६ ॥

चण्डचण्डि तव युद्धवयस्या योगिवेद्यनिजवीर्यरहस्या ।
चेतसश्च भुजयोश्च समग्रं डाकिनी दिशतु मे बलमुग्रम् ॥ १४७ ॥

मन्मथेन सह रागरसार्द्रा पूरुषायितरता रतिरीड्या ।
आसनं तव वशीकुरुतान्मे सर्वलोकमपि वज्रशरीरे ॥ १४८ ॥

दृप्यतां विषयवैरिगणानां मर्दनाय रमणीयमुपायम् ।
अम्ब शीघ्रमभिधाय नय त्वं मामिमं चरणपङ्कजबन्धुम् ॥ १४९ ॥

तेजसा च सहसा च विभान्ती पुष्करे च यमिनां च तनूषु ।
सम्मदं भजतु वासवशक्तिः स्वागताभिरमलाभिरिमाभिः ॥ १५० ॥

सप्तम इन्द्रवज्रास्तबकः
ज्ञानाय हानाय च दुर्गुणानां भानाय तत्त्वस्य परस्य साक्षात् ।
देवीं प्रपद्ये सुरपालशक्तिमेकामनंशामभितो विभान्तीम् ॥ १५१ ॥

ईशोऽशरीरो जगतां परस्तात् देवी खकाया परितो जगन्ति ।
पूर्वो विशुद्धो गुणगन्धशून्यः स्थानं गुणानामपराऽखिलानाम् ॥ १५२ ॥

आक्रम्य लोकं सकलं विभाति नो केवलं भूरि विभूतिरम्बा ।
शुद्धा परस्तादपि नाथचित्ति रूपा विपापा परितश्चकास्ति ॥ १५३ ॥

See Also  Kamala Trishati – 300 Names Of Kamala In Telugu

त्रौलोक्यभूजानिरणोरणिष्ठस्तस्यात्मशक्तिर्महतो महिष्ठा ।
एतद्रहस्यं भुवि वेद यो ना तत्त्वप्रसङ्गएषु न तस्य मोहः ॥ १५४ ॥

ज्ञानं परं धर्मवदीशतत्त्वं धर्मात्मकं ज्ञानमजास्वरूपम् ।
शक्तीशयोर्भक्तुमशक्ययोरप्येवं विभागो वचसा व्यधायि ॥ १५५ ॥

दृश्यस्य सर्वस्य च भोगकाले धर्मी च धर्मश्च विभाति बोधः ।
अन्तः समाधावयमेकरूपः शक्तीशभेदस्तदसावनित्यः ॥ १५६ ॥

धर्मः परस्तात्परमेश्वरी या धर्मित्वमेषा जगति प्रयाति ।
यावज्जगज्जीवितमप्रणाशमाकाशमाश्रित्य महच्छरीरम् ॥ १५७ ॥

व्यक्तिं खकायां प्रजगुः पुमांसमेके परे क्लीबमुदाहरन्ति ।
अस्माकमेषा परमात्मशक्तिर्माता समस्तस्य च काऽपि नारी ॥ १५८ ॥

चिद्रूपमत्यन्तसुसूक्ष्ममेतत् ज्योतिर्यदाकाशशरीरमग्र्यम् ।
प्राणः स एव प्रणवः स एव वह्निः स एवाम्बरदेशवासी ॥ १५९ ॥

वायुश्च रुद्रश्च पुरन्दरश्च तस्यैव विश्वं दधतः पुमाख्याः ।
शक्तिश्च काली च महाप्रचण्डचण्डी च योषित्प्रवराह्वयानि ॥ १६० ॥

अत्रापि धर्मी पुरुषः परेषां धर्मस्तु नारी विदुषां मतेन ।
एषोऽपि वाचैव भवेद्विभागः शक्यो विधातुं न तु वस्तुभेदात् ॥ १६१ ॥

त्वं देवि हन्त्री महिषासुरस्य शुम्भं सबन्धुं हतवत्यसि त्वम् ।
त्वं योगनिद्रामधुसूदनस्य भद्रासि शक्तिर्बलवैरिणस्त्वम् ॥ १६२ ॥

