॥ Sri Vishnu Shatanama Stotram Sanskrit Lyrics ॥
॥ श्रीविष्णोरष्टनामस्तोत्रम् ॥
श्री गणेशाय नमः ।
अच्युतं केशवं विष्णुं हरिं सत्यं जनार्दनम् ।
हंसं नारायणं चैवमेतन्नामाष्टकं पठेत् ॥ १ ॥
त्रिसंध्यं यः पठेन्नित्यं दारिद्र्यं तस्य नश्यति ।
शत्रुसैन्यं क्षयं याति दुःस्वप्नः सुखदो भवेत् ॥ २ ॥
गङ्गायां मरणं चैव दृढा भक्तिस्तु केशवे ।
ब्रह्मविद्याप्रबोधश्च तस्मान्नित्यं पठेन्नरः ॥ ३ ॥
। इति श्रीवामनपुराणे श्रीविष्णोर्नामाष्टकस्तोत्रं सम्पूर्णम् ।
– Chant Stotra in Other Languages –
Sri Vishnu Slokam » Sri Vishnora Ashtanama Stotram Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil