॥ Appayya Dikshit’s Arya Ashatakam Sanskrit Lyrics ॥
॥ आर्याशतकम् श्रीमदप्पय्यदीक्षितविरचितम् ॥
दयया यदीयया वाङ्नवरसरुचिरा सुधाधिकोदेति ।
शरणागतचिन्तितदं तं शिवचिन्तामणिं वन्दे ॥ १ ॥
शिरसि सितांशुकलाढ्यं करुणापीयूषपूरितं नयने ।
स्मितदुग्धमुग्धवदनं ललनाकलितं महः कलये ॥ २ ॥
अन्ते चिन्तयते यत्तत्तामेतीति च त्वया गदितम् ।
शिव तव चरणद्वन्द्वध्यानान्निर्द्वन्द्वता चित्रम् ॥ ३ ॥
द्रुतमुद्धर हर संहर संहर भववैरिणं त्वतित्वरया।
भव भवतोऽपि भवोऽयं रिपुरेतन्निन्दितं जगति ॥ ४ ॥
चेतसि चिन्तय वामां वा मां वा न द्विधा स्थितस्याहम् ।
इति यदि वदसि दयाब्धे वामार्धे सा तवाप्यस्ति ॥ ५ ॥
मित्रकलत्रसुतादीन् ध्यायस्यनिशं न मां क्षणं जातु।
यदि कुप्यसि मयि दीने तुलयामि त्वां कथं सह तैः ॥ ६ ॥
मत्कृतदुष्कृतशान्तिर्विषवह्निजलादियातनया ।
यदि निश्चयस्तवायं प्रेषय गरलाग्निगङ्गौघान् ॥ ७ ॥
भोगं विहाय योगं साधय दास्ये तवापि परभागम् ।
मम किं न वावकाशस्त्वद्भूषाभोगिनां मध्ये ॥ ८ ॥
ललनालोलविलोकनजितमित्यवमन्यसे कथं मां त्वम्।
त्वयि जायार्धशरीरे शिव शिव नाऽऽलोकनानुभवः ॥ ९ ॥
स्मरणादनुपदमीदृग्विस्मृतिशीलो न वल्लभोऽसि मम।
उत्पाद्याशां भङ्क्तुर्लग्ना वृत्तिस्तवैवेयम् ॥ १० ॥
पुत्रः पितृवत्पुत्री मातृवदित्थं ममात्र को दोषः ।
अहमपि भोगासक्तः प्रकृतिर्जाता विषादवती ॥ ११ ॥
वपुरर्धं वामार्धं शिरसि शशी सोऽपि भूषणं तेऽर्धम् ।
मामपि तवार्धभक्तं शिव शिव देहे न धारयसि ॥ १२ ॥
स्तनपं शिशुं त्वदीयं पालय साम्ब द्रुतं न पासि यदि ।
जगतः पितेति गीतं यातं नामेति जानीहि ॥ १३ ॥
मातरि हित्वा बालं कार्याकुलधीः पिता बहिर्याति ।
शिव बत शक्नोषि कथं स्वाङ्गान्मन्मातरं मोक्तुम् ॥ १४ ॥
गुणहीनतां तनूजे मयि दृष्ट्वा किं परित्यजस्येवम् ।
उचितं गुणिनस्त्वेतन्निर्गुणरूपस्य तेऽनुचितम् ॥ १५ ॥
कामक्रोधकटाभ्यां मदजलधारां निरङ्कुशे स्रवति ।
मत्कृतदुष्कृतकरिणि प्रकटा पञ्चास्यता तेऽस्तु ॥ १६ ॥
त्वद्धीनं मां दीनं दृष्ट्वा विषयातिरागसम्बद्धम् ।
धावत्यकीर्तिरेषा नाथः शक्तोऽप्युदासीनः ॥ १७ ॥
अरिभिर्जितैरशक्तैर्विज्ञाप्यं सेवकैः प्रभोर्नीतिः ।
विषयैर्जितोऽस्मि शम्भो तव यच्छ्लाघ्यं तदारचय ॥ १८ ॥
संरक्ष्यते स्वदासैर्यद्यद्वस्तु प्रभोरभीष्टतरम् ।
दासस्तवेष्टकामः कान्तां कनकं कथं त्यजेयमहम् ॥ १९ ॥
पापी पापं सुकृती सुकृतं भुङ्क्ते ममात्र किं नु गतम्।
इत्यौदास्यमयुक्तं भृत्याकीर्तिः प्रभोरेव ॥ २० ॥
विकलेऽतिदीनचित्ते विषयाशामात्रधारिणि नितान्तम् ।
मयि रोषतः कियत् ते वद वद शम्भो यशो भावि ॥ २१ ॥
स्वगृहे भुवनत्रितये योगक्षेमे मुखानि चत्वारि ।
मत्प्रतिवचनं हि विना पञ्चमवदनस्य कुत्र गतिः ॥ २२ ॥
तव कोऽहं त्वं मम कः पञ्चस्वेवं विचारयस्वेति ।
ब्रूषे दीनदयाब्धे पञ्चमुखत्वं त्वयि व्यक्तम् ॥ २३ ॥
याचस्वान्यं धनिनं भविता तव को दिगम्बराल्लाभः ।
मां मा प्रतारयैवं ख्यातः श्रीकण्ठनामासि ॥ २४ ॥
वसनाशनप्रदातरि मयि जीवति किं समाकुलस्त्वमिति ।
दोहाय मोच्यमानो वत्सः किं न त्वरामयते ॥ २५ ॥
पातकराशिरितीदं त्वयाभिधानं श्रुतं न तद् दृष्टम्।
तद्दर्शनकुतुकं यदि मां द्रष्टुं किं विलम्बसे देव ॥ २६ ॥
पातकराशिरसि त्वं पश्याम्यत एव नाहमिति वदसि ।
पातकरूपाज्ञाने शिव तव सर्वज्ञताभङ्गः ॥ २७ ॥
पापं पापमितीदं करोषि शिव किं मुधा बुधान् भ्रान्तान् ।
तत्सत्यं चेन्न कथं त्वयानुभूतं न दृष्टं वा ॥ २८ ॥
पापे लोकानुभवः स एव मानं ममाप्यननुभूते ।
न हि परकीयानुभवः ज्ञातुं शक्यः परेणापि ॥ २९ ॥
लोकाभिन्नः सोऽहं वक्तुं वाक्यं ह्युपक्रमस्तव चेत्।
सिद्धा मनोरथा मे त्वत्तः कस्यापि लोकस्य ॥ ३० ॥
अतिवल्गनं ममैतन्मूढत्वं यद्यपि प्रभोः पुरतः ।
दीनः करोमि किं वा मद्विषये को निवेदयति ॥ ३१ ॥
लघुरसि किं त्वयि दयया मा मा मंस्थाः शिवेति सहसा त्वम्।
भारो भुवोऽस्मि धृत्वा स्वकरे तुलयाशु मां शम्भो ॥ ३२ ॥
सस्ये तृणे च वृष्टिं तुल्यां देवः सदैव विदधाति ।
देवो महान् बत त्वं गुरुलघुवार्तां कथं कुरुषे ॥ ३३ ॥
दिष्टोद्दिष्टं दास्याम्यन्यन्नेष्टं यदि स्फुटं वाक्यम् ।
दत्ता कथं त्वयासावजरामरता मृकण्डुजनेः ॥ ३४ ॥
नादत्तं प्राप्नोतीत्येतद्वाक्यं प्रतारणामात्रम् ।
उपमन्युना कदा वा कस्मै दुग्धोदधिर्दत्तः ॥ ३५ ॥
प्रबलतरोन्मादाढ्यं त्वामप्यगणय्य धावमानं च ।
मच्चेतोऽपस्मारं नियमय शम्भो पदाभ्यां ते ॥ ३६ ॥
आशापिशाचिका मां भ्रमयति परितो दशस्वपि दिशासु ।
स्वीये पिशाचवर्गे सेवायै किं न योजयसि ॥ ३७ ॥
यक्षाधीनां रक्षां त्र्यक्ष निधीनां कुतो नु वा कुरुषे।
साक्षान्मनुष्यधर्माऽप्यहह कथं नु विस्मृतिर्मम ते ॥ ३८ ॥
धनदे सखित्वमेतत् तव यत् तत्रास्ति विस्मयः क इव ।
मयि निर्धने तदास्तां त्रिजगति चित्रं कियद्भावि ॥ ३९ ॥
सखितारूपनिधानं वित्तनिधानं द्विधा धनं तव यत् ।
नैककरे नृपनीतिस्तत्रान्यतरन्निधेहि मयि ॥ ४० ॥
पालय वा मां मा वा मत्तनुभूता तु पञ्चभूतततिः ।
पोष्यावश्यं भवता भविता नो चेन्न भूतपतिः ॥ ४१ ॥
अतिकोमलं मनस्ते मुनिभिर्गीतं कुतोऽधुना कठिनम् ।
मन्ये विषाशनार्थं कठिनं चेतस्त्वया विहितम् ॥ ४२ ॥
मां द्रष्टुमष्टमूर्ते करुणा तेऽद्यापि किं न वोल्लसति ।
भिक्षाप्रसङ्गतो वा कियतां नो यासि सदनानि ॥ ४३ ॥
वित्ताधिपः सखा ते भार्या देहे तवान्नपूर्णाख्या ।
ऊरीकृतं न दूरीकुरुषे भिक्षाटनमपीश ॥ ४४ ॥
नाङ्गीकृतो मया त्वं तत एव न दर्शनं मम तवास्ति ।
इति नोत्तरं प्रदेयं शिव शिव विश्वेशनामासि ॥ ४५ ॥
यदि देहगेहरूपं ददासि देशाधिकारकार्यं मम ।
रसनाख्यलेखपत्रे सुदृढां कुरु नाममुद्रां ते ॥ ४६ ॥
रसनोक्तं कुरु सर्वं शिव तव नामाधिमुद्रितास्तीयम् ।
गणयसि मुद्रां न हि चेत् प्रभुतोच्छिन्ना तवैव स्यात् ॥ ४७ ॥
अत्याटिनं करालं भिक्षायुक्तं कपालशूलकरम् ।
मद्दारिद्र्यं भैरवरूपं कुरु चार्धचन्द्रयुतम् ॥ ४८ ॥
दारिद्र्यचण्डरश्मौ प्रतपति केदारवच्च मयि शुष्के ।
जलधरतायां सत्यां त्वयि शिव नाद्यापि समुपैषि ॥ ४९ ॥
दारिद्र्याख्यमनोभूः क्लीबं चेतोऽपि मोहयत्यनिशम् ।
एनं लीनं कर्तुं धन्यः कोऽन्यस्त्वदन्योऽस्ति ॥ ५० ॥
भालानलाक्षियुक्तस्त्रिजगति नान्यो मदन्य इति।
गर्वं मा वह यावद्दारिद्र्याग्निः कपाले मे ॥ ५१ ॥
चेतः कुरु मा कलहं तव वैक्लव्येऽपि शम्भुना प्रभुणा।
न वदति यद्यपि भर्ता तवोपकर्ता स एवास्ति ॥ ५२ ॥
अयि चित्त वित्तलेशे सहजप्रेम्णा कियन्नु लुब्धमसि ।
न तथापि तद्वियोगः केवलमास्ते शिवेनापि ॥ ५३ ॥
चेतः कीर विहारं परिहर परितः स्वयं प्रयत्नेन।
अत्तुं कालबिडालो धावति शिवपञ्जरं प्रविश ॥ ५४ ॥
चेतः सदागते त्वं प्रत्याशावात्ययानुगतमूर्तिः।
मा वह विषयारण्ये लीनो भव सच्चिदाकाशे ॥ ५५ ॥
चेतः शृणु मद्वचनं मा कुरु रचनं मनोरथानां त्वम् ।
शरणं प्रयाहि शर्वं सर्वं सकृदेव सोऽर्पयिता ॥ ५६ ॥
भ्रातः शृणु मच्चेतो मा नय कालं त्वितस्ततो भ्रमणात् ।
कालक्षेपेच्छा चेदवलम्बय कालकालं त्वम् ॥ ५७ ॥
अयि चेतोविहग त्वं विषयारण्ये भ्रमन्नसि श्रान्तः ।
विश्रामकामना चेच्छिवकल्परुहे चिरं तिष्ठ ॥ ५८ ॥
चेतोमधुकर दूरं दूरं कमलाशया कुतो यासि ।
ध्यानादनुपदमेतच्छिवपदकमलं तवायाति ॥ ५९ ॥
चेतश्चकोर तापं भूपं संसेव्य किं वृथा यासि ।
यदि चन्द्रिकाभिलाषो निकषा भव चन्द्रचूडस्य ॥ ६० ॥
चेतःकुरङ्ग गीते रक्तं चेतस्तवास्त्वनवगीते ।