कालस्य लीलासहचारिणी त्वं वामाङ्गमस्यन्धकवैरिणस्त्वम् ।
सिद्धिस्त्वमश्रान्ततपोभिगम्या बुद्धिस्त्वमक्षुद्रमनुष्यनम्या ॥ १६३ ॥

विद्युत्त्वमाकाशपथे चरन्ती सूर्यप्रभा त्वं परितो लसन्ती ।
ज्वाला कृशानोरसि भीमलीला वेलातिगा त्वं परमस्य चित्तिः ॥ १६४ ॥

भेदाः सहस्रं तव देवि सन्तु त्वं मूलशक्तिर्मम मातरेका ।
स्तोत्राणि ते बुद्धिमतां विभूतिद्वारा बहूनीव विभान्ति लोके ॥ १६५ ॥

उग्राणि रूपाणि सहस्रशस्ते सौम्यानि चाशेषसवित्रि सन्ति ।
व्यक्तित्वमेकं तव भूरिशक्तिव्यक्तीः पृथक् च प्रददाति तेभ्यः ॥ १६६ ॥

कुर्वन्ति ताः पावनि विश्वकार्यं सर्वं च लोकाम्ब विभूतयस्ते ।
स्वर्वैरिणां च प्रतिसन्धिकालं गर्वं हरन्ति क्षणदाचराणाम् ॥ १६७ ॥

चण्डी प्रचण्डा तव या विभूतिः वज्रात्मिका शक्तिरपारसारा ।
सा सम्प्रदायातुलमम्ब वीर्यं देवी क्रियान्मां कृतदेवकार्यम् ॥ १६८ ॥

आविश्य या मां वपुषो गुहायां चित्राणि ते शक्तिरजे करोति ।
सा का तव प्राज्यविभूतिमध्ये सद्ध्येयरूपे विशदीकुरुष्व ॥ १६९ ॥

संशोधनायैव कृतिः किमस्याः सञ्चालनायापि किमु क्रियाणाम् ।
शक्त्यै किमेषा विदधाति चेष्टामाहोस्विदच्छां च मतिं प्रदातुम् ॥ १७० ॥

प्राणप्रदा भीमतमा च शक्तिर्या कृत्तशीर्षां सहसाविवेश ।
सा मे क्रियात्प्राणबलं प्रशस्तं हस्तं च मे कार्यपटुं करोतु ॥ १७१ ॥

सन्देहजालं प्रविधूय तेजः सन्दायिनी कृत्तशिराः करोतु ।
वृन्दारकाराधितपादपद्मा वन्दारुमन्दारलता शुभं नः ॥ १७२ ॥

मामाविशन्ती भव वा न वा त्वं सम्पादयेष्टं मम वा न वा त्वम् ।
दुर्ज्ञेयसारे जननि प्रचण्डचण्डि त्वमेका कुलदैवतं नः ॥ १७३ ॥

नाशं विधातुं विषयद्विषां मे पाशत्रयान्मोचयितुं च देहम् ।
शेषाहिवर्ण्ये पदकिङ्कराय भाषस्व योगं जननि प्रचण्डे ॥ १७४ ॥

सर्वात्मशक्तेः पदबन्धुगीताः कुर्वन्तु भूयांसमिह प्रमोदम् ।
युक्त्स्य देव्यास्तटितः समाधिमत्तस्य चित्तस्य ममेन्द्रवज्राः ॥ १७५ ॥

