Aapad Udharana Hanumath Stotram In Sanskrit

॥ Apaduddharaka Hanumath Stotram Sanskrit Lyrics ॥

विभीषणकृतम्
श्रीहनुमते नमः । अस्य श्रीहनुमत्स्तोत्रमहामन्त्रस्य, विभीषण
ऋषिः, अनुष्टुप् छन्दः, हनुमान् देवता । मम शत्रुमुखस्तम्भनार्थे
सर्वकार्यसिद्ध्यर्थे च जपे विनियोगः ।
ध्यानम्
चन्द्राभं चरणारविन्दयुगलं कौपीनमौञ्जीधरं
नाभ्यां वै कटिसूत्रयुक्तवसनं यज्ञोपवीतावृतम् ।
हस्ताभ्यामवलम्ब्य चाञ्जलिमथो हारावलीकुण्डलं
बिभ्रद्दीर्घशिखं प्रसन्नवदनं दिव्याञ्जनेयं भजे ॥

मन्त्रः-ॐ नमो हनुमते रुद्राय ।
मम सर्वदुष्टजनमुखस्तम्भनं कुरु कुरु ॥

मम सर्वकार्यसिद्धिं कुरु कुरु । ऐं ह्रां ह्रीं ह्रूं फट् स्वाहा ।
note अष्टवारं जपेत् ।
आपन्नाखिललोकार्तिहारिणे श्रीहनूमते ।
अकस्मादागतोत्पातनाशनाय नमोऽस्तु ते ॥ १ ॥

सीतावियुक्तश्रीरामशोकदुःखभयापह ।
तापत्रयस्य संहारिन्नाञ्जनेय नमोऽस्तु ते ॥ २ ॥

आधिव्याधिमहामारिग्रहपीडापहारिणे ।
प्राणापहन्त्रे दैत्यानां रामप्राणात्मने नमः ॥ ३ ॥

संसारसागरावर्तागतसम्भ्रान्तचेतसाम् ।
शरणागतमर्त्यानां शरण्याय नमोऽस्तु ते ॥ ४ ॥

राजद्वारे बिलद्वारे प्रवेशे भूतसङ्कुले ।
गजसिंहमहाव्याघ्रचोरभीषणकानने ॥ ५ ॥

महाभयेऽग्निसंस्थाने शत्रुसङ्गसमाश्रिते ।
शरणागतमर्त्यानां शरण्याय नमो नमः ॥ ६ ॥

प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम् ।
अर्थसिद्धियशःकामान् प्राप्नुवन्ति न संशयः ॥ ७ ॥

कारागृहे प्रयाणे च सङ्ग्रामे देशविप्लवे ।
ये स्मरन्ति हनूमन्तं तेषां सन्ति न आपदः ॥ ८ ॥ नास्ति विपत्तयः
वज्रदेहाय कालाग्निरुद्रायामिततेजसे ।
नमः प्लवगसैन्यानां प्राणभूतात्मने नमः ॥ ९ ॥

See Also  Chamundeshwari Ashtottara Shatanama Stotram In Sanskrit

दुष्टदैत्यमहादर्पदलनाय महात्मने ।
ब्रह्मास्त्रस्तम्भनायास्मै नमः श्रीरुद्रमूर्तये ॥ १० ॥

जप्त्वा स्तोत्रमिदं पुण्यं वसुवारं पठेन्नरः ।
राजस्थाने सभास्थाने वादे प्राप्ते जपेद्ध्रुवम् ॥ ११ ॥

विभीषणकृतं स्तोत्रं यः पठेत् प्रयतो नरः ।
सर्वापद्भ्यो विमुच्येत नात्र कार्या विचारणा ॥ १२ ॥

– Chant Stotras in other Languages –

Sri Anjaneya Stotram » Apad Udharaka Hanuman Stotram Lyrics in English » Bengali » Kannada » Malayalam » Telugu » Tamil