Sri Saci Sutashtakam In Sanskrit

॥ Sri Sachi Sutashtakam Sanskrit Lyrics ॥

 ॥ शचीसुताष्टकम् ॥ 
नवगौरवरं नवपुष्पशरं
नवभावधरं नवलास्यपरम् ।
नवहास्यकरं नवहेमवरं
प्रणमामि शचीसुतगौरवरम् ॥ १ ॥

नवप्रेमयुतं नवनीतशुचं
नववेशकृतं नवप्रेमरसम् ।
नवधा विलसत् शुभप्रेममयं
प्रणमामि शचीसुतगौरवरम् ॥ २ ॥

हरिभक्तिपरं हरिनामधरं
करजप्यकरं हरिनामपरम् ।
नयने सततं प्रणयाश्रुधरं
प्रणमामि शचीसुतगौरवरम् ॥ ३ ॥

सततं जनताभवतापहरं
परमार्थपरायणलोकगतिम् ।
नवलेहकरं जगत्तापहरं
प्रणमामि शचीसुतगौरवरम् ॥ ४ ॥

निजभक्तिकरं प्रियचारुतरं
नटनर्तननागरराजकुलम् ।
कुलकामिनिमानसलास्यकरं
प्रणमामि शचीसुतगौरवरम् ॥ ५ ॥

करतालवलं कलकण्ठरवं
मृदुवाद्यसुवीणिकया मधुरम् ।
निजभक्तिगुणावृतनात्यकरं
प्रणमामि शचीसुतगौरवरम् ॥ ६ ॥

युगधर्मयुतं पुनर्नन्दसुतं
धरणीसुचित्रं भवभावोचितम् ।
तनुध्यानचितं निजवासयुतं
प्रणमामि शचीसुतगौरवरम् ॥ ७ ॥

अरुणं नयनं चरणं वसनं
वदने स्खलितं स्वकनामधरम् ।
कुरुते सुरसं जगतः जीवनं
प्रणमामि शचीसुतगौरवरम् ॥ ८ ॥

इति सार्वभौमभट्टाछर्यविरचितं शचीसुताष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Krishna slokam » Srila Sarvabhauma Battacarya’s Sri Saci Suta Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Eka Mukha Hanumath Kavacham In Sanskrit