अष्टमो भयहारिस्तबकः
उग्रतरनादां पापहरपादाम् ।
नौमि खलमारीं वज्रधरनारीम् ॥ १७६ ॥

शक्तकरणानां गुप्तभरणानाम् ।
ध्वान्तहरविद्युद्वीचिकिरणानाम् ॥ १७७ ॥

नित्यकरुणानां व्योमशरणानाम् ।
अस्मि गुणवन्दी मातृचरणानाम् ॥ १७८ ॥

काचन शबर्यां देवि मुनिनार्याम् ।
पुण्यवदधीते मोहनकला ते ॥ १७९ ॥

काचिदपि तस्यां मौनिजनगीते ।
कृत्तशिरसीशे भीषणकला ते ॥ १८० ॥

मञ्जुतरगुञ्जाहारनिकरायै ।
चापशरयुक्त्प्रोज्ज्वलकरायै ॥ १८१ ॥

सर्वजनचक्षुस्तर्पणविभायै ।
जङ्गमविचित्रास्वर्णलतिकायै ॥ १८२ ॥

अभ्रचिकुरायै शुभ्रहसितायै ।
मादकमनोज्ञस्वादुवचनायै ॥ १८३ ॥

इन्दुवदनायै कुन्दरदनायै ।
मन्दरकुचायै मन्दगमनायै ॥ १८४ ॥

अञ्जलिरयं मे कञ्जनयनायै ।
मौनिकुलनार्यै पावनशबर्यै ॥ १८५ ॥

पावनचरित्रां मारमणपुत्राम् ।
छिन्नशिरसं तां नौमि मुनिकान्ताम् ॥ १८६ ॥

मातरयि वीर्यत्रातवरधर्मे ।
माऽस्तु हृदि मोहः सन्न्तिरिपुर्मे ॥ १८७ ॥

देवि मुनिचेतो रङ्गलसदूर्मे ।
माऽस्तु हृदि कामः सुस्थितिरिपुर्मे ॥ १८८ ॥

देवजनभर्तुः प्राणसखि रामे ।
माऽस्तु हृदि भीतिर्वीर्यदमनी मे ॥ १८९ ॥

व्योमचरि मातर्भामयि विसीमे ।
माऽस्तु हृदि कोपो बुद्धिदमनो मे ॥ १९० ॥

साध्ववनलोले देवि बहुलीले ।
अस्तु मम धैर्यं चेतसि सुवीर्यम् ॥ १९१ ॥

सर्वतनुपाकाधायि तव भव्यम् ।
अस्तु वरतेजो नेतृ मम दिव्यम् ॥ १९२ ॥

इच्छति सवित्री यत् प्रियसुताय ।
तद्वितर सर्वं देवि भजकाय ॥ १९३ ॥

इच्छति मनुष्यो यद्रिपुजनाय ।
मत्तदयि दूरे पालय विधाय ॥ १९४ ॥

वर्धयतु तेजो वर्धयतु शक्तिम् ।
वर्धयतु मेऽम्बा वज्रभृतिभक्तिम् ॥ १९५ ॥

वज्रमयि मातर्वज्रधरभक्त्ः ।
अस्तु तव वीर्यादत्र भुवि शक्त्ः ॥ १९६ ॥

नश्यतु समस्तो वज्रधरवैरी ।
एतु जयमन्तर्वज्रधरनारी ॥ १९७ ॥

हस्तधृतमुण्डः कश्चन कबन्धः ।
अस्तु मम भिन्नग्रन्थिचयबन्धः ॥ १९८ ॥

साधय मदिष्टं योगमभिधाय ।
देवि विषयारिव्रातदमनाय ॥ १९९ ॥

सम्मदयतान्मे स्वांशकृतशम्बाम् ।
चारुभयहारिच्छन्द इदमम्बाम् ॥ २०० ॥

तृतीयं शतकम्
नवमो मदलेखास्तबकः
वन्दे वासवशक्तेः पादाब्जं प्रियभक्त्म् ।
प्रातर्भास्कररक्तं पापध्वंसनशक्त्म् ॥ २०१ ॥

हुङ्कारानलकीलादग्धारातिसमूहाम् ।
विद्युद्भासुरवीक्षानिर्धूताश्रितमोहाम् ॥ २०२ ॥

देवस्त्रीनिटलेन्दुज्योत्स्नालालितपादाम् ।
मेघश्रेण्युपजीव्यश्रोत्राकर्षकनादाम् ॥ २०३ ॥

दीप्तां भास्करकोटिच्छायायामिव मग्नाम् ।
गात्रालम्बिविनैवक्षौमं किञ्चिदिनग्नाम् ॥ २०४ ॥

कण्ठे कल्पितहारां मुण्डानां शतकेन ।
ज्ञेयामूल्यरहस्यां निव्र्याजं भजकेन ॥ २०५ ॥

स्वर्गस्य क्षितिपालं पश्यन्तीं प्रणयेन ।
धुन्वानां विबुधानां भीतिं शक्तशयेन ॥ २०६ ॥

