Sri Svayam Bhagavattva Ashtakam In Sanskrit

॥ Sri Svayambhagavattvashtakam Sanskrit Lyrics ॥

॥ श्रीस्वयंभगवत्त्वाष्टकम् ॥
स्वजन्मन्यैश्वर्यं बलमिह वधे दैत्यवितते-
र्यशः पार्थत्राणे यदुपुरि महासम्पदमधात् ।
परं ज्ञानं जिष्णौ मुषलमनु वैराग्यमनु यो
भगैः षड्भिः पूर्णः स भवतु मुदे नन्दतनयः ॥ १ ॥

चतुर्बाहुत्वं यः स्वजनि समये यो मृदशने
जगत्कोटीं कुक्ष्यन्तरपरिमितत्वं स्ववपुषः ।
दधिस्फोटे ब्रह्मण्यतनुत परानन्ततनुतां
महैश्वर्यः पूर्णः स भवतु मुदे नन्दतनयः ॥ २ ॥

बलं बक्यां दन्तच्छदनवरयोः केशिनि नृगे
निऋपे बाह्वोरङ्घ्रेः फणिनि वपुषः कंसमरुतोः ।
गिरित्रे दैत्येष्वप्यतनुत निजास्त्रस्य यदतो
महौजोभिः पूर्णः स भवतु मुदे नन्दतनयः ॥ ३ ॥

असङ्ख्यातो गोप्यो व्रजभुवि महिष्यो यदुपुरे
सुताः प्रद्युम्नाद्याः सुरतरुसुधर्मादि च धनम् ।
बहिर्द्वारि ब्रह्माद्यापि बलिवहं स्तौति यदतः
श्रियां पूरैः पूर्णः स भवतु मुदे नन्दतनयः ॥ ४ ॥

यतो दत्ते मुक्तिं रिपुविततये यन् नरजनि-
र्विजेता रुद्रादेरपि नतजनाधीन इति यत् ।
सभायां द्रौपद्या वरकृदतिपूज्यो नृपमखे
यशोभिस्तत्पूर्णः स भवतु मुदे नन्दतनयः ॥ ५ ॥

न्यधाद्गीतारत्नं त्रिजगदतुलं यत्प्रियसखे
परं तत्त्वं प्रेम्णोद्धवपरमभक्ते च निगमम् ।
निजप्राणप्रेस्ठास्वपि रसभृतं गोपकुलजा-
स्वतो ज्ञानैः पूर्णः स भवतु मुदे नन्दतनयः ॥ ६ ॥

See Also  Kunjabihari Ashtakam 2 In Gujarati

कृतागस्कं व्याधं सतनुमपि वैकुण्ठमनयन्
ममत्वस्यैकाग्रानपि परिजनान् हन्त विजहौ ।
यद्यप्येते श्रुत्या धुवतनुतयोक्तास्तदपि हा
स्ववैराग्यैः पूर्णः स भवतु मुदे नन्दतनयः ॥ ७ ॥

अजत्वं जन्मित्वं रतिररतितेहारहितता
सलीलत्वं व्याप्तिः परिमितिरहंताममतयोः ।
पदे त्यागात्यागावुभयमपि नित्यं सदुररी
करोतीशः पूर्णः स भवतु मुदे नन्दतनयः ॥ ८ ॥

समुद्यत्सन्देहज्वरशतहरं भेषजवरं
जनो यः सेवेत प्रथितभगवत्त्वाष्टकमिदम् ।
तदैश्वर्यस्वादैः स्वधियमतिवेलं सरसयन्
लभेतासौ तस्य प्रियपरिजनानुग्यपदवीम् ॥ ९ ॥

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीश्रीस्वयंभगवत्त्वाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Svayam Bhagavattva Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil