॥ Suratakathamritam Athava Arya Ashatakam Sanskrit Lyrics ॥
सुरतकथामृतं अथवा आर्यशतकम्
मूलग्रन्थस्य केन्द्रीयश्लोकः-
कदाहं सेविष्ये व्रततिचमरीचामरमरु-
द्विनोदेन क्रीडा कुसुमशयने न्यस्तवपुषौ ।
दरोन्मीलन्नेत्रौ श्रमजलकणक्लिद्यदलकौ
ब्रुवाणावन्योन्यं व्रजनवयुवानाविह युवाम् ॥
उत्कलिकावल्लरी ५२
श्रीकृष्ण उवाच-
चित्रमिदं नहि यदहो वितरस्यधरसुधां निकामं मे ।
अति कृपणोऽपि कदाचिद्वदान्यतमतां जनः प्रिये धत्ते ॥ १ ॥
लयमपि न याति दाने प्रत्युत ऋद्धिं रसाधिकां लभते ।
अधरसुधोत्तमविद्यां विबुधवरायाद्य मे देहि ॥ २ ॥
स्वान्ते बिभ्रति भवतीं स्वान्ते वासिन्यतिस्निग्धे ।
मयि किमपूर्वां नादास्त्वमिमां च यस्माद्विदुष्यहो तत्र ॥ ३ ॥
श्रीराधाह-
कुलरमणीततिलज्जानिर्मूलनतन्त्रकौशलोद्गारैः ।
प्रथयसि किमु निजगर्वं ज्ञातं पाण्डित्यमस्ति ते तत्र ॥ ४ ॥
दैवाद्विपक्षतामपि मयि यान्त्या बत ममैव सहचर्या ।
न्यस्ताहं तव हस्ते कथमत्र गर्वो भवेन् न ते ॥ ५ ॥
अयमपि परमो धर्मः श्लाघा महती तवेयमेवेष्टा ।
यौवनफलमपि चेदं कुलाबलापीडनं यदहो ॥ ६ ॥
श्रीकृष्ण आह-
स्मरनरपतिवरराज्ये धर्मः शर्मप्रदोऽयमादिष्टः ।
वत्स्यायनमुनिनिर्मितपद्धत्युक्तानुसारेण हि ॥ ७ ॥
अपि च-
अत्र प्रमाणमिष्टं चेन्मदुक्तेऽपि न मन्यते किञ्चित् ।
भरतमुनेः किल शास्त्रं शास्त्रान्तरमत्र को गणयेत् ॥ ८ ॥
विद्युति विद्युतिदायी श्लाघां मनुते पयोधरः स्वीयाम् ।
विद्युदपि स्वां सुषमां पयोधरे श्लाघयत्यधिकाम् ॥ ९ ॥
श्रीराधाह-
गोवर्धनगिरिकन्दरवासी हरिरसीति श्रुतं कतिधा ।
कुलबालाहरिणीततिरथापि गच्छत्यतो न ते दोषः ॥ १० ॥
किं कुर्मः स्वाचरितो धर्मस्त्यक्तुं कथं पुनः शक्यः ।
दिनकरपूजनविधिरिह कुसुमावचये प्रवर्त्यते ॥ ११ ॥
श्रीकृष्ण आह-
वृन्दारण्यपुरन्दरमपि मां न गिरापि कर्हिचिन्मनुषे ।
सूर्याराधनगर्वस्तदयं राधे न ते भवेत्खर्वः ॥ १२ ॥
गोवर्धनगिरिधारणकारणमोजो न तेऽधिकं मनुते ।
तव सवयस्ततिरपि स तवैककुचशैलगर्वेण ॥ १३ ॥
श्रीराधाह-
न किल कुचौ मम शैलौ पश्याम्बुजकोरकौ नवोत्पन्नौ ।
न तयोर्दलनं मरकतशिलानिभेनोरसाऽद्य ते योग्यम् ॥ १४ ॥
कौस्तुभमणिरतितरलः सरलमतिः पुनरहं कुल प्रमदा ।
तदलमनेन धिनोतु त्वां निजसदृशं भृशं हृदिस्थस्ते ॥ १५ ॥
श्रीकृष्ण आह-
सत्यमयं भयतरलः कण्ठतटान्तं मम प्रिये श्रयते ।
दयते तव कुचद्वयमधिकं सम्मर्दयत्यहो सद्यः ॥ १६ ॥
श्रीराधाह-
तव खरनखरविदारणसहनं कुचयोरियं वरा शक्तिः ।
किमत्र सम्भवति स्फुटमनयोः स्वबलप्रकाशनाटोपः ॥ १७ ॥
श्रीकृष्ण आह-
मम खरनखरमहाङ्कुशघातादपि शतगुणं बलं लब्ध्वा ।
कोलादिव कुच कुम्भौ ममार्दयतो भृशं प्रिये पश्य ॥ १८ ॥
श्रीराधाह-
कुचपद्मकुट्मलयुगं मर्दयति त्वां निजातिदौरात्म्यात् ।
वृन्दावनवरसिन्धुर ननु दयसे त्वं निसर्गकारुण्यात् ॥ १९ ॥
श्रीकृष्ण आह-
तन्वाते मुदमुच्चैस्तावककुचकोरकौ यदिमौ ।
नखचन्द्रोदयमधि किं स्वयोग्यमतुलं न शोभते प्रिये ॥ २० ॥
श्रीराधाह-
नखरानामतिखरतारताय ते तावकेन किल विधिना ।
व्रजवनितानामरुच्य रुषेव निरमायि किं नूनम् ॥ २१ ॥
श्रीकृष्ण आह-
कुसुमादपि मृदुलाङ्ग्याः कुचयोरेवास्ति हन्त काठिन्यम् ।
इति तन् निष्काशयितुं क्षुणत्ति नखरावली चतुरा ॥ २२ ॥
श्रीराधाह-
हन्त कृतं बत किमिदं सुरतरसोन्मदकुलस्त्रियाः कदनम् ।
हारास्त्रुटिताः काञ्ची गलिता स्खलिता तथैव मे वेणी ॥ २३ ॥
श्रीकृष्ण आह-
हारा बलादुरुभाराः कृशमपि मध्यं च नह्यते काञ्ची ।
चिकुरकदर्थनभूता वेणी तदिमा रक्षितुं न योग्याः ॥ २४ ॥
श्रीराधाह-
ऊधो येन गिरीन्द्रस्तमपि न वहतो ममोरसो भारः ।
हारैर्भूषणभूतैरभूदियं स्नेहमुद्रा किम् ॥ २५ ॥
कुचगिरिवहनपटुत्वं कृशमपि मध्यं यतो बलाद्धत्ते ।
मणिमयकाञ्चीबन्धादेव तमृते दृढताऽस्य केन स्यात् ॥ २६ ॥
उत्कर्षणावाकर्षणपर्यायोदितपरस्परासक्त्या ।
प्रीतिरियं किल वेणीचिकुराणां न च कदर्थनं वाच्यम् ॥ २७ ॥
श्रीकृष्ण आह-
सत्यमहं गिरिधारी करनलिनाभ्यां गिरिद्वयं धास्ये ।
मध्यस्यात्र पटुत्वैरलं बलं किल ममैवास्ताम् ॥ २८ ॥
चिकुराणामपि वेण्याः परस्परासक्तिः सूचिता ।
प्रीत्या किं फलमिह यदि परिचरणं ते न कुर्वन्ति ॥ २९ ॥
वेणीबन्धविमुक्तश्चिकुर कलापोऽत्र वेल्लितो मरुता ।
चामरतामुपयातः स्विन्नाङ्गीं वीजयत्यहो भवतीम् ॥ ३० ॥
श्रीराधाह-
आविस्कृत पुरु शिल्पं सख्या मे बहु विलम्बतो रचितम् ।
चित्रकमलिकतटे तत्क्षणेन विध्वंसितं भवता ॥ ३१ ॥
श्रीकृष्ण आह-
स्मितमुखि रुचार्धविधुना सुचारुभालेन मे मिलन्त्येषा ।
त्वदलिकविधुरेखाऽस्मै प्रेम्नाऽर्पयति स्म सर्वस्वम् ॥ ३२ ॥
श्रीराधाह-
गण्डतटे मम मकरी श्यामा सरलातिचित्रिताप्यबलाम् ।
मकरद्वयताटङ्कश्चपलो धृष्टः कदर्थयत्येनाम् ॥ ३३ ॥
श्रीकृष्ण आह-
रमणि मम श्रुतियुगलं त्वदुदितसौधद्रवैः प्लुतं तदपि ।
द्विगुणिततृष्णं जातं लोलुपतायाः स्वरूपमेवैतत् ॥ ३४ ॥
श्रीराधाह-
लोलुपचूडामणिरसि तवाङ्गवृन्दं च लोलुपं यदयम् ।
मन्नयनाक्तमसीमप्यधरो रागी स्व मण्डनं कुरुते ॥ ३५ ॥
श्रीकृष्ण आह-
बन्धूकान्तरवर्तिनमलिनमिवायं मसीद्रवं धृत्वा ।
अक्ष्णोरेव मुदं ते तनुते तदिमं किमाक्षिपसि ॥ ३६ ॥
श्रीराधाह-
वन्दे तव परिहसितं कं देवं परिचरस्यहो निभिऋतम् ।
यत्प्रसादादधीता सौरतविद्यातिचातुरीधारा ॥ ३७ ॥
श्रीकृष्ण आह-
तव जघनोत्तमसदनं सरसं देवं समुपचराम्यतुलम् ।
निभृतनिकुञ्जगृहस्थः प्रति दिनमुचिताधिकार एवाहम् ॥ ३८ ॥
श्रीराधाह-
सत्यमतः स्वारूप्यं लब्ध्वा दृप्तः कुलाबलानलिनीः ।
मलिनीः कुरुषे का तव नयने पतिता स्वकं पतिं भजताम् ॥ ३९ ॥
श्रीकृष्ण आह-
सखि तव निरावृतान्यतिरुचिरान्यङ्गान्यतीव सङ्कुचन्ति ।
सम्प्रति मन्नयनान्तर्विशन्ति मन्दाक्षमग्नानि ॥ ४० ॥
श्रीराधाह-
धृष्टतमे तव नयने यन्मित्रं कौस्तुभो द्युतिं तनुते ।
तदिह मदङ्गान्यधुना शरणं यान्तु त्वदङ्गानाम् ॥ ४१ ॥
श्रीकृष्ण आह-
हित्वा सतृषदृशौ मम वैरादिव कौस्तुभं पराभूय ।
विशति तव स्तनयुगलं मद्धृदयान्तः स्वविक्रमं बिभ्रत् ॥ ४२ ॥
श्रीराधाह-
कठिनतमं तव हृदयं कुचयुगमपि मे प्रतीयते कठिनम् ।
तदुचितमनयोर्मिलनं योग्यं योग्येन युज्यते यस्मात् ॥ ४३ ॥
श्रीकृष्ण आह-
मदुरः पक्षगता त्वं मम यद्यक्ष्णोर्विपक्षतां कुरुषे ।
तदपि तयोस्त्वद्वदनं प्रकामसुभगं मुदं तनुते ॥ ४४ ॥
श्रीराधाह-
स्वच्छन्दं यदि रमसे रमस्व तत्राबलास्मि किं कुर्याम् ।
क्षिपसि दृशं यदलज्जं मदपघने तत्कथं सहे कुलजा ॥ ४५ ॥
श्रीकृष्ण आह-
यदि मम दृष्तिचकोर्या विधुमुखि नैवोपलभ्यसे दैवात् ।
हृदयगृहे खेलस्यपि तथापि हा ज्वलयसि प्रसभम् ॥ ४६ ॥
श्रीराधाह-
तव भुजयुगदृढबन्धं वामापीहेऽन्यथा भवन्नयने ।
निस्त्रपशिरोमणे मां त्रपाम्बुधौ पातयिष्यतः प्रकटम् ॥ ४७ ॥
श्रीकृष्ण आह-
त्वन्नयने च मदक्ष्णोरन्तेवासित्वमिच्छतः किन्तु ।
गर्वादिव न च पठतः प्रकटं प्रौढिः कियतो अहो यदियम् ॥ ४८ ॥
श्रीराधाह-
चेतः स्फुटति स्वयं च तथापि नयने न तादृशे भवतः ।
साध्वीनामियमुचिता एव निसर्गत्रपाकुलता ॥ ४९ ॥
श्रीकृष्ण आह-
सम्प्रति सत्यं ब्रूषे त्रपावतीनां शिरोमणिस्त्वमसि ।
वत्स्यायनतन्त्रोक्तः साध्वीनामयमेव धर्मः ॥ ५० ॥
श्रीराधाह-
यद्यप्यरुन्धती सा साध्वीगणगण्यगौरवा जगति ।
धर्ममिमं पाठयितुं तामपि शक्नोति ते नयनम् ॥ ५१ ॥
श्रीकृष्ण आह-
राढे द्विगुणितशोभं मदास्यपङ्केरुहं ध्रुवं पिबतु ।
सम्प्रत्यपि निजलोचनमधुकरयुगं किं न सर्वथा दिशसि ॥ ५२ ॥
श्रीराधाह-
लावण्याद्भुतवन्यामयं त्वदङ्गं न शीलयत्यधिकम् ।
लोचनशफरयुगं मम दृगन्तजालं यदा नु तत्क्षिपसि ॥ ५३ ॥
श्रीकृष्ण आह-
नूपुरमङ्गलवाद्यज्ञापितमनसिजनृपोत्सवामोदः ।
त्वरितमुपयाति अलिवन्दी कीर्तिं च तव प्रथयन्विराजते ॥ ५४ ॥
श्रीराधाह-
दयित नृपोऽस्यनुभूतः सत्यं मनसिजपरःशतानां त्वम् ।
दिशि दिशि सतीषु विक्रमविजयं शंसति तवैवायम् ॥ ५५ ॥
श्रीकृष्ण आह-
सुरतमहामखभेरी त्रिजगति गर्जंस्तवैष नूपुरः ।
तर्जति गर्ववतीस्ताः प्रकामममराङ्गना अपि प्रसभम् ॥ ५६ ॥
श्रीराधाह-
रमणमहोदितमदभरमत्ताहं किं ब्रवीमि ते चरितम् ।
स्तौषि मुहुर्नूपुरमपि नूपुरमात्रावशिष्टभूषायाः ॥ ५७ ॥
श्रीकृष्ण आह-
किं कथ्यसे स्वयं बत रमणमहे त्वं समुद्धता सत्यम् ।
मदभरमत्त यन् निजपरिहितवासोऽपि कुरुषे स्मरसात् ॥ ५८ ॥
श्रीराधाह-
स किल तवेष्टा देवता मदनः श्रद्धावतीरतो युवतीः ।
उपदिष्यैतन्मन्त्रं शिष्याः कुरुषे वितीर्णसर्वस्वाः ॥ ५९ ॥
श्रीकृष्ण आह-
त्वयि पुनरसौ रसज्ञः स्मरोऽपि रोपितमुदा वसति ।
यदिदं कुचहाटक सम्पुटयुगमस्य सर्वस्वम् ॥ ६० ॥
श्रीराधाह-
एवं चेत्कथमनयोः कञ्चुकमथ मौक्तिकं लसद्धारम् ।
मृगमदचर्चां दलयसि कलयसि च कठिनकराघातम् ॥ ६१ ॥
श्रीकृष्ण आह-
स्वधनव्यवहृतिसमये हाटकमयसम्पुतस्य यद्दृष्टः ।
मङ्गलभूषणवसनोद्घाटो मुखदार्ढ्यतः नखाघातः ॥ ६२ ॥
श्रीराधाह-
तद्व्यवहर्ता पुनरथ कृत्वा द्विगुणितसुसम्भारम् ।
आवृत्यातिरहःस्थं कुरुते सम्पुटमिदं च भो दृष्टम् ॥ ६३ ॥
श्रीकृष्ण आह-
स्मरमणिसम्पुटकुचयुगमधुनाप्युत्तानमस्ति तत्कान्ते ।
हृदयगृहं मम पूरय कृत्वाऽधो मुखमिदं महारत्नैः ॥ ६४ ॥
श्रीराधाह-
विधिना विमृश्य निहितं यासामबलेति नाम युक्तार्थम् ।
तासां कुचसम्पुटयोरधो मुखी कृतिविधौ क्व वा शक्तिः ॥ ६५ ॥
श्रीकृष्ण आह-
कति न करग्रहविधिना कुचसम्पुटकान्तराहृत राधे ।
मोदमणीनां ततयस्तदपि न मे पूर्यते हृदयम् ॥ ६६ ॥
श्रीराधाह-
व्रजवनिताः शतकोट्यस्तवैव ताः पण्डिताश्च रतितन्त्रे ।
हृदयं तदपि रतौ बत रङ्कतमत्वं न ते त्यजति ॥ ६७ ॥
श्रीकृष्ण आह-
स्मरशिखितप्ते मम हृदि सुकुमार्यस्ताः विशन्तु किं मुग्धाः ।
त्वमतिसमर्था प्रसभं प्रविश्य राजसि सदैवैका ॥ ६८ ॥
श्रीराधाह-
तदये स्वरङ्गदाने स्वरङ्गनास्ताः समानय क्षिप्रम् ।
तत्तन्नाम गृहीत्वा मुरलीगाने तवात्र को यत्नः ॥ ६९ ॥
श्रीकृष्ण आह-
नन्दनवनकुसुमाञ्चितशिरोऽपि धर्तुं निजात्ययोग्यतया ।
तव पदनखतलसविधे लज्जं ते सुरवराङ्गना अपि ताः ॥ ७० ॥
श्रीराधाह-
नाभीविवरवरान्मे समुद्गतेयं न कान्तरोमाली ।
किन्तु प्रकुपितभुजगी तदुन्मुखं किमु चिकीर्षसि स्वकरम् ॥ ७१ ॥
श्रीकृष्ण आह-
तव रोमालीभुजगीं खेलयितुं मत्करश्चलत्यभितः ।
भवदखिलाङ्गगतान्यपि रोमान्युद्यान्ति किं रोद्धुम् ॥ ७२ ॥
श्रीराधाह-
मदखिलगात्रभटा अपि यतः पराभवमवाप्य मुह्यन्ति ।
स्मररणमत्ते त्वयि किं बत रोम्नां युज्यते युद्धम् ॥ ७३ ॥
श्रीकृष्ण आह-
वयमतिकृशाश्च तदपि प्रभवामोद्गमविधाविति प्रकटम् ।
भवतीमुद्गमचर्यां रोमभटाः स्मरयन्त्यहो चतुराः ॥ ७४ ॥
श्रीराधाह-
रतिरसपरवश ! सहते तेऽतथ्यं किं मे तनोरन्वयः ।
रमयस्व अतिवामामपि तां न च दयसे कान्त्या वेदयसे ॥ ७५ ॥
श्रीकृष्ण आह-
स्मरशरराधे राधे समरे समरेखयाञ्चिते द्वितये ।
इह भवदङ्गमदङ्गे प्रतिभटमधुना धुनानेस्ताम् ॥ ७६ ॥
श्रीराधाह-
प्रस्वेदाम्बु वमन्ती घनरससिक्तेव गात्रवल्ली मे ।
दलितो ललिताकल्पस्तल्पश्च खण्डितो नो वा कतिधा ॥ ७७ ॥
श्रीकृष्ण आह-
मदनघनाघन एष स्वेदमिषाद्वर्षतीह तनुवल्लीम् ।
घनरसभरैः प्रतिपदमुदितलसत्कोरकां कान्ते ॥ ७८ ॥
श्रीराधाह-
प्रिय तव तरुणिमजलधेरवधेरन्वेषणं कथं कुरुताम् ।
महिलामतिमकरी तद्विरम्यतां रम्यतां रतं यातु ॥ ७९ ॥
श्रीकृष्ण आह-
अतिनिःश्वसितसमीरणवेगाद्द्विगुणीभवन्महावीचिम् ।
केलिसुधासरितं नौ मानसकरिणौ मुहुर्मुहुर्भजताम् ॥ ८० ॥
श्रीराधाह-
खेलति मनःकरी ते सत्यं प्रकटं स लक्ष्यते किन्तु ।
तत्रैक्यं मम मनसो ब्रूषे कोऽत्राभिप्रायस्ते ॥ ८१ ॥
श्रीकृष्ण आह-
श्रीमन्मदनसुरोत्तमसेवा सम्सिद्धये तु नौ मनसी ।
ऐक्यमवाप्य त्वरया तत्र च सायुज्यमीहेते ॥ ८२ ॥
श्रीराधाह-
स्वस्मिन्नेव तनोर्मम मनसश्चाप्येकदैव सायुज्यम् ।
प्रसभं कुरुषे देव त्वमेव साक्षान्महामदनः ॥ ८३ ॥
श्रीकृष्ण आह-
सर्वस्वात्मसमर्पणकारिण्यै ते मुदा मारः ।
स्वीयां मौक्तिकमालामलिके स्वेदकणव्याजाद्दत्ते ॥ ८४ ॥
श्रीराधाह-
त्वदलकनिकरस्तामपि नीत्वा स्तिम्यति हठादयं चपलः ।
मदनप्रसाद इत्यतिभाग्यं संश्लाघते स्वीयम् ॥ ८५ ॥
श्रीकृष्ण आह-
ताम्बूलामृतरसलवलाभेनैवात्र गर्विते भवन्नयने ।
अन्तर्बहिरपि तद्रसमुदिते गण्डे कथं नु मे हसतः ॥ ८६ ॥
श्रीराधाह-
यत्सूचयसि रसप्रिय तदिदं स्वेनैव पाठितं तन्त्रम् ।
स्वयमेव व्याचष्टे स भवानिति किल नमस्तुभ्यम् ॥ ८७ ॥