शक्तीनामधिराज्ञीं मायानामधिनाथाम् ।
चण्डां कामपिचण्डीं गायाम्यद्भुतगाथाम् ॥ २०७ ॥

भित्त्वा मस्तकमेतत् पादाघातबलेन ।
आविश्याखिलकायं खेलत्पावनलीलम् ॥ २०८ ॥

वेगेनावतरत्ते तेजोनाशितपाशम् ।
चण्डे चण्डि समस्तं गोप्यं भासयतान्मे ॥ २०९ ॥

अन्तः किञ्च बहिस्ते मातर्दारितमस्ते ।
मामावृत्य समन्तात्तेजः कर्म करोतु ॥ २१० ॥

इन्द्राणीकलया यत्कृत्तामाविशदुग्रा ।
शक्यं वर्णयितुं तद्दृश्यं केन बुधेन ॥ २११ ॥

प्राणापेतशरीराण्यावेष्टुं प्रभवन्तः ।
भेतालास्तव भृत्याश्चण्डे चण्डि चरन्तः ॥ २१२ ॥

छिन्नां सम्प्रविशन्तीवज्रेश्वर्यतिशक्ता ।
निःशेषैरतिभीमैर्भेतालैरभिषिक्ता ॥ २१३ ॥

भेतालाः परमुग्रास्त्वं तेष्वप्यधिकोग्रा ।
तस्मादाहुरयि त्वां चण्डामीश्वरि चण्डीम् ॥ २१४ ॥

आसीद्घातयितुं त्वां साधोर्धीर्जमदग्नेः ।
भेतालप्रभुसर्गायोल्लङ्घ्यैव निसर्गम् ॥ २१५ ॥

आदेष्टाशमवित्तो हन्तासात्त्विकमौलिः ।
वध्या निश्चलसाध्वी शोच्येतश्च कथा का ॥ २१६ ॥

निर्यद्रक्तकणेभ्यः कण्ठात्ते भुवि जाताः ।
मार्याद्यामयवीजीभूतस्तम्बविशेषाः ॥ २१७ ॥

करागारनिवासात्माहिष्मपत्यधिपस्य ।
जाता भार्गवशङ्का हत्यायास्तव मूलम् ॥ २१८ ॥

सत्यं तेऽम्ब चरित्रां भद्मः कोऽपि निगुह्य ।
त्रातुं यादवकीतिं मिथ्याहेतुमवादीत् ॥ २१९ ॥

अन्यागारनिवासे हत्या त्याग उताहो ।
स्त्रीणां चेत्परुषं धिग्भावं पूरुषजातेः ॥ २२० ॥

स्वातन्त्र्यं वनितानां त्रातुं मातरधीशे ।
दूरीकर्तुमपारं दैन्यं पञ्चमजातेः ॥ २२१ ॥

धर्मं व्याजमधर्मं भूलोके परिहर्तुम् ।
वेदार्थे च गभीरे सन्देहानपि हर्तुम् ॥ २२२ ॥

घोरं वर्णविभेदं कर्तुं च स्मृतिशेषम् ।
उल्लासं मतिशक्त्योर्मह्यं देहि महान्तम् ॥ २२३ ॥

योगं मे विषयारीन् निर्मूलं परिमार्ष्टुम् ।
श्रीमातः कुरु चित्तं कारुण्येन निदेष्टुम् ॥ २२४ ॥

चण्ड्याध्ण्डतमायाः चित्तं संयममत्तम् ।
भूयः सम्मदयन्तां हैरम्ब्यो मदलेखाः ॥ २२५ ॥

दशमः पथ्यावक्त्रास्तबकः
इन्द्राण्याः परमां शक्तिं सर्वभूताधिनायिकाम् ।
प्रचण्डचण्डिकां देवीं छिन्नमस्तां नमाम्यहम् ॥ २२६ ॥

इन्द्राण्याः शक्तिसारेण प्रादुर्भूते परात्परे ।
प्रचण्डचण्डि वज्रात्मन् वैरोचनि नमोऽस्तु ते ॥ २२७ ॥