भगवद्गीतागीते नगजाकलिते तदारचय ॥ ६१ ॥
रसने निन्दाव्यसने पैशुन्ये वा न वाग्मितां याहि ।
त्रिपुरारिनाममालां जितकालां शीलयाशु त्वम् ॥ ६२ ॥
रसने रसान् समस्तान् रसयित्वा तद्विवेचने कुशला ।
असि तद्वदाशु पश्येः शिवनाम्नः को रसोऽयमिति ॥ ६३ ॥
शिवनामसल्लतां त्वं रसनापल्लव कदापि न विहातुम् ।
यदि वाञ्छसे तदा मा कोमलतां सर्वथा जहिहि ॥ ६४ ॥
हालाहलस्य तापः शशिना गङ्गाम्बुना न यदि याति ।
शिव मा गृहाण भुजगान् मद्रसनापल्लवे स्वपिहि ॥ ६५ ॥
लोचन कोऽभूल्लाभः सर्वानेव द्विलोचनान् वीक्ष्य ।
दृष्टस्त्रिलोचनश्चेत् सफलं जन्मैव ते भावि ॥ ६६ ॥
नालोकते यदि त्वां मन्नेत्रं कृष्णमस्तु मुखमस्य ।
स्वां त्र्यक्ष दक्षतां मे दर्शय नयनावलोकस्य ॥ ६७ ॥
त्वं लोचनान्धकारे द्रष्टुं वस्त्वन्धकारभिन्नं किम् ।
वाच्छस्यनेन सङ्गेऽद्दृश्यमपीदं त्वया दृश्यम् ॥ ६८ ॥
श्रवण सखे शृणु मे त्वं यद्यपि जातो बहुश्रुतोऽस्ति भवान् ।
शब्दातीतं श्रोतुं शिवमन्त्रात् कोऽपरो मन्त्रः ॥ ६९ ॥
घ्राण प्राणसखो मे भवसि भवान् पार्थिवोऽस्ति किमु वान्यत् ।
शिवपदकमलामोदे मोदं गन्तासि यदि शीघ्रम् ॥ ७० ॥
रामास्पर्शसुखे ते नितरां भो विग्रहाग्रहोऽस्ति यदि ।
आलिङ्गयार्धरामं रामाऽभिन्नः स्वयं भवसि ॥ ७१ ॥
विग्रह विग्रहमेव त्वं कुरु देवेन नाऽमुना सख्यम् ।
रुचिरप्यस्मिन् शम्भौ जनयत्यरुचिं स्वदेहेऽपि ॥ ७२ ॥
सम्मीलयाशु रामां त्वद्वामाङ्गान्मया समं शम्भो ।
जातं ममापि यस्माद् दुःखेनार्धं शरीरमिदम् ॥ ७३ ॥
अपराधकारिणं मां मत्वा शम्भो यदि त्यजस्येवम् ।
व्याधः शिरसि पदं ते दत्वा न जगाम किं मुक्तिम् ॥ ७४ ॥
पार्थः कलहं धनुषा ताडनमपि मूर्ध्नि ते न किं कृतवान् ।
तत्रापि ते प्रसन्नं चेतः सन्ने मयि कुतो न ॥ ७५ ॥
त्वयि तुष्टे रुष्टे वा शिव का चिन्ता स्वदुःखभङ्गे मे ।
उष्णं वानुष्णं वा शमयति सलिलं सदैवाग्निम् ॥ ७६ ॥
दोषाकरे द्विजिह्वे रतिमतिशयितां करोषि यदि शम्भो।
अहमस्मि तथा वितथा कुरुषे मां दृक्पथातीतम् ॥ ७७ ॥
चेतो मदीयमेतत्सेवाचौर्ये यदि प्रसक्तं ते ।
दण्डय नितरां शम्भो सर्वस्वं लुण्ठयैतस्य ॥ ७८ ॥
सदनं प्रत्यागमनं कुशलप्रश्नोक्तिरस्तु दूरतरे ।
आलोकनेऽपि शम्भो यदि सन्देहः कथं जीवे ॥ ७९ ॥
आवाहितः स्वभक्तैस्त्वरयैवायासि सर्वपाषाणे ।
चित्तोपले मदीये हे शिव वस्तुं कुतोऽस्यलसः ॥ ८० ॥
वृषभे पशौ दया ते कियती शम्भो पशुप्रियोऽसि यदि ।