श्रीकृष्ण आह-
मन्मुखपङ्केरुहमपि चित्रमिदं यद्विकाशयस्यधिकम् ।
गुणवत्यतिसुरभितेन स्ववदनसुधाकरसुधाद्रवेण हि ॥ ८८ ॥
श्रीराधाह-
नीलनिधेर्बत पोतो बिन्दुव्याजेन रक्षितश्चिबुके ।
तमपि च भवदधरोऽयं हृतवानिति कति मृषाम्यनयम् ॥ ८९ ॥
श्रीकृष्ण आह-
अनुरागिणमपि सागसमधरं मे दण्डयस्यतः कोपात् ।
रदनास्त्रेण तदप्यभिमनुते लब्धप्रसादमेवायम् ॥ ९० ॥
श्रीराधाह-
अधि रदनच्छन्दनं मे स्वरदनकीर्तिं न किं विचारयसि ।
युवतीसभासु चित्रं त्रपाकुलतमतेयं नु मयि सृष्टा ॥ ९१ ॥
श्रीकृष्ण आह-
विषमाशुगरणरङ्गे स्वाङ्गेनातुल पराक्रमा क्रमसे ।
दर्शय भुजबलमयि भो मयि ते दयिते गुणावली फलतु ॥ ९२ ॥
श्रीराधाह-
तन्वीमपि तनुमेतां मुहुरतिदार्ढ्येन वेष्टयते ।
त्वद्भुजभुजाङ्गपाशः श्वासो मे केवलं वलते ॥ ९३ ॥
श्रीकृष्ण आह-
सम्प्रति साक्षात्कारो मदनस्य स्यादितीव जानीमः ।
यन् नश्चेतस्त्वरते निरुपममत्रैकभावाय ॥ ९४ ॥
श्रीराधाह-
ताण्डवपण्डित नितरामलमध्यापनश्रमेण ते ।
मदपघनाः स्वयमेते चारणचर्यासु यान्ति नैपुण्यम् ॥ ९५ ॥
श्रीकृष्ण आह-
मदनमहाघनघूर्णाघ्रातान्यङ्गानि नौ प्रिये युगपत् ।
श्वासोदितजयचतुरिमभरमन्योन्यं दिशन्ति सोन्मादम् ॥ ९६ ॥
(श्री ग्रन्थकर्ताह- )
लोचनमीनचतुष्टयमधुना निष्पन्दतामुरीकुरुते ।
रसभरविस्मयमत्ते नैसर्गिकचेष्टितस्मृतिः किं स्यात् ॥ ९७ ॥
चन्दननलदसुधांशुद्रवमयजलयन्त्रवेश्ममध्यस्थे ।
स्थलजलरुहदलकल्पिततल्पेऽसुप्तां रतश्रान्तौ ॥ ९८ ॥
क्रमवलितैर्निःश्वसितैः सुरभयतोः स्वामिनोरथान्योन्यम् ।
निद्रावृद्धिमवेत्य प्रमोदसिन्धावयं जनः प्लवताम् ॥ ९९ ॥
सुरतकथामृतमार्यशतकं नतकन्धरो जनो जुषताम् ।
रतसुखधामगवाक्षश्रितनयनः स्वामिनोरहो कृपया ॥ १०० ॥
प्रविशतु शनैः शनैरथ मूकितनूपुरं जनस्तत्र ।
गात्रे निभाल्य यूनोः स्ववलयराजीं पिधाय बध्नातु ॥ १०१ ॥
कम्पनचकितैरलिभिस्त्यक्तुमशक्येन तालवृन्तेन ।
वीजयतु श्रमसलिलं प्रत्यङ्गं शोषितं निरूपयतु ॥ १०२ ॥
राधाकुण्डतटवासमहासम्पदं मदः सोऽयम् ।
किमु वाञ्छितमतिदुर्लभवस्तुनि तमृते ममास्तु सम्भाव्यम् ॥ १०३ ॥
अष्टमक् अधिकरहस्यव्यञ्जकं मथ्नन् निबध्यतेऽत्र शतके ।
तादृशभावविभावितहृदयेनैवास्तु तत्सेव्यम् ॥ १०४ ॥
खवियदृतुक्षमागणिते शाके वृषसंस्थिते दिवाधीशे ।
सुरतकथामृतमुदगदुदयतां च भक्तहृन्नभसि ॥ १०५ ॥
इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचितं
सुरतकथामृतं समाप्तम् ॥