त्वं विश्वधात्रि वृत्रारेः आयुधस्याधिदेवता ।
सर्वप्रचण्डभावानां मध्ये प्रकृतितः परा ॥ २२८ ॥

सर्वस्मिन्नपि विश्वस्य सर्गेऽनर्गलविक्रमे ।
त्वत्तश्चण्डतमो भावो न भूतो न भविष्यति ॥ २२९ ॥

तटितः शक्तिसारेण वज्रं निर्मितमायुधम् ।
अभूत्तद्विनयद्देवं तटिदेव निजांशतः ॥ २३० ॥

पर्वतश्च पुलोमा च सजलोऽयं घनाघनः ।
पार्वतीति तटिद्देवीं पौलोमीति च तद्विदुः ॥ २३१ ॥

See Also  300 Names Of Sri Lalita Trishati In Gujarati

शैवानां भाषया देवि त्वं तटिद्देवि पार्वती ।
ऐन्द्राणां भाषया मातः पौलोमी त्वमनामये ॥ २३२ ॥

पूर्वेषां दयितः शब्दो दुर्गेति दुरितापहे ।
प्रचण्डचण्डिकाशब्द उत्तरेषामतिप्रियः ॥ २३३ ॥

वैष्णवानां गिरा देवि योगमाया त्वमद्भुता ।
वाचा हैरण्यगर्भाणां सवित्रि त्वं सरस्वती ॥ २३४ ॥

दधाना भुवनं सर्वं व्यापिकापद्विवर्जिता ।
तटिच्छब्दायते व्योम्नि प्राणित्यपि विराजते ॥ २३५ ॥

प्रचण्डचण्डिका सेयं तटित्सूक्ष्मेण तेजसा ।
विश्वस्मिन्नखिलान्भावान्माताऽनुभवति स्वयम् ॥ २३६ ॥

भावानामनुभूतानां वाक्यत्वेनावभासनम् ।
भवत्यव्यक्तशब्देऽस्याः सर्वंविज्ञानशेवधौ ॥ २३७ ॥

यदि सा सर्वजगतां प्राणश्चेतश्च शेमुषी ।
प्राणचेतोमनीषाणां तस्याः को नाम संशयः ॥ २३८ ॥

प्राणन्ती चिन्तयन्ती सा राजन्ती च विहायसि ।
तटिच्छब्दायमाना च देवी विजयतेतराम् ॥ २३९ ॥

सेच्छया दधती रूपं मोहनं कीर्त्यते शची ।
प्रचण्डचण्डिका गीता बिभ्राणा भीषणं वपुः ॥ २४० ॥

पिण्डे कुण्डलिनीशक्तिः सैव ब्रह्नाण्डचालिका ।
निद्राति जडदेहेषु योगिदेहेषु खेलति ॥ २४१ ॥

एषा वैरोचनी दुर्गा ज्वलन्ती तपसा परा ।
समुल्लसति यस्यान्तः स जीवन्नेव मुच्यते ॥ २४२ ॥

योगिनो बोधयन्ती मां योगेन नियतव्रताः ।
सर्वार्पकस्य देहे सा स्वयमेव समुल्लसेत् ॥ २४३ ॥

शारीरशक्तिमात्र्स्य योगी सञ्चालको भवेत् ।
बाह्यशारीरशक्त्योस्तु योगो नानुग्रहं विना ॥ २४४ ॥

चण्डनारीस्वरूपेण तटिद्रूपेण चाम्बरे ।
पिण्डे कुण्डलिनीतन्वा चरन्ती देवि राजसे ॥ २४५ ॥

मस्तकस्थानमनसो महादेवि विनाशनात् ।
रेणुकायामुतावेशात् कृत्तमस्तेति ते पदम् ॥ २४६ ॥

यदाविशस्त्वमुग्रेऽम्ब रेणुकामुग्रतेजसा ।
तदा पृथङ्महाशक्तिः सा व्यक्तिः समपद्यत ॥ २४७ ॥