विषयविषाशनतोऽहं पशुरेवास्मीति मां पाहि ॥ ८१ ॥
त्वयि दृष्ट्वौदासीन्यं तत्स्पर्धातो विवर्धते दैन्यम् ।
मयि तज्जेतुं त्वरया प्रेषय निकटेऽस्ति यत् सैन्यम् ॥ ८२ ॥
परिपालयाम्यहं त्वां निकटेन मया किमस्ति ते कार्यम् ।
मैवं दूरे रमणे सुभृताऽपि न मोदते साध्वी ॥ ८३ ॥
कतिकतिवारं जननं तव नो जातं न मत्स्मृतिः क्वापि ।
इति कुपितोऽसि यदि त्वत्पदयोर्निदधामि मूर्धानम् ॥ ८४ ॥
शिव शङ्कर स्मरारे किञ्चित्प्रष्टव्यमस्ति तत्कथय ।
वञ्चनमेव करिष्यसि किं वा कालान्तरे प्रीतिम् ॥ ८५ ॥
यो यन्न वेत्ति दुःखं कर्म स तस्मिन्नियोजयतु शम्भो ।
भिक्षादुःखं जानंस्तत्र कथं मां नियोजयसि ॥ ८६ ॥
काकूक्तिर्मुखदैन्यं शिव मे बाष्पस्तथाश्रुसम्पातः ।
त्वय्येकस्मिन् पुरुषे सर्वमिदं निष्फलं भवति ॥ ८७ ॥
शिव देहि मे स्वभक्तिं तृष्णा स्वयमेव यास्यति ततो मे ।
पतिमन्यत्र विषक्तं दृष्ट्वा कान्ता न किं त्यजति ॥ ८८ ॥
गुणहीनोऽपि शिवाहं त्वत्करमुक्तोऽपि तत् पदं यास्ये ।
भ्रष्टोऽपि भूपहस्ताद्गुणतोऽपि शरो यथा लक्ष्यम् ॥ ८९ ॥
भक्तजनेष्वनुरक्तं धरणीधरकन्यया परिष्वक्तम् ।
प्रख्यातनामधेयं जयतितरां भागधेयं मे ॥ ९० ॥
फणिकुण्डलं वहन्ती श्रवणे ताटङ्कमप्यपरभागे ।
सितशोणकान्तियुक्ता काचिन्मद्वासना जयति ॥ ९१ ॥
आलिङ्गितोऽपि सव्ये शम्पातत्या शिवः प्रकृतितोऽयम् ।
करुणाम्बुपूर्णगर्भः कश्चिद्धाराधरो जयति ॥ ९२ ॥
जटिलं शिरःप्रदेशे निटिले कुटिलं गले तथा नीलम् ।
हृदयीकृताद्रिबालं विलसति कालं जयत् तेजः ॥ ९३ ॥
धनुरेकत्र पिनाकं सशरं बिभ्रत् तथाऽपरत्राऽपि ।
शरमैक्षवं च चापं किञ्चित् तत् प्रेम मे जयति ॥ ९४ ॥
वाञ्छितवितरणशीलं विचित्रलीलं निरालवालं च ।
ललनालतैकतानं कलये शिवकल्पभूमिरुहम् ॥ ९५ ॥
परिहृतदुर्जन तिमिरं नगजानन्दैकसिन्धुवृद्धिकरम् ।
नन्दितभक्तचकोरं वन्दे चन्द्रोदयं कञ्चित् ॥ ९६ ॥
निखिलनिगमैगदुग्धां दानविदग्धां शुकादिमुनिदुग्धाम् ।
वपुषा सदैव मुग्धां कलये शिवकामधेनुमहम् ॥ ९७ ॥
नित्यप्रभाभिरामं विदलितकामं सदार्धधृतभामम् ।
हृदि कोमलं निकामं श्रीशिवचिन्तामणिं वन्दे ॥ ९८ ॥
निर्व्याधि मे शरीरं निराधि चेतः सदा समाधिपरम् ।
कुरु शर्व सर्वदा त्वं नान्यं कामं वृणे कञ्चित् ॥ ९९ ॥
आर्यापतेः पदाब्जे निहितं शतपद्यपत्रमयपुष्पम् ।
आर्याशतं सुकृतिनां हृदयामोदं सदा वहतु ॥ १०० ॥
॥ इति भरद्वाजकुलतिलकश्रीमदप्पय्यदीक्षित-
विरचितशैवार्याशतकं सम्पूर्णम् ॥