व्यक्तीनां दुर्जनघ्नीनां त्वत्तेजोभागजन्मनाम् ।
बहुत्वेपि त्वमेकैव मूलशक्तिः सनातनी ॥ २४८ ॥

उपायमभिधायाम्बा विषयारिविदारणे ।
प्रचण्डचण्डिका देवी विनयत्वङ्घ्रिसेविनम् ॥ २४९ ॥

रमयन्तामुपश्लोकयन्ति यान्ति क्तदन्तरम् ।
पथ्यावक्त्राणि पापघ्नीमेतानि च्छिन्नस्तकाम् ॥ २५० ॥

एकादश उपजातिस्तबकः
मेरूपमानस्तनभारतान्तां शक्रस्य लीलासहचारिणीं ताम् ।
हर्तुं समूलं हृदयस्य मोहं प्रचण्डचण्डीमभिवादयेऽहम् ॥ २५१ ॥

वेदादिबीजं जलजाक्षजाया प्राणप्रिया शीतमयूखमौलेः ।
कन्तुर्विधातुर्हृदयाधिनाथा जलं जकारो दहनेन युक्त्ः ॥ २५२ ॥

तोयं पुनर्द्वादशवर्णयुक्तं त्रायोदशेनाथ युतः कृशानुः ।
तालव्यवर्गप्रथमो नकारः ततध्तुर्थस्वरसम्प्रयुक्त्ः ॥ २५३ ॥

एकादशेनाथ युतः समीरः स षष्ठबिन्दुः सरणिः सुराणाम् ।
तदेव बीजं पुनरस्त्रमन्ते कृपीटयोनेर्मनसोऽधिनाथा ॥ २५४ ॥

विद्या त्वियं सर्दिशाक्षराढ्या स्वयं महाकालमुखोपदिष्टा ।
गोप्यासु गोप्या सुकृतैरवाप्या षष्ठीविनुत्या परमेष्ठिनापि ॥ २५५ ॥

स्थाने सहस्रच्छदसायकस्य पुनर्यदीशानमनोधिनाथा ।
सर्वार्थदः सर्दिशाक्षरोऽन्यः प्रचण्डचण्डी मनुरुत्तमः स्यात् ॥ २५६ ॥

वेदादिबीजेन विहीनमाद्यं पुनर्भवानीवियुतं द्वितीयम् ।
मन्त्रावुभौ षोडशवर्णयुक्तौ प्रचण्डचण्ड्याः पविनायिकायाः ॥ २५७ ॥

मन्त्रे तृतीये यदि कूर्चबीजं स्थाने रतेर्जीवितवल्लभ्स्य ।
मन्त्रोऽपरः षोडशवर्णयुक्त्ः प्रचण्डचण्ड्याः पटुशक्तिरुक्त्ः ॥ २५८ ॥

अयं हरेर्वल्लभ्या विहीनो मन्त्रोऽपरः पञ्चदशाक्षरः स्यात् ।
क्रोधश्च सम्बोधनमस्त्रमग्नेः सीमन्तिनी चेति धरेन्दुवर्णः ॥ २५९ ॥

धेनुः कृशानोहृदयेश्वरी च प्रचण्डचण्डी मनुरग्निवर्णः ।
एकैव धेनुः सुरराजशक्तेः एकाक्षरः कश्चन मन्त्रराजः ॥ २६० ॥

एतेषु तन्त्राप्रणुतेषु भक्तो मन्त्रां नवस्वन्यतमं गृहीत्वा ।
यः संश्रयेताश्रितकामधेनुं प्रचण्डचण्डीं स भवेत् कृतार्थः ॥ २६१ ॥

वेदादिरम्भोरुहनेत्रजाया मायाङ्कुशब्रह्नमनोधिनाथाः ।
इतीयमव्याजरतिं जपन्तं पञ्चाक्षरी रक्षति रेणुकायाः ॥ २६२ ॥

ऋष्यादिसङ्कीर्तनमेषु माऽस्तु कराङ्गविन्यासविधिश्च माऽस्तु ।
मूर्तिं यथोक्तामुत दिव्यतत्त्वं ध्यात्वा जपेत् सिद्धिरसंशयं स्यात् ॥ २६३ ॥

नाभिस्थशुक्लाब्जगसूर्यबिम्बे संसक्तरत्यम्बुजबाणपीठे ।
स्थितां पदेनान्यतरेण सम्यगुत्क्षिप्तदीप्तान्यतराङ्घ्रिपद्माम् ॥ २६४ ॥

दिगम्बरामर्कसहस्रभासमाच्छादितां दीधितिपञ्जरेण ।
कण्ठस्थलीभासुरमुण्डमालां लीलासखीं देवजनाधिपस्य ॥ २६५ ॥

छिन्नं शिरः कीर्णकचं दधानां करेण कण्ठोद्गतरक्त्धाराम् ।
धारात्रये तत्र च मद्यधारां करस्थवक्त्रेण मुदा पिबन्तीम् ॥ २६६ ॥

पार्श्वे सखीं भासुरवर्णिनीं च पार्श्वान्तरे भीषणडाकिनीं च ।
अन्ये पिबन्त्यावसृगम्बुधारे निरीक्षमाणामतिसम्मदेन ॥ २६७ ॥

भयङ्कराहीश्वरबद्धमौलिं ज्वलद्युगान्तानलकीलकेशीम् ।
स्फुरत्प्रभाभासुरविद्युदक्षीं चण्डीं प्रचण्डां विदधीत चित्ते ॥ २६८ ॥

गुञ्जाफलाकल्पितचारुहारा शीर्षे शिखण्डं शिखिनो वहन्ती ।
धनुश्च बाणान्दधती कराभ्यां सा रेणुका वल्कलभृत्विचिन्त्या ॥ २६९ ॥

तटिज्झरीं कामपि सम्प्रश्यन् आकाशतः सर्वतनौ पतन्तीम् ।
मौनेन तिष्ठेद्यमिनां वरिष्ठो यद्येतदम्बास्मरणं प्रशस्तम् ॥ २७० ॥

दृश्यानशेषानपि वर्जयित्वा दृष्टिं निजां सूक्ष्ममहःस्वरूपाम् ।
निभालयेद्यन्मनसा वरीयानन्योऽयमम्बास्मरणस्य मार्गः ॥ २७१ ॥

विना प्रपत्तिं प्रथमो न सिध्येत् मार्गोऽनयोः केवलभावनातः ।
हृदिस्थले योगबलेन चित्तेर्निष्ठां विना सिध्यति न द्वितीयः ॥ २७२ ॥

आरम्भ एवात्र पथोर्विभेदः फले न भेदो रमणो यथाह ।
स्थितौ धियो हस्तगताप्रपत्तिः प्रपत्तिसिद्धौ सुलभैव निष्ठा ॥ २७३ ॥

उपायमेकं विषयारिनाशविधौ विधायावगतं ममाम्बा ।
कृत्वा समर्थं च निजानुकम्पां प्रचण्डचण्डी प्रथयत्वपाराम् ॥ २७४ ॥

सध्यानमार्गं वरमन्त्रकल्पं प्रचण्डचण्ड्याः परिकीर्तयन्त्यः ।
भवन्तु मोदातिशयाय शक्तेरुपासकानामुपजातयो नः ॥ २७५ ॥

द्वादशो नाराचिकास्तबकः
वीर्ये जवे च पौरुषे योषाऽपि विश्वतोऽधिका ।
मां पातु विश्वचालिका माता प्रचण्डचण्डिका ॥ २७६ ॥

शुद्धा चितिः सतः पुरा पश्चान्नभः शरीरका ।
योषातनुस्ततः परं माता प्रचण्डचण्डिका ॥ २७७ ॥

पारे परात्मनः प्रमा खे शक्तिरुत्तमोत्तमा ।
पिण्डेषु कुण्डलिन्यजा माता प्रचण्डचण्डिका ॥ २७८ ॥

नाके विलासशेवधिर्नालीकलोचना शची ।
प्राणप्रकृष्टविष्टपे माता प्रचण्डचण्डिका ॥ २७९ ॥

एकस्य सा महेन्दिरा देवी परस्य कालिका ।
अस्माकमुज्ज्वलानना माता प्रचण्डचण्डिका ॥ २८० ॥

राजीवबान्धवो दिवि ह्रादिन्यपारपुष्करे ।
अग्निर्मनुष्यविष्टपे माता प्रचण्डचण्डिका ॥ २८१ ॥

तेजः समस्तपाचकं चक्षुः समस्तलोककम् ।
चित्तं समस्तचिन्तकं माता प्रचण्डचण्डिका ॥ २८२ ॥

द्यौस्तेजसां महानिधिः भूमिश्च भूतधारिणी ।
आपश्च सूक्ष्मवीचयो माता प्रचण्डचण्डिका ॥ २८३ ॥

निर्बाहुकस्य सा करो निर्मस्तकस्य सा मुखम् ।
अन्धस्य सा विलोचनं माता प्रचण्डचण्डिका ॥ २८४ ॥

पाणिं विना करोति सा जानाति मानसं विना ।
चक्षुर्विना च वीक्षते माता प्रचण्डचण्डिका ॥ २८५ ॥

हस्तस्य हस्त उत्तमः चित्तस्य चित्तमद्भुतम् ।
नेत्रास्य नेत्रामायतं माता प्रचण्डचण्डिका ॥ २८६ ॥

सा भारती मनीषिणां सा मानसं महात्मनाम् ।
सा लोचनं प्रजानतां माता प्रचण्डचण्डिका ॥ २८७ ॥

सक्तिः समस्तबाधिका युक्तिः समस्तसाधिका ।
शक्तिः समस्तचालिका माता प्रचण्डचण्डिका ॥ २८८ ॥

छिन्नाऽपि जीवधारिणी भीमाऽपि शान्तिदायिनी ।
योषाऽपि वीर्यवर्धनी माता प्रचण्डचण्डिका ॥ २८९ ॥

माहेन्द्रशक्तिरुत्तमा सूक्ष्माऽपि भारवत्तमा ।
शातापि तेजसा तता माता प्रचण्डचण्डिका ॥ २९० ॥

पुत्रेण कृत्तमस्तकामाविश्य रेणुकातनुम् ।
सा खेलति क्षमातले माता प्रचण्डचण्डिका ॥ २९१ ॥

मामुग्रपापहारिणी सर्वप्रपञ्चधारिणी ।
पायादपायतोऽखिलान् माता प्रचण्डचण्डिका ॥ २९२ ॥

इन्द्रेसुरारिहर्तरि त्रैलोक्यभूमिभर्तरि ।
भक्तिं तनोतु मे परां माता प्रचण्डचण्डिका ॥ २९३ ॥

निष्ठामनन्यचालितां श्रेष्ठां धियं च सर्वगाम् ।
गीता सुरैर्ददातु मे माता प्रचण्डचण्डिका ॥ २९४ ॥

सत्यां गिरं ददातु मे नित्यां करोतु च स्थितिम् ।
धूताखिलाऽघसन्ततिः माता प्रचण्डचण्डिका ॥ २९५ ॥

सर्वं च मे कृताकृतं कर्माग्र्यमल्पमेव वा ।
सम्पूरयत्वनामया माता प्रचण्डचण्डिका ॥ २९६ ॥

तेजोझरस्वरूपया भूयादृतस्य धारया ।
विश्वावभासिकेह मे माता प्रचण्डचण्डिका ॥ २९७ ॥

सा मेऽल्पमर्त्यताश्रितां हत्वाऽधमामहङ्कृतिम् ।
आक्रम्य भातु मे तनुं माता प्रचण्डचण्डिका ॥ २९८ ॥

आत्मारिनाशने विधिं सा मेऽभिधायवत्सला ।
सर्वं धुनोतु संशयं माता प्रचण्डचण्डिका ॥ २९९ ॥

एताभिरुत्तमांशुभिः नाराचिकाभिरीश्वरी ।
सन्तोषमेतु वर्धतां माता प्रचण्डचण्डिका ॥ ३०० ॥

॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य
नरसिंहसूनोर्गणपतेः कृतिः प्रचण्डचण्डीत्रिशती समाप्ता ॥

– Chant Stotra in Other Languages -Prachandachandi Trishati:

300 Names of Prachanda Chandi Trishati